त्रयोविंशः सर्गः २३
श्रीवसिष्ठ उवाच ।
अथासौ वायसश्रेष्ठो जिज्ञासार्थमिदं मया ।
भूयः पृष्टो महाबाहो कल्पवृक्षलताग्रके ॥ १ ॥
त्यक्तेषु येषु दोषेषु नरं मृत्युर्न बाध्यते ।
यत्परं च मनः कार्यं तत्सर्वमिह कीर्त्यते ॥
इदं वक्ष्यमाणम् । प्रच्छेर्गौणे कर्मणि क्तः ॥ १ ॥
चरतां जगतः कोशे व्यवहारवतामपि ।
कथं विहगराजेन्द्र देहं मृत्युर्न बाधते ॥ २ ॥
कथं कीदृशदोषत्यागगुणार्जनप्रकारेण ॥ २ ॥
भुशुण्ड उवाच ।
जानन्नपि हि सर्वज्ञ ब्रह्मञ्जिज्ञासयेव माम् ।
पृच्छसि प्रभवो नित्यं भृत्यं वाचालयन्ति हि ॥ ३ ॥
वाचालयन्ति मुखरयन्ति । मृत्यवाक्पटुतां प्रश्नमुखेन ख्यापयन्तीति यावत् ॥ ३ ॥
तथापि यत्पृच्छसि मां तत्ते प्रकथयाम्यहम् ।
आज्ञाचरणमेवाहुर्मुख्यमाराधनन्न् सताम् ॥ ४ ॥
दोषमुक्ताफलप्रोक्ता वासनातन्तुसन्ततिः ।
हृदि न ग्रथिता यस्य मृत्युस्तं न जिघांसति ॥ ५ ॥
तत्र सर्वदोषाधारवासनानाश एव मुख्यो मृत्युतरणोपाय इत्याह-दोषेति ।
यथा त्यक्तहाराद्याभरणन्न् चोरा न जिघांसन्ति तद्वदित्यर्थाद्गम्यते ॥ ५ ॥
निःश्वासवृक्षक्रकचाः सर्वदेहलताघुणाः ।
आधयो यं न भिन्दन्ति मृत्युस्तं न जिघांसति ॥ ६ ॥
निःश्वासलक्षणा देहवृक्षच्छेदनाः क्रकचा येभ्यः । सर्वासां देहलतानां
देहवृक्षशाखाभूतहस्तपादादीनां घुणाः काष्ठकीटभूताः आधयो मनो
व्यथाः ॥ ६ ॥
शरीरतरुसर्पौघाश्चिन्तार्पितशिरःफणाः ।
आशा यं न दहन्त्यन्तर्मृत्युस्तं न जिघांसति ॥ ७ ॥
शरीरतरोः कोटरस्थसर्पौघभूताः अत एव चिन्तालक्षणा अर्पिताः शिरसि फणा यैः ।
न दहन्ति अर्थात्स्वविषाग्निना ॥ ७ ॥
रागद्वेषविषापूरः स्वमनोबिलमन्दिरः ।
लोभव्यालो न भुङ्क्ते यं मृत्युस्तं न जिघांसति ॥ ८ ॥
न भुङ्क्ते न दशति ॥ ८ ॥
पीताशेषविवेकाम्बुः शरीराम्भोधिवाडवः ।
न निर्दहति यं कोपस्तं मृत्युर्न जिघांसति ॥ ९ ॥
शरीराम्भोधेर्वाडवो वडवाग्निभूतः । अत एव पीताशेषविवेकाम्बुः ॥ ९ ॥
यन्त्रं तिलानां कठिनं राशिमुग्रमिवाकुलम् ।
यं पीडयति नानङ्गस्तं मृत्युर्न जिघांसति ॥ १० ॥
आकुलं व्यग्रम् । तिलानां राशिं कर्मयन्त्रं कर्त्रिव उग्रमिति क्रियाविशेषणम् ॥ १० ॥
एकस्मिन्निर्मले येन पदे परमपावने ।
संश्रिता चित्तविश्रान्तिस्तं मृत्युर्न जिघांसति ॥ ११ ॥
ब्रह्मात्मविश्रान्तिरेवात्यन्तिकमृत्युजयोपाय इत्याशयेनाह-एकस्मिन्निति ॥ ११ ॥
वपुःखण्डाभिपतितं शाखामृगमिवोदितम् ।
न चञ्चलं मनो यस्य तं मृत्युर्न जिघांसति ॥ १२ ॥
वपुर्लक्षणे पुष्पितवनखण्डे अभिपतितः शाखामृग इव उदितमूर्जितम् ।
छान्दसं क्लीवत्वम् ॥ १२ ॥
एते ब्रह्मन्महादोषाः संसारव्याधिहेतवः ।
मनागपि न लुम्पन्ति चित्तमेकं समाहितम् ॥ १३ ॥
दोषानुपसंहरंस्तज्जयहेतुगुणान्वक्तुं प्रथमं समाधानमेव मुख्यो गुण
इत्याशयेन तं प्रशंसति-एते इत्यादिना ॥ १३ ॥
आधिव्याधिसमुत्थानि चलितानि महाभ्रमैः ।
न विलुम्पन्ति दुःखानि चित्तमेकं समाहितम् ॥ १४ ॥
नास्तमेति न चोदेति न संस्मृतिर्न विस्मृतिः ।
न सुप्तं न च जाग्रत्स्याच्चित्तं यस्य समाहितम् ॥ १५ ॥
अन्धीकृतहृदाकाशाः कामकोपविकारजाः ।
चिन्ता न परिहिंसन्ति चित्तं यस्य समाहितम् ॥ १६ ॥
न ददाति न चादत्ते न जहाति न याचते ।
कुर्वदेव च कार्याणि चित्तं यस्य समाहितम् ॥ १७ ॥
कर्माणि कुर्वत् यथाशास्त्रं व्यवहरदपि ॥ १७ ॥
ये दुरर्था दुरारम्भा दुर्गुणा दुरुदाहृताः ।
दुष्क्रमास्ते न कृन्तन्ति चित्तं यस्य समाहितम् ॥ १८ ॥
दुष्टा अर्था अर्जनीयधनादयः आरभ्यन्त इत्यारम्भाः कृषिगृहधनादयः ।
गुणा रागद्वेषादयः । उदाहृता मर्मप्रकाशनोक्तयः । क्रमा नीतयः । न
कृन्तन्ति दुष्टफलेन न परितापयन्ति ॥ १८ ॥
आभान्ति विपुलार्थानि महान्ति गुणवन्ति च ।
सर्वाण्येवानुधावन्ति चित्तं यस्य समाहितम् ॥ १९ ॥
आभान्ति प्रकाशमानानि विपुलार्थानि बहुलाभानि सर्वाण्येव सुखानीति शेषः ।
अनुधावन्ति अनुसरन्ति ॥ १९ ॥
यदुदर्कहितं सत्यमनपायि गतभ्रमम् ।
दुरीहितदृशोन्मुक्तं तत्परं कारयेन्मनः ॥ २० ॥
उदर्क औत्तरकालिकं सुखं तस्मै हितम् । दुरीहितदृशा भोगाभिलाषदृष्ट्या
उन्मुक्तं स्वात्मलाभलक्षणं तत्परम् ॥ २० ॥
यददृष्टमशुद्धेन चित्तवैधुर्यदायिना ।
अनेकत्वपिशाचेन तत्परं कारयेन्मनः ॥ २१ ॥
चित्तस्य वैधुर्यं पुरुषार्थविधुरता तद्दायिना । अनेकत्वं
भेददृष्टिस्तल्लक्षणपिशाचेन यत्सौख्यं न दृष्टं तत्परम् ॥ २१ ॥
आदौ मध्ये तथान्ते च चिराय परमोचितम् ।
यच्चारु मधुरं पथ्यं तत्परं कारयेन्मनः ॥ २२ ॥
आदौ चारुसुखारम्भम् मध्ये अर्धपरिपाकेऽपि मधुरम् अन्ते पथ्यं
सर्वदुःखनिवर्तकं ज्ञानं तत्परम् ॥ २२ ॥
यदनन्तं मनःपथ्यन्न् तथ्यमाद्यन्तमध्यगम् ।
समस्तसाधुभिर्जुष्टं तत्परं कारयेन्मनः ॥ २३ ॥
आद्यन्तमध्यगं सर्वावस्थास्वनुगतमात्मसुखम् ॥ २३ ॥
यद्बुद्धेः परमालोकमाद्यं यदमृतं परम् ।
यदनुत्तमसौभाग्यं तत्परं कारयेन्मनः ॥ २४ ॥
न विद्यते उत्तमं यस्मात्तथाविधं सौभाग्यं नित्यनिरतिशयानन्द इत्यर्थः ॥ २४ ॥
सामरासुरगन्धर्वे सविद्याधरकिन्नरे ।
ससुरस्त्रीगणे स्वर्गे न किञ्चित्सुस्थिरं शुभम् ॥ २५ ॥
अनुत्तमसौभाग्यत्वमेवेतरसुखानित्यतादिप्रपञ्चनेन साधयति-सामरेत्यादिना
॥ २५ ॥
सतरौ सनराधीशे सपर्वतपुरव्रजे ।
साम्बुधौ भूतले तात न किञ्चिच्छोभनं स्थिरम् ॥ २६ ॥
सनागे सासुरव्यूहे सासुरस्त्रीगणे तथा ।
समस्त एव पाताले न किञ्चिच्छोभनन्न् स्थिरम् ॥ २७ ॥
सस्वर्गे ससुरालोके सपाताले सदिक्तटे ।
जगत्यस्मिंस्तु सर्वस्मिन्न किञ्चिच्छोभनं स्थिरम् ॥ २८ ॥
एवं लोकत्रयस्याशुभतामुक्त्वा तद्धटितजगत एव तदाह-सस्वर्ग इति ॥ २८ ॥
आधिव्याधिविलोलासु दुःखौघवलितासु च ।
क्रियासु नित्यतुच्छासु न किञ्चित्सुस्थिरं शुभम् ॥ २९ ॥
क्रियाशब्देन तत्फलानि लक्ष्यन्ते ॥ २९ ॥
तरलीकृतचित्तासु हृदयानन्दिनीषु च ।
चिन्तासु धीविकारासु न किञ्चित्सुस्थिरं शुभम् ॥ ३० ॥
चिन्तापदमपि मानसक्रियामात्रपरं तत्फलोपलक्षकम् ॥ ३० ॥
हृत्क्षीरोदकसंस्पन्दमन्दरेषु चलेष्वपि ।
स्वसङ्कल्पविकल्पेषु न किञ्चित्सुस्थिरं शुभम् ॥ ३१ ॥
हृन्मनस्तल्लक्षणस्य क्षीरोदकस्य संस्पन्दे क्षोभणे मन्दरायमाणेषु । इदं
मानसक्रियामात्रोपलक्षणम् ॥ ३१ ॥
अनारतागमापायपरास्वसिशिरास्वपि ।
चित्राकारासु चेष्टासु न किञ्चित्सुस्थिरं शुभम् ॥ ३२ ॥
अतिचित्राकारासु अत्यद्भुतासु । अत एवासिशिरास्वसिधाराप्रायासु इन्द्रियादिचेष्टासु ॥ ३२ ॥
न वरमेकमहीतलराजता न च वरं विबुधामररूपता ।
न च वरं धरणीतलनागता स्थितिमुपैति हि यत्र सतां मनः ॥ ३३ ॥
एवमशाश्वतत्वात्तुच्छत्वाच्च न जागतं किमपि सुखं विवेकिभिः
स्पृहणीयमित्याह-न वरमित्यादिना । एका अनन्यराजता सर्वमहीतलराजता न
वरम् । एवं विबुधा अभिज्ञतमा ये अमरा इन्द्रबृहस्पत्यादयस्तद्रूपता
स्वर्गराज्याद्यपीति यावत् धरण्यास्तले पाताले सर्वधरणीधारणसमर्था
शेषनागता पातालराज्यमपीति यावत् । यत्र सतां विवेकिनां मनः स्थितिं
पूर्णकामतया विश्रान्तिमुपैति तथाविधं किमपि न भवतीत्यर्थः ॥ ३३ ॥
न वरमाकुलशास्त्रविचारणं न च वरं परकार्यविवेचनम् ।
न वरमग्र्यकथाक्रमवर्णनं स्थितिमुपैति हि यत्र सतां मनः ॥ ३४ ॥
एवं दुरूहत्वाद्विस्तृतत्वाच्चाकुलताहेतुनानाशास्त्राणां
चतुर्दशविद्यास्थानानां विचारणं निष्कर्षसामर्थ्यलक्षणं पाण्डित्यमपि न
वरम् । एवं परेषां कार्याणां बुद्धिसौष्ठवाद्विचार्य विवेचनसामर्थ्यलक्षणं
लोकानुरजनसामर्थ्यमपि न वरम् । अग्र्याणां भारतादिकथानां क्रमस्य
वर्णनादिसामर्थ्यमपि न वरमिति पूर्ववत् ॥ ३४ ॥
न वरमाधिमयं चिरजीवितं न च वरं मरणं दृढमूढता ।
न च वरं नरको न च विष्टपं स्थितिमुपैति हि न क्वचिदाशयः ॥ ३५ ॥
यदि आधिप्रचुरत्वाज्जीवितं न वरं तर्हि सर्वाधिनिवृत्तिमत्त्वान्मरणं वरं
स्यात्तत्राह-दृढमूढतेति । सर्वदुःखनिदानमूढतादार्ढ्यात्तदपि न
वरमित्यर्थः । तर्हि भोगेन सर्वदुःखक्षयकरत्वान्नको वरमस्त्विति चेन्नेत्याह##-
भावः । विष्टपं सर्वभुवनाधिपत्यम् ॥ ३५ ॥
इति विविधजगत्क्रमाः समस्ताः खलु मतिमूढतया नरस्य रम्याः ।
चलतरकलनाहिते पदार्थे कथमुपयान्ति चिरस्थितिं महान्तः ॥ ३६ ॥
नरस्य विवेकिनः पुरुषस्य इति अनेन प्रकारेण विचार्यमाणा विविधजगत्क्रमाः
समस्ताः सर्वेऽपि न रम्याः । हि यस्माद्धेतोस्ते जगत्क्रमाश्चलतरकलनया
अशाश्वतत्वबुद्ध्या आहिते गृहीते पदार्थे महान्तः कथं
चिरस्थितिमात्यन्तिकविश्रान्तिं यान्तीत्यर्थः ॥ ३६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० निर्वाण० पू० भुशुण्डो०
समाधानसङ्कल्पनिराकरणं नाम त्रयोविंशः सर्गः ॥ २३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पू०
समाधानसङ्कल्पनिराकरणं नाम त्रयोविंशः सर्गः ॥ २३ ॥