एकोनविंशः सर्गः १९
भुशुण्ड उवाच ।
इत्युत्सवे वर्तमाने तासां वाहास्त उत्तमाः ।
तथैव मत्ता जहसुर्ननृतुः पपुरप्यसृक् ॥ १ ॥
ब्राह्मी हंस्यां चण्डयोगात्स्वजन्म भ्रातृभिः सह ।
ब्राह्म्याः प्रसादाज्ज्ञानाप्तिः पितुः स्थानाप्तिरुच्यते ॥
तासां मातॄणाम् । वाहा वाहनभूताश्चण्डादयः ॥ १ ॥
तत्रैकत्रासवोन्मत्ताः काश्चिन्ननृतुरम्बरे ।
रथहंस्यः स्थिता ब्राह्म्यः काकश्चालम्बुसारथः ॥ २ ॥
तत्र तस्मिन्नुत्सवे ब्राह्म्यो ब्रह्माणीसम्बन्धिन्यो रथहंस्यः अलम्बुसाया रथो
वाहनभूतश्चण्डाख्यः काकश्च एकत्र स्थिता ननृतुः ॥ २ ॥
नृत्यन्तीनां च हंसीनां पिबन्तीनामथासवम् ।
तले चाब्धितटानां तु रतिः सम्यगजायत ॥ ३ ॥
अब्धितटानां वेलानां तले समभूप्रदेशे इति उद्दीपनविभावोक्तिः । रतिरनुरागः ॥ ३ ॥
सञ्जातरतयो मत्ताः सर्वा हंस्यः क्रमेण ताः ।
रेमिरे सह काकेनाप्यथ मत्तास्तदा किल ॥ ४ ॥
मत्तत्वादेवोत्कृष्टजातीनामपि हंसीनां निकृष्टजातीयेनापि काकेन सह
रतिरनुचितापि सम्पन्नेति सूचनायापिशब्दः ॥ ४ ॥
सप्तानां कुलहंसीनां दयितो वायसस्त्वसो ।
क्रमेणारमतैकत्र यावदन्योन्यमीप्सितम् ॥ ५ ॥
एकत्रेति वीप्सितम् । एकैकस्यां हंस्यां
यावदन्योन्यमीप्सितमिच्छापूर्तिस्तावदरसतेत्यथः ॥ ५ ॥
अथ ता गर्भधारिण्यो बभूवुरतितोषिताः ।
देव्यश्च कृतनृत्यास्ताः सुप्रशान्तमथाययुः ॥ ६ ॥
अथ कृतोत्सवकृत्यास्ता देव्यो मातरश्र
स्वमायाचेष्टाऽविमर्शात्सुप्रशान्तमक्रुध्यन्तं रुद्रं ययुः ॥ ६ ॥
ददुरोदनतां यातमीश्वराय प्रियामुमाम् ।
भोजनाय महामायां देव्यस्ताः शूलपाणये ॥ ७ ॥
अत एव ओदनतां यातामुमां तस्मै ईश्वराय भोजनाय ददुः ॥ ७ ॥
प्रिया मे भोजने दत्तेत्येवं च शशिशेखरः ।
बुद्ध्वा बभूव रुषितो यदा मातृगणं प्रति ॥ ८ ॥
यदा शशिशेखरो मे प्रिया भोजने दत्तेति बुद्ध्वा मातृगणं प्रति रुषितो बभूव
तदा ता मातरस्तां पार्वतीं स्वाङ्गदानेन स्वस्वाङ्गैः शिर##-
द्वयोरन्वयः ॥ ८ ॥
तदा तास्तां समुत्पाद्य स्वाङ्गदानेन वै पुनः ।
ददुर्भूयो विवाहेन पार्वतीमिन्दुमौलये ॥ ९ ॥
ततो देव्यो हरश्चैव परिवारस्तथैतयोः ।
सर्वे सन्तुष्टमनसः स्वां स्वामुपययुर्दिशम् ॥ १० ॥
एतयोर्देवीहरयोः । मातॄणां देव्यंशत्वेनैकीकारादेकशेषे द्विवचनम् ॥ १० ॥
अन्तर्वत्न्यो बभूवस्ता ब्राह्म्यो हंस्यो मुनीश्वरम् ।
वृत्तान्तं कथयामासुर्ब्राह्म्या देव्या यथास्थितम् ॥ ११ ॥
अन्तर्वत्न्यो गर्भिण्यः ॥ ११ ॥
ब्राह्म्युवाच ।
हे वत्स्यः साम्प्रतं वत्सवयो मे रथकर्मणि ।
न समर्था भवन्त्यो हि खैरं चरत साम्प्रतम् ॥ १२ ॥
वत्सवत्यो गर्भिण्यः ॥ १२ ॥
इति गर्भालसा हंसीरुक्त्वा देवी दयापरा ।
निर्विकल्पसमाधाने ब्राह्मी तस्थौ यथासुखम् ॥ १३ ॥
इति उक्ता तदनुग्रहाय सञ्चारं विहाय निर्विकल्पाख्ये समाधाने समाधौ ॥ १३ ॥
अजनाभिसरोजान्तवैरिञ्चकमलाकरे ।
गर्भालसा विचेरुस्ता राजहंस्यो मुनीश्वर ॥ १४ ॥
अजस्य विष्णोर्नाभिसरोजस्यान्ते मूले वैरिञ्चस्य कमलस्याकरे उत्पत्तिस्थाने विचेरुः ॥ १४
॥
एवं विपक्वगर्भास्ता नाभीकमलपल्लवे ।
सुवते स्म मृदून्यण्डान्यथ वल्ल्य इवाङ्कुरान् ॥ १५ ॥
नाभिकमलस्य पल्लवे किसलयप्रदेशे ॥ १५ ॥
तानि कालं समासाद्य ततोऽण्डान्येकविंशतिः ।
गर्भाक्रान्त्या द्विधा जग्मुर्ब्रह्माण्डानीव सारवत् ॥ १६ ॥
गर्भाक्रान्त्या परिपक्वगर्भपादविक्षेपेण द्विधा जग्मुः अभिद्यन्त । यथा सारवत्
सारवन्ति व्यत्ययेनैकवचनम् । ब्रह्माण्डानि स्वर्णरजतखर्पराभ्यामभिद्यन्त
तद्वत् ॥ १६ ॥
अण्डेभ्यस्तेभ्य एवं हि जाता वयमिमे मुने ।
भ्रातरश्चण्डतनया वायसा एकविंशतिः ॥ १७ ॥
ते सञ्जाता गता वृद्धिं तस्मिन्कमलपल्लवे ।
सञ्जातपक्षाः सम्पन्ना गगनोड्डयने क्षमाः ॥ १८ ॥
मातृभिः सह हंसीभिर्ब्राह्मी भगवती ततः ।
चिरमाराधिता सम्यक्समाधिविरता सती ॥ १९ ॥
ज्ञातज्ञेयः कथं भवान् इत्यस्य प्रश्रस्योत्तरं वक्तुमुपक्रमते##-
प्रसादपरया काले भगवत्या ततः स्वयम् ।
तथाङ्गानुगृहीता स्मो येन मुक्ता वयं स्थिताः ॥ २० ॥
तथा तादृशेन तत्त्वसाक्षात्कारकलेनै अनुगृहीताः स्मः ॥ २० ॥
संशान्तमनसः शान्ता एकान्ते ध्यानसंस्थितौ ।
तिष्ठाम इति निश्चित्य पितुः पार्श्वे वयं गताः ॥ २१ ॥
तिष्ठामः स्थास्याम इति निश्चित्य पितुः पार्श्वे विन्ध्यकच्छे ॥ २१ ॥
आलिङ्गितास्ततः पित्रा पूजितालम्बुसा वयम् ।
तया दृष्टाः प्रसादेन संस्थितास्तत्र संयताः ॥ २२ ॥
पूजिता अलम्बुसा यैः । संयता विनयादिगुणयन्त्रिताः ॥ २२ ॥
चण्ड उवाच ।
पुत्राः कच्चिदपर्यन्तवासनातन्तुगुण्ठितात् ।
भवन्तो निर्गता नूनमस्मात्संसारजालकात् ॥ २३ ॥
संसारलक्षणाज्जालकात्पक्षिबन्धनानायान्निर्गताः कच्चिदितीष्टप्रश्ने ॥ २३ ॥
नो चेद्वयं भगवतीं तदिमां भृत्यवत्सलाम् ।
प्रार्थयामो यथा यूयं भवथ ज्ञानपारगाः ॥ २४ ॥
तत्तदर्थम् । भवथ भविष्यथ ॥ २४ ॥
काका ऊचुः ।
तात ज्ञातमलं ज्ञेयं ब्राह्म्या देव्याः प्रसादतः ।
किन्त्वेकान्तस्थितेः स्थानमभिवाञ्छाम उत्तमम् ॥ २५ ॥
एकान्ते स्थितेरवस्थानस्य योग्यं स्थानं निवासमभिवाञ्छामः ॥ २५ ॥
चण्ड उवाच ।
सर्वरत्नगणाधारः समस्तसुरसंश्रयः ।
अस्ति ह्येव महोत्सेधो मेरुर्नाम महीधरः ॥ २६ ॥
लसच्चन्द्रार्कदीपस्य भूतवृन्दकलत्रिणः ।
ब्रह्माण्डमण्डपस्यान्तःस्तम्भः कनकनिर्मितः ॥ २७ ॥
मेरुमेव वर्णयति-लसदित्यादिना । भूतवृन्दैः प्राणिसमूहैः कलत्रिणः
कुटुम्बिनो ब्रह्माण्डलक्षणस्य मण्डपस्य गृहस्य अन्तःस्तम्भो मध्यस्तम्भः
॥ २७ ॥
सौवर्णचन्द्रपीठाढ्यो रत्नाढ्य शिखराङ्गुलिः ।
ध्वनद्द्वीपाब्धिवलयो भुवेवोन्नमितो भुजः ॥ २८ ॥
सौवर्णेन चन्द्राकारेण पीठेन मूलबन्धाङ्गसदृशेन किम्पुरुषादिवर्षगणेन
आढ्यः सम्पन्नः रत्नमयैरङ्गुलीयकैराढ्याः शिखराण्येवाङ्गुलयो यस्य
ध्वनन्तो द्वीपा अब्धयश्च वलया यस्य । ईदृशो भुवा उन्नमित ऊर्ध्वीकृतो भुज
इव स्थितः ॥ २८ ॥
वृतः कुलाद्रिसामन्तैर्जम्बूद्वीपासने स्थितः ।
राजा चन्द्रार्कनयने भ्रमयञ्छैलसंससि ॥ २९ ॥
तमेव राजत्वेन वर्णयति-वृत इत्यादिभिः । जम्बूद्वीपलक्षणे आसने सिंहासने
राजा शैलानामिति शेषः । अत एव शैलसंससि चन्द्रार्कलक्षणे नयने भ्रमयन् ॥ २९ ॥
तारौघमालतीमाल्यो दिग्दशैकाम्बराम्बरः ।
नागजातिद्वयस्थात्मा नाकनायकभूषणः ॥ ३० ॥
तारौघा एव मालतीमाल्यानि यस्य । दिश एव दशा यस्य
तथाविधमेकमम्बरमाकाशमेवाम्बरं वस्त्रं यस्य । नागशब्दार्थभूतस्य
सर्पगजजातिद्वयस्य आधारः [नागजातिद्वयस्य स्था स्थितिर्यस्मिन्नेवंविध आत्मा
स्वरूपं यस्येति समासे फलितोऽयमर्थः । स्था इत्यत्र भावे क्विप् ।] । नाकनायका
इन्द्रादय एव भूषणानि यस्य ॥ ३० ॥
दिगङ्गनाभिरभितो रम्याभिः पुरभूषणैः ।
एष निस्यन्दिभिः शीतैर्वीजितो घनचामरैः ॥ ३१ ॥
घना मेघास्तल्लक्षणैर्नीलश्वेतादिचामरैः ॥ ३१ ॥
षोडशास्य सहस्राणि योजनानामधः क्षितौ ।
स्थिताः पादाः प्रपूज्यन्ते नागासुरमहोरगैः ॥ ३२ ॥
अशीतिश्च सहस्राणि देहोऽस्यार्केन्दुलोचनः ।
पूज्यते नाकसदने सुरगन्धर्वकिन्नरैः ॥ ३३ ॥
पूज्यते सेव्यते ॥ ३३ ॥
चतुर्दशविधान्येनं गृहस्थमिव बान्धवाः ।
उपजीवन्ति भूतानि मिथो दृष्टपुरास्पदम् ॥ ३४ ॥
ब्रह्मर्षयो देवर्षयो राजर्षयो देवाः पितरो गन्धर्वाः किन्नरा अप्सरसो विद्याधरा
यक्षा रक्षांसि प्रमथा गुह्यका नागाश्चेति चतुर्दशविधानि
भूतान्यतिविस्तीर्णत्वान्मिथो न दृष्टानि पुराणि आस्पदानि स्थानानि च यत्र तद्यथा
स्यात्तथा उपजीवन्ति ॥ ३४ ॥
अस्य त्वीशानदिग्भागे पद्मरागमयं बृहत् ।
विद्यते शृङ्गमपरो दिवाकर इवोदितः ॥ ३५ ॥
अस्यास्ति पृष्ठे भूतौघवृतः कल्पतरुर्महान् ।
जगतः शिखरादर्शे प्रतिबिम्बमिव स्थितः ॥ ३६ ॥
शिखरलक्षणे विद्रुमादर्शे जगतः प्रतिबिम्बमिव स्थितः कल्पतरुः ॥ ३६ ॥
तस्यास्ति दक्षिणस्कन्धे शाखा कनकपल्लवा ।
रत्नस्तबकनीरन्ध्रा चन्द्रबिम्बोल्लसत्फला ॥ ३७ ॥
चन्द्रबिम्बानीवोल्लसन्ति फलानि यस्याम् ॥ ३७ ॥
तत्र पूर्वं मया नीडं कृतमासीत्स्फुरन्मणि ।
देव्यां ध्याननिषण्णायां यस्मिन्किल रमे सुताः ॥ ३८ ॥
स्फुरन्तो मणयो यस्मिंस्तथाविधं नीडम् ॥ ३८ ॥
रत्नपुष्पदलच्छन्नं रसायनफलान्वितम् ।
चिन्तामणिशलाकाभिर्विहितालिन्दसंस्थिति ॥ ३९ ॥
चिन्तामणिशलाकाभिर्विहिता अलिन्दसंस्थितिर्बहिर्द्वारप्रकोष्ठरचना यस्मिन् ॥ ३९ ॥
बुद्धिपूर्वसमाचारैः सम्पूर्णं काकपुत्रकैः ।
शीतलाभ्यन्तरं हृदं पूरितं कुसुमोत्करैः ॥ ४० ॥
बुद्धिपूर्वसमाचारैर्विचारपूर्वव्यवहारशीलैः ॥ ४० ॥
तद्गच्छत सुता नीडं दुर्गं नाकवतामपि ।
भोगं मोक्षं च तत्रस्था निर्विघ्नमलमाप्म्यथ ॥ ४१ ॥
नाकवतां देवानामपि दुर्गम् ॥ ४१ ॥
इत्युक्त्वास्मान्पिता तत्र चुचुम्बाभ्यालिलिङ्ग च ।
ददौ देव्या यदानीतमस्मभ्यं च तदामिषम् ॥ ४२ ॥
आमिषं मांसम् ॥ ४२ ॥
तद्भुक्त्वा चरणौ देव्याः पितुश्चैवाभिवाद्य च ।
विन्ध्यकच्छाद्वयन्न् तस्मात्स्थानादालम्बुसात्प्लुताः ॥ ४३ ॥
आलम्बुसादलम्बुसानिवासात् ॥ ४३ ॥
क्रमेणाकाशमुल्लङ्घ्य निर्गत्याम्बुदकोटरैः ।
पवनस्कन्धमासाद्य वन्दितव्योमचारिणः ॥ ४४ ॥
वन्दिता व्योमचारिणो देवा यैः ॥ ४४ ॥
परिहृत्य दिनाधीशं लोकान्तरपुरं गताः ।
स्वर्गमुल्लङ्घ्य याताः स्मो ब्रह्मलोकं मुनीश्वर ॥ ४५ ॥
अस्माल्लोकाल्लोकान्तरं स्वर्गस्तत्पुरममरावतीम् ॥ ४५ ॥
प्रणामपूर्वं तत्रैतद्यथावत्तत्पितुर्वचः ।
मात्रे च भगवत्यै च ब्राह्म्यै चाशु निवेदितम् ॥ ४६ ॥
तत्र ब्रह्मलोके ॥ ४६ ॥
ताभ्यां सस्नेहमालिङ्ग्य गच्छतेत्याज्ञयैधिताः ।
वयं कृतनमस्कारा ब्रह्मलोकाद्विनिर्गताः ॥ ४७ ॥
गच्छतेति आज्ञया-आज्ञादानेनाशिषा च एधिता वर्धिताः ॥ ४७ ॥
उल्लङ्घ्य लोकपालानां पुरीस्तपनभास्वराः ।
आकाशगामिनो लोलाः पवनस्कन्धचारिणः ॥ ४८ ॥
तपनवद्भास्वराः ॥ ४८ ॥
इमं कल्पतरुं प्राप्य निजं नीडं प्रविश्य च ।
दूरस्थबाधास्तिष्ठामो मुने मौनमवस्थिताः ॥ ४९ ॥
मौनं यथा स्यात्तथा अवस्थिताः । सदा समाघिपरा इति यावत् ॥ ४९ ॥
जाता यथा वयमिमे स्थितिमागताश्च सम्प्राप्य बोधमुपशान्तधियो यथावत् ।
एतत्तदुक्तमविखण्डमलं मया ते शेषेण मां समनुशाधि महानुभाव ॥
५० ॥
उक्तमुपसंहरति-जाता इति । हे महानुभाव वयं जाताः । यथा च
यथावद्बोधं सम्प्राप्य स्थितिमेतत्स्थाननिवासमागताश्चेत्येतत्प्रश्नत्रयोत्तरं
सर्वमविखण्डं यथा स्यात्तथा ते तुभ्यमुक्तम् । अतः परं शेषेणावशिष्टेन
कियदायुश्च ते साधो वृत्तं स्मरसि किं च वा इति प्रश्नद्वयोत्तरेणान्येन
वक्तव्यनिमित्तेन मां सम्यगनुशाधि आज्ञापय तदपि तुभ्यं वदिष्यामीत्यर्थः ॥
५० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्र० पू०
भुशुम्० आलयलाभो नामैकोनविंशतितमः सर्गः ॥ १९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धेआलयलाभो
नामैकोनविंशतितमः सर्गः ॥ १९ ॥