अष्टादशः सर्गः १८
भुशुण्ड उवाच ।
अस्त्यस्मिञ्जगति श्रेष्ठः सर्वनाकनिवासिनाम् ।
देवदेवो हरो नाम देवदेवाभिवन्दितः ॥ १ ॥
स्वजन्म वक्तुमत्रादौ हरस्तद्गणमातृकाः ।
तासां पानोत्सवोन्मादा भुशुण्डेनात्र वर्णिताः ॥
तत्र कस्मिन्कुले भवान्जात इति प्रथमप्रश्नस्योत्तरं वक्तुं भूमिकां रचयति##-
ज्ञानैश्वर्यबलादिगुणैरुत्कृष्टतमो देवानामपि देव इज्य उपास्यश्च देवानां
देवैर्ब्रह्मादिभिरप्यभितः सर्वतः सदा च वन्दितो नमस्कृतः स्तुतश्चेति
त्रिभिर्विशेषणैः सर्वांशेऽपि तस्यैवोत्कर्षपरमावधित्वमिति दर्शितम् ।
अनेनार्थाद्वक्ष्यमाणब्रह्मविद्यारम्भे मङ्गलमपि कृतं बोध्यम् ॥ १ ॥
षट्पदश्रेणिनयना यस्योच्चस्तबकस्तनी ।
विलासिनी शरीरार्धे लता चूततरोरिव ॥ २ ॥
षट्पदानां श्रेणिरिव नयनानि यस्याः ॥ २ ॥
हिमहारसिता यस्य लहरीस्तबकोम्भिता ।
आवेष्टितजटाजूटा गङ्गाकुसुममालिका ॥ ३ ॥
हिममिव हार इव च सिता लहरीलक्षणैः स्तबकैरुम्भिता पूरिता । गुम्फितेति यावत् ॥ ३ ॥
क्षीरसागरसम्भूतः प्रसृतामृतनिर्झरः ।
प्रतिबिम्बकरः श्रीमान्यस्य चूडामणिः शशी ॥ ४ ॥
प्रतिबिम्बकरो दर्पणभूतश्चूडामणिः ॥ ४ ॥
अनारतशिरश्चन्द्रप्रस्रवेणामृतीकृतः ।
यस्येन्द्रनीलवत्कालकूटः कण्ठे विभूषणम् ॥ ५ ॥
अनारतं शिरश्चन्द्रस्यामृतप्रस्नवेण
निरस्तविषशक्तिराहितसञ्जीवनशक्तिश्चेत्यमृतीकृतः ॥ ५ ॥
धूलिलेखामहावर्तं स्वच्छपावकसम्भवम् ।
परमाणुमयं भस्म यस्य ज्ञानजलं सितम् ॥ ६ ॥
तथा यस्य स्वच्छात्स्वाक्षिपावकाज्जगत्प्रलयहेतोः सम्भवतीति तथाविधं धूलिलेखा
धूलिश्रेणिरूपा महान्तः प्रलयवात्यावर्ता यस्मात्तथाविधं स्थूलभूतानां
सूक्ष्मसूक्ष्मप्रवेशक्रमेण परमसूक्ष्माव्यक्तमात्रपरिशेषात्परमाणुमयं
सितं शुभ्रं तत्साक्षिचिन्मात्रलक्षणजलप्लावितत्वाज्ज्ञानजलं मायालक्षणं
भस्म यस्य मायाशबलब्रह्मणो विभूषणमित्यनुषज्यते । हरः सङ्क्षुभ्यैनं
भजति भसितोद्धूलनविधिं इति भगवत्पादाः ॥ ६ ॥
निर्मलानि जितेन्दूनि मृष्टानि घटितानि च ।
यस्यास्थीन्येव रत्नानि देहकान्तमयानि च ॥ ७ ॥
मृष्टानि शाणोल्लेखनेन मणिवच्छोधितानि । अत एव मालाद्याकारेण घटितानि ।
देहेषु कान्तानि मनोरमाणि ब्रह्मादिशरीराणि तन्मयानि तद्विकारभूतानीत्यर्थः ॥ ७ ॥
सुधाकरसुधाधौतं नीलनीरदपल्लवम् ।
तारकाबिन्दुशबलं यस्य चाम्बरमम्बरम् ॥ ८ ॥
नीला नीरदा मेघा एव पल्लवानि दशा यस्य । अम्बरमाकाशं दिश इति यावत् । अम्बरं
वस्त्रम् ॥ ८ ॥
भ्रमच्छिवाङ्गनापक्वमहामांसौदनाकुलम् ।
बहिर्भूतं गृहं यस्य श्मशानं हिमपाण्डुरम् ॥ ९ ॥
भ्रमन्तीभिः शिवाङ्गनाभिः क्रोष्ट्रीभिः
पक्वैर्महामांसैर्नरामिषैर्बल्योदनैश्च आकुलम् । ग्रामनगरादिभ्यो बहिर्भूतम् ।
भ्रमन्तीभिः शिवाभिः कल्याणवेषाभिरङ्गनाभिः
पक्वैर्महद्भिर्मृष्टतमत्वात्प्रशस्यैर्मांसौदनादिभोज्यैश्चाकुलं व्याप्तं
सर्वदोषेभ्यो बहिर्भूतमित्यपि श्लेषादारोप्यते ॥ ९ ॥
कपालमालाभरणाः पीतरक्तवसासवाः ।
आन्त्रस्रग्दामवलिता बन्धवो यस्य मातरः ॥ १० ॥
मातरो वक्ष्यमाणाः । प्रेम्णा बध्नन्तीति बन्धवः सदा क्रीडासहायाः ॥ १० ॥
प्रस्फुरन्मूर्धमणयश्चरन्तो मसृणाङ्गकाः ।
भुजगा वलया यस्य प्रकचत्कनकत्विषः ॥ ११ ॥
चरन्तः पर्यायेण तत्तदङ्गभूषणाय प्रसर्पन्तः । मसृणाङ्गकाः
स्निग्धसर्वाङ्गाः दीप्यमानस्वर्णकान्तयः ॥ ११ ॥
दृक्पातदग्धशैलेन्द्रं जगत्कवललालसम् ।
भैरवाचरितं यस्य लीला सन्त्रासितासुरम् ॥ १२ ॥
यस्य भैरवं भीषणमाचरितं चरित्रम् । तदेवावयुत्योदाहरति##-
स्वस्थीकृतजगज्जातस्वव्यापारस्थचेतसः ।
यदृच्छया करस्पन्दो यस्यासुरपुरक्षयः ॥ १३ ॥
सत्यसङ्कल्पत्वात्कल्याणचिन्तनेनैव स्वस्थीकृतं जगज्जातं येन तथाविधमत एव
स्वव्यापारः समाधिस्तत्स्थं चेतो यस्य तथाविधस्य यस्य यदृच्छया
समाधिभङ्गे यः करस्पन्दः सोऽप्यासुराणि पुराणि क्षिणोत्यसुरैः सह
नाशयतीत्यासुरपुरक्षयस्तथाविधो भवतीति विशेषः ॥ १३ ॥
एकाग्रमूर्तयः स्नेहरागद्वेषविवर्जिताः ।
स्वशना यस्य ते शैलाः सरसा अपि नीरसाः ॥ १४ ॥
यस्य समाधिकाले प्रसिद्धमैकाग्र्यं पृथिवीशैलरूपतन्मूर्तिषु प्रत्यक्षं
दृश्यत इत्याशयेनाह-एकाग्रेति । स्नेहरागद्वेषादिसर्वदोषविवर्जिताः रसा
पृथिवी रसो जलं च तत्सहिता इति सरसा अपि स्वशनाः शोभनाशनतृप्ता इव नीरसा
अशनायापिपासादितृष्णाशून्यास्ते प्रसिद्धा मेरुहिमवदादयः शैला यस्य हरस्य
एकाग्रभूता ध्यानमूर्तयः प्रसिद्धा इत्यर्थः ॥ १४ ॥
शिरःखुराः खुरकराः करदन्तमुखोदराः ।
ऋक्षोष्ट्राजाहिवक्त्राश्च प्रमथा यस्य लालकाः ॥ १५ ॥
इदानीं तस्य गणान्सर्वाङ्गेषु सर्वशक्तिमतो वर्णयति-शिर इति । शिरांसि खुरा
धावनखण्डनादिखुरशक्तियन्ति येषाम् । तथा खुराश्च करा
विचित्रशिल्पादिकरशक्तिमन्तो येषाम् । तथा कराश्च दन्तमुखोदरं
चर्वणभक्षणावपनादिशक्तिमन्तो येषाम् । ऋक्षा भल्लूकाः उष्ट्रा अजाः अहयः
सर्पास्तेषामिव वक्त्राणि येषां तथाविधाः प्रमथा यस्य लालकाः क्रीडासहाया
इत्यर्थः ॥ १५ ॥
तस्य नेत्रत्रयोद्भासिवदनस्यामलप्रभाः ।
यथा गणास्तथैवान्याः परिवारो हि मातरः ॥ १६ ॥
यथा गणास्तथैव सर्वाङ्गेषु सर्वशक्तिमत्यो नानाकाराननाश्च मातरस्तस्य
परिवारः ॥ १६ ॥
नृत्यन्ति मातरस्तस्य पुरो भूतगणानताः ।
चतुर्दशविधानन्तभूतजातैकभोजनाः ॥ १७ ॥
भुवनसङ्ख्यया चतुर्दशविधानि स्वसङ्ख्यया अनन्तानि भूतजातान्येकं
मुख्यभोजनमन्नं यासाम् ॥ १७ ॥
खरोष्ट्राकारवदना रक्तमेदोवसासवाः ।
दिगन्तरविहारिण्यः शरीरावयवस्रजः ॥ १८ ॥
रक्तमेदोवसाः आसव इव सदा पेया यासाम् । शरीरावयवाः शवहस्तपादादयः स्रजो
यासाम् ॥ १८ ॥
वसन्तगिरिकूटेषु व्योम्नि लोकान्तरेषु च ।
अवटेषु श्मशानेषु शरीरेषु च देहिनाम् ॥ १९ ॥
जया च विजया चैव जयन्ती चापराजिता ।
सिद्धा रक्तालम्बुसा च उत्पला चेति देवताः ॥ २० ॥
तत्कल्पस्थानां तासां नामान्याह-जया चेत्यादिना । देवता मातृदेव्यः ॥ २० ॥
सर्वासामेव मातॄणामष्टावेतास्तु नायिकाः ।
आसामनुगतास्त्वन्यास्तासामनुगताः पराः ॥ २१ ॥
ननु शतकोट्यस्तु चामुण्डाः इत्यादिबहुसङ्ख्यत्वे तासां प्रसिद्धे
कथमष्टावित्युच्यते तत्राह-सर्वासामेवेति ॥ २१ ॥
तासां मध्ये महार्हाणां मातॄणां मुनिनायक ।
अलम्बुसेति विख्याता माता मानद विद्यते ॥ २२ ॥
तासां मध्ये सप्तमी या विद्यते तस्यास्तु वाहनं चण्डाख्यः काको विद्यत इति
परेणान्वयः ॥ २२ ॥
वज्रास्थितुण्डश्चण्डाख्य इन्द्रनीलाचलोपमः ।
तस्यास्तु वाहनं काको वैष्णव्या गरुडो यथा ॥ २३ ॥
इत्यष्टैश्वर्ययुक्तास्ता मातरो रौद्रचेष्टिताः ।
कदाचिन्मिलिता व्योम्नि सर्वाः केनापि हेतुना ॥ २४ ॥
इति उक्तलक्षणा मातः । केनापि विहारहेतुना ॥ २४ ॥
उत्सवं परमं चक्रुः परमार्थप्रकाशकम् ।
वामस्रोतोगता एतास्तुम्बुरुं रुद्रमाश्रिताः ॥ २५ ॥
चित्तैकाग्र्यद्वारा समाधौ परमार्थभूतस्वात्मतत्त्वप्रकाशकं पानोत्सवम् ।
वामस्रोतो वाममार्गेण परशक्त्याराधनप्रकारस्तद्गतास्तुम्बुरुनामानं
रुद्रमूर्तिभेदमाराध्यत्वेनाश्रिताः । तुम्बुरं रुद्रं वामस्रोतो
वामभागस्तद्गताः सत्य आश्रिता इति वा ॥ २५ ॥
पूजयित्वा जगत्पूज्यौ देवौ तुम्बुरुभैरवौ ।
विचित्रार्थाः कथाश्चकुर्मदिरामदतोषिताः ॥ २६ ॥
अथेयमाययौ तासां कथावसरतः कथा ।
अस्मानुमापतिर्देवः किं पश्यत्यवहेलया ॥ २७ ॥
कथावसरतः परस्परसंवादकथाप्रयुक्तरुद्रकृतमात्रवहेलनप्रसङ्गेन
कथा वाक् आययौ । तामेव दर्शयति-अस्मानिति ॥ २७ ॥
प्रहावं दर्शयामोऽस्य पुनर्नास्माम्न्त्वसौ यथा ।
दृष्टमात्रमहाशक्तिः करिष्यत्यवधीरणम् ॥ २८ ॥
अथासौ उमापतिर्दृष्टमात्रा महती शक्तिरसात्प्रभावो येन तथाभूतः सन्
अस्मानुद्दिश्य यथा पुनः अवधीरणमवहेलनां न करिष्यति तथा अस्य प्रभावं
दर्शयाम इत्यन्वयः ॥ २८ ॥
इति निश्चित्य ता देव्यो विवर्णवदनाङ्गिकाम् ।
उमामेव वशीकृत्य प्रोक्षयामासुरादृताः ॥ २९ ॥
उमां रुद्रशक्तिं वशीकृत्य स्वमूर्त्यन्तरत्वात्स्वाधीनां कृत्वा यज्ञे पशुमिव
समन्त्रेणाम्भसा प्रोक्षयामासुः । विवर्णवदनाङ्गिकामित्यनेन
वदनाद्यङ्गानां वर्णान्तरापादनेन सहसा पत्या उमा प्रोक्षितेति
परिज्ञातुमशक्यत्वापादनं सूच्यते ॥ २९ ॥
माययापहृतां भर्तुरङ्गाद्रङ्गमुपागताम् ।
तामालोलकचां देव्यः शेपुरोदनतां गताम् ॥ ३० ॥
रङ्गं मातृमण्डलमध्यम् । ओदनतां गतां कर्तुं शेपुरिव ।
मातॄणामुमामूर्त्यन्तरत्वेन स्वात्मनि मुख्यशापायोगात्परिहासक्रीडात्वाच्च न
स्वमूर्त्यवहेलनादोषोऽपि । ओदनतां ओदनादिसर्वभक्ष्यभोज्यलेह्यपेयात्मतां गतां
कर्तुमिति शेषः ॥ ३० ॥
पार्वतीप्रोक्षणदिने तस्मिंस्तत्र महोत्सवः ।
बभूव तासां सर्वासां नृत्यगेयमनोहरः ॥ ३१ ॥
अत्यानन्दमनुद्दामरवमेवाम्बरं बभौ ।
दीर्घावयवविक्षेपविकासिजघनोदराः ॥ ३२ ॥
अन्या जहसुरुद्दामतालक्ष्वेडाघनारवम् ।
लसदङ्गविकारं च ध्वनत्सगिरिकाननाः ॥ ३३ ॥
तालः करतालः क्ष्वेडा सिंहनादस्ताभ्यां घनारवं यथा स्यात्तथा जहसुः ॥ ३३ ॥
अन्या जगुर्ध्वनच्छैलगृहमापानतोषिताः ।
वारीव रववद्रञ्जज्जगन्मण्डलकोटरे ॥ ३४ ॥
ध्वनन्तः शैला गृहाश्च यस्मिन्कर्मणि तद्यथा भवति तथा । चन्द्रोदयरागेण
रञ्जत् रववत् ध्वनच्च समुद्रवारीव जगर्जुः ॥ ३४ ॥
अन्याः पानं पपुः पुष्टचर्चिताङ्गशिरःखुरम् ।
लीलाघुरघुरारावरणदाकाशकोटरे ॥ ३५ ॥
चन्दनादिना रक्तवसासवादिना वा चर्चितान्यनुलिप्तानि पुष्टान्यङ्गानि शिर##-
पपुरुदगुरथोच्चैः सत्वरा जग्मुरूचुर्जहसुरपुरहौषुः पेतुरुच्चैर्ववल्गुः ।
ननृतुरनिशमादुः स्वादु मांसं च देव्यस्त्रिभुवनमपवृत्तं
चक्रुरुन्मत्तवृत्ताः ॥ ३६ ॥
तासामुन्मत्तवृत्तान्येव कानिचिदभिलपन्नुपसंहरति-पपुरिति । पपुः पेयानि ।
अपुः परस्परं ररक्षुः । परस्परमुखे अग्नौ वा अहौषुः । अपवृत्तं परिवृत्तं
स्वाचारशिक्षया अपगतसदृत्तं वा ॥ ३६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
भु० मातृव्यवहारवर्णनं नामाष्टादशः सर्गः ॥ १८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
मातृव्यवहारवर्णनं नामाष्टादशः सर्गः ॥ १८ ॥