०२५

पञ्चविंशः सर्गः २५

श्रीवसिष्ठ उवाच ।

इत्थं स कथयन्पक्षी पृष्टस्तत्र पुनर्मया ।
कीदृशी प्राणवातस्य गतिरित्येव राघव ॥ १ ॥

प्राणपानगतिष्वत्र रेचकादिप्रकल्पनम् ।
प्राणापानोदयलयस्थानं ब्रह्म च वर्ण्यते ॥

प्रश्नावसरप्रदानसूचितश्चिन्तनीयप्राणगतिप्रकारभेदो मया पृष्ट इत्याह##-

भुशुण्ड उवाच ।

जानन्नपि मुने सर्वं किं मां पृच्छसि लीलया ।
यथापृष्टमहं वच्मि शृणु तत्रापि मद्वचः ॥ २ ॥

प्राणोऽयमनिशं ब्रह्मन्स्पन्दशक्तिः सदागतिः ।
सबाह्याभ्यन्तरे देहे प्राणोऽयमुपरि स्थितः ॥ ३ ॥

एकः प्राणशब्दो रूढः अपरस्तु प्राणगतिरिति यौमिकस्तल्लक्षणपरः ।
लक्षणानुसारेणैवोर्ध्वस्थानमभिनीय दर्शयति-अयमुपरि स्थित इति ॥ ३ ॥

अपानोऽप्यनिशं ब्रह्मन्स्पन्दशक्तिः सदागतिः ।
सबाह्याभ्यन्तरे देहे त्वपानोऽयमवाक्स्थितः ॥ ४ ॥

एवमपानपदमप्येकं यौगिकं पूर्ववत्सर्वम् ॥ ४ ॥

जाग्रतः स्वपतश्चैव प्राणायामोऽयमुत्तमः ।
प्रवर्तते यतस्तज्ज्ञ तत्तावच्छ्रेयसे शृणु ॥ ५ ॥

एवं लक्षणतो भेदन्न् प्रदर्श्य तद्गतिष्वयत्नतः सदैव
प्राणायामत्वसिद्धिचिन्तनं दर्शयति-जाग्रत इत्यादिना ॥ ५ ॥

बाह्योन्मुखत्वं प्राणानं यद्धृदम्बुजकोटरात् ।
स्वरसेनास्तयत्नानां तं धीरा रेचकं विदुः ॥ ६ ॥

तत्र हृदयान्मूर्धपर्यन्तं प्रश्वासगत्यर्धमान्तररेचकत्वेन चिन्तनीयम् ।
मूर्धादिबहिर्द्वादशाङ्गुलपर्यन्तं त्वर्धं बाह्यपूरकत्वेनेत्याह-बाह्येति
द्वाभ्याम् ॥ ६ ॥

द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतामधः ।
प्राणानामङ्गसंस्पर्शो यः स पूरक उच्यते ॥ ७ ॥

बाह्यात्परापतत्यन्तरपाने यत्नवर्जितः ।
योऽयं प्रपूरणः स्पर्शो विदुस्तमपि पूरकम् ॥ ८ ॥

एवं बाह्याद्देशादपाने अन्तः परापतति प्रविशति यो नासाग्रादिमूर्धपर्यन्तो यश्च
मूर्धादिहृदयपर्यन्तो वायोः स्पर्शस्तं द्विविधमप्यन्तःपूरकः विदुरित्यर्थः ॥
८ ॥

अपानेऽस्तङ्गते पाणो यावन्नाभ्युदितो हृदि ।
तावत्सा कुम्भकावस्था योगिभिर्यानुभूयते ॥ ९ ॥

इदानीमन्तःकुम्भकं कल्पिताकल्पितसाधारण्येन लक्षयति-अपाने इति । अस्तङ्गते
प्रशान्ते सति ॥ ९ ॥

रेचकः कुम्भकश्चैव पूरकश्च त्रिधा स्थितः ।
अपानस्योदयस्थाने द्वादशान्तादधो बहिः ॥ १० ॥

बहिरपि च रेचकादीन्दर्शयितुमुपक्रमते-रेचक इत्यादिना । अपानस्योदयस्थाने
नासाग्राद्बहिर्द्वादशाङ्गुलपर्यन्ते ॥ १० ॥

स्वभावाः सर्वकालस्थाः सम्यग्यत्नविवर्जिताः ।
ये प्रोक्ताः स्फारमतिभिस्ताञ्छृणु त्वं महामते ॥ ११ ॥

स्वत एव भवन्तीति स्वभावा ये रेचकादयः प्रोक्ताः ॥ ११ ॥

द्वादशाङ्गुलपर्यन्ताद्बाह्यादभ्युदितः प्रभो ।
यो वातस्तस्य तत्रैव स्वभावात्पूरकादयः ॥ १२ ॥

अभ्युदितः अभिमुखं स्थितः । तस्य वातस्य । तत्र बाह्यप्रदेश एव ।
बाह्यपूरकादयश्चिन्तनीया इति शेषः ॥ १२ ॥

मृदन्तरस्थानिष्पन्नघटवद्या स्थितिर्बहिः ।
द्वादशाङ्गुलपर्यन्ते नासाग्रसमसम्मुखे ॥ १३ ॥

तत्र बाह्यवाय्वन्तरपानस्यैकीभावेन निश्चलप्रायां स्थितिं कुम्भकत्वेन
कल्पयति-मृदन्तरस्थेति सार्धेन ॥ १३ ॥

व्योम्नि नित्यमपानस्य तं विदुः कुम्भकं बुधाः ।
बाह्योन्मुखस्यवायोर्या नासिकाग्रावधिर्गतिः ॥ १४ ॥

तस्य पूर्वप्राणभावेन हृदयादारभ्य नासाग्रपर्यन्ता या गतिस्तां
बाह्यपूरकत्वेनापि कल्पयेदित्याह-बाह्योन्मुखस्येति ॥ १४ ॥

तं बाह्यपूरकं त्वाद्यं विदुर्योगविदो जनाः ।
नासाग्रादपि निर्गत्य द्वादशान्तावधिर्गतिः ॥ १५ ॥

ततो बहिर्गतिं बाह्यपूरकान्तरतयाकल्पयति-नासाग्रादिति ॥ १५ ॥

या वायोस्तं विदुर्धीरा अपरं बाह्यपूरकम् ।
बहिरस्तङ्गते प्राणे यावन्नापान उद्गतः ॥ १६ ॥

बहिरित्यादिः पूर्वोक्तानुवादः ॥ १६ ॥

तावत्पूर्णं समावस्थं बहिष्ठं कुम्भकं विदुः ।
यत्तदन्तर्मुखत्वं स्यादपानस्योदयं विना ॥ १७ ॥

बाह्यरेचकद्वयकल्पनप्रकारमाह-यत्तदिति । उदयं प्रस्पन्दं विना । तथा च
प्रस्पन्दपूर्वक्षणे यदन्तर्मुखत्वं प्रस्पन्दोन्मुखत्वं तमित्यर्थः ॥ १७ ॥

तं बाह्यरेचकं विद्याच्चिन्त्यमानं विमुक्तिदम् ।
द्वादशान्ताद्यदुत्थाय रूपपीवरता परा ॥ १८ ॥

द्वादशान्ताद्बाह्यद्वादशाङ्गुलचरमभागात् । नासाग्रपर्यन्तमपानस्य चलनेन
स्वरूपाभिव्यक्त्या पीवरता ॥ १८ ॥

अपानस्य बहिष्ठं तमपरं पूरकं विदुः ।
बाह्यानाभ्यन्तरांश्चैतान्कुम्भकादीननारतम् ॥ १९ ॥

प्राणापानस्वभावांस्तान्बुद्ध्वा भूयो न जायते ।
अष्टावेते महाबुद्धे रात्रिन्दिवमनुस्मृताः ॥ २० ॥

बुद्ध्वा उपास्य भूयो न जायत इत्यवश्यभाविज्ञानफलेन स्तुतिः-अष्टाविति ।
यद्यपि बहिरन्तश्च रेचकपूरकयोः प्रत्येकं द्वैविध्यकथनात्कुम्भकाभ्यां सह
दश भवन्ति तथापि कुम्भकयोः प्राधान्यादङ्गाष्टकाभिप्रायेणेयमुक्तिः ॥ २० ॥

स्वभावा देहवायूनां कथिता मुक्तिदा मया ।
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ॥ २१ ॥

एतदभ्यासात्प्राणनिरोधोऽपिकाले भवतीत्याह-गच्छत इति ॥ २१ ॥

एते निरोधमायन्ति प्रकृत्याऽतिचलानिलाः ।
यत्करोति यदश्नाति बुद्ध्यैवालमनुस्मरन् ॥ २२ ॥

कर्तृत्वभोक्तृत्वाभिमानोऽप्यनेन नश्यतीत्याशयेनाह-यत्करोतीति ॥ २२ ॥

कुम्भकादीन्नरः स्वान्तस्तत्र कर्ता न किञ्चन ।
अव्यग्रमस्मिन्व्यापारे बाह्यं परिजहन्मनः ॥ २३ ॥

बाह्यदृष्टिपरित्यागादन्तरात्मदर्सनोदयेन परमपदप्राप्तिरप्यनेन
सिद्ध्यतीत्याह-अव्यग्रमिति । अस्मिन् प्राणचिन्तनव्यापारे संसक्तमत एव
बाह्यमर्थ परिजहत्त्यजत् ॥ २३ ॥

दिनैः कतिपयैरेव पदमाप्नोति केवलम् ।
एतदभ्यसतः पुंसो बाह्ये विषयवृत्तिषु ॥ २४ ॥

न बध्नाति रतिं चेतः श्वदृतौ ब्राह्मणो यथा ।
एतां दृष्टिमवष्टभ्य ये स्थिताः कृतबुद्धयः ॥ २५ ॥

श्वदृतौ श्वचर्मभस्त्रायां तद्गतक्षीरादाविति यावत् ॥ २५ ॥

प्राप्तप्राप्तव्यमखिलं तैरखिन्नास्त एव हि ।
तिष्ठता गच्छता नित्यं स्वपता जाग्रता तथा ॥ २६ ॥

एषा चेत्प्रेक्ष्यते दृष्टिस्तन्न बन्धनमाप्यते ।
प्राणापानानुसरणप्राप्तबोधवतामलम् ॥ २७ ॥

प्राणापानयोरनुसरणमनुसारश्चिन्तनं तेन प्राप्तबोधवतां पुंसां
संशान्तमलमोहेन चित्तेन अन्तर्हृदयस्थे इह प्रत्यगात्मनि ॥ २७ ॥

संशान्तमलमोहेन स्वस्थेनान्तरिहोष्यते ।
सर्वारम्भान्सदा स्वच्छः कुर्वन्वापि बुधो जनाः ॥ २८ ॥

प्राणापानगतिं प्राप्य सुस्वस्थः सुखमेधते ।
प्राणस्याभ्युदयो ब्रह्मन्पद्मपत्राद्धृदि स्थितात् ॥ २९ ॥

प्राणस्याभ्युदय इत्यादिः पूर्वोक्तानुवादः ॥ २९ ॥

द्वादशाङ्गुलपर्यन्ते प्राणोऽस्तं यात्ययं बहिः ।
अपानस्योदयो बाह्याद्द्वादशान्तान्महामुने ॥ ३० ॥

अस्तङ्गतिरथाम्भोजमध्ये हृदयसंस्थिते ।
प्राणो यत्र समायाति द्वादशान्ते नभःपदे ॥ ३१ ॥

हृदयसंस्थिते अम्भोजमध्ये अस्तङ्गतिरपानस्येति शेषः । प्राणो यत्र
यस्मिन्नभःपदे समायाति समाप्यते ॥ ३१ ॥

पदात्तस्मादपानोऽयं खादेति समनन्तरम् ।
बाह्याकाशोन्मुखः प्राणो वहत्यग्निशिखा यथा ॥ ३२ ॥

तस्मात् खात् पदात् अपान एति उद्गच्छति । प्राणापानयोरग्नीषोमात्मकत्वं यदुक्तं
तदौष्ण्यशैत्योर्ध्वाधोमुखत्वप्रदर्शनेनोपपादयति-बाह्येत्यादिना ॥ ३२ ॥

हृदाकाशोन्मुखोऽपानो निम्ने वहति वारिवत् ।
अपानश्चन्द्रमा देहमाप्याययति बाह्यतः ॥ ३३ ॥

प्राणः सूर्योऽग्निरथवा पचत्यन्तरिदं वपुः ।
प्राणो हि हृदयाकाशं तापयित्वा प्रतिक्षणम् ॥ ३४ ॥

तयोः सूर्यचन्द्रात्मकता वा चिन्त्येत्याशयेन तामप्युपपादयति-प्राण इत्यादिना ॥
३४ ॥

मुखाग्रगगनं पश्चात्तापयत्युत्तमो रविः ।
अपानेन्दुर्मुखाग्रं तु प्लावयित्वा हृदम्बरम् ॥ ३५ ॥

पश्चादाप्याययत्येष निमेषसमनन्तरम् ।
अपानशशिनोऽन्तस्था कला प्राणविवस्वता ॥ ३६ ॥

कला चरमो भागः । यत्र यस्मिन्हार्दे ब्रह्मणि स्थित्वा ग्रस्ता तद्ब्रह्मासाद्य ॥ ३६ ॥

यत्र ग्रस्ता तदासाद्य पदं भूयो न शोच्यते ।
प्राणार्कस्य तथान्तस्था यत्रापानसितांशुना ॥ ३७ ॥

यत्र यस्मिन्द्वादशाङ्गुलपर्यन्तबाह्याकाशोपलक्षिते ब्रह्मणि विद्यमानेनापानेन
ग्रस्ता तद्ब्रह्मपदमासाद्येत्यर्थः ॥ ३७ ॥

ग्रस्ता तत्पदमासाद्य न भूयो जन्मभाङ्नरः ।
प्राण एवार्कतां याति सबाह्याभ्यन्तरेऽम्बरे ॥ ३८ ॥

एकस्यैव वायोः पर्यायेण शक्तिद्वयोदयश्चिन्तनीय इत्याह-प्राण एवेत्यादिना ॥ ३८

आप्यायनकरीं पश्चाच्छशितामधितिष्ठति ।
प्राण एवेन्दुतां त्यक्त्वा शरीराप्यायकारिणीम् ॥ ३९ ॥

आप्यायनमाप्यायो ह्लादनम् ॥ ३९ ॥

क्षणादायाति सूर्यत्वं संशोषणकरं पदम् ।
अर्कतां सम्परित्यज्य न यावच्चन्द्रतां गतः ॥ ४० ॥

तत्र बहिर्द्वादशाङ्गुलपर्यन्ते प्रसृतः प्राणो यावदर्कतामौष्ण्यन्न् परित्यज्य
चन्द्रतां शैत्यं न गतः सा प्राणापानयोः सन्ध्यवस्था । तस्यां देहाद्बहिः
प्राणलयादात्मनो निर्देहत्वनिष्क्रियत्वनिर्मनस्त्वादयो वास्तवस्वभावाः
सम्भावयितुं शक्यत्वाद्विचार्यन्ते । तत्र बाह्यकुम्भके
देहादिदेशपरिच्छेदाभावाच्चन्द्रसूर्यात्मकप्राणापानक्रियाप्रयुक्तायुः##-
॥ ४० ॥

प्राणस्तावद्विचार्यन्तेऽदेशकाले न शोच्यते ।
हृदि चन्द्रार्कयोर्ज्ञात्वा नित्यमस्तमयोदयम् ॥ ४१ ॥

एवमन्तःकुम्भकेऽपि हृदि प्राणापानसन्धौ प्रतिष्ठितस्य मनसो
निजाधिष्ठानपरमात्मतत्त्वबोधावश्यम्भावान्न जन्मादिप्रसक्तिरित्याह##-

आत्मनो निजमाधारं न भूयो जायते मनः ।
सोदयास्तमयं सेन्दुं सरश्मिं सगमागमम् ॥ ४२ ॥

आत्मनो मनसः आधारमधिष्ठानं परमात्मानम् । अथवा हृदयस्थः स्वात्मैव
प्राणसूर्यः स एवापानात्मकचन्द्रतया
उदयास्तमयतद्रश्मिभूतव्यानादिवृत्तिभेदाद्यात्मना विवर्तते न तद्व्यतिरिक्तः
कश्चिदस्तीत्युपासनं स्वात्मदर्शने हेतुरित्याह-सोदयास्तमयमिति ॥ ४२ ॥

हृदये भास्करं देवं यः पश्यति स पश्यति ।
न क्षीणं नापरिक्षीणं बहिष्ठं सिद्धये तमः ॥ ४३ ॥

ननु किं हृद्यात्मसाक्षात्कारेण बाह्यतमसा बहिरेवापरिच्छिन्नस्यात्मन
आवृतत्वात्तत्क्षयाय बाह्यज्योतिरेव किं नान्विष्यते तत्राह-नेति ॥ ४३ ॥

हार्दं तु क्षपयेद्ध्वान्तं यत्क्षये सिद्धिरुत्तमा ।
बाह्ये तमसि सङ्क्षीणो लोकालोकः प्रजायते ॥ ४४ ॥

हार्दं त्विति । बाह्यध्वान्तकल्पनापि हार्दध्वान्तवशादेवेति तत्क्षये
तत्क्षयोऽर्थसिद्ध इति भावः । बाह्यज्योतिषा बाह्यतमःक्षपणं तु
रूपादिदर्शनहेतुरेव न बहिरात्मदर्शने हेतुरित्याशयेनाह-बाह्ये इति । लोक्यत इति
लोको जगद्रूपम् ॥ ४४ ॥

हार्दे तु तमसि क्षीणे स्वालोको जायते मुने ।
हार्दान्धकारक्षयदं परिज्ञातं विमुक्तिदम् ॥ ४५ ॥

सोदयास्तमयं यत्नात्प्राणार्कमवलोकयेत् ।
अपानेन्दुः प्रयात्यस्तं यत्र हृत्पद्मकोटरे ॥ ४६ ॥

उक्ते बाह्यान्त। कुम्भकप्रतिष्ठे प्ररोचनाय प्रपञ्चयिष्यन् भूमिकां रचयति##-

पदात्तस्मादुदेत्यन्तः प्राणार्को बहिरुन्मुखः ।
अपानेऽस्तङ्गते प्राणः समुदेति हृदम्बुजात् ॥ ४७ ॥

छायायां गलिताङ्गायां तत्रैवाशु यथातपः ।
प्राणे त्वस्तङ्गते बाह्यादपानः प्रोदितः क्षणात् ॥ ४८ ॥

आतपे परितो नष्टे छायेवानुपदं तथा ।
प्राणजन्मावनौ नष्टमपानं विद्धि सन्मते ॥ ४९ ॥

अपानजन्मभूमौ च प्राणं नष्टमवेहि हि ।
अस्तङ्गतवति प्राणे त्वपानेऽभ्युदयोन्मुखे ॥ ५० ॥

उदयोन्मुखतैव निरोद्धव्येत्याशयः ॥ ५० ॥

बहिः कुम्भकमालम्ब्य चिरं भूयो न शोच्यते ।
अपानेऽस्तङ्गते प्राणे किञ्चिदभ्युदयोन्मुखे ॥ ५१ ॥

अन्तःकुम्भकमालम्ब्य चिरं भूयो न शोच्यते ।
प्राणरेचकमालम्ब्य अपानाद्दूरकोटिगम् ॥ ५२ ॥

अपानादपानोदयस्थानाद्द्वादशाङ्गुलस्थानाद्दूरकोटिगं
षोडशा"ण्गुलभागप्रसारिणमित्यर्थः ॥ ५२ ॥

स्वच्छं कुम्भकमभ्यस्य न भूयः परितप्यते ।
अपाने रेचकाधारं प्राणपूरान्तरास्थितम् ॥ ५३ ॥

निःशेषवायुरेचनात्स्वच्छम् । नासाविवरेणान्तः प्रविशत्यपाने बाह्यरेचकाधारं
प्राणस्य पूरणं प्राणपूरस्तदर्थमन्तः आस्थितं प्रविष्टं स्वसंस्थं
देहान्तर्गतं पूरकं दृष्ट्वा उपास्य ॥ ५३ ॥

स्वसंस्थं पूरकं दृष्ट्वा न भूयो जायते नरः ।
प्राणापानावुभावन्तर्यत्रैतौ विलयं गतौ ॥ ५४ ॥

यत्र हार्दे ब्रह्मणि ॥ ५४ ॥

तदालम्ब्य पदं शान्तमात्मानं नानुतप्यते ।
प्राणभक्षोन्मुखेऽपाने देशं कालं च निष्कलम् ॥ ५५ ॥

इदानीम् अर्कतां सम्परित्यज्य न यावच्चन्द्रतां गतः इत्यत्र अदेशकालेन शोच्यते इति
यदुक्तं तद्विवृण्वन् बाह्यकुम्भकोक्तस्य
देशकालबाधस्यान्तःकुम्भकेऽप्यनुकर्षं दर्शयति-प्राणभक्षोन्मुख
इत्यादिना । बहिः प्राणलयाधिष्ठानचिति अन्तः प्राणनिगमापादानचिति वा बाधेन
देशं कालं चात्तदन्तर्वर्तिवस्तुजातं च निष्कलं चिन्मात्रमेवेति विचार्येत्यर्थः ॥ ५५

विचार्य बहिरन्तर्वा न भूयः परिशोच्यते ।
अपानभक्षणपरे प्राणे हृदि तथा बहिः ॥ ५६ ॥

देशं कालं च सम्प्रेक्ष्य न भूयो जायते मनः ।
यत्र प्राणो ह्यपानेन प्राणेनापान एव च ॥ ५७ ॥

निगीर्णौ बहिरन्तश्च देशकालौ च पश्यतौ ।
क्षणमस्तङ्गतप्राणमपानोदयवर्जितम् ॥ ५८ ॥

देशकालौ प्राणापानाभ्यां सहैव निगीर्णाविति पश्येत्यर्थः ।
तादृशावस्थाप्राणापानसन्धिक्षणे सर्वप्राणिनामप्यस्ति योगिनस्तु तद्विदुर्नान्ये
इत्याह-क्षणमित्यादिना ॥ ५८ ॥

अयत्नसिद्धबाह्यस्थं कुम्भकं तत्पदं विदुः ।
अयत्नसिद्धो ह्यन्तस्थकुम्भकः परमं पदम् ॥ ५९ ॥

विदुः । योगिन इति शेषः ॥ ५९ ॥

एतत्तदात्मनो रूपं शुद्धैषा परमैव चित् ।
एतत्तत्तत्सदाभासमेतत्प्राप्य न शोच्यते ॥ ६० ॥

पुष्पस्यान्तरिवामोदः प्राणस्यान्तरवस्थितम् ।
न स प्राणं न वाऽपानं चिदात्मानमुपास्महे ॥ ६१ ॥

एवं क्रियाभेदभिन्नप्राणचिन्ताप्रकारमुक्त्वा तन्निरूढ्यनन्तरं
प्राणापानाद्यान्तरतदधिष्ठानचिदात्मोपासनं कर्तव्यमित्याशयेनाह##-
किं प्राणलयोपलक्षितोऽपानात्मा सः नेत्याह-न वाऽपानमिति । तथा च
तत्परिचयार्थं प्राणस्यान्तरवस्थितमित्युक्तं नतूपासनोपाधितयेति भावः ॥ ६१ ॥

जलस्यान्तरिवास्वादमपानस्यान्तरस्थितम् ।
न सप्राणन्न् न वाऽप्राणं [न वाऽपानं इति पाठश्चिन्त्यः]
चिदात्मानमुपास्महे ॥ ६२ ॥

आस्वाद्यत इत्यास्वादो माधुर्यमिव । सप्राणं सजीवम् । अप्राणं निर्जीवम् ॥ ६२ ॥

प्राणक्षयस्योपान्तस्थमपानक्षयकोटिगम् ।
अपानप्राणयोर्मध्यं चिदात्मानमुपास्महे ॥ ६३ ॥

प्राणस्य प्राणनं प्रोच्चैः परं जीवस्य जीवनम् ।
देहस्य धारणं धुर्यं चिदात्मानमुपास्महे ॥ ६४ ॥

प्राणस्येति । स उ प्राणस्य प्राणः इत्यादिशुतेः । प्राणनादिव्यापारे निमित्तमिति
सर्वपर्यायार्थः ॥ ६४ ॥

मनसो मननं सत्यं बुद्धेरेकावबोधनम् ।
अहङ्कृतेरहङ्कारं चिदात्मानमुपास्महे ॥ ६५ ॥

यस्मिन्सर्व यतः सर्वं यत्सर्वं सर्वतश्च यत् ।
यच्च सर्वमयं नित्यं तच्चित्तत्त्वमुपास्महे ॥ ६६ ॥

आलोकालोकनं पुण्यं सर्वपावनपावनम् ।
न च भावनमन्नूनं तच्चित्तत्वमुपास्महे ॥ ६७ ॥

आलोकालोकनं ज्योतिषो ज्योतिः । भावैर्मनोबुद्ध्यादिविकारैर्नमत् नम्रीभवत्
पूर्वस्वभावात्प्रच्यवत् न च । नूनमिति निश्चये ॥ ६७ ॥

(अपानोऽस्तं [प्रक्षिप्तोऽयं क्वचित्पठ्यते ।] गतो यत्र प्राणो
नाभ्युदितः क्षणम् ।
कलाकलङ्करहितं तच्चित्तत्त्वमुपास्महे ॥)
नापानोऽभ्युदितो यत्र प्राणश्चान्तमुपागतः ।
नासाग्रगगनावर्तं तच्चित्तत्त्वमुपास्महे ॥ ६८ ॥

नासाग्रोपलक्षितद्वादशाङ्गुलप्रदेशगगनं आवर्तः
प्राणापानप्रवाहसन्धिर्यस्य । विरुद्धप्रवाहद्वयसन्धौ ह्यावर्ता भवन्ति ॥ ६८ ॥

यत्र प्राणोऽस्तमायाति यत्रापानोऽस्तमेति च ।
यत्र द्वावप्यनुत्पन्नौ तच्चित्तत्त्वमुपास्महे ॥ ६९ ॥

इदानीं बाह्यान्तः प्रदेशोपाधिभेदमपहाय यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति
। तं देवाश्चक्रिरे धर्म स एवाद्य स उ श्व एतद्वै तत् इति श्रुत्यर्थ मनसिकृत्वाह##-

प्राणापानोद्भवस्थाने बाह्याभ्यन्तरमास्थिते ।
ये द्वे योगिपदाधारस्तच्चित्तत्त्वमुपास्महे ॥ ७० ॥

ये द्वे प्राणापानोद्भवस्थाने योगिभिः पद्येते गम्येते इति पदे
तदाधारस्तदधिष्ठानं यच्चित्तत्त्वं तदित्यर्थः ॥ ७० ॥

प्राणापानरथारूढं प्राणापानमनाततम् ।
यच्छक्तिरूपं शक्तीनां तच्चित्तत्त्वमुपास्महे ॥ ७१ ॥

यत्प्राणापानोपाधिरथारूढमनाततं परिच्छिन्नं सत् प्राणापानसमाहारः
प्राणनापाननशक्तिर्भवति एवं करणान्तरशक्तीनामपि यच्छक्तिरूपं
भवतीत्यर्थः ॥ ७१ ॥

हृत्प्राणकुम्भकं देवं बहिश्चापानकुम्भकम् ।
पूरकांशविसृष्टं यत्तच्चित्तत्त्वमुपास्महे ॥ ७२ ॥

प्राणापानकुम्भकभावेन तत्तद्विसर्गरेचकादिभावेन च तदेव विवर्तत इति
तदेवोपास्यमित्याह-हृदिति ॥ ७२ ॥

प्राणापानपरामर्शं सत्ताबोधं विरूपकम् ।
यत्प्राप्यं प्राणमननात्तच्चित्तत्त्वमुपास्महे ॥ ७३ ॥

प्राणापानयोः परामर्शश्चालनं तस्मिन्निमित्तभूतं तत्सत्ताबोधरूपं
चेत्यर्थः । एवं प्राणोपास्तिफलमपि तदेवेत्युपास्यमित्याह-यत्प्राप्यमिति ॥ ७३ ॥

यत्प्राणपवनस्पन्दो यत्स्पन्दानन्दकारकम् ।
कारणं कारणानां यत्तच्चित्तत्त्वमुपास्महे ॥ ७४ ॥

इन्द्रियाणां विषयप्रदेशोपसर्पणं स्पन्दस्तदुपभोगश्चानन्दस्तयोः कारणम् ॥
७४ ॥

यदखिलकलनाकलङ्कहीनं परिवलितं च सदा कलागणेन ।
स्वनुभवविभवं पदं तदग्र्यं सकलसुरप्रणतं परं प्रपद्ये ॥ ७५ ॥

अखिलकलनाकलङ्कहीनं परमार्थतः । आपातदर्शिदृशा तु सदा जीवोपाधिभूतेन
प्राणादिषोडशकलागणेन परिवलितं वेष्टितम् । सम्यगनुभवः स्वनुभवः स एव
विभवो निरतिशयैश्वर्य यस्य तथाविधं परमात्मपदमुक्तप्रकारेण प्रपद्ये
उपासे इत्यर्थः ॥ ७५ ॥

इत्यार्षे श्रीवा० रामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
भुशुण्डोपाख्याने समाधिवर्णनं नाम पञ्चविंशः सर्गः ॥ २५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
समाधिवर्णनं नाम पञ्चविंशः सर्गः ॥ २५ ॥