षड्विंशः सर्गः २६
भुशुण्ड उवाच ।
एषा हि चित्तविश्रान्तिर्मया प्राणसमाधिना ।
क्रमेणानेन सम्प्राप्ता स्वयमात्मनि निर्मले ॥ १ ॥
इत्थं स्वस्यात्मविज्ञानं निरूप्य प्राणचिन्तया ।
भुशुण्डेनात्र कथ्यन्ते चिरजीवितहेतवः ॥
अनेनोक्तप्रकारेण ॥ १ ॥
एतां दृष्टिमवष्टभ्य संस्थितोऽस्मि महामुने ।
न चलामि निमेषांशमपि मेरुविचालतः ॥ २ ॥
मेरोर्विचलनं विचालस्तस्मादपि ॥ २ ॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
स्वप्नेऽपि न चलत्येष सुसमाधिर्ममात्मनि ॥ ३ ॥
नित्यानित्यासु लोलासु जगत्स्थितिषु सुस्थितः ।
अन्तर्मुखोऽस्मि तिष्ठामि स्वकामेनात्मनात्मनि ॥ ४ ॥
जगत्स्थितिषु इष्टानिष्टलक्षणासु सुस्थितो निर्विक्षेपः । स्वकामेन स्वच्छन्देन ॥ ४ ॥
अपि संरुध्यते वायुरपि वा सलिलं गतेः ।
नैतस्मात्सुसमाधानाद्विरुद्धं संस्मराम्यहम् ॥ ५ ॥
वायुः प्रवहाख्यो ज्योतिश्चक्राधारः । सलिलं महानदीनाम् । गतेः
प्रवहणात्संरुद्ध्यते संरुद्ध्येतापीत्यर्थः । विरुद्धं व्युत्थापकं विषयजातम् ॥
५ ॥
प्राणापानानुसरणात्परमात्मावलोकनात् ।
अशोकमनुजातोऽस्मि पदमाद्यं महातपः ॥ ६ ॥
हे महातपः ॥ ६ ॥
आमहाप्रलयाद्ब्रह्मन्नुन्मज्जननिमज्जनम् ।
अहमद्यापि भूतानां पश्यञ्जीवामि धीरधीः ॥ ७ ॥
न भूतं न भविष्यं च चिन्तयामि कदाचन ।
दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना ॥ ८ ॥
वर्तमानां नित्यवर्तमानस्वभावां साक्षिदृष्टिम् । आत्मना मनसा ॥ ८ ॥
यथा प्राप्तेषु कार्येषु परित्यक्तफलैषणः ।
सुषुप्तसमया बुद्ध्या परितिष्ठामि केवलम् ॥ ९ ॥
निरभिमानत्वेन सुषुप्तसमया ॥ ९ ॥
भावाभावमयीं चिन्तामीहितानीहितान्विताम् ।
विमृश्यात्मनि तिष्ठामि चिरं जीवाम्यनामयः ॥ १० ॥
विमृश्य हेयतया निश्चित्य । तेन चिरं जीवामि ॥ १० ॥
प्राणापानसमायोगसमयं समनुस्मरन् ।
स्वयमात्मनि तुष्यामि चिरं जीवाम्यनामयः ॥ ११ ॥
समायोगः सन्धिस्तत्समयं तत्र विभातं ब्रह्मेति यावत् ॥ ११ ॥
इदमद्य मया लब्धमिदं प्राप्स्यामि सुन्दरम् ।
इति चिन्ता न मे तेन चिरं जीवाम्यनामयः ॥ १२ ॥
न स्तौमि न च निन्दामि क्वचित्किञ्चित्कदाचन ।
आत्मनोऽन्यस्य वा साधो तेनाहं शुभमागतः ॥ १३ ॥
आत्मनः स्वस्यान्यस्य वा । चेष्टितमिति शेषः ॥ १३ ॥
न तुष्यति शुभ्रप्राप्तौ नाशुभेष्वपि खिद्यते ।
मनो मम समं नित्यं तेनाहं शुभमागतः ॥ १४ ॥
शुभन्न् प्रस्तावाज्जीवनम् ॥ १४ ॥
परमं त्यागमालम्ब्य सर्वमेव सदैव हि ।
जीवितादि मया त्यक्तं तेनाहं शुभमागतः ॥ १५ ॥
परं सर्वद्वैतबाधलक्षणं त्यागम् । जीवितं जीवनाभिन्निवेशस्तदादि ॥ १५ ॥
प्रशान्तचापलं वीतशोकं स्वस्थं समाहितम् ।
मनो मम मुने शान्तं तेन जीवाम्यनामयः ॥ १६ ॥
काष्ठं विलासिनीं शैलं तृणमग्निं हिमं नभः ।
समं सर्वत्र पश्यामि तेन जीवाम्यनामयः ॥ १७ ॥
किमद्य मम सम्पन्नं प्रातर्वा भविता पुनः ।
इति चिन्ताज्वरो नास्ति तेन जीवाम्यनामयः ॥ १८ ॥
सम्पन्नं प्राप्तम् ॥ १८ ॥
जरामरणदुःखेषु राज्यलाभसुखेषु च ।
न बिभेमि न हृष्यामि तेन जीवाम्यनामयः ॥ १९ ॥
अयं बन्धुः परश्चायं ममायमयमन्यतः ।
इति ब्रह्मन्न जानामि तेन जीवाम्यनामयः ॥ २० ॥
अन्यतः अन्यस्य ॥ २० ॥
सर्वं सर्वपदाभासमनाद्यन्तमनामयम् ।
अहं चिदिति जानामि तेन जीवाम्यनामयः ॥ २१ ॥
सर्व चिदेव । सर्वपदं नानावस्त्विवावभासत इति सर्वपदाभासम् ॥ २१ ॥
आहरन्विहरंस्तिष्ठन्नुत्तिष्ठन्नुच्छ्वसन्स्वपन् ।
देहोऽहमिति नो वेद्मि तेनास्मि चिरजीवितः ॥ २२ ॥
आहरन् आददानः ॥ २२ ॥
इमं सांसारमारम्भं सुषुप्तपदवत्स्थितः ।
असन्तमिव जानामि तेन जीवाम्यनामयः ॥ २३ ॥
संसारे भवं सांसारमारम्भं कार्यम् ॥ २३ ॥
यथाकालमुपायातावर्थानर्थौ समौ मम ।
हस्ताविव शरीरस्थौ तेन जीवाम्यनामयः ॥ २४ ॥
यथाकालं प्रारब्धोपस्थापितभोगकालानुसारेणोपायातौ प्राप्तौ ॥ २४ ॥
अपरिचलया शक्त्या सुदृशा स्निग्धमुग्धया ।
ऋजु पश्यामि सर्वत्र तेन जीवाम्यनामयः ॥ २५ ॥
स्वरूपान्न परिचलतीत्यपरिचलया मनःस्थैर्यशक्त्या । सुदृशा
सर्वभूतेष्वात्मौपम्यदृष्ट्या । ऋजु अकुटिलम् । तथा चोक्तं भारते-सर्वं
जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् । एतावान् ज्ञानविषयः प्रलापः किं
करिष्यति ॥ इति ॥ २५ ॥
आपादमस्तकान्तेऽस्मिन्न देहे ममता मम ।
त्यक्ताहङ्कारपङ्क्तस्य तेन जीवाम्यनामयः ॥ २६ ॥
यत्करोमि यदश्नामि तत्त्यक्त्वा तद्वतोऽपि मे ।
मनो नैष्कर्म्यमादत्ते तेन जीवाम्यनामयः ॥ २७ ॥
तत् तदभिमानं त्यक्त्वा शरीरेण तद्वतोऽपि मे मनो
नैष्कर्म्यमकर्तृभोक्तृस्वभावतामादत्ते स्वीकरोति ॥ २७ ॥
यदा यदा मुने किञ्चिद्विजानामि तदा तदा ।
मतिरायाति नौद्धत्यं तेन जीवाम्यनामयः ॥ २८ ॥
औद्धत्यमविनीततां नायाति ॥ २८ ॥
करोमीशोऽपि नाक्रान्तिं परितापे न खेदवान् ।
दरिद्रोऽपि न वाञ्छामि तेन जीवाम्यनामयः ॥ २९ ॥
ईशः परेषामाक्रमणसमर्थोऽप्याक्रान्तिं परिभवं न करोमि । एवं परकृते
परितापे सहनशीलत्वान्न खेदवान् ॥ २९ ॥
पश्यद्रूपे शरीरेऽस्मिन्भूतस्थात्मा चिदास्पदः ।
भूतवृन्दमहं साम्यात्तेन जीवाम्यनामयः ॥ ३० ॥
पश्यद्रूपे चेतनप्राये अस्मिञ्शरीरे भासमानेप्यहं चिदास्पदश्चिन्मात्रदर्शी
[अस्याग्रे-न शरीरात्मदर्शी इति पाठः समुपलभ्यते ।] । एवं च
चिदात्मनः सर्वभूतेषु साम्यात्सर्वभूतस्थात्मा सन् भूतवृन्दं स्वशरीरमिव
पश्यामीत्यध्याहृत्य योज्यम् ॥ ३० ॥
आशापाशविनुन्नायाश्चित्तवृत्तेः समाहितः ।
संस्पर्शं न ददाम्यन्तस्तेन जीवाम्यनामयः ॥ ३१ ॥
सर्वदा समाहितः सन् आशापाशविनुन्नायाश्चित्तवृत्तेः अन्तर्हृदि संस्पर्श
प्रवेशं न ददामि ॥ ३१ ॥
असत्तां जगतः सत्तामात्मनः करबिल्ववत् ।
सुप्तः प्रबुद्धः पश्यामि तेनास्मि चिरजीवितः ॥ ३२ ॥
बाह्यदृष्टिविषये सुप्तः सन् जगतः असत्तां पश्यामि अन्तस्तु प्रबुद्धः सन् आत्मनः
सत्तां करबिल्ववत्पश्यामीत्यन्वयः ॥ ३२ ॥
जीर्णं भिन्नं श्लथं क्षीणं क्षुब्धं क्षुण्णं क्षयं गतम् ।
पश्यामि नववत्सर्वं तेन जीवाम्यनामयः ॥ ३३ ॥
श्लथं शिथिलावयवम् । क्षीणं कृशाङ्गम् । क्षुब्धं व्यापृतावयवम् ।
क्षुण्णं सञ्चूर्णितावयवम् ।
सर्वमतीतानागतवर्तमानवस्तुनित्यनिर्विकारात्ममात्रत्वदृशा नववत्पश्यामि ॥ ३३
॥
सुखितोऽस्मि सुखापन्ने दुःखितो दुःखिते जने ।
सर्वस्य प्रियमित्रं च तेन जीवाम्यनामयः ॥ ३४ ॥
आपद्यचलधीरोऽस्मि जगन्मित्रं च सम्पदि ।
भावाभावेषु नैवास्मि तेन जीवाम्यनामयः ॥ ३५ ॥
भावाः कलानामिव वित्तादीनामुपचया अभावास्तत्क्षयाश्च त्रेषु नैवाभिनिविष्टोऽस्मि
॥ ३५ ॥
नाहमस्मि न चान्यो मे नाहमन्यस्य कस्यचित् ।
इति मे भावितं चित्तं तेन जीवाम्यनामयः ॥ ३६ ॥
अहं जगदहं व्योम देशकालक्रमावहम् ।
अहं क्रियेति मे बुद्धिस्तेन जीवाम्यनामयः ॥ ३७ ॥
घटश्चिच्चित्पटश्चित्खं चिद्वनं शकटं च चित् ।
चित्सर्वमिति मे भावस्तेन जीवाम्यनामयः ॥ ३८ ॥
किं सर्वत्र जाड्यमनपोह्यैवाहम्बुद्धिस्ते नेत्याह-घट इति ॥ ३८ ॥
इत्यहं मुनिशार्दूल त्रिलोककमलालिकः ।
भुशुण्डो नाम काकोलः कथितश्चिरजीवितः ॥ ३९ ॥
उपसंहरति-इतीति । मेरुकर्णिकावासित्वात् श्यामत्वाच्च त्रिलोककमलस्य अलिरिव अलिकः
॥ ३९ ॥
ब्रह्मार्णवे विलुलितं त्रिजगत्तरङ्गमुत्पादनाद्यभिभवेन विभिन्नरूपम् ।
आलीनमुन्नमितमाकुलदृश्यदृश्यमालोकयन्प्रकलयंश्च चिरं स्थितोऽस्मि
॥ ४० ॥
उत्पादनानि सर्गाः । आदिपदाद्वृद्धिविपरिणामापक्षयास्तल्लक्षणेनाभिभवेन
परस्परप्रतिघातेन विभिन्नानि वैचित्र्यं प्राप्तानि रूपाणि यस्य तत् । एवंरीत्या
पुनःपुनरुन्नमितमालीनं चाकुलं परिभ्रमत्साक्षिदृश्यबुद्धिमनैन्द्रियाणां
दृश्य जगद्व्युत्थानकाले आलोकयन् समाधिकाले प्रकलयन् विलापयंश्च चिरं
स्थितोऽस्मीत्यर्थः ॥ ४० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
भुशुं०चिरजीवितहेतुकथनं नाम षड्विंशः सर्गः ॥ २६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चिरजीवितहेतुकथनं नाम षड्विंशः सर्गः ॥ २६ ॥