०२२

द्वाविंशः सर्गः २२

भुशुण्ड उवाच ।

ततो जगति जातेषु भगवन्युष्मदादिषु ।
भरद्वाजपुलस्त्यात्रिनारदेन्द्रमरीचिषु ॥ १ ॥

वसिष्ठस्याष्टजन्मादिसमार्धसमसर्गकाः ।
क्षीरोदमथनाद्याश्च भूयो दृष्टा इहोदिताः ॥

ततस्तदनन्तरं किञ्चिद्दूरेष्वतीतकालेषु तथा अद्यतनसर्गेषु जातेषु युष्मदादिषु
भगीरथशुकाद्यन्तेषु स्मरणे कैव गणनेति सप्तमे सर्वेषां सप्तम्यन्तानां
सम्बन्धः ॥ १ ॥

पुलहोहालकाद्येषु ऋतुभृग्वङ्गिरस्सु च ।
सनत्कुमारभृङ्गीशस्कन्देभवदनादिषु ॥ २ ॥

सनत्कुमारान्तेषु ब्रह्मर्षिषु । भृग्वङ्गिरःप्रभृतिषु सिद्धर्षिषु ।
स्कन्देभवदनादिषु शिवपार्षदेषु ॥ २ ॥

गौरीसरस्वतीलक्ष्मीगायत्र्याद्यासु भूरिषु ।
मेरुमन्दरकैलासहिमवद्दर्दुरादिषु ॥ ३ ॥

गौर्यादिषु तच्छक्तिषु । मेर्वादिषु गिरिषु ॥ ३ ॥

हयग्रीवहिरण्याक्षकालनेमिबलादिषु ।
दिरण्यकशिपुक्राथबलिप्रह्रादकादिषु ॥ ४ ॥

हयग्रीवादिषु दान्वेषु । हिरण्याक्षादिषु दैत्येषु ॥ ४ ॥

शिबिन्यङ्कुपृथूलाख्यवैन्यनाभागकेलिषु ।
नलमान्धातृसगरदिलीपनहुषादिषु ॥ ५ ॥

शिविप्रभृतिषु राजसु ॥ ५ ॥

आत्रेयव्यासवाल्मीकिशुकवात्स्यायनादिषु ।
उपमन्युमणीमङ्कीभगीरथशुकादिषु ॥ ६ ॥

आत्रेयादिषु मुनिषु ॥ ६ ॥

अल्पकातीतकालेषु किञ्चिद्दूरेषु केषुचित् ।
तथाद्यतनसर्गेषु स्मरणे गणनैव का ॥ ७ ॥

गणनैव केति न तत्र विस्मरणसम्भावनाप्यस्तीति भावः ॥ ७ ॥

मुने ते ब्रह्मपुत्रस्य जन्माष्टकमिदं किल ।
संस्मराम्यष्टमे सर्गे तस्मिंस्त्वं मम सङ्गतः ॥ ८ ॥

अष्टमे सर्गे जन्मनि कल्पे वा मम सङ्गतो मया सह मिलितः अभूः ॥ ८ ॥

कदाचिज्जायसे व्योम्नः कदाचिज्जायसे जलात् ।
कदाचिद्वायुतः शैलात्कदाचिज्जायसेऽनलात् ॥ ९ ॥

किमष्टस्वपि जन्मसु ब्रह्मपुत्र एव नेत्याह-कदाचिदिति ॥ ९ ॥

यादृशो यादृशाचारो यादृक्संस्थानदिग्गणः ।
सर्गोऽयं तादृशानेव त्रीन्सर्गान्संस्मराम्यहम् ॥ १० ॥

सर्वेषु कल्पेषु तत्तदधिकारिपुरुषाणां समाननामरूपत्वेऽपि न सर्वेषां
पदार्थानां सर्वसन्निवेशाचारसाम्यनियमः किन्तु काकतालीयन्यायेन
कदाचित्साम्यमित्याशयेनाह-यादृश इति ॥ १० ॥

एकरूपाखिलाचारसन्निवेशधरामरान् ।
समकालान्स्थिरस्थैर्यान्दशसर्गान्स्मराम्यहम् ॥ ११ ॥

समकालान् तुल्यायुषः । स्थिराणि असुरैरविचालितानि स्थैर्याणि
नियतकालतत्तत्पदावस्थानानि देवानां येषु ॥ १ ॥

अन्तर्धानं गता धात्री वारपञ्चकमुद्धृता ।
मुने पञ्चसु सर्गेषु कूर्मेणैव पयोनिधेः ॥ १२ ॥

आचारसाम्यमुक्त्वा तद्वैषम्यमाह-अन्तर्धानमिति । अन्तर्धानं जले निमज्जनेन
तिरोधानम् । धात्री भूः । कूर्मेणैव न वराहेण ॥ १२ ॥

मन्दराकर्षणावेगपर्याकुलसुरासुरम् ।
स्मरामि द्वादशं चेदममृताम्भोधिमन्थनम् ॥ १३ ॥

सर्वौषधिरसोपेतां बलिग्राहस्तदा दिवः ।
वारत्रयहिरण्याक्षो नीतवान्वसुधामधः ॥ १४ ॥

दिवः स्वर्गाद्बलिं करं गृह्णातीति बलिग्राहः । करदीकृतसर्वदेवगण इति यावत् ।
अधः पातालम् ॥ १४ ॥

रेणुकात्मजतां गत्वा षष्ठवारमिमं हरिः ।
बहुसर्गान्तरेणापि चकार क्षत्रियक्षयम् ॥ १५ ॥

बहुभिः परशुरामावतारशून्यैः सर्गैरन्तरेण व्यवधानेनापि ॥ १५ ॥

शतं कलियुगानां च हरेर्बुद्धदशाशतम् ।
शौकराजतयैवाप्तं स्मरामि मुनिनायक ॥ १६ ॥

शौकः कीकटदेशविशेषस्तद्राजतया । शुद्धोदनाख्यतद्राजपुत्रतयेति यावत् ॥ १६ ॥

त्रिंशत्त्रिपुरविक्षोभान्द्वौ दक्षाध्वरसङ्क्षयौ ।
दशशक्रविघातांश्च चन्द्रमौलेः स्मराम्यहम् ॥ १७ ॥

त्रिंशत्सु कल्पेषु त्रिंशत्सङ्ख्याकांस्त्रिपुराणां विक्षोभान्दाहान् । प्रतिकल्पं
स्वायम्भुवेऽन्तरे चाक्षुषे च प्रसिद्धौ द्वौ दक्षाध्वरसङ्क्षयौ । दशानां
शक्राणां चन्द्रमौलेः कृतापराधानां पदात्प्रच्याव्य गिरिगुहासु
निरोधलक्षणान्सवज्रभुजस्तम्भलक्षणान्वा विधातान्दण्डान् ॥ १७ ॥

बाणार्थमष्टौ सङ्ग्रामाञ्ज्वरप्रमथमन्त्रकान् ।
विक्षोभितसुरानीकान्स्मरामि हरिशर्वयोः ॥ १८ ॥

ज्वराणां माहेश्वरवैष्णवाख्यज्वरभेदानां प्रमथानां च मन्त्रकान्
आमन्त्रयितॄन् । शौर्योत्साहजननेन प्रवर्तकानिति यावत् । क्षुरप्रमथमन्त्रकान् इति
पाठे तु क्षुरप्रान् बाणविशेषान्मथ्नन्ति छिन्दन्तीति क्षुरप्रमथास्तथाविधा
मन्त्रका मन्त्रास्त्राणि येष्वित्यर्थः ॥ १८ ॥

युगम्प्रति धियां पुंसां न्यूनाधिकतया मुने ।
क्रियाङ्गपाठवैचित्र्ययुक्तान्वेदान्स्मराम्यहम् ॥ १९ ॥

युगं प्रति युगे युगे । कर्मप्रवचनीयेन प्रतिना वीप्सा द्योत्यते ।
पुंसामध्येतृपुरुषाणां धियां बुद्धीनां न्यूनाधिकतया
ब्रह्मचर्यगुरुशुश्रूषाभूमिशयनादिक्रियाणां शिक्षाद्यङ्गानां
सावधानस्वरवर्णाद्युच्चारणलक्षणपाठानां च
न्यूनाधिकताकृतप्रभाववैचित्र्यैर्युक्तान् ॥ १९ ॥

एकार्थानि समग्राणि बहुपाठानि मेऽनघ ।
पुराणानि प्रवर्तन्ते प्रसृतानि युगम्प्रति ॥ २० ॥

प्रतिद्वापरान्तनिर्मातृभेदाद्बहुपाठानि ॥ २० ॥

पुनस्तानेव तानेवमन्यानपि युगे युगे ।
वेदादिवित्प्ररचितानितिहासान्स्मराम्यहम् ॥ २१ ॥

वेदादिविद्भिर्व्यासवाल्मीकिप्रभृतिभिः प्ररचितान् पुनः पुनस्तानेव
भारतरामायणादीनितिहासान् ॥ २१ ॥

इतिहासं महाश्चर्यमन्यं रामायणाभिधम् ।
ग्रन्थलक्षप्रमाणं च ज्ञानशास्त्रं स्मराम्यहम् ॥ २२ ॥

महारामायणाभिधं ब्रह्मणा वसिष्ठविश्वामित्रादिभ्य उपदिष्टं
ज्ञानशास्त्रम् ॥ २२ ॥

रामवद्व्यवहर्तव्यं न रावणविलासवत् ।
इति यत्र धियां ज्ञानं हस्ते फलमिवार्पितम् ॥ २३ ॥

कृतं वाल्मीकिना चैतदधुना यत्करिष्यति ।
अन्यच्च प्रकटं लोके स्थितं ज्ञास्यसि कालतः ॥ २४ ॥

यदन्यच्च वसिष्ठरामसंवादरूपं महारामायणं द्वात्रिंशत्सहस्रमितं
करिष्यति तदपि दिव्यज्ञानबलादनुभूतं स्मरामि त्वमपि कालतो ज्ञास्यसि ॥ २४ ॥

वाल्मीकिनाम्ना जीवेन तेनैवान्येन वा कृतम् ।
एतच्च द्वादशं वारं क्रियते विस्मृतिं गतम् ॥ २५ ॥

एतद्वसिष्ठरामसंवादरूपं तेन पूर्वकल्पीयेनान्येन वा वाल्मीकिनाम्ना जीवेन
प्राक्कृतमेव विस्मृतिं व्यवहर्तृरूपरोच्छेदेनोच्छेदं गतं साम्प्रतं
द्वादशानां पूरणं द्वादशं वारं क्रियते ॥ २५ ॥

द्वितीयमेतस्य समं भारतं नाम नामतः ।
स्मरामि प्राक्तनव्यासकृतं जगति विस्मृतम् ॥ २६ ॥

व्यासाभिधेन जीवेन तेनैवान्येन वा कृतम् ।
एतत्तु सप्तमं वारं क्रियते विस्मृतिं गतम् ॥ २७ ॥

आख्यानकानि शास्त्राणि निवृत्तानि युगम्प्रति ।
विचित्रसन्निवेशानि संस्मरामि मुनीश्वर ॥ २८ ॥

भूयस्तान्येव तान्येव तथान्यानि युगे युगे ।
साधो पदार्थजालानि प्रपश्यामि स्मरामि वै ॥ २९ ॥

राक्षसक्षतये विष्णोर्महीमवतरिष्यतः ।
अधुनैकादशं जन्म रामनाम्नो भविष्यति ॥ ३० ॥

अधुना सन्निहितत्रेतायुगे ॥ ३० ॥

नारसिंहेन वपुषा हिरण्यकशिपुं हरिः ।
जघान वारत्रितयं मृगेन्द्र इव वारणम् ॥ ३१ ॥

वसुदेवगृहे विष्णोर्भुवो भारनिवृत्तये ।
अधुना षोडशं जन्म भविष्यति मुनीश्वर ॥ ३२ ॥

अधुना एतच्चतुर्युगान्तर्गतद्वापरान्ते ॥ ३२ ॥

जगन्मयी भ्रान्तिरियं न कदाचन विद्यते ।
विद्यते तु कदाचिच्च जलबुद्बुदवत्स्थिता ॥ ३३ ॥

बहिरिदं जायत इति भ्रान्तिरेवेत्याशयेनाह-जगन्मयीति ॥ ३३ ॥

दृश्यभ्रान्तिरनित्येयमन्तस्था संविदात्मनि ।
जायते लीयते चाशु लोला वीचिरिवाम्भसि ॥ ३४ ॥

समैकसन्निवेशानि बहूनि विषमाणि च ।
तथार्धसमरूपाणि त्रिजगन्ति स्मराम्यहम् ॥ ३५ ॥

प्रतिसर्गं लोकादीनां सन्निवेशादिसाम्यनियमोऽप्यौत्सर्गिक इत्याह-समेति ॥ ३५ ॥

तान्येव तादृक्कर्माणि तथान्याचरणानि च ।
तत्कर्माणि तथान्यानि भूतानीह स्मराम्यहम् ॥ ३६ ॥

मन्वाद्यधिकारिपुरुषसन्निवेशचारित्र्यादिष्वपि साम्यमौत्सर्गिकमेवेत्याह##-

प्रतिमन्वन्तरं ब्रह्मन्विपर्यस्ते जगत्क्रमे ।
सन्निवेशेऽन्यथाजाते प्रयाते संश्रुते जने ॥ ३७ ॥

संश्रुते प्रख्याते ॥ ३७ ॥

ममान्यान्येव मित्राणि अन्य एव च बन्धवः ।
अन्य एव नवा भृत्या अन्य एव समाश्रयाः ॥ ३८ ॥

अन्य एव समाश्रया निवासाः ॥ ३८ ॥

कदाचिदहमेकान्ते विन्ध्यकच्छकृतालयः ।
कदाचित्सह्यनिलयः कदाचिद्दर्दुरालयः ॥ ३९ ॥

समाश्रयभेदमेव प्रपञ्चयति-कदाचिदित्यादिना ॥ ३९ ॥

कदाचिद्धिमवद्वासी कदाचिन्मलयाचलः ।
कदाचित्प्राक्तनेनैव सन्निवेशेन भूधरम् ॥ ४० ॥

मलये अचलः स्थिरः ॥ ४० ॥

चूतवृक्षे च शाखायां प्राप्य नीडं करोम्यहम् ।
अनाद्यन्तेषु यातेषु युगेषु मुनिनायक ॥ ४१ ॥

प्राप्येत्यस्य प्राक्तनेन भूधरमित्यनेनान्वयः । अनाद्यन्तेषु असङ्ख्येयेषु ॥ ४१ ॥

प्राक्तनेनैव जातोऽयं सन्निवेशेन पादपः ।
देहं त्यक्त्वा सुखं साधो नातः परिणतिं गतः ॥ ४२ ॥

अतः प्राक्तनसन्निवेशात्परिणतिं सन्निवेशान्तरं न गतः । तर्हि त्वमिव पादपोऽपि
किं चिरजीवी नेत्याह-देहं त्यक्त्वेति ॥ ४२ ॥

तदीयेनैव जातोऽयं सन्निवेशेन पादपः ।
ताते जीवति यैवाभूच्छोभास्य सुतरोस्तथा ॥ ४३ ॥

एवं च पादपजीवैक्येऽपि तात्पर्यं किन्तु शोभासन्निवेशसाम्यादभेदोपचार इति
सूचयन्नाह-तदीयेनेति । ताते चण्डे ॥ ४३ ॥

कृतप्राक्सन्निवेशोऽयमहं स्थितिमिहागतः ।
नेहाभूदुत्तरा पूर्वं ककुब्नायं च भूधरः ॥ ४४ ॥

एवं दिग्भूधरयोरैक्यप्रत्यभिज्ञापि सन्निवेशसाम्यादेवेत्याह-नेहेति ॥ ४४ ॥

दिगुत्तराभूदन्येयं पूर्वमेव महीधरः ।
एकैकदेहसंस्थानवीतब्रह्मनिशागमः ॥ ४५ ॥

पूर्वं उत्तरा दिक् अन्यैवाभूदियमन्या । एवं भूधरोऽप्यन्य
एवाभूदित्यावृत्तिविपरिणामाभ्यामन्वयः । तर्हि तथेव त्वमपि प्रतिकल्पमन्यः
समानसन्निवेशश्च किं न स्यास्तत्राह-एकेति । अहं एकश्चासौ एकेनैव
देहसंस्थानेन वीता ब्रह्मनिशागमा यस्य तथाविधः ॥ ४५ ॥

ध्यानान्ते तत्त्व एवैनं सर्गमालोक्य वेवयहम् ।
अर्कादेरृक्षसञ्चारान्मेर्वादिस्थानका दिशः ॥ ४६ ॥

तत्कुतस्तत्राह-ध्यानान्त इति । यतः कल्पान्ते प्रागुक्तधारणापूर्वकं
स्थिरीकृतस्य ध्यानस्य निर्विकल्पकसमाधेरन्ते अवसाने पुनर्जातमेनं सर्गमालोक्य
स एवायं मेरुः स एवायं पादप इति प्रत्यभिज्ञायमाने तत्त्वे एव एनं सर्गं वेद्मि
। यद्यहमन्यः स्यां तत्तावगाहिनी प्रत्यभिज्ञैव न स्यादिति भावः । एवं
पूर्वसंस्थानादन्यथा संस्थानताग्रहणादपि तद्द्रष्टुर्मम न नाश
इत्याशयगर्भा दिगुत्तराभूदन्येयम् इत्युक्तिमुपपादयति-अर्कादेरिति । दिशः
प्राच्यादयः अर्कसोमादेरृक्षाणां नक्षत्राणामुदयास्तमयादिनियतसञ्चाराच्च
नियतोत्तरदिक्स्थितमेर्वादिस्थानकाः प्रसिद्ध्यन्ति ॥ ४६ ॥

संस्थानमन्यथा तस्मिन्स्थिते यान्ति दिशोऽन्यथा ।
न सन्नासज्जगन्मन्ये भ्रमयन्केवलं धियः ॥ ४७ ॥

सर्गान्तरे तु ता दिशस्तस्मिन्मेरावेवान्यथा प्रकारान्तरेण स्थिते सति
चित्रपटलिखितमेर्वाद्यधीना दिशस्तत्परिवर्तन इव अन्यथा संस्थानं
व्यत्यस्तस्थितिं यान्तीत्यर्थः । एवं दिशामनियतस्थित्या मिथ्यात्वे
तदनुसारिनियतावयवसन्निवेश घटितस्य सर्वस्यापि जगतोऽनिर्वचनीयतालक्षणं
मिथ्यात्वं प्रतिभातीत्याह-न सदित्यादिना ॥ ४७ ॥

आत्मस्पन्दचमत्कारविभवोऽयं विजृम्भते ।
पुत्रः पितृत्वमायाति मित्रं यात्यरितां तथा ॥ ४८ ॥

आत्मनः स्पन्दचमत्कारो मायिकविक्षेपशक्तिस्तद्विभवः । जागतेषु पदार्थेषु
दिक्कृतव्यवस्थाव्यत्यास इव कालकृतव्यवस्थाव्यत्यासोऽपि दृश्यत
इत्येतत्प्रपञ्चयन्दर्शयति-पुत्र इत्यादिना ॥ ४८ ॥

स्त्रीत्वं च शतशो यातान्पुंसश्चैव स्मराम्यहम् ।
कलौ कृतयुगाचारान्कृते कलियुगस्थितिम् ॥ ४९ ॥

त्रेतायां द्वापरे चैव संस्मरामि मुनीश्वर ।
अदृष्टवेदवेदार्थान्स्वसङ्केतविहारिणः ॥ ५० ॥

त्रेतायां द्वापरे च कृतयुगाचारान्कलियुगस्थितिं चेत्यनुकृष्यान्वयः ।
कलियुगस्थितिमेव सङ्क्षिप्य विवृणोति-अदृष्टेति ॥ ५० ॥

सर्गान्निरर्गलाचारान्क्वचित्कांश्चित्स्मराम्यहम् ।
ध्यातरि ब्रह्मणो ब्रह्मन्ससुरासुरमानुषम् ॥ ५१ ॥

क्वचित्कृतयुगादावपि । तथाहि । कृतयुगेऽपि पुष्करेण बलस्य निकृत्याद्यूते जयो
विनापराधमेकवस्त्रेण सभार्यस्य निर्वासनं च प्रसिद्धम् ॥ ५१ ॥

चतुर्युगसहस्रान्ते जगच्छून्यं स्मराम्यहम् ।
मनोमनननिर्माणान्पार्थिवाकारवर्जितान् ।
व्याप्तान्वायुमयैर्भूतैर्दश सर्गान्स्मराम्यहम् ॥ ५२ ॥

हे ब्रह्मन् चतुर्युगसहस्रस्यान्ते अवसाने वेधसि जगद्रूपसंहारक्रमेणाप्सु शयित्वा
योगनिद्राच्छलेन ब्रह्मणः परमात्मनो ध्यातरि सति ससुरासुरमानुषं
जगच्छून्यमसत्तामिवापन्नं स्मरामीत्यर्थः । एवं प्रलीनेऽपि
जगत्यैन्दवमनोमनननिर्माणान् प्रागुक्तान् वातमयैर्वायुप्रायैर्भूतैः
प्राणिभिर्व्याप्तान् ॥ ५२ ॥

विचित्रसंस्थानविशेषदेशान्विचित्रकार्याकुलभूतकोशान् ।
विचित्रविन्यासविलासवेषान्स्मराम्यहं ब्रह्मदिनेष्वशेषान् ॥ ५३ ॥

उक्तं सर्वं सङ्क्षिप्योपसंहरति-विचित्रेति । अहं ब्रह्मदिनेषु कल्पेषु
विचित्रस्थानविशेषयुक्ता देशा येषु तथाविधान्विचित्रकार्याकुलभूतानां
कोशभूतान् अशेषान्सर्वान्सर्गान्स्मरामीत्यर्थः ॥ ५३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
भुशुम्० चिरजीवितवर्णनं नाम द्वाविंशः सर्गः ॥ २२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चिरजीवितवर्णनन्न् नाम द्वाविंशतितमः सर्गः ॥ २२ ॥