०२७

सप्तविंशः सर्गः २७

भुशुण्ड उवाच ।

एतत्ते कथितं ब्रह्मन्यथास्मि यदिहास्मि च ।
त्वदाज्ञामात्रसिद्ध्यर्थं धार्ष्ट्येन ज्ञानपारग ॥ १ ॥

भुशुण्डस्य प्रशंसात्र यियासोस्तेन पूजनम् ।
वसिष्ठस्य नभोगत्या स्वलोकाप्तिश्च वर्ण्यते ॥

यथा येन प्रकारेण अस्मि चिरं जीवामि । परमार्थत इह कार्यकरणसङ्घाते यदस्मि
तच्च कथितमित्यर्थः । धार्ष्ट्येन वैयात्येन ॥ १ ॥

श्रीवसिष्ठ उवाच ।

अहो नु चित्रं भगवन्भवता भूषणं श्रुतेः ।
आत्मोदन्तः प्रकथितः परं विस्मयकारणम् ॥ २ ॥

आत्मोदन्तः स्ववृत्तान्तः ॥ २ ॥

धन्यास्ते ये महात्मानमत्यन्तचिरजीवनम् ।
भवन्तं परिपश्यन्ति द्वितीयमिव पद्मजम् ॥ ३ ॥

यावदद्य दृशो धन्याः स्वात्मोदन्तमखण्डितम् ।
यथावत्पावनं बुद्धेः सर्वं कथितवानसि ॥ ४ ॥

ये भवन्तं प्रपश्यन्ति तेषां दृशो धन्याः । यावदद्येति
स्वदृशोश्चिरस्थितिसार्थक्याभिप्रायम् ॥ ४ ॥

प्रभातं दिक्षु सर्वासु दृष्टा विबुधभूतयः ।
भवानिव जगत्यस्मिन्न महानवलोकितः ॥ ५ ॥

विबुधानां देवानां विदुषां च भूतयो ज्ञानैश्वर्यसम्पदो दृष्टाः ॥ ५ ॥

कथञ्चित्प्राप्यते कश्चिद्भ्रान्त्वेव हि महाजनः ।
न भवानिव भव्यात्मा सुलभो जगति क्वचित् ॥ ६ ॥

भ्रान्त्वा यत्नेन चिरमन्विष्यापि महांस्तत्त्वज्ञो जनः कथञ्चित्प्राप्यते । तत्रापि
भवानिव न सुलभः ॥ ६ ॥

वंशखण्डे हि कस्मिंश्चिज्जायते मौक्तिकं यथा ।
जगत्खण्डे हि कस्मिंश्चिद्दृश्यते त्वादृशस्तथा ॥ ७ ॥

वंशखण्डे वेणुवने । वेणूनामप्यष्टसु मुक्ताकरेषु परिगणनात् ॥ ७ ॥

मया तु सुमहत्कार्यमद्य सम्पादितं शुभम् ।
पुण्यदेहविमुक्तात्मा यद्भवानवलोकितः ॥ ८ ॥

तदस्तु तव कल्याणं प्रविशात्मगुहां शुभाम् ।
मध्याह्नसमयो यन्मे व्रजामि सुरमन्दिरम् ॥ ९ ॥

मध्याह्नपदेन माध्याह्निकं कर्म लक्ष्यते । सुरमन्दिरं सप्ताषलोकं
स्वगृहम् ॥ ९ ॥

इत्याकर्ण्य भुशुण्डोऽसौ जग्राहोत्थाय पादपात् ।
सङ्कल्पिताभ्यां हस्ताभ्यामुपात्तं हेमपल्लवम् ॥ १० ॥

कल्पवृक्षलतापुष्पकेसरेण हिमत्विषा ।
तत्पात्रं मौक्तिकार्घ्येण पूरयामास पूर्णधीः ॥ ११ ॥

मौक्तिकलक्षणेनार्घ्येण अर्घार्थजलेन ॥ ११ ॥

तेनार्घ्यपाद्यपुष्पेण त्रिनेत्रमिव मामसौ ।
आपादमस्तकं भक्त्या पूजयामास पूर्वजः ॥ १२ ॥

त्रिनेत्रमिवेत्युपमानान्नित्यं शिवपूजापरतापि तस्य गम्यते । पूर्वजश्चिरन्तनः ॥ १२ ॥

अनुव्रज्याकदर्थेन खगेन्द्रालमिति ब्रुवन् ।
विष्टरादहमुत्थाय ततः खगवदाप्लुतः ॥ १३ ॥

हे खगेन्द्र अनुव्रज्यालक्षणेन कदर्थेन श्रमेण अलमिति ब्रुवन्नहमाप्लुत उड्डीनः
॥ १३ ॥

व्योम्नि योजनमात्रं तु मदनुव्रज्यया गतः ।
करं करेणावष्टभ्य बलात्संरोधितः खगः ॥ १४ ॥

संरोधितो निवर्तितः ॥ १४ ॥

मयि याते क्षणेनैव गगनाध्वन्यदृश्यताम् ।
निवृत्तोऽसौ विहङ्गेन्द्रो दुस्त्यजा सङ्गतिः सताम् ॥ १५ ॥

अन्योन्यमपि कस्मिंश्चित्तरङ्गक इवाम्बुधौ ।
व्योमन्यदृश्यतां यातो खगस्मृत्या मुनीनहम् ॥ १६ ॥

आवामन्योन्यमप्यदृश्यतां यातौ । ततः अहं खगस्य भुशुण्डस्य स्मृत्वा
अविच्छिन्नस्मरणेनोपलक्षितः सन्सप्तर्षिमण्डलं प्राप्य मुनीन्दृष्टवानिति शेषः
॥ १६ ॥

सप्तर्षिमण्डलं प्राप्य जायया परिपूजितः ।
याते कृतयुगस्यादौ पुरा वर्षशतद्वये ॥ १७ ॥

जायया अरुन्धत्या । उक्ताया भुशुण्डसङ्गतेः कालमाह-याते इति ॥ १७ ॥

सङ्गतोऽहं भुशुण्डेन मेरोः शृङ्गद्रुमेऽभवम् ।
अद्य राम कृते क्षीणे त्रेता सम्प्रति वर्तते ॥ १८ ॥

मध्ये त्रेतायुगस्यास्य जातस्त्वं रिपुमर्दन ।
पुनरद्याष्टमे वर्षे तत्रैवोपरि भूभृतः ।
मिलितोऽभूद्भुशण्डो मे तथैवाजररूपवान् ॥ १९ ॥

भूभृतः मेरोः ॥ १९ ॥

इति सङ्कथितं चित्रं भुशुण्डोदन्तमुत्तमम् ।
श्रुत्वा विचार्य चैवान्तर्यद्युक्तं तत्समाचर ॥ २० ॥

उपसंहरति-इतीति ॥ २० ॥

श्रीवाल्मीकिरुवाच ।

इति सुमतिभुशुण्डसत्कथां यो विमलमतिः प्रविचारयिष्यतीह ।
भवभयबहुलाकुलास्थितां स प्रसभमसत्सरितं तरिष्यतीति ॥ २१ ॥

इतीति । इति इमां सुमतेर्भुशुण्डस्य सत्कथां यः प्रविचारयिष्यति स इहास्मिन्नेव शरीरे
भवा जन्मादयस्तद्भयैर्बहुला अत एवाकुला ये जीवास्तैरास्थितां इति इमां
प्रसिद्धामसत्सरितं मायानदीं तरिष्यति । प्रसभमिति पौरुषप्राधान्यद्योतनार्थम्
॥ २१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
भुशुम्० समाप्तिर्नाम सप्तविंशः सर्गः ॥ २७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
समाप्तिर्नाम सप्तविंशतितमः सर्गः ॥ २७ ॥