सप्तदशः सर्गः १७
श्रीवसिष्ठ उवाच ।
अथ राम भुशुण्डोऽसौ न प्रहृष्टो न वक्रधीः ।
सर्वाङ्गसुन्दरः श्यामः प्रावृषीव पयोधरः ॥ १ ॥
उपवर्ण्य भुशुण्डोऽत्र जीवन्मुक्तोचितैर्गुणैः ।
पृष्टार्थं विस्तराद्वक्तुं प्रवृत्त इति कथ्यते ॥
अथ भुशुण्ड इदमाहेति सर्गान्त्यश्लोकेन सम्बध्यते । हृष्ट
इष्टलाभप्रयुक्तहर्षवान् । वक्रधीः अनृजुबुद्धिः ॥ १ ॥
स्निग्धगम्भीरवचनः स्मितपूर्वाभिभाषणः ।
करस्थबिल्वफलवत्प्रतोलितजगत्त्रयः ॥ २ ॥
प्रतोलितं तुलयेव इयत्तया निश्चितं जगत्त्रयं येन ॥ २ ॥
तृणवद्दृष्टसकलः प्रमेयीकृतसंसृतिः ।
लोकाजवं जवीभावे दृष्टज्ञानपरावरः ॥ ३ ॥
तृणवद्दृष्टं सकलं भोगवृन्दं येन । लोकानां आजवं जवीभावे
कामानुधावने विषये सम्यग्विचार्य प्रमेयीकृता फलत्वेन निश्चिता
जन्ममरणादिसंसृतिर्येन । दृष्टं ज्ञानेन परमवरं च ब्रह्म येन ॥ ३ ॥
धीरस्थिरमहाकारो विश्रान्तिं गतमन्द्रः ।
परिपूर्णमनाः शुद्धः क्षीरार्णव इवागतः ॥ ४ ॥
अमृतोत्पादनानन्तरं गतो मन्दरो यस्मात्तथाविधः क्षीरार्णव इव
विश्रान्तिमागतः ॥ ४ ॥
परिविश्रान्तधीः शान्तः परमानन्दघूर्णितः ।
आविर्भावतिरोभावतज्ज्ञः संसारजन्मनाम् ॥ ५ ॥
बहिः परिविश्रान्तधीः अन्तः परमानन्दघूर्णितः । संसारे जन्म येषां
तथाविधानां सर्ववस्तूनामाविर्भावतिरोभावौ तत् तन्निमित्तं
मायातत्त्वमात्मतत्त्वं च जानातीति आविर्भावतिरोभावतज्ज्ञः ॥ ५ ॥
सरभसवदनाभिरामरूपः प्रियमधुरोचितगानहृद्यवाक्यः ।
स्वयमिव नवमाश्रितः शरीरं सकलभयापहरं प्रहर्षयुक्तः ॥ ६ ॥
प्रियं मधुरं च श्रवणोचितं वीणागानमिव हृद्यं वाक्यं यस्य
साक्षात्कारमात्रात्सकलभयापहरं स्वयं ब्रह्मैव जगदुद्धाराय नवं
शरीरमाश्रितः । अत एव सहजानन्दप्रहर्षयुक्तो भुशुण्डः प्रश्नोत्तरकथनाय
सरभसेन सोद्योगेन वदनेनाभिरामरूपः सन्निदमाहेति परेणान्वयः ॥ ६ ॥
इदममलगिरा समाह शुद्धममृतमनुज्झितसम्भ्रमक्रमेण ।
कथयितुमखिलं निजं स्वरूपं मधुपमिव स्तनितेन मुग्धमेघः ॥ ७ ॥
स भुशुण्डो मा मां प्रति शुद्धममृतमखिलं
निजस्वरूपमनुज्झितसम्भ्रमेणात्यक्तविनयोपचारोत्साहादिपरिष्कारेण क्रमेण
कथयितुममलगिरा इदं वक्ष्यमाणवृत्तान्तमाह । यथा मुग्धः सुन्दरो मेघः
स्तनितेन स्वगर्जितरवेण मधुपं मकरन्दपानरसिकं भ्रमरं प्रति तदेवाह
तद्वत् । तथा च प्रागेव प्रबुद्धब्रह्मानन्दरसिके मयि तदुक्तिर्नोपदेशः
किन्त्वनुवादमात्रमिति भावः ॥ ७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू०
भुशुण्डोपाख्याने भुशुण्डस्वरूपवर्णनं नाम सप्तदशः सर्गः ॥ १७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
भुशुण्डस्वरूपवर्णनं नाम सप्तदशः सर्गः ॥ १७ ॥