०२१

एकविंशः सर्गः २१

भुशुण्ड उवाच ।

युगक्षोभेषु घोरेषु वाक्यासु विषमासु च ।
सुस्थिरः कल्पवृक्षोऽयं न कदाचन कम्पते ॥ १ ॥

कल्पवृक्षस्य माहात्म्यं प्रलये धारणास्थितिः ।
नियतिर्भूरिचित्रार्थस्मृतिश्चात्रोपवर्ण्यते ॥

अगम्योऽयं समग्राणां लोकान्तरविहारिणाम् ।
भूतानां तेन तिष्ठाम इह साधो सुखेन वै ॥ २ ॥

स्वाश्रयकल्पवृक्षमाहात्म्योपवर्णने युगान्तोत्पातादिषु स्वस्य
खेदाप्रसक्तिप्रपञ्चनमुखेन वृत्तं स्मरसि किञ्च वेति प्रश्नोत्तरं
वक्तुमुपक्रमते-युगक्षोभेष्वित्यादिना ॥ १ ॥ २ ॥

हिरण्याक्षो धरापीठं द्वीपसप्तकवेष्टितम् ।
यदा जहार तरसा नाकम्पत तदा तरुः ॥ ३ ॥

यद्यपि धरया सह कल्पवृक्षस्यापि हरणं विद्यत एव तथापि
दिव्यप्रभावबलान्नाकम्पतेत्याशयः ॥ ३ ॥

यदा लोलायितवपुर्बभूवामरपर्वतः ।
सर्वतो दत्तसाम्याद्रिस्तदा नाकम्पत द्रुमः ॥ ४ ॥

सर्वतो दत्ताः साम्याय स्तम्भोपष्टम्भशिलावदद्रयो यस्य तथाविधोऽमरपर्वतः ।
अर्थाद्वराहेण पुनर्भूमिप्रतिष्ठापनदशायामिति गम्यते ॥ ४ ॥

भुजावष्टम्भविनमन्मेरुर्नारायणो यदा ।
मन्दरं प्रोद्दधाराद्रिं तदा नाकम्पत द्रुमः ॥ ५ ॥

भुजेति । अत्रापि चतुर्भुजो द्वाभ्यां भुजाभ्यां मेरुमवष्टभ्येतराभ्यां मन्दरं
प्रोद्दधारेति गम्यते ॥ ५ ॥

यदा सुरासुरक्षोभपतच्चन्द्रार्कमण्डलम् ।
आसीज्जगदतिक्षुब्धं तदा नाकम्पत द्रुमः ॥ ६ ॥

सुरासुरयोः क्षोभस्तीव्रसङ्ग्रामस्तेन पतच्चन्द्रार्कमण्डलम् ॥ ६ ॥

उन्मूलिताद्रीन्द्रशिला यदोत्पातानिला ववुः ।
आधूतमेरुतरवस्तदा नाकम्पत द्रुमः ॥ ७ ॥

यदा क्षीरोदलोलाद्रिकन्दरानिलकम्पिताः ।
कल्पाभ्रपङ्कयश्चेरुस्तदा नाकम्पत द्रुमः ॥ ८ ॥

क्षीराब्धौ लोलस्य मन्दराद्रेः कन्दरानिलैरिव कम्पिताः ॥ ८ ॥

यदा समन्ततो मेरुः कालनेमिभुजान्तरे ।
किञ्चिदुन्मूलितोऽतिष्ठत्तदा नाकम्पत द्रुमः ॥ ९ ॥

कालनेमिभुजान्तरे प्रकम्पितस्तारकामये सङ्ग्रामे प्रसिद्धः ॥ ९ ॥

पक्षीशपक्षपवना अमृताक्रान्तिसङ्गरे ।
यदा ववुः पतत्सिद्धास्तदायं नापतद्द्रुमः ॥ १० ॥

अमृताक्रान्तिरमृताहरणं तदर्थे सङ्गरे । पतन्तः सिद्धा येभ्यः ॥ १० ॥

यदा शेषाकृतिं रुद्रो नसमाप्तैकचेष्टिताम् ।
ययौ गरुत्मान्ब्रह्माण्डं तदा नाकम्पत द्रुमः ॥ ११ ॥

गरुडस्य जातमात्रस्य सर्वे लोकाः प्रकम्पिताः । प्रकम्पिता मही सर्वा सप्तद्वीपाश्च
कम्पिताः । तदुत्पातान्निमज्जन्तीं भुवं नावमिवाम्भसि । दधौ सहस्रैः शिरसां
सङ्कर्षणवपुर्हरः ॥ इति कथामनुसृत्याह-यदेति । रुद्रः सङ्कर्षणरुद्रः ।
अद्यापि न समाप्तं एकं भूमिधारणलक्षणं चेष्टितं चरित्रं
यस्यास्तथाविधां शेषाकृतिं यदा ययौ यदा चोत्प्लुत्य गरुत्मान् ब्रह्माण्डं
ययौ तदापि नाकम्पतेत्यर्थः ॥ ११ ॥

यदा कल्पानलशिखाः शैलाब्धिसकलोल्बणः ।
शेषः फलाभिस्तत्याज तदा नाकम्पत द्रुमः ॥ १२ ॥

शैलानामब्धीनां सकलानां प्राणिनां चोल्बणा दुःसहाः कल्पानलशिखाः
फणाभिर्मुखैस्तत्याज उज्जगार । सङ्कर्षणमुखाग्निनैवान्ते प्रलयस्य पुराणेषु
प्रसिद्धेः ॥ १२ ॥

एवंरूपे द्रुमवरे तिष्ठतामाप्दः कुतः ।
अस्माकं मुनिशार्दूल दौःस्थित्येन किलापदः ॥ १३ ॥

दौःस्थित्येन दुष्टस्थाननिवासेन ॥ १३ ॥

श्रीवसिष्ठ उवाच ।

कल्पान्तेषु महाबुद्धे वहत्सूत्पातवायुषु ।
प्रपतत्स्विन्दुभार्केषु कथं तिष्ठसि विज्वरः ॥ १४ ॥

इन्दौ भेषु नक्षत्रेष्वर्केषु च प्रपतत्सु । तथा च तदानीं प्रलये भूलोकान्तस्य
दाहान्न मेरुकल्पवृक्षादिभिस्त्राणप्रत्याशेति भावः ॥ १४ ॥

भुशुण्ड उवाच ।

यदा पपात कल्पान्ते व्यवहारो जगत्स्थितौ ।
कृतघ्न इव सन्मित्रं तदा नीडं त्यजाम्यहम् ॥ १५ ॥

कल्पान्ते सहस्रमहायुगपर्यन्ते ॥ १५ ॥

आकाश एव तिष्ठामि विगताखिलकल्पनः ।
स्तब्धप्रकृतिसर्वाङ्गो मनो निर्वासनं यथा ॥ १६ ॥

स्तब्धप्रकृतीनि निश्चलस्वभावानि सर्वाङ्गानि यस्य ॥ १६ ॥

प्रतपन्ति यदादित्याः शकलीकृतभूधराः ।
वारुणीं धारणां बद्ध्वा तदा तिष्ठामि धीरधीः ॥ १७ ॥

सामान्यत उक्तामाकाशे स्थितिं धारणाभेदैर्विशिष्य प्रपञ्चयति-प्रतपन्तीति ।
अत्यन्तशीतलरार्वदिङ्मण्डलव्याप्यपरिच्छेद्यजलात्मा वरुण एवाहमस्मीति चित्ते
निरन्तरं धारणं वारुणीधारणेत्युच्यते । तया हि वरुणमात्मानं सदा मन्यत इति
। पार्वत्यादिधारणा अप्येवमेवोह्याः । पृथिव्यादिपञ्चभूतधारणाप्रकारं
वसिष्ठः स्वयमेवोत्तरार्धे विस्तरेण वक्ष्यति ॥ १७ ॥

यदा शकलिताद्रीन्द्रा वान्ति प्रलयवायवः ।
पार्वतीं धारणां बद्ध्वा खे तिष्ठाम्यचलं तदा ॥ १८ ॥

अचलमिति क्रियाविशेषणम् ॥ १८ ॥

जगद्गलितमेर्वादि यात्येकार्णवतां यदा ।
वायवीं धारणां बद्ध्वा सम्प्लवेऽचलधीस्तदा ॥ १९ ॥

चले वायावेवात्मधीर्यस्य तथाविध्ः सन् नभसि सम्प्लवे ॥ १९ ॥

ब्रह्माण्डपारमासाद्य तत्त्वान्ते विमले पदे ।
सुषुप्तावस्थया तावत्तिष्ठाम्यचलरूपया ॥ २० ॥

क्रियत्कालं तथा सम्प्लवसे तत्राह-ब्रह्माण्डेति । ब्रह्माण्डस्य
स्थूलसूक्ष्मसमष्टेः पारं परमावधिभूतमव्याकृतमासाद्य तत्त्वानां
चतुर्विंशतीनां षड्विंशतीनां षट्त्रिंशतां वा नामादिप्राणान्तानां वा अन्ते
भूमाख्ये पदे सुषुप्तवदेकरसनिर्विकल्पसमाध्यवस्थया ॥ २० ॥

यावत्पुनः कमलजः सृष्टिकर्मणि तिष्ठति ।
तत्र प्रविश्य ब्रह्माण्डं तिष्ठामि विहगालये ॥ २१ ॥

कियत्कालं तादृशसमाधौ स्थितिरिति चेत्तत्राह-यावदिति । तत्र पुनः
सृष्टिकर्मणि विहगानामस्माकमालये एतत्कल्पवृक्षस्थानापन्ने तिष्ठामि ॥ २१ ॥

श्रीवसिष्ठ उवाच ।

यथा तिष्ठसि पक्षीन्द्र धारणाभिरखण्न्डितः ।
कल्पान्तेषु तथा कस्मान्नान्ये तिष्ठन्ति योगिनः ॥ २२ ॥

अन्येऽपि योगिनस्तथा कस्मान्न तिष्ठन्ति किमर्थमाधिकारिकशरीरान्तरं मुक्तिं वा
गच्छन्ति । तेनैव शरीरेण त्वमिव कुतो न तिष्ठन्तीत्यर्थः ॥ २२ ॥

भुशुण्ड उवाच ।

ब्रह्मन्नियतिरेषा हि दुर्लङ्घ्या पारमेश्वरी ।
मयेदृशेन वै भाव्यं भाव्यमन्यैस्तु तादृशैः ॥ २३ ॥

अत्र तत्तत्प्रबलप्रारब्धानुसारिणी सत्यसङ्कल्परूपा ईश्वरनियतिरेव
व्यवस्थाहेतुर्नान्येत्याह-ब्रह्मन्निति ॥ २३ ॥

न शक्यते तोलयितुमवश्यं भवितव्यता ।
यद्यथा तत्तथैतद्धि स्वभावस्यैव निश्चयः ॥ २४ ॥

तोलयितुं इदमित्थमेवेति बुद्ध्या परिच्छेत्तुम् । यथा यादृशप्रारब्धोपनतं
तत्तथैव । स्वभावस्य नियतेः ॥ २४ ॥

मत्सङ्कल्पवशेनैव कल्पे कल्पे पुनः पुनः ।
अस्मिन्नेव गिरेः शृङ्गे तरुरित्थं भवत्ययम् ॥ २५ ॥

प्रतिकल्पमेतत्तरुनिर्माणेऽपि भोजकादृष्टमूलभूतमत्सङ्कल्प एव
निमित्तमित्याह-मदिति ॥ २५ ॥

श्रीवसिष्ठ उवाच ।

अत्यन्तमोक्षदीर्घायुर्भवान्निर्देशनायकः ।
ज्ञानविज्ञानवान्धीरो योगयोग्यमनोगतिः ॥ २६ ॥

मोक्ष इव दीर्घमपरिच्छेद्यमायुर्यस्य । मोक्षेण जीवन्मुक्त्या वा उपलक्षितं
दीर्घमायुर्यस्य । अत एव चिरन्तनार्थानां निर्देशविषये नायकः श्रेष्ठः ॥ २६ ॥

दृष्टानेकविधानल्पसर्गसङ्गगमागमः ।
किं किं स्मरसि कल्याण चित्रमस्मिञ्जगत्क्रमे ॥ २७ ॥

दृष्टाः प्रत्येकमनेकविधा उत्पत्तयश्च येन । अत्रास्मिंस्त्वद्दृष्टे जगत्क्रमे
चित्रमाश्चर्यभूतं किं किं स्मरसि तद्वदेत्यर्थः ॥ २७ ॥

भुशुण्ड उवाच ।

बृहत्तर शिलावृक्षामजाततृणवीरुधम् ।
अशैलवनवृक्षौघां स्मरामीमां धरामधः ॥ २८ ॥

हे बृहत्तर । मेरोरधः ॥ २८ ॥

दशवर्षसहस्राणि दशवर्षशतानि च ।
भस्मसारभरापूर्णां संस्मरामि धरामधः ॥ २९ ॥

अनुत्पन्नदिवाधीशामज्ञातशशिमण्डलाम् [अजात इति पाठः ।] ।
अविभक्तदिवालोकां संस्मरामि धरामधः ॥ ३० ॥

दिवाधीशः सूर्यः मेरुप्रभामिरविभक्तः अपृथग्भूतः पृथगसन्निति यावत् ।
दिवालोको दिनहेतुः प्रकाशः ॥ ३० ॥

मेरुरत्नतलोद्द्योतैरर्धप्रकटकोटरम् ।
लोकालोकमिवाढ्याद्रिभुवनं संस्मराम्यहम् ॥ ३१ ॥

अर्धं प्रकटं सप्रकाशं कोटरं यस्य अत एव लोकालोकमिव स्थितम् । आढ्याः
क्वचित्प्रकाशसम्पन्ना अद्रयो यस्मिंस्तथाविधं भुवनम् ॥ ३१ ॥

प्रवृद्धासुरसङ्ग्रामे क्षीयमाणान्तरामिह ।
पलायमानामभितः संस्मरामि धरामिमाम् ॥ ३२ ॥

पलायमानां लक्षणया पलायमानजनाकीर्णाम् ॥ ३२ ॥

चतुर्युगानि चाक्रान्तामसुरैर्मत्तकाशिभिः ।
दैत्यान्तःपुरतां प्राप्तां संस्मरामि धरामिमाम् ॥ ३३ ॥

चतुर्युगानीति कालवाचित्वादत्यन्तसंयोगे द्वितीया ॥ ३३ ॥

अत्यन्तान्तरितान्तान्तसमस्तापरमण्डलाम् ।
अजदेवत्रयीशेषां संस्मरामि जगत्कुटीम् ॥ ३४ ॥

अत्यन्तमन्तरितानि समुद्रेणाच्छादितान्यन्तान्तक्रमेण समस्तान्यपरमण्डलानि
मेर्वतिरिक्तदेशा यस्याम् । मेरौ च अजा ब्रह्मविष्णुरुद्राख्या देवत्रयी शिष्यत इति शेषो
यस्याम् ॥ ३४ ॥

चतुर्युगार्धमपरं नीरन्ध्रां वनपादपैः ।
अदृष्टेतरनिर्माणां संस्मरामि धरामिमाम् ॥ ३५ ॥

चतुर्युगानामर्धं युगद्वयपर्यन्तं न दृष्टं वृक्षेतरनिर्माणं यस्याम् ॥
३५ ॥

एवं चतुर्युगं साग्रं नीरन्ध्रैरचलैर्वृताम् ।
अप्रवृत्तजनाचारां संस्मरामि धरामिमाम् ॥ ३६ ॥

साग्रं चतुर्थाशाधिकं चतुर्युगं नीरन्ध्रैर्निबिडैरचलैः पर्वतैर्वृताम् ।
पृथुचक्रवर्तिना हि धनुष्कोट्या पर्वतानुत्सार्य पश्चाद्भूमिः समीकृतेति
पुराणेषु प्रसिद्धम् ॥ ३६ ॥

दशवर्षसहस्राणि मृतदैत्यास्थिपर्वतैः ।
आकीर्णां परितः पूर्णां संस्मरामि धरामिमाम् ॥ ३७ ॥

भयादन्तर्हिताशेषवैमानिकनभश्चराम् ।
द्यां च निर्वृक्षनिःशेषां संस्मरामि तमोमयीम् ॥ ३८ ॥

द्यां अन्तरिक्षादिलोकान् चकाराद्धरां निर्वृक्षनिःशेषाम् । निरृक्षेति पाठे दिव
एव विशेषणम् । ऋक्षाणि ताराः । तमोमयीं तमःप्रचुरामित्यप्युभयविशेषणम् ॥
३८ ॥

अनगस्त्यामगस्त्याशामेकपर्वततां गताम् ।
मत्ते विन्ध्यमहाशैले संस्मरामि जगत्कुटीम् ॥ ३९ ॥

मलयदर्दुरसह्याद्रिविभाजकाभावादेकपर्वततां गताम् । मत्ते मेरुस्पर्धया
अभिवृद्धे सति ॥ ३९ ॥

एतांश्चान्यांश्च वृत्तान्तान्संस्मरामि बहूनपि ।
किं तेन बहुनोक्तेन सारं सङ्क्षेपतः शृणु ॥ ४० ॥

असङ्ख्यातान्मनून्ब्रह्मन्स्मरामि शतशो गतान् ।
सर्वान्संरम्भबहुलांश्चतुर्युगशतानि च ॥ ४१ ॥

संरम्भैः प्रभावातिशयैर्बहुलान् ॥ ४१ ॥

एकमेव स्वयं शुद्धं पुरुषासुरवर्जितम् ।
आलोकनिचयं चैकं कञ्चित्सर्गं स्मराम्यहम् ॥ ४२ ॥

आश्चर्यान्तरमाह-एकमेवेति । यदा विराड्ब्रह्माण्डशरीर उत्पन्नमात्रः
स्वात्मतत्त्वं पर्यालोचयितुं कञ्चित्कालं समाहितचित्तोऽभूत्सावस्थात्रोच्यते । पुरुषैः
सुरादिभिरसुरैश्च वर्जितम् । आलोकानां प्रकाशस्वभावानां तैजसानामेकं
निचयं समष्टिं च तदात्मकं ब्रह्माण्डम् ॥ ४२ ॥

सुरापं ब्राह्मणं मत्तं निषिद्धसुरशूद्रकम् ।
बहुनाथसतीकं च कञ्चित्सर्गं स्मराम्यहम् ॥ ४३ ॥

कलियुगसर्गस्थितिं स्मरन्नाह-सुरापेति । सुरापा ब्राह्मणा यस्मिन् । निषिद्धा
निन्दिताः सुरा देवा यैस्तथाविधाः शूद्रका असच्छूद्रा यस्मिन् । बहुनाथा
अनेकभर्तृकाः सत्यः स्त्रियो यस्मिन् ॥ ४३ ॥

वृक्षनीरन्ध्रभूपीठमकल्पितमहार्णवम् ।
स्वयंसञ्जातपुरुषं कञ्चित्सर्गं स्मराम्यहम् ॥ ४४ ॥

आश्चर्यान्तरमाह-वृक्षेति । समुद्रनिर्मातुः प्रियव्रतस्योत्पत्तेः
प्रागवस्थायामिदं प्रसिद्धम् । स्त्रीपुंससङ्गं विना मानस्या सृष्ट्या स्वयमेव
सञ्जाता भृग्वादिपुरुषा यस्मिन् ॥ ४४ ॥

अपर्वतमभूमिं च व्योमस्थामरमानवम् ।
अचन्द्रार्कप्रकाशाढ्यं कञ्चित्सर्गं स्मराम्यहम् ॥ ४५ ॥

भुवि जले मग्नायां जनलोकादिप्रकाशबहललोकव्यवहारमात्रोपलक्षिते काले या
स्थितिस्तां स्मरन्नाह-अपर्वतमिति । व्योमस्था अमरा देवां मानवा
योगसिद्धाश्च यस्मिन् ॥ ४५ ॥

अनिन्द्रममहीपालममध्यस्थाधमोत्तमम् ।
सममन्धककुप्चक्रं कञ्चित्सर्गं स्मराम्यहम् ॥ ४६ ॥

न विद्यन्ते मध्यस्था अधमा उत्तमाश्च यस्मिन् । अत एव समं अन्धानि ककुभां
दिशां चक्राणि यस्मिन्निति पूर्वकल्पान्त्यमन्वन्तरान्तदशोपलक्षितजगत्स्थित्युक्तिः ॥ ४६

सर्गप्रारम्भकलना विभागो भुवनत्रये ।
कुलपर्वतसंस्थानं जम्बूद्वीपं पृथक्स्थितम् ॥ ४७ ॥

एतत्कल्पवृत्तान्तस्मरणं तु एतत्कल्पायुषां बहूनामस्तीति प्रपञ्चयन्नाह##-
बालैरपि हि तास्तात स्मर्यन्ते इत्यत्रान्वयः । आदौ सर्गप्रारम्भार्थं कलना स्रष्टुः
सङ्कल्पस्ततो भुवनत्रये द्वीपाद्यवान्तरप्रदेशभेदानां विभजनं विभागस्ततः
कुलपर्वतानां संस्थानं यथायोग्यप्रदेशकल्पनं ततः पृथक्स्थितं
जम्बूद्वीपं प्रविश्य ब्राह्मणादिवर्णानां तद्धर्माणां धियां
तत्तद्योग्यविद्याभेदानां च सृष्टिरिति यथायोगं क्रमो बोध्यः ॥ ४७ ॥

वर्णधर्मधियां सृष्टिविभागो मण्डलावनेः ।
ऋक्षचक्रकसंस्थानं ध्रुवनिर्माणमेव च ॥ ४८ ॥

जन्मेन्दुभास्करादीनामिन्द्रोपेन्द्रव्यवस्थितिम् ।
हिरण्याक्षापहरणं वराहोद्धरणं क्षितेः ॥ ४९ ॥

क्षितेर्वराहेणोद्धरणम् ॥ ४९ ॥

कल्पनं पार्थिवानां च वेदानयनमेव च ।
मन्दरोन्मूलनं चाब्धेरमृतार्थं च मन्थनम् ॥ ५० ॥

देवदानवमनुष्यादिषु प्रत्येकं पार्थिवानां कल्पनम् । मत्स्यावतारे वेदानयनम् ॥
५० ॥

अजातपक्षो गरुडः सागराणां च सम्भवः ।
इत्यादिका याः स्मृतयः स्वल्पातीतजगत्क्रमाः ।
बालैरपि हि तास्तात स्मर्यन्ते तासु को ग्रहः ॥ ५१ ॥

स्मर्यन्त इति स्मृतयः अवश्यस्मर्तव्यार्थाः मद्दृष्टानेककल्पापेक्षया
एतत्कल्पमात्रनिष्पन्नत्वात्स्वल्पा अतीतजगत्क्रमाः । बालैर्मदपेक्षया
अत्यल्पवयस्कैरेतत्कल्पजैरपि भवदादिभिः स्मर्यन्त एवेत्यर्थः ॥ ५१ ॥

गरुडवाहनं विहगवाहनं विहगवाहनं वृषभवाहनम् ।
वृषभवाहनं गरुडवाहनं कलितवानहं कलितजीवितः ॥ ५२ ॥

कल्पान्तरेषु स्वदृष्टान्यश्चियान्तराण्यपि वदन्नुपसंहरति-गरुडवाहनमिति ।
कलितं प्राप्तं जीवितं दीर्घायुर्येन तथाविधः अहं एतत्कल्पे प्रसिद्धं
गरुडवाहनं विहगो विहगोत्तमो हंसस्तद्वाहनं चतुर्मुखीभूय
देवदैत्यादिसर्गाधिकारं निष्पादयन्तं कलितवान्दृष्टवान् । तथा विहगवाहनं
ब्रह्माणं वृषभवाहनं रुद्रीभूय संहाराधिकारं कुर्वाणं कल्पितवान् ।
एवं वृषभवाहनं रुद्रं च गरुडवाहनं विष्णुशरीरं धृत्वा
पालनाधिकारं कुर्वाणं कलितवानिति महदाश्चर्यरहस्यमेतदित्यर्थः ॥ ५२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू०
भुशुण्डो० चिरजीवितवृत्तान्तकथनं नामैकविंशः सर्गः ॥ २१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चिरजीवितवृत्तान्तकथनं नामैकविंशः सर्गः ॥ २१ ॥