०२०

विंशः सर्गः २०

भुशुण्ड उवाच ।

आसीत्किञ्चित्पुरा कल्पे जगद्यच्चिरमास्थितम् ।
सन्निवेशेन चैतद्वदद्यापि च न दूरगम् ॥ १ ॥

प्रतिकल्पं जगत्साम्यं भ्रातॄणां निधनं तथा ।
प्रलयेऽपि भुशुण्डोऽत्र स्वचित्तस्थैर्यमुक्तवान् ॥

तत्र वृत्तं स्मरसि किञ्च वा इति प्रश्नस्य विस्तरेणोत्तरं वक्तुकामो
वक्ष्यमाणबहुकल्पस्वजीवनोक्तेः इम कल्पतरुं प्राप्य निजनीडं प्रविश्य च
इत्याद्युक्तेश्च पूर्वोत्तरविरोधाशङ्का मा भूदिति कल्पवृक्षमेर्वादीनां
प्रतिकल्पं संस्थानसाम्यादैक्यवाद इत्याशनं दर्शयति-आसीदित्यादिना । पुरा
अस्यज्जन्महेतौ कल्पे यत् किञ्चिज्जगत् पदार्थवृन्दं चिरमास्थितं तत्सन्निवेशेन
अवयवसंस्थानाकृत्यादिना एतद्वत् एतत्कल्पीयपदार्थवदेव आसीत् । अतस्तदद्यापि न
दूरगं अभेदारोपात्सन्निहितमेवन्ति बुद्ध्या इमं कल्पतरुमित्यादिनिर्देश इत्यर्थः ॥
१ ॥

तदेतद्वृत्तमभ्यासाद्वर्तमानेन वर्णितम् ।
मया मुनीन्द्र बोधाय प्राग्जन्मसाम्यदर्शिना ॥ २ ॥

तत्तस्माद्वृत्तमतीतमपि जगद्भ्रान्त्यभ्यासाद्वर्तमानेन जगता ऐक्येन वर्णितम् ॥ २

अद्य मे फलितं पुण्यैश्चिरकालोपसम्भृतैः ।
निर्विघ्नमेव पश्यामि यद्भवन्तं मुने ततः ॥ ३ ॥

तत्र दीर्घकथाप्रस्तावे पूजाविलम्बो मा भूदिति प्रथमं पूजास्वीकारं प्रार्थयितुं
स्तुत्या अभिमुखीकरोति-अद्येति द्वाभ्याम् ॥ ३ ॥

इदं नीडमिमां शाखामहं चायमयं द्रुमः ।
अद्य पावनतां प्राप्तान्येतानि तव दर्शनात् ॥ ४ ॥

इमां शाखामनुगतमिदं नीडम् । एतानीति नपुंसकमनपुंसकेन इति
नपुंसकैकशेषः ॥ ४ ॥

इदमर्घ्यमिदं पाद्यं गृहीत्वा विहगार्पितम् ।
नूनं पावनतां नीत्वा शेषेणादिश चाशु भोः ॥ ५ ॥

शेषेणावशिष्टसेवाविषयेण निमित्तेन आदिश प्रश्नान्वक्तुमित्यर्थः ॥ ५ ॥

श्रीवसिष्ठ उवाच ।

इदमर्घ्यं च पाद्यं च भूयो दत्तवति स्वयम् ।
भुशुण्डविहगे तस्मिन्निदं रामाहमुक्तवान् ॥ ६ ॥

भूयः द्वितीयवारम् । उक्तवान् पृष्टवान् ॥ ६ ॥

भ्रातरस्ते विहङ्गेश तादृक्सत्त्वा महाधियः ।
इह कस्मान्न दृश्यन्ते त्वमेवैको हि दृश्यसे ॥ ७ ॥

भुशुण्ड उवाच ।

तिष्ठतामिह नः कालो महानतिगतो मुने ।
युगानां पङ्क्तयः क्षीणा दिवसानामिवानघ ॥ ८ ॥

एतावताथ कालेन सर्व एव ममानुजाः ।
तनूस्तृणमिव त्यक्त्वा शिवे परिणताः पदे ॥ ९ ॥

तनूः शरीराणि ॥ ९ ॥

दीर्घायुषो महान्तोऽपि सन्तोऽपि बलिनोऽपि च ।
सर्व एव निगीर्यन्ते कालेनाकलितात्मना ॥ १० ॥

अकलितात्मना अलक्षितस्वरूपेण ॥ १० ॥

श्रीवसिष्ठ उवाच ।

स्कन्धव्यूढार्कशशिषु वहत्स्वविरतं जवात् ।
वातस्कन्धातिवातेषु कच्चित्तात न खिद्यसे ॥ ११ ॥

स्कन्धेषु मालेव व्यूढा अर्का द्वादशादित्याः शशिनश्च यैस्तथाविधेषु
वातस्कन्धप्रवाहादिमरुदतिक्रामिषु प्रलयवायुभेदेषु ॥ ११ ॥

दग्धोदयास्तशैलेन्द्रवनव्यूहै रवेः करैः ।
चिरमत्यन्तमासन्नैः कच्चित्तात न खिद्यसे ॥ १२ ॥

इन्दोरथ करैः शीतैः पाषाणीकृतवारिभिः ।
आसन्नकरकापातैः कच्चित्तात न खिद्यसे ॥ १३ ॥

पाषाणवद्धनीकृतानि वारीणि यैस्तथाविधेरिन्दोः
करैरासन्नप्रलयाम्बुदकरकापातैऽस्च ॥ १३ ॥

अजस्रमिह विश्रान्तैः कल्पजीमूतमण्डलैः ।
परशुच्छेदनीहारैः कच्चित्तात न खिद्यसे ॥ १४ ॥

इह मेरुशिखरे विश्रान्तैः परशूनपि छिन्दन्ति क्षतधारान्कुर्वन्ति शिलीभूता नीहारा
येभ्यस्तैः ॥ १४ ॥

विषमैर्जागतैः क्षोभैरुच्चैस्तरपदस्थितः ।
कथं न क्षोभमायाति कल्पवृक्षोऽयमुन्नतः ॥ १५ ॥

भुशुण्ड उवाच ।

निरालम्बास्पदा ब्रह्मन्सर्वलोकावहेलिता ।
तुच्छेद्यं सर्वभूतानां मध्ये विहगजीविका ॥ १६ ॥

कृच्छ्रकालेषु महतामपि खेदः सम्भावितः किं पुनर्विहगाधमयोनिज तस्य
मम तथापि विवेकप्रभावान्न खेदप्रसक्तिरिति वक्तुं स्वयोनिजीविकाया
इतरजीविकापेक्षया फल्गुतामाह-निरालम्बेति । निरालम्ब आकाशस्तदास्पदा ॥ १६ ॥

ईदृशेषु च भूतेषु निर्जनेषु [निर्जरेषु इति पाठः ।] वनेषु च ।
कल्पितास्थास्थितिर्धात्रा शून्ये वा व्योमवर्त्मनि ॥ १७ ॥

ईदृशेषु फल्गुष्वपि भूतेषु योनिषु । धात्रा आस्थया प्रीत्या स्थितिर्जीविका कल्पिता
तच्चित्रमित्यर्थः । इवार्थे वाशब्दः ॥ १७ ॥

कथमस्यां प्रभो जातौ जातस्य चिरजीविनः ।
आशापाशनिबद्धस्य विहगस्य विशोकिता ॥ १८ ॥

वयं तु भगवन्नित्यमात्मसन्तोषमास्थिताः ।
न कदाचन नीरूपे मुह्यामो जातविभ्रमैः ॥ १९ ॥

नीरूपे निःस्वरूपे ॥ १९ ॥

स्वभावमात्रसन्तुष्टाः कष्टैर्मुक्ता विचेष्टितैः ।
क्षिपामः केवलं कालमस्मिन्ब्रह्मन्निजालये ॥ २० ॥

कष्टैः क्लेशफलैः परपीडादिविचेष्टितैर्मुक्ताः ॥ २० ॥

न जीवितान्न मरणात्कर्मदेहस्य रोधनम् ।
यथा स्थितेन तिष्ठामस्तथैवास्तङ्गतेहिताः ॥ २१ ॥

जीविताज्जीवनात् । देहस्य कर्म ऐहिकामुष्मिकफलार्था क्रियाम् । नापि मरणाद्देहस्य
रोधनं नाशं वाञ्छामेत्युभयत्र शेषः । यथा इदानीं स्थितेन
नित्यसिद्धनिरतिशयानन्दात्मस्वभावेन तिष्ठामस्तथैवाग्रेऽपि तेनैवास्तङ्गतेहिताः
पूर्णकामाः स्थास्याम इत्यर्थः ॥ २१ ॥

आलोकिता लोकदशा दृष्टा दृष्टान्तदृष्टयः ।
नूनं सन्त्यक्तमस्माकं मनसा चञ्चलं वपुः ॥ २२ ॥

लोकानां दशा जन्ममरणाद्यनर्थदशा । मिथ्यात्वनिर्णायिकाः
स्वप्नादिदृष्टान्तदृष्टयो दृष्टाः ॥ २२ ॥

अनारतनिजालोके नित्यं चापरितापिनि ।
कल्पागस्योपरि सदा वेद्मि कालकलागतिम् ॥ २३ ॥

तत्र तावत्कल्पान्तपर्यन्तं कल्पवृक्षप्रभावादेव नास्माकं
खेदप्रसक्तिरित्याह-अनारतेत्यादिना । कल्पागस्य कल्पवृक्षस्य ॥ २३ ॥

रत्नगुच्छप्रकाशाढ्ये ब्रह्मन्कल्पलतागृहे ।
प्राणापानप्रवाहेण वेद्मि कल्पमखण्डितम् ॥ २४ ॥

प्रकाशबहुलत्वादविज्ञेयदिनरात्रिविभागेऽत्र कथं कालकलागतिं वेत्सि तत्राह##-

अविज्ञातदिवारात्रौ ह्यस्मिन्नुच्चैः शिलोच्चये ।
जानामि निजया बुद्ध्या लोककालक्रमस्थितिम् ॥ २५ ॥

सारासारपरिच्छेदि बोधाद्विश्रान्तिमागतम् ।
निरस्तचापलं शान्तं सुस्थिरं मे मुने मनः ॥ २६ ॥

मनःस्थैर्यबलादपि न मे खेदप्रसक्तिरित्याशयेनाह-सारेति ॥ २६ ॥

संसारव्यवहारोत्थैराशापाशैरसन्मयैः ।
उद्गारैरिव बूकाकोन वैवश्यं व्रजाम्यहम् ॥ २७ ॥

उद्गारध्वनिप्रायैरल्पध्वनिभिः प्राकृतो भूकाक इव नाहं वैवश्यं भयं
व्रजाति ॥ २७ ॥

परोपशमधर्मिण्या वयमालोकशीतया ।
पश्यन्तो जागतीं मायां धिया धैर्यमुपागताः ॥ २८ ॥

धीरत्वादपि नास्माकं खेदप्रसक्तिरित्याह-परेति ॥ २८ ॥

भीमास्वपि महाबुद्धे दशास्वचलबुद्धयः ।
विनिर्मलोपलाकाराः सम्प्राप्तासु यथाक्रमम् ॥ २९ ॥

दशाक्रममनुसृत्य भीमास्वपि दशासु सम्प्राप्तासु विनिर्मलोपलः
स्फटिकादिस्तदाकारास्तत्सदृशाः ॥ २९ ॥

इयमारम्भसुभगा तरला जागती स्थितिः ।
भूयो भूयः परामृष्टा न च किञ्च न बाधते ॥ ३० ॥

जगत्तत्त्वस्य भूयो विमर्शबलादपि न खेदप्रसक्तिरित्याह-इयमिति ॥ ३० ॥

सर्वाण्येव प्रयान्त्येव समायान्ति च वा न वा ।
भगवन्भूतजालानि भयमस्माकमत्र किम् ॥ ३१ ॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च इति भगवद्दर्शितदिशा
सर्वसाधारणे दुःखेअपरिहार्यतानिश्चयाद्वा न भयप्रक्तिरित्याह-सर्वाणीति । वा
अथवा न वा प्रयान्ति न वा समायान्ति । परमार्थदृशेत्यर्थः ॥ ३१ ॥

भूतजालतरङ्गिण्या विशन्त्याः कालसागरे ।
वयं संसारसरितस्तटस्था अप्यनादृताः ॥ ३२ ॥

तत्त्वज्ञस्य स्वस्य तटस्थतया सर्वभूतसंसारद्रष्टृत्वात्तत्रादराभावाच्च न
भयप्रसक्तिरित्याह-भूतेति ॥ ३२ ॥

नोज्झामो न च गृह्णीमस्तिष्ठामो नेह च स्थिताः ।
मृदुपादा दृशा क्रूरा वयमस्मिन्द्रुमे स्थिताः ॥ ३३ ॥

व्यवहारमात्रसिद्धये सकण्टकभुवीव सावधानतया संसारे
क्रमणान्मृदुपादाः । तत्त्वदृशा संसारोच्छेदित्वात्क्रूराः ॥ ३३ ॥

वीतशोकभयायासैस्त्वादृशैः पुरुषोत्तमैः ।
तुष्टैरनुगृहीताः स्मः संस्थिता विगतामयाः ॥ ३४ ॥

महतामनुग्रहादपि न नः खेदप्रसक्तिरित्याह-वीतेति ॥ ३४ ॥

ततस्ततश्च पर्यस्तं लुठितं न च वृत्तिषु ।
नापरामृष्टतत्त्वार्थमस्माकं भगवन्मनः ॥ ३५ ॥

व्यवहारमात्रसिद्धये ततस्ततः पर्यस्तमपि रागादिवृत्तिषु न लुठितम् ॥ ३५ …

निर्विकारे गतक्षोभे चात्मन्युपशमं गते ।
चित्तरङ्गाः प्रबुद्धाः स्मः पर्वणीव महाब्धयः ॥ ३६ ॥

चितः सर्वतो ब्रह्माकारवृत्तिचन्द्रोदयोद्रिक्तबोधा एव तरङ्गा येषां तथाविधाः
सन्तः पर्वणि महाब्धय इव प्रबुद्धाः स्मः ॥ ३६ ॥

भवदागमनाद्ब्रह्मन्निदानीं मुदिताशयाः ।
मन्दरोद्धूतसर्वाङ्गः क्षीरोदो येन तन्यते ॥ ३७ ॥

तादृशा वयं इदानीं भवदागमनाद्धेतोः । येनोद्देशेन क्षीरोदः क्षीरसागरो
मन्दरोद्धूतसर्वाङ्गो निर्मथ्यमानस्तन्यते तेनामृतेन मुदिताशयाः सम्पन्ना
इत्यर्थः । खन्यते इति पाठेऽप्यवदार्यते मथ्यत इत्येवार्थः ॥ ३७ ॥

नातः परतरं किञ्चिन्मन्ये कुशलमात्मनः ।
सन्तो यदनुगम्यन्ते सन्त्यक्तसकलैषणाः ॥ ३८ ॥

आपातमात्ररम्येभ्यो भोगेभ्यः किमवाप्यते ।
सत्सङ्गचिन्तामणितः सर्वसारमवाप्यते ॥ ३९ ॥

सर्वसारं ज्ञानम् ॥ ३९ ॥

स्निग्धगम्भीरमसृणमधुरोदारधीरवाक् ।
त्रैलोक्यपद्मकोशेऽस्मिंस्त्वमेकः षट्पदायसे ॥ ४० ॥

अधिगतपरमात्मनोऽपि मन्ये भवदवलोकनऽसान्तदुष्कृतस्य ।
मम सफलमिहाद्य जन्म साधो सकलभयापहरो हि साधुसङ्गः ॥ ४१ ॥

भवदवलोकनेन शान्तं दुष्कृतं दुष्टप्रारब्धं यस्य तथाविधस्य मम
जन्म अद्य सफलं निरतिशयानन्दफलयुक्तमभूदित्यर्थः ॥ ४१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू०
भुशुण्डोपाख्याने भुशुण्डस्वरूपनिरूपणं नाम विंशः सर्गः ॥ २० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
भुशुण्डस्वरूपनिर्वाणं नाम विंशः सर्गः ॥ २० ॥