०२८

अष्टाविंशः सर्गः २८

श्रीवसिष्ठ उवाच ।

एवं भुशुण्डवृत्तान्तः कथितस्ते मयानघ ।
अनया प्रज्ञया तीर्णो भुशुण्डो मोहसङ्कटात् ॥ १ ॥

आख्यायिकाभिसम्बन्धो देहानियतिवर्णकम् ।
आपातभ्रान्तिमात्रत्वं देहादेश्चात्र वर्ण्यते ॥

वर्णिताया भुशुण्डाख्यायिकायाः प्रकृतोपदेशसम्बन्धं दर्शयति##-

एतां दृष्टिमवष्टभ्य स्वप्राणाभ्यासपूर्विकाम् ।
भुशुण्डवन्महाबाहो भव तीर्णमहार्णवः ॥ २ ॥

प्राणाभ्यासोऽत्र प्राणस्य निरोध उपास्तिर्वा तत्पूर्विकाम् । महार्णव इति विपुलः
संसारो निगीर्याध्यवसितः ॥ २ ॥

यथा ज्ञानेन योगेन सन्तताभ्यासजन्मना ।
भुशुण्डः प्राप्तवान्प्राप्यं तथासादय तत्पदम् ॥ ३ ॥

असक्तबुद्धयः सर्वे भुशुण्डवदवस्थितिम् ।
प्राप्नुवन्ति परे तत्त्वे प्राणापानावलोकिनः ॥ ४ ॥

प्राणापानावलोकिनः उक्तोपास्तिशीलाः ॥ ४ ॥

एता विचित्रा भवता श्रुता विज्ञानदृष्टयः ।
इदानीं धियमालम्ब्य यथेच्छसि तथा कुरु ॥ ५ ॥

यथेच्छसि योगपूर्विकामुपास्तिपूर्विकां वा स्वात्मप्रतिष्ठां तथा कुरु ॥ ५ ॥

श्रीराम उवाच ।

भगवन्भवता भूमिभास्वता ज्ञानरश्मिभिः ।
हार्दमुद्दामदौरात्म्यं प्रमृष्टमखिलं तमः ॥ ६ ॥

आस्तां योगोपास्ती त्वदुपदेशश्रवणादेव स्वस्य तत्त्वबोधः सिद्ध इति सूचयन् रामः
कथाप्रसञ्जितदेहगेहस्वरूपमेव जिज्ञासमानः पृच्छति-भगवन्नित्यादिना ।
भूमिभास्वता भूमाववत्तीर्णेन सूर्येण । उद्दामानि दौरात्म्यानि
अनात्मस्वात्मत्वदर्शनानि तत्प्रयुक्तदुश्चेष्टितानि च यस्मात्तथाविधं हार्दं
तमः ॥ ६ ॥

प्रबुद्धाः स्मः प्रहृष्टाः स्मः प्रविष्टाः स्मः स्वमास्पदम् ।
स्थिताः स्मो ज्ञातविज्ञेया भवन्तो ह्यपरा इव ॥ ७ ॥

अपरा द्वितीया भवन्त इव ॥ ७ ॥

अहो भुशुण्डचरितं परं विस्मयकारकम् ।
भगवन्भवता प्रोक्तमुत्तमार्थावबोधनम् ॥ ८ ॥

भुशुण्डचरिते ब्रह्मन्नेतस्मिन्कथिते त्वया ।
यच्छरीरगृहं प्रोक्तं मांसचर्मास्थिनिर्मितम् ॥ ९ ॥

तत्केन नाम रचितं कुतो वा तत्समुत्थितम् ।
कथं वा स्थितिमायातं को वा तत्रावतिष्ठते ॥ १० ॥

कर्तुर्निमित्तस्य स्थितिप्रकारस्य तदन्तःस्थस्य स्वामिनश्च प्रश्नाः ॥ १० ॥

श्रीवसिष्ठ उवाच ।

परमार्थावबोधाय दोषापाकरणाय च ।
शृणु राघव तत्त्वेन वक्ष्यमाणमिदं मया ॥ ११ ॥

अस्थिस्थूणं नवद्वारं रक्तमांसावलेपनम् ।
शरीरसदनं राम न केनचिदिदं कृतम् ॥ १२ ॥

तत्राद्यस्योत्तरमाह-अस्थीति ॥ १२ ॥

आभासमात्रमेवेदमित्थमेवावभासते ।
द्विचन्द्रविभ्रमाकारं सदसच्च व्यवस्थितम् ॥ १३ ॥

नन्वीश्वरोऽस्य देहस्य निर्माता श्रुतिपुराणाख्यायिकाप्रसिद्धः जीवस्तु
स्वकर्मोपभोगायास्य निर्मापकस्तौ कथमपलप्येते तत्राह-आभासमात्रमिति ।
इत्थमेव । विनैव निर्मातारमित्यर्थः । न हि जले चन्द्राभासो निर्मातारमपेक्षते नापि
तैमिरिककल्पितद्वितीयचन्द्रविभ्रमस्तद्वदित्यर्थः । ईश्वरस्य निर्मातृत्वं तु
श्रौतं न मुख्यम् । पुरुषनिःश्वसितदृष्टान्तदर्शनात् । जीवस्य
निर्मापयितृत्वमपि तथा । अबुद्धिपूर्वत्वादनिष्टनिर्मापणायोगाच्चेति भावः ॥ १३ ॥

द्विचन्द्रदर्शनविधौ चन्द्रद्वित्वं सदैव हि ।
वस्तुतश्चैक एवेन्दुः स्थितो देहस्तथैव हि ॥ १४ ॥

देहस्य मिथ्यात्वं तु प्रतीतिकालमात्रस्थितिकत्वाच्चन्द्रद्वित्ववदेव सिद्धमित्याह##-
हि यस्मात्तथैव । वस्तुतस्तु सदैव ह्येक एवेन्दुरित्यन्वयः ॥ १४ ॥

देहप्रत्ययकाले हि देहोऽयं समवस्थितः ।
असन्नेव च सत्तस्मात्प्रोक्तः सदसदात्मकः ॥ १५ ॥

उक्तमेव स्पष्टमाह-देहेति । परमार्थसदधिष्टानकतया उपचारात्सत् ॥ १५ ॥

स्वप्ने स्वप्नावबोधः संस्त्वन्यदा स मुधैव हि ।
बुद्बुदो बुद्बुदविधौ सत्यो मिथ्यैव चान्यदा ॥ १६ ॥

असतः सत्त्वभ्रान्तिः क्व दृष्टा तत्राह-स्वप्न इति । मुधा मिथ्यैव ।
बुद्बुदविधौ बुद्बुदप्रतीतिसत्त्वे ॥ १६ ॥

देहो देहविधौ सत्यो ह्यसत्य इतरद्विधौ ।
प्रतिभासविधौ तावज्जलं सदसदन्यदा ॥ १७ ॥

इतरद्विधौ शुद्धात्मदर्शनसत्त्वे । जलं मृगतृष्णिकोदकम् ॥ १७ ॥

प्रतिभासविधौ देहः सन्नसंश्चान्यदा स्मृतः ।
आभासमात्रमेवेदमित्थं सम्प्रति भासते ॥ १८ ॥

प्रतिभासविधाविति प्रसाधितार्थनिगमनत्वान्न पौनरुक्त्यम् ॥ १८ ॥

अयं नामाहमित्यन्तर्गृहीतमननं स्थितम् ।
मांसास्थिमयनिर्माणदेहोऽहमिति विभ्रमम् ॥ १९ ॥

आभासमात्रतामुपपादयंस्तदभिमानं त्याजयति-अयमिति ।
प्राग्गृहीतदेहाकारं मननमेव संस्कारदार्ढ्यात्पुनः पुनर्देहाकारेण स्थितम्
॥१९ ॥

त्यज सङ्कल्पनिर्माणदेहाः सन्ति सहस्रशः ।
सुखतल्पगतो येन स्वप्नदेहेन दिक्तटान् ॥ २० ॥

त्यजेति पूर्वान्वयि । सङ्कल्पनिर्माणदेहानेवोदाहृत्य देषामसत्यतां दर्शयति##-

परिभ्रमसि हे राम स देहस्ते क्व संस्थितः ।
जागरायां मनोराज्ये येन स्वर्गपुरान्तरम् ॥ २१ ॥

जागरायां जागरे । छान्दसं स्त्रीत्वम् ॥ २१ ॥

परिभ्रमसि मेरुं वा स देहस्ते क्व संस्थितः ।
स्वप्नेष्वपि च यः स्वप्नस्तत्र येन महीतटान् ॥ २२ ॥

परिभ्रमसि हे राम स देहस्ते क्व संस्थितः ।
मनोराज्यं मनोराज्ये महद्विभवभूमिषु ॥ २३ ॥

मनोराज्यान्तःकल्पिते मनोराज्यान्तरे महतीषु विभवभूमिषु । आन्महतः
समानाधिकरणजातीययोः इत्यात्वे कर्तव्ये तदभावश्छान्दसः ।
महतामिन्द्रचन्द्रादीनां वा विभवभूमिषु ॥ २३ ॥

परिभ्रमसि येनेह स देहस्ते क्व संस्थितः ।
गतैर्देहैर्मनोराज्ये या विचित्रा जगत्क्रियाः ॥ २४ ॥

गतैः कल्पनाविलयमनुविलीनैः ॥ २४ ॥

प्रकरोषि महाबाहो ते देहास्ते क्व संस्थिताः ।
विलासिन्यानुरागिण्या येन सङ्कल्पकान्तया ॥ २५ ॥

निर्वृतिं यासि देहेन स देहस्ते क्व संस्थितः ।
एते राम यथा देहा मनसः सदसन्मयाः ॥ २६ ॥

निर्वृतिं सम्भोगसुखं यासीति योग्यतया वर्तमानकालोक्तिः । एवं
भविष्यत्स्वप्नमनोराज्यदेहा अप्युदाहार्याः । तेषु
मिथ्यात्वसाङ्कल्पिकत्वादेर्निश्चितत्वात्प्रस्तुतदेहेऽपि तथात्वं साधयति-एते इति ॥ २६ ॥

तथैव तादृशाचारो देहोऽयं मनसः स्मृतः ।
इदं धनमयं देहो देशोऽयमिति विभ्रमः ॥ २७ ॥

अहन्ताध्यासविषये देहे दर्शितो न्यायो ममताध्यासगोचरे धनादावपि सम
इत्याशयेनाह-इदं धनमिति ॥ २७ ॥

तत्सर्वं चित्तवीर्यस्य सङ्कल्पस्य विजृम्भितम् ।
दीर्घस्वप्नमिमं विद्धि दीर्घं वा चित्तविभ्रमम् ॥ २८ ॥

या तु देहादौ स्वप्नादिवैधर्म्यबुद्धिः सा चिरानुवृत्तिमात्रा न तु
सत्यत्वासाङ्कल्पिकत्वादिप्रयुक्तेत्याशयेनाह-दीर्घेति ॥ २८ ॥

दीर्घं वापि मनोराज्यं संसारं रघुनन्दन ।
प्रबोधमेष्यसि यदा परमात्मेच्छया स्वया ॥ २९ ॥

अत एवास्य तत्त्वज्ञानेन बाध्यत्वमुपपन्नमित्याशयेनाह-प्रबोधमिति ॥ २९ ॥

द्रक्ष्यसि त्वं तदा सम्यगिदमर्कोदये यथा ।
स्वप्नसङ्कल्पजालेन यथान्यैव जगत्स्थितिः ॥ ३० ॥

सम्यक् आत्ममात्रपरिशेषेण द्रक्ष्यसि । यथा अर्कोदये प्रबुद्धः स्वाप्नार्थान्पश्यति
तद्वत् ॥ ३० ॥

तथैवेयं हि सङ्कल्पकलना काचिदेव हि ।
यथा पूर्वं मयोत्पत्तिः प्रोक्ता कमलजन्मनः ॥ ३१ ॥

काचिदनिर्वचनीया मिथ्यैवेत्यर्थः । उक्तेऽर्थे च प्रागुत्पत्तिप्रकरणे विस्तरोक्तं
स्मारयति-यथेति ॥ ३१ ॥

मनसः स्वयमेवान्तःसङ्कल्पकलनोद्भवा ।
विचित्ररचनोपेतं मनस्तत्रात्तविभ्रमम् ॥ ३२ ॥

सङ्कल्पकलनामात्रं तथेदमवभासनम् ।
यथा कल्पित आभासो मनसोऽब्जजतां गतः ॥ ३३ ॥

ऐन्दवोपाख्यानोक्तमपि स्मर्तव्यमित्याह-यथा कल्पित इति ॥ ३३ ॥

देहाद्विचिन्तितो देहः स्थितोऽन्यस्तद्वदेव हि ।
प्राक्प्रवाहचिराभ्यस्तो वासनातिशयेन यः ॥ ३४ ॥

पूर्वदेहादुत्क्रान्तिकाले विचिन्तितो यो देहः ॥ ३४ ॥

तथैव दृश्यते देहस्तथाऽऽकृत्युदयेन सः ।
पौरुषेण प्रयत्नेन सङ्कल्पो ह्यमेव चित् ॥ ३५ ॥

तथाऽऽकृत्युदयेन तादृशसंस्थानसम्पत्त्या । पौरुषेण प्रयत्नेन मनः
प्रत्यङ्मुखीकृत्य स्वात्मदर्शने अयं देहजगदाकारः सङ्कल्पश्चिदेवेत्यन्वयः
॥ ३५ ॥

अन्यथा भाव्यते राम भूयते तदिहान्यथा ।
अयं सोऽयं ममायं च संसार इति भाविते ॥ ३६ ॥

अन्यथा भाव्यते यदीति शेषः । तत्तर्हि अन्यथा भूयते इति भाविते तथैवानुभूयत इति
शेषः ॥ ३६ ॥

सत्यो यो भाव्यते राम भावनादार्ढ्यसम्भवः ।
भावितं तीव्रवेगेन यदेवाशु तदेव हि ॥ ३७ ॥

तदेव हि दृश्यते इति परेणान्वयः ॥ ३७ ॥

सर्वत्र दृश्यते राम कान्तेवात्यन्तवल्लभा ।
अहर्व्यावृत्तिरभ्यस्ता यथा स्वप्नेषु दृश्यते ॥ ३८ ॥

अह्नि व्यवृत्तिर्व्यापृतिर्यथाभ्यस्ता ॥ ३८ ॥

तथायं भावनाभ्यस्तः संसारोऽप्यवलोक्यते ।
यथा स्वप्नावनौ क्षिप्रमहर्यदवभासते ॥ ३९ ॥

क्षिप्रं शीघ्रप्रध्वंसी क्षणादिः अहस्त्रिंशद्धटिकादीर्घोऽवभासते ॥ ३९ ॥

तथेदमल्पकालस्थमपि संलक्ष्यते स्थिरम् ।
व्योमन्येव यथा तापतप्ते सन्दृश्यते सरित् ॥ ४० ॥

स्थिरं शाश्वत्रम् । व्योमनि मरुभूम्याकाशे । सरित् मृगतृष्णानदी ॥ ४० ॥

धराप्यविद्यमानापि सङ्कल्पाद्दृश्यते तथा ।
दृश्यते दृष्टिवैरूप्याद्यथा व्योमनि पिच्छिका ॥ ४१ ॥

धरा भूः । अपिशब्दादन्तरिक्षं त्रिलोकी च । पिच्छिका नर्हमुष्टिः ॥ ४१ ॥

तथैवेयं जगल्लक्ष्मीर्दुर्ज्ञानादवभासते ।
दृश्यते समया दृष्ट्या न यथा व्योम्नि पिच्छिका ॥ ४२ ॥

दुर्ज्ञानाद्भ्रमात् ॥ ४२ ॥

सम्यग्दृष्ट्या जगल्लक्ष्मीस्तथेयं नावभासते ।
भीरुरभ्येति न यथा स्वसङ्कल्पेषु सम्भ्रमम् ॥ ४३ ॥

भीरुरपि स्वसङ्कल्पेषु स्वमनोराज्यकल्पितहस्तिव्याघ्रादिषु । सम्भ्रमं भयम् ॥ ४३ ॥

स्वसङ्कल्पे हि संसारे न तथैते भयं सुधीः ।
स्व एव हि स्वभावोऽयमित्थं सम्प्रति भासते ॥ ४४ ॥

स्वभावः आत्मा । सम्प्रति बहिर्मुखदशायाम् ॥ ४४ ॥

संसारसरणिस्थित्यां कस्मात्कोऽत्र बिभेति किम् ।
स एव किञ्चित्संशोध्यः शुद्ध्या विमलतां गते ॥ ४५ ॥

यद्बिभेति तदपि भयं किम् । न किञ्चित्स्वात्मव्यतिरिक्तमस्तीत्यर्थः । यो बिभेति स एव
किञ्चित्संशोध्यो विवेचनीयः ॥ ४५ ॥

तस्मिन्न दृश्यते राम मोहोऽयं जगतः स्थितः ।
सम्यगालोकमात्रेण स्वभावः शुद्धिमृच्छति ॥ ४६ ॥

अयं भयादिलक्षणो मोहः अद्वये शुद्धात्मनि न दृश्यते । तथा च श्रुतिः##-
। द्वितीयाद्वै भयं भवति इति । केन तर्ह्युपायेनात्मा शुद्ध्यति तमाह-सम्यगिति ।
स्वभाव आत्मा ॥ ४६ ॥

न गृह्णाति मलं भूयस्ताम्रतामिव काञ्चनम् ।
आभासमात्रमेवेदं न सन्नासज्जगत्त्रयम् ॥ ४७ ॥

पुनरशुद्धिप्राप्तिशङ्कां वारयति-नेति । स्वभावतः काञ्चनं भ्रान्त्या
ताम्रतया गृहीतं तापादिना स्वरूपाभिव्यक्तौ पुनस्ताम्रत्वमिवेत्यर्थः । कुतोऽस्य
दर्शनमात्राच्छुद्धिरिति चेद्दृश्यमलस्याभासमात्रत्वादित्याह##-

इत्यन्यकलनात्यागः सम्यगालोकनं विदुः ।
मरणं जीवितं स्वर्गो ज्ञानमज्ञानमेव च ॥ ४८ ॥

इति अस्माद्धेतोः सम्यगालोकनमेवान्यकलनायास्त्यागो निवृत्तिरिति विदुरिति
पूर्वेणान्वयः । सम्यगीक्षणं तर्हि कीदृशं तदाह-मरणमित्यादिना ॥ ४८ ॥

चिदाभासादृते नास्तीत्येकता सम्यगीक्षणम् ।
त्वमहन्तादिसंसार इति मे न दिशो दश ॥ ४९ ॥

चिदाभासाच्चित्प्रकाशादृते विना पृथङ् नास्तीत्येकता चिन्मात्रपरिशेषः फलतः
सम्यगीक्षणमित्यर्थः । त्वन्ता स्वातिरिक्तचेतनता । अहन्ता
स्वदेहमात्रपरिच्छिन्नचेतनता आदिपदात्त्वन्ताहन्ताभिमानविषय आध्यात्मिकः
कार्यकारणकलापः संसारयत्यात्मानं लोकान्तरेषु विषयेषु च भ्रमयतीति संसारो
विषयकलापस्तदाधारा दश दिशश्चेति सर्वं दृश्यजातं मे मत्सम्बन्धिनः
पृथक् न सन्ति किन्तु स्वाभासं स्वप्रकाशात्मस्वरूपमेवास्तीत्यन्वयः ॥ ४९ ॥

सर्वं स्वाभासमेवेति सम्यगालोकनं विदुः ।
सदसन्मयसंसारे यथा भूतार्थदर्शनात् ॥ ५० ॥

सम्यगालोकनफलमाह-सदसन्मयेति । राद्ब्रह्म असती माया तदुभयोपादानके ॥
५० ॥

नास्तमेति न चोदेति सम्यगालोकनान्मनः ।
निर्णीय सर्वभावानामसत्त्वं सत्त्वमेव च ॥ ५१ ॥

असत्त्वं बाधम् । सत्त्वमधिष्ठानसन्मात्रपरिशेषम् ॥ ५१ ॥

निष्कामं शान्तिमभ्येति सम्यगालोकनान्मनः ।
न निन्दति न च स्तौति न हृष्यति न शोचति ॥ ५२ ॥

निष्कामं आप्तकामत्वादकामम् ॥ ५२ ॥

शीतलां सत्यतामेति सम्यगालोकनान्मनः ।
अवश्यमेव मर्तव्यं सर्वैरेव हि बन्धुभिः ॥ ५३ ॥

शीतलामुपशान्ततापत्रयाम् । स्वस्य मुक्तावपि बन्धुजनानां
बन्धानिवृत्तेस्तदीयमरणादिदर्शनजस्तापो दुर्वारस्तत्राह-अवश्यमेवेत्यादिना
॥ ५३ ॥

इति बन्धुवियोगेषु किं वृथा परितप्यसे ।
अवश्यमेव च मया मर्तव्यमिति निश्चयः ॥ ५४ ॥

अज्ञतादशायां स्वमरणाशङ्कातापोऽप्यनेनोपायेन परिहर्तुं शक्य
इत्याशयेनाह-अवश्यमेवेति ॥ ५४ ॥

इत्यात्ममरणप्राप्तौ किं मुधा परितप्यसे ।
अवश्यमेव जातेन किञ्चित्सुविभवादिकम् ॥ ५५ ॥

प्राप्तव्यं पुरुषेणेति हर्षस्यावसरो हि कः ।
सर्वस्यैव हि संसारे नरस्य व्यवहारिणः ॥ ५६ ॥

अर्थायाता भवत्यापच्छोकस्यावसरो हि कः ।
बृंहत्युदेति स्फुरति बुद्बुदौघ इवार्णवे ॥ ५७ ॥

आपत् दारिद्र्यदुर्दशाद्या । अर्थादेव आयाता भवत्येव । बृंहति वर्धते ॥ ५७ ॥

इदं हि जगतां जालं किमत्र परिदेवना ।
सत्सदेव सदैवैतदसदेवासदेव हि ॥ ५८ ॥

असदपि सदैव असदेव न कदाचित्सत्त्वमापन्नमिति मायाविक्रियावैचित्र्यमात्रात्मके
प्रपञ्चे किमन्यदस्ति यत्परिदेव्यते इत्यर्थः । अहं अहङ्कारात्मा नास्मि ॥ ५८ ॥

क्रियावैचित्र्यमात्रे तु किमन्यत्परिदेव्यते ।
नाहमस्मि न चाभूवं भविष्यामि न सोऽधुना ॥ ५९ ॥

देहोऽयं चित्रदोषोत्थः किमन्यत्परिदेव्यते ।
देहाच्चेदन्य एवाहं चिदाभासस्तदङ्ग हे ॥ ६० ॥

चित्रात्कामकर्मवासनाविद्यादोषादुत्थः चिदाभासश्चित्प्रकाशः । अङ्गेति
कोमलामन्त्रणे ॥ ६० ॥

कौ तौ मे सदसद्भावौ यन्निष्ठं परितप्यते ।
इति निश्चयवत्स्वान्तं सम्यग्ज्ञानात्मनो मुनेः ॥ ६१ ॥

ये निष्ठे उदर्कफले निमित्तभूते यस्मिन्परितापे इति क्रियाविशेषणम् ॥ ६१ ॥

नास्तमेति न चोदेति न [न चान्तं इति पाठः ।] शान्तं परितप्यते ।
परतामेव नाशान्तामनुत्तमपदे स्थितः ॥ ६२ ॥

अनुत्तमपदे स्थितो ब्रह्मवित् सर्वभावेषु नाशान्तां बाधपरिशिष्टां परतां
ब्रह्मतामेव आदत्ते स्वीकरोति न प्रतीतिकालिकीं खरताम् । यथा तित्तिरी नीडनिर्माणाय
तृणानां मूलतः खरभागान्परित्यज्य मृद्वीं तृणकोटिमेवादत्ते
तद्वदित्यर्थः ॥ ६२ ॥

आदत्ते तित्तिरी मृद्वीं तृणकोटिमिवामलाम् ।
एतदर्थमसत्येऽस्मिन्नास्था कार्या मनागपि ॥ ६३ ॥

एतदर्थ संसारस्य खरभागपरिहारार्थम् ॥ ६३ ॥

सुरज्ज्वेव बलीवर्दो बध्यते जन्तुरास्थया ।
अतस्त्वया दृढमिदमिति निर्णीय बुद्धितः ॥ ६४ ॥

इदमग्रभूतं ब्रह्म इति उक्तयुक्त्या निर्णीय ॥ ६४ ॥

आस्थारहितया बुद्ध्या विहर्तव्यमिहानघ ।
कर्तव्यमेव कर्तव्यमकर्तव्यमुपेक्ष्यते ॥ ६५ ॥

तर्हि किमास्थां परित्यज्य यथेष्टाचरणं कर्तव्यं नेत्याह-कर्तव्यमेवेति ।
विहितमेवेत्यर्थः ॥ ६५ ॥

आस्थानास्थे परित्यज्य लीलयैव महाधिया ।
आभासमात्रमेवेदं यस्य च प्रतिभासते ॥ ६६ ॥

लीलया अश्रमेण ॥ ६६ ॥

सोऽन्तः शीतलतामेति दिनान्ते भुवनं यथा ।
प्रतिभासं परित्यज्य पदार्थपटलव्रजे ॥ ६७ ॥

दिनान्ते सौरतापोपरमे । सर्वानुगतसन्मात्रदर्शने उपायमाह-प्रतिभासमिति ।
विशेषाकारमित्यर्थः । पदार्थानां पञ्चभूतानां पटलं समूहस्तदात्मके
घटपटादिविषयव्रजे ॥ ६७ ॥

आभासमात्रसामान्यमिदमालोकयानघ ।
आभासमात्रकं राम चित्तामर्शकलङ्कितम् ॥ ६८ ॥

चित्तस्य आमर्शेन विशेषकल्पनेन कलङ्कितमभूदिति शेषः ॥ ६८ ॥

ततस्तदपि सन्त्यज्य निराभासो भवोत्तम ।
चिदाकाशमयो नित्यं सर्वगः सर्ववर्जितः ॥ ६९ ॥

तत्सन्मात्ररूपमाभासमपि सन्त्यज्य स्वात्मव्यतिरेकबुद्ध्या त्यक्त्वा
निराभासस्त्रिपुटीशून्यः । सर्वगः पूर्णः ॥ ६९ ॥

आभासस्य परित्यागे भवस्येकान्तनिर्मलः ।
नाहमस्मि न मे भोगाः सत्या इत्यभिभाविते ॥ ७० ॥

निराभासतासिद्ध्युपायभूतं चिन्तनद्वयमाह-नाहमित्यादिना । अभितो भाविते
चिन्तिते सति ॥ ७० ॥

नेदमाडम्बरं व्यर्थमनर्थायावभासते ।
अहमेव हि वा सर्वं चिदित्येवं विभाविते ॥ ७१ ॥

चिति सर्वबाधचिन्तनं सर्वस्य चिदात्मभावचिन्तनं वेति द्वे चिन्तने ॥ ७१ ॥

नेदमाडम्बरं व्यर्थमनर्थायावभासते ।
दर्शनद्वयमप्येतत्सत्यमत्यन्तसिद्धिदम् ॥ ७२ ॥

यदेकमेतयोर्वेत्सि रम्यं तद्राम संश्रय ।
द्वाभ्यामेवाथ वै ताभ्यां दर्शनाभ्यामिहानघ ॥ ७३ ॥

ऐच्छिकसमुच्चयेऽप्यनयोर्न विरोधः । फलत ऐकरूप्यादित्याशयेनाह##-

विहरन्कुरु कल्याण रागद्वेषपरिक्षयम्।
यत्किञ्चिदुदितं लोके यन्नभस्यथ वा दिवि ॥ ७४ ॥

रागादिदोषक्षयवत्येव चिन्तनद्वयं सफलं नान्यस्मिन्नित्याह-कुर्वित्यादिना ।
रागादिक्षयमेव प्रधानफलैः स्तौति-यत्किञ्चिदिति ॥ ७४ ॥

तत्सर्वं प्राप्यते राम रागद्वेषपरिक्षयात् ।
रागादिहतया बुद्ध्या यादृग्राम विचेष्टितम् ॥ ७५ ॥

तत्तदेव प्रयात्याशु मूढानां विपरीतताम् ।
द्वेषदोषोर्मिरुद्धासु न गुणाश्चित्तवृत्तिषु ॥ ७६ ॥

पदं कुर्वन्ति दग्धासु स्थलीषु हरिणा इव ।
रागो द्वेषश्च सर्पौ द्वौ न विलीनौ मनोबिले ॥ ७७ ॥

पदं स्थितिम् ॥ ७७ ॥

यस्य कल्पतरोस्तस्मात्किं नामाङ्ग न लभ्यते ।
ये हि प्राज्ञाः [प्राज्ञा विनियताः इति पाठः ।] स्वनियता विदग्धाः
शास्त्रशालिनः ॥ ७८ ॥

किं नाम दुःखफलमिति शेषः ॥ ७८ ॥

रागद्वेषमयास्ते वै जम्बुकास्ते धिगस्तु तान् ।
मद्धनं भुक्तमन्येन धनं त्यक्तं मयाऽन्यतः ॥ ७९ ॥

शास्त्रशालिनोऽपि भूत्वेति शेषः । ते जनाः । ते अरण्ये प्रसिद्धा जम्बुकाः । एवार्थे
वैशब्दः । रागद्वेषक्रमं समूलमाह-मद्धनमिति । अन्यतः
अन्यस्मादवश्यग्राह्यन्न् धनं प्रमादात्त्यक्तम् ॥ ७९ ॥

इति संव्यवहारेहाः के रागद्वेषयोः क्रमाः ।
धनानि बन्धवो मित्रं पुनरायान्ति यान्ति च ॥ ८० ॥

इति इत्थं लब्धनष्टधनादिविषये अभिनिवेशात्तद्ग्रहणार्थं
वधबन्धनादिसंव्यवहारेहालक्षणा रागद्वेषयोः क्रमाः के तुच्छा इत्यर्थः ।
कुतस्तुच्छास्तत्राह-धनानीत्यादिना ॥ ८० ॥

किमेतेषु नरः प्राज्ञो रज्यते वा विरज्यते ।
भावाभावभवाभोगा मायेयं पारमेश्वरी ॥ ८१ ॥

प्रियविषयभावेन अप्रियाभावेन च भवस्याभोगो यस्याम् ॥ ८१ ॥

संसाररचना सर्वा संसक्तं पातयत्यलम् ।
न धनं न जनो नात्मा सत्यं राघव वस्तुतः ॥ ८२ ॥

संसक्तं लम्पटम् ॥ ८२ ॥

मिथ्यैव मिथ्यावसितमितीदं परिलक्ष्यते ।
आद्यन्तयोः सर्वमसन्मध्येऽप्यस्थिरमाधिमत् ॥ ८३ ॥

इति वक्ष्यमाणयुक्त्या मिथ्येत्यवसितं मिथ्यैव परिलक्ष्यते । तां युक्तिमाह##-
८३ ॥

क्व बध्नाति रतिं प्राज्ञो ह्यन्यकल्पितखद्रुमे ।
एकेन कल्पिता खे स्त्री भुङ्क्ते तां दूरगोऽपरः ॥ ८४ ॥

तुच्छे संसारे इति बन्धयोग्यत्वे दृष्टान्तमाह-अन्येत्यादिना ॥ ८४ ॥

इतीयमङ्ग संसाररचना तेन मा भ्रम ।
भूताजवं जवीभावमिममाततमाकुलम् ॥ ८५ ॥

गन्धर्वपुरनिर्माणविलासेन समं विदुः ।
स्वप्नसङ्कल्पपुरवदसदेवेदमुत्थितम् ॥ ८६ ॥

विदुः प्राज्ञाः ॥ ८६ ॥

सर्वत्र संस्थमेवेदं सुषुप्तमिव विच्युतम् ।
परिपश्यसि संसारदीर्घस्वप्नपुरद्रुमम् ॥ ८७ ॥

कल्पनायाः सर्वत्र सम्भवादधिष्ठानचित्सद्भावाच्च सर्वत्र संस्थम् । विच्युतं
स्वप्नादिभावापन्नं सुषुप्तमिव ॥ ८७ ॥

अज्ञाननिद्रालुठनस्वभावात्मकमच्युतम् ।
संसारस्वप्नसम्भ्रान्तो भवानयमिह स्थितः ॥ ८८ ॥

अच्युतमजस्रानुस्यूतम् । पूर्वान्वयि । भवान् शुभवांस्त्वं एनां निद्रां
त्यजेत्युत्तरान्वयि ॥ ८८ ॥

तदेनां विततां निद्रां घनाज्ञानमयात्मिकाम् ।
त्यजालक्ष्मीमिवावाप्तनिधानः पुरुषोत्तमः ॥ ८९ ॥

प्रबोधमेहि पश्य स्वमात्मानमुदितं सदा ।
निर्विकल्पं चिदाभासं प्रातः पद्मं रविं यथा ॥ ९० ॥

चिदाभासं चित्प्रकाशम् ॥ ९० ॥

प्रबुध्यस्व प्रबुध्यस्व पुनः पुनरयं मया ।
प्रबोध्यसे महाबाहो पश्यात्मार्कमनामयम् ॥ ९१ ॥

मयैतेनाभिवृष्टेन शीतेन ज्ञानवारिणा ।
सुशब्दशालिना राम ह्यनेनैवासि बोधितः ॥ ९२ ॥

मया मेघस्थानीयेन । सुशब्दपदं श्लेषाद्गर्जनमप्याह ॥ ९२ ॥

बोधमासादय परं प्रबोधोऽद्यैव राघव ।
सत्यमालोकयालीकं त्यक्त्वेमं जागतं भ्रमम् ॥ ९३ ॥

अद्यैव प्रकृष्टो बोधो यस्य तथाविधः सन् सत्यं स्वत्तत्त्वमालोकय ॥ ९३ ॥

न ते जन्म न ते दुःखं न दोषास्ते न ते भ्रमाः ।
सर्वं सङ्कल्पमुत्सृज्य तिष्ठात्मनि सुसंस्थितः ॥ ९४ ॥

परिगलितविकल्पदोषजालस्त्वमसि सुसारसुषुप्तसौम्यदृष्टिः ।
अतिविततमिदं सुशुद्धये त्वं समुपशमात्मनि तिष्ठ हे महात्मन् ॥ ९५ ॥

उपसंहरति-परिगलितेति । सुसारं सुषुप्तमिव सौम्या निर्विक्षेपा दृष्टिर्यस्य
तथाविधस्त्वं इदं नित्यापरोक्षमतिविततं ब्रह्मैवासि अतः सुशुद्धये
समुपशमात्मनि तस्मिन्नेव समाहितस्तिष्ठेत्यर्थः ॥ ९५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
परमार्थयोगोपदेशो नामाष्टाविंशः सर्गः ॥ २८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
परमार्थयोगोपदेशो नामाष्टाविंशः सर्गः ॥ २८ ॥