०२४

चतुर्विंशः सर्गः २४

भुशुण्ड उवाच ।

एकैव केवला दृष्टिर्निरापाया गतभ्रमा ।
विद्यते सर्ववित्त्वेषु सर्वश्रेष्ठा समुन्नता ॥ १ ॥

देहनाडीक्रमोपेता षट्चक्रहृदयान्विता ।
प्राणस्पन्दविभागाढ्या प्राणचिन्तेह वर्ण्यते ॥

यदि जगति न किञ्चिच्छोभनं स्थिरं तर्हि किं तच्छोभनं स्थिरं च यत्र
विवेकिनश्चित्तविश्रान्तिस्तदाह-एकैवेत्यादिना । सर्वेषु वित्त्वेषु ज्ञानेषु मध्ये
सर्वाशे श्रेष्ठा समुन्नता । सहसा दुरारोहेति यावत् ॥ १ ॥

आत्मचिन्ता समस्तानां दुःखानामन्तकारिणी ।
चिरसम्भृतदुःस्वप्नसंसारभ्रमहारिणी ॥ २ ॥

आत्मचिन्ता साक्षात्कारपर्यन्त आत्मविचारः । चिरमनादिकालादारभ्य
कामकर्मवासनासम्भूतस्य दुःस्वप्नकल्पस्य संसारभ्रमस्य हरणशीला ॥ २ ॥

निष्कलङ्कमनोमार्गविपुलाङ्गणचारिणी ।
तथा समस्तदुःखानां चिन्तानर्थविनाशिनी ॥ ३ ॥

निरस्तमायदिकलङ्का प्रत्यक्प्रवणं मन एव मार्गो यत्र तथाविधे
मनसोऽप्यमार्गे अगम्ये वा निरतिशयभूमानन्दलक्षणे प्रत्यगात्माङ्गणे
सञ्चरणशीला । तथा उपस्थितसर्वदुःखानां
भाविदुःखानुसन्धानप्रयुक्तचिन्तादिसर्वानर्थानां च विनाशिनी ॥ ३ ॥

ज्योत्स्नयेवान्धकाराणामलमन्तः प्रजायते ।
सा स्वात्मचिन्ता भगवन्सर्वसङ्कल्पवर्जिता ॥ ४ ॥

अन्धकाराणां तत्कार्यभ्रान्तिभिः सह परिगणनाद्बहुवचनम् । अलमत्यन्तमन्तो
नाशस्तयेति शेषः ॥ ४ ॥

युष्मदादिषु सुप्रापा दुष्प्रापैवास्मदादिषु ।
समस्तकलनातीतं परां कोटिमुपागतम् ॥ ५ ॥

दुष्प्रापैवेत्यवधारणे हेतुमाह-समस्तेत्यादिना ॥ ५ ॥

पदमासादयन्त्येतत्कथं सामान्यबुद्धयः ।
आत्मचिन्ताविलासिन्यास्तस्याः सख्यो महामुने ॥ ६ ॥

सामान्यबुद्धयः अविशुद्धप्राकृतबुद्धयः । तर्हि सा तव कथं सुलभा जातेति
चेत्तत्सखीसमाश्रयणादित्याशयेन प्राणचिन्तां वर्णयितुं पीठिकां रचयति##-

किञ्चित्साम्यमुपायाता विज्ञानशशिशीतलाः ।
आत्मचिन्तासमानानां विविधानां मुनीश्वर ॥ ७ ॥

आत्मचिन्तावयस्यानां मध्यादेकतमा मया ।
सर्वदुःखक्षयकरी सर्वसौभाग्यवर्धिनी ॥ ८ ॥

कारणं जीवितस्येह प्राणचिन्ता समाश्रिता ।

श्रीवसिष्ठ उवाच ।

इत्युक्तवन्तं विहगं भुशुण्डं पुनरप्यहम् ।
जानन्नपीदमव्यग्रः पृष्टवान्क्रीडया मुनिम् ॥ ९ ॥

रीडया कौतुकेन ॥ ९ ॥

सर्वसंशयविच्छेदिन्नत्यन्तचिरजीवित ।
यथार्थं ब्रूहि मे साधो प्राणचिन्ता किमुच्यते ॥ १० ॥

किं कीदृशी ॥ १० ॥

भुशुण्ड उवाच ।

सर्ववेदान्तवेत्तासि सर्वसंशयनाशकः ।
मामेतत्परिहासार्थं मुने पृच्छसि वायसम् ॥ ११ ॥

अथवा भवतामेव भगवन्परिशिक्षितुम् ।
पुनः प्रत्युत्तराणीदं का मे क्षतिरुपस्थिता ॥ १२ ॥

भवतां पूज्यानां युष्मदादीनां सन्निधौ इदं प्राणदर्शनं परिशिक्षितुं
विशेषतः परिज्ञातुं पुनः प्रत्युत्तराणि । त्वत्प्रश्नस्य प्रत्युत्तरं वदानि ।
लोडुत्तमः ॥ १२ ॥

भुशुण्डजीवितकरं भुशुण्डस्वात्मलाभदम् ।
शृणु प्राणसमाधानं वक्ष्यमाणमिदं मया ॥ १३ ॥

देहगेहवर्णनक्रमेण वक्ष्यमाणम् ॥१३ ॥

पश्येदं भगवन्सर्वं देहगेहं मनोरमम् ।
त्रिप्रकारमहास्थूणं नवद्वारसमावृतम् ॥ १४ ॥

वातपित्तकफलक्षणत्रिप्रकारा महान्तः स्थूणा विष्टम्भकाष्ठानि यस्य ॥ १४ ॥

पुर्यष्टककलत्रेण तन्मात्रस्वजनेन च ।
अहङ्कारगृहस्थेन सर्वतः परिपालितम् ॥ १५ ॥

पुर्यष्टकं प्राग्वाख्यातम् । तत्पुर्यष्टकमात्रं स्वजना बान्धवाश्च यस्य ॥ १५ ॥

अन्तः पश्यसि सत्कर्णशष्कुलीचन्द्रशालिकम् ।
शिरोरुहाच्छादनवद्विपुलाक्षिगवाक्षकम् ॥ १६ ॥

अन्तः साक्षितया त्वं मया वर्ण्यमानं देहगेहं पश्यसि साक्षादनुभवसि । सत्यौ
कर्णशष्कुलीद्वयलक्षणे चन्द्रशालिके शिरोगृहे यस्मिन् । शिरोरुहैः
केशैराच्छादनवत् ॥ १६ ॥

आस्यप्रधानसुद्वारं भुजपार्श्वोपमन्दिरम् ।
दन्तालिकेसरस्रग्भिर्भूषितद्वारकोटरम् ॥ १७ ॥

भुजौ पार्श्वे च उपमन्दिराणि मन्दिरपक्षभागा यस्य ।
दन्तालिर्दन्तपङ्क्तिस्तल्लक्षणकेसरमालाभिर्भूषितं प्रधानद्वारबिलं यस्य ॥ १७ ।

अनारतं रूपरसस्पर्शनद्वारपालवत् ।
सङ्कुलालोकवलितं तारालिन्दकृतस्थिति ॥ १८ ॥

रूपरसग्रहणं सर्वबाह्यविषयोपलक्षणम् । तान् स्पर्शयन्ति अन्तर्निवेदयन्ति यानि
ज्ञानेन्द्रियाणि तल्लक्षणद्वारपालवत् । तत्र त्वचः सर्वाङ्गव्याप्त्या
सर्वद्वारपालत्वमिति अधोद्वारयोरपि तद्वत्त्वं बोध्यम् । सर्वत्र सङ्कुलेन
लिङ्गदेहव्याप्तिद्वारा व्याप्तेन आत्मालोकेन वलितं व्याप्तम् । विशेषतश्च जागरे तारे
अक्ष्णोः कनीनिके तल्लक्षणयोरलिन्दयोरूर्ध्वतमद्वारप्रकोष्ठयोः कृता
स्वामिस्थितिर्यस्मिन् । इन्धो ह वै नामैष योऽयं दक्षिणेक्षन्पुरुषः नेत्रस्थं जाग्रतं
विद्यात् इति श्रुतेरिति भावः ॥ १८ ॥

रक्तमांसवसाधिग्धं स्नायुसन्ततिवेष्टितम् ।
स्थूलास्थिकाष्ठसम्बद्धं सुकुड्यं सुसमाहितम् ॥ १९ ॥

रक्तमांसवसाभिर्वारिमृद्गोमयैरिव दिग्धमुपलेपेनोपचितम् । स्नायवः
शिरास्तत्सन्ततिभिर्वेष्टितं रुद्धम् । अत एव सुकुड्यम् ॥ १९ ॥

इडा च पिङ्गला चास्य देहस्य मुनिनायक ।
सुस्थिते कोमले मध्ये पार्श्वकोष्ठे निमीलिते ॥ २० ॥

अस्य देहस्य मध्ये इडा पिङ्गला चेति द्वे कोमले सूक्ष्मे नाड्यौ
वामदक्षिणपार्श्वकोष्ठे निमीलिते अनभिव्यक्ते नासापुटयोः
प्राणसञ्चारलिङ्गेनाभिव्यक्ते सुस्थिते ॥ २० ॥

पद्मयुग्मत्रयं यन्त्रमस्थिमांसमयं मृदु ।
ऊर्ध्वाधोनालमन्योन्यमिलत्कोमलसद्दलम् ॥ २१ ॥

तत्र सर्वप्राणशक्तीनामाश्रयभूतं
द्वासप्ततिसहस्रसङ्ख्याकनाडीप्रभेदमूलजालकं पुरीतन्नामकं
सम्पुटितसनालपद्मयुग्मत्रयाकारं हृत्पद्मयन्त्रत्रयन्न् दर्शयति##-
सम्पुटीभावेन मिलत्कोमलसद्दलमत एव यन्त्रं प्रत्येकं यन्त्राकारम् ॥ २१ ॥

सेकेन विकसत्पत्रं सकलाकाशचारिणा ।
चलन्ति तस्य पत्राणि मृदु व्याप्तानि वायुना ॥ २२ ॥

नासाग्रादिपादान्तसकलदेहाकाशचारिणा चन्द्राख्यापानवाय्वमृतसेकेन विकसन्ति
पत्राणि दलानि यस्यतत् । एवं प्राणसञ्चारेण पत्राणि ईषत्सङ्कुचन्तीत्यर्थाद्गम्यते ।
अत एव तस्य यन्त्रस्य पत्राणि प्राणापानवायुना व्याप्तानि सन्ति मृदु चलन्ति
प्रत्युच्छ्वासनिःश्वासमीषत्सङ्कुचन्ति विकसन्ति चेत्यर्थः ॥ २२ ॥

चलत्सु तेषु पत्रेषु स मरुत्परिवर्धते ।
वाताहते लतापत्रजाले बहिरिवाभितः ॥ २३ ॥

किं ततस्तत्राह-चलत्स्विति । परिवर्धते परितः
प्रसारात्पुरीतत्सम्बद्धसर्वनाडीच्छिद्रेषु प्रविश्य बहुलीभवतीत्यर्थः । यथा
बहिररण्यादौ लतापत्रजाले वातेनाहते सति वायुः परितः प्रसरति तद्द्वदित्यर्थः ॥ २३ ॥

वृद्धिं नीतः स नाडीषु कृत्वा स्थानमनेकधा ।
ऊर्ध्वाधोवर्तमानासु देहेऽस्मिन्प्रसरत्यथ ॥ २४ ॥

एवं वृद्धिं नीतः स
हृदयपायुनाभिकण्ठसर्वाङ्गलक्षणमनेकधास्थानं कृत्वा कल्पयित्वा
प्राणादिपञ्चसञ्ज्ञः सन् ऊर्ध्वाधोवर्तमानासु द्विसप्ततिसहस्रप्रतिशाखासु
एकोत्तरशतनाडीषु प्रविश्य देहे प्रसरतीत्यर्थः ॥ २४ ॥

प्राणापानसमानाद्यैस्ततः स हृदयानिलः ।
सङ्केतैः प्रोच्यते तज्ज्ञैर्विचित्राचारचेष्टितैः ॥ २५ ॥

तदेवाह-प्राणेति ॥ २५ ॥

हृत्पद्मयन्त्रत्रितये समस्ताः प्राणशक्तयः ।
ऊर्ध्वाधः प्रसृता देहे चन्द्रबिम्बादिवांशवः ॥ २६ ॥

तैः प्राणैः सह प्राणशक्तीनामपि सर्वाङ्गे प्रसरं दर्शयति-हृत्पद्मेति ॥
२६ ॥

यान्त्यायानित् विकर्षन्ति हरन्ति विहरन्ति च ।
उत्पतन्ति पतन्त्याशु ता एताः प्राणशक्तयः ॥ २७ ॥

तासामन्नरसस्य देहव्यापनाय नाडीषु व्यापारमाह-यान्तीति ॥ २७ ॥

स एष हृत्पद्मगतः प्राण इत्युच्यते बुधैः ।
अस्य काचिन्मुने शक्तिः प्रस्पन्दयति लोचने ॥ २८ ॥

हृदयमेव मुख्यस्थानं प्राणस्यैव मुख्यता अन्ये तद्वृत्तिमेदास्तद्द्वारेण
प्राण एव सर्वशरीरेन्द्रियादिचेष्टाः शक्तिभेदैः करोतीत्याह-स एष इत्यादिना ॥ २८

काचित्स्पर्शमुपादत्ते काचिद्वहति नासया ।
काचिदन्नं जरयति काचिद्वक्ति वचांसि च ॥ २९ ॥

बहुनात्र किमुक्तेन सर्वमेव शरीरके ।
करोति भगवान्वायुर्यन्त्रेहामिव यान्त्रिकः ॥ ३० ॥

यन्त्रेहां प्रतिमादियन्त्रस्य नृत्यादिचेष्टाम् । यान्त्रिको यन्त्रसूत्रधारः ॥ ३० ॥

तत्रोर्ध्वाधोद्विसङ्केतौ प्रसृतावनिलौ मुने ।
प्राणापानाविति ख्यातौ प्रकटौ द्वौ वरानिलौ ॥ ३१ ॥

ऊर्ध्वगमनमधोगमनमिति द्विविधसङ्केतवन्तौ ॥ ३१ ॥

तयोरनुसरन्नित्यं मुने गतिमहं स्थितः ।
शीतोष्णवपुषोर्नित्यं नित्यमम्वरपान्थयोः ॥ ३२ ॥

एवं सर्वमौपोद्धातिकमुपवर्ण्य स्वयं क्रियमाणां प्राणचिन्तां दर्शयति##-
त्वाध्यात्मिकपरिच्छेदत्यागेनाधिदैविकसूत्रात्मरूपतदात्मभावधारणया
आसङ्गपाप्मदूषितसर्वेन्द्रियव्रतपरित्यागे तन्मात्रव्रताचरणम् ।
वागादीन्द्रियाणां हि वचनादिस्वस्वविषयव्यसनिताव्रतं तच्चासङ्गपाप्मदूषितमिति
श्रमलक्षण मृत्युना भग्नम् । प्राणस्य तु मुखनासिकादिस्थानेषु सञ्चरणमेव
व्रतं तच्च न विषयासङ्गदूषितमिति न श्रमात्मना भज्यत इति प्राण एवैको
व्रतभङ्गशून्यो मृत्युना न ग्रस्यते ।
अतस्तदात्मताधारणतद्व्रतमात्राचरणलक्षणात्प्राणचिन्तनात्स्वस्य
जितमृत्युतेत्याशयः । इयं च प्राणचिन्ता प्राणव्रतधारणसहिता बृहदारण्यके
अथातो व्रतमीमांसा इत्यादिना तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च
नेत्पाप्मा मृत्युराप्नुवत् इति यद्युचरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यन्न्
सलोकतां जयति इत्यन्तेन ग्रन्थेन प्रपञ्चिता तत एवावगन्तव्या ।
तयोरुपासनीयगुणान्तराण्यप्याह-शीतोष्णवपुषोरित्यादिना ॥ ३२ ॥

कलेवरमहायन्त्रवाहयोः श्रमहीनयोः ।
हृदाकाशार्कशशिनोस्त्वग्नीषोमस्वरूपयोः ॥ ३३ ॥

श्रमहीनयोरिति । तानि मृत्युः श्रमो भूत्वोपयेमे अथेममेव नाप्नोद्योयं
मध्यमः प्राणः इति श्रुतेरिति भावः ॥ ३३ ॥

शरीरपुरपालस्य मनसो रथचक्रयोः ।
अहङ्कारनृपस्यास्य प्रशस्येष्टतुरङ्गयोः ॥ ३४ ॥

तयोर्ममानुसरतः प्राणापानाभिधानयोः ।
गतिं शरीरमरुतोराशरीरमरुद्धयोः ॥ ३५ ॥

आशरीरं यावज्जीवमरुद्धयोरविच्छिन्नोपासनयोः । तथाच प्राक् श्रुतिरुदाहृता
यद्युच्चरेत्समापिपयिषेत् इति । न विच्छिन्द्यादिति हि तदर्थः ॥ ३५ ॥

जाग्रत्स्वप्नसुषुप्तेषु सदैव समरूपयोः ।
सुषुप्तसंस्थितस्येव ब्रह्मन् गच्छन्ति वासराः ॥ ३६ ॥

समरूपयोरिति । अभ्यासातिशयेन बहिरन्तश्च
द्वादशषोडशाङ्गुलप्रदेशमात्रपरिमितसञ्चारयोरित्यर्थः ॥ ३६ ॥

सहस्रविनिकृत्ताङ्गाद्विसतन्तुलवादपि [विनिभक्ताङ्गा इति पाठः ।] ।
दुर्लक्ष्या विद्यमानापि गतिः सूक्ष्मतराऽनयोः ॥ ३७ ॥

प्राणायामाभ्यासात्तयोः सूक्ष्मतमत्वापादनाच्च
नोत्क्रमणादिप्रसक्तिरित्याशयेनाह-सहस्रेति । अथवा
नाड्यन्तःसञ्चारोऽनयोर्मुखनासिकासञ्चार इव कुतो न लक्ष्यते तत्राह-सहस्रेति ।
यथा केशः सहस्रधा भिन्नस्तावतानिम्ना तिष्ठति इति
श्रुतेर्नाडीनामेवातिसूक्ष्मत्वाहुर्लक्षत्वे तदन्तरनयोर्गतिः सुतरां
दुर्लक्ष्येत्याशयः ॥ ३७ ॥

अविरतगतयोर्गतिं विदित्वा हृदि मरुतोरनुसृत्य चोदितां ताम् ।
न पुनरिह हि जायते महात्मन्मुदितमनाः पुरुषः प्रणष्टपाशः ॥ ३८ ॥

वर्णितां प्राणचिन्तां वर्णयिष्यमाणप्रकारप्रश्नस्यावसरं
सूचयन्नुपसंहरति-अविरतेति । हृदि हृदयादिस्थानेष्वविरतं गतं सञ्चारो
ययोस्तयोर्मरुतोः प्राणापानयोश्चोदितां नानाश्रुतिषु तत्तत्प्राणोपास्तिप्रकरणे
अनेकधा विहितां निर्दोषत्वगतश्रमत्वाभग्नव्रतत्वसंवर्गाद्यनेकगुणविशिष्टां
गतिमनुसृत्यवक्ष्यमाणप्रकारेणोपास्य प्रणष्टमृत्युपाशः सन्
पुरुषस्तत्त्वज्ञानेन जीवन्मुक्तो भूत्वा इह संसारे पुनर्न जायत इत्यर्थः । हिशब्दः
प्राणाद्युपास्तीनामपि निष्कामानुष्ठितानां ज्ञानद्वारा मुक्तिहेतुत्वं श्रुतिषु
प्रसिद्धमिति द्योतनार्थः ॥ ३८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाण० प्र० पू०
भुशुण्डोपाख्याने प्राणविचारणं नाम चतुर्विंशः सर्गः ॥ २४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
प्राणविचारणं नाम चतुर्विंशः सर्गः ॥ २४ ॥