०१६

षोडशः सर्गः १६

श्रीवसिष्ठ उवाच ।

अथ तस्याहमपतं दीप्यमानवपुः पुरः ।
किञ्चिद्विक्षोभितसभः खान्नक्षत्रमिवाचले ॥ १ ॥

पुरःप्राप्तवसिष्ठेन पूजितेनासनादिभिः ।
भुशुण्डजन्मकर्मादेः कृतः प्रश्नोऽत्र वर्ण्यते ॥

अथाहं तस्य भुशुण्डस्य पुरः स्वात् अचले नक्षत्रमिव श्रपतं अवातरम् ॥ १ ॥

चुक्षोभ वायसास्थानं नीलोत्पलसरःसमम् ।
मत्पातमन्दवातेन भूकम्पेनेव सागतः ॥ २ ॥

किञ्चिद्विक्षोभितसभ इत्येतद्विवृणोति-चुक्षोमेति ।वायसानामास्थानं सभा ॥ २ ॥

अशङ्कितमपि प्राप्तं दर्शनान्मामनन्तरम् ।
भुशुण्डस्तु वसिष्ठोऽयं प्राप्त इत्यवबुद्धवान् ॥ ३ ॥

अशङ्कितमवितर्कितासम्भावितागमनमपि मां प्राप्तम् । अवबुद्धवान्
त्रिकालदर्शित्वादेवेति भावः ॥ ३ ॥

पत्रपुञ्जात्समुत्तस्थौ मेघशाव इवात्रलात् ।
हे मुने स्वागतमिति प्रोवाच मधुराक्षरम् ॥ ४ ॥

मेघशावः सूक्ष्मो मेघ इवेति यावत् ॥ ४ ॥

सङ्कल्पमात्रजाताभ्यां कराभ्यां कुसुमाञ्जलिम् ।
मह्यमाशु तदैवादान्मेघो हैममिवोत्करम् ॥ ५ ॥

तदैव स्वागतोक्तिकाल एव । हिममेव हैमं शिशिरमासारोत्करमिव ॥ ५ ॥

इदमासनमित्युक्त्वा नवं कल्पतरुच्छदम् ।
उपानीतवति त्यक्तभृत्ये वायसनायके ॥ ६ ॥

त्यक्तमृत्ये । भृत्यद्वारा आसनानयनमकृत्वा
स्वयमेवासनमादरादुपानीतवतीत्यर्थः ॥ ६ ॥

भुशुण्ड उत्थिते स्वीयकलापक्षेषु पक्षिषु ।
उपविष्टं मुनिं दृष्ट्वा स्वासनोन्मुखदृष्टिषु ॥ ७ ॥

उत्थितान्तं पूर्वान्वयि । स्वीयाः कलाः कान्तय इव प्रसरन्तः पक्षा येषां
तथाविधेषु पक्षिषु तत्सभावायसेषु ॥ ७ ॥

समन्तात्खगवृन्देन भुशुण्डेन समं ततः ।
तस्मिन्कल्पलतापुञ्जे ह्युपविष्टोऽहमासने ॥ ८ ॥

ततस्तदनन्तरमहं भुशुण्डेन सममुपविष्टः ॥ ८ ॥

अर्घ्यपाद्यादि सम्पाद्य भुशुण्डस्तुष्टमानसः ।
मामुवाच महातेजाः सौहृदान्मधुराक्षरम् ॥ ९ ॥

भुशुण्ड उवाच ।

अहो भगवताऽस्माकं प्रसादो दर्शितश्चिरात् ।
दर्शनामृतसेकेन यत्सिक्ताः सद्द्रुमा वयम् ॥ १० ॥

प्रसादोऽनुग्रहः । सद्द्रुमाः पुण्यवृक्षायमाणाः कल्पवृक्षसहिता वा । वयमिति
निकृष्टजातिताद्योतनाय जात्याख्यायाम्- इति बहुवचनम् ॥ १० ॥

मत्पुण्यचिरसम्भारप्रेरितेन त्वयाधुना ।
मुने मान्यैकमान्येन कुतश्चागमनं कृतम् ॥ ११ ॥

कुतः कस्मात्प्रदेशात् ॥ ११ ॥

कच्चिदस्मिन्महामोहेचिरं विहरतस्तव ।
अखण्ण्दितैव समता स्थिता चेतसि पावने ॥ १२ ॥

ममामोहे मूलाज्ञानकार्ये जगति ॥ १२ ॥

किमर्थमद्यागमनक्लेशेनात्मा कदर्थितः ।
वचनश्रवणोत्कानामाज्ञां नो वक्तुमर्हसि ॥ १३ ॥

आज्ञापनवचनश्रवणे उत्कानामुत्कण्ठितानां नः । आज्ञां आज्ञाप्यमर्थम् ॥ १३

त्वत्पाददर्शनादेव सर्वं ज्ञातं मया मुने ।
त्वदागमनपुण्येन वयमायोजितास्त्वया ॥ १४ ॥

चिरञ्जीवितचर्चाभिर्वयं वः स्मृतिमागताः ।
तेनेदमास्पदं पादैस्त्वं पवित्रितवानयम् ॥ १५ ॥

सर्वं ज्ञातमिति यदुक्तं तदेव स्फुटयति-चिरमिति । चिरं जीवितं येषां
तद्विषयाभिश्चर्चाभिर्विचारणाभिरिन्द्रसभायां जाताभिः ॥ १५ ॥

ज्ञातत्वदागमोऽप्येवं त्वां पृच्छामीह यन्मुने ।
भवद्वाक्यामृतास्वादवाञ्छितं प्रविजृम्भते ॥ १६ ॥

यदि ज्ञातस्तर्हि किमर्थं पृच्छसि तत्राह- भवद्वाक्येति ॥ १६ ॥

इत्युक्तवानसौ पक्षी भुशुण्डश्चिरजीवितः ।
त्रिकालामलसंवेदी तत्र प्रोक्तमिदं मया ॥ १७ ॥

श्रीवसिष्ठ उवाच ।

विहङ्गम महाराज सत्यमेतत्त्वयोच्यते ।
द्रष्टुमभ्यागतोऽस्म्यद्य त्वामेव चिरजीवितम् ॥ १८ ॥

आशीतलान्तःकरणो दिष्ट्या कुशलवानसि ।
पतितोऽसि न बुद्धात्मा भीषणां भववागुराम् ॥ १९ ॥

पतितः प्रविष्टः ॥ १९ ॥

तदेतं संशयं छिन्धि भगवन्मम सत्यतः ।
कस्मिन्कुले भवाञ्जातो ज्ञातज्ञेयः कथं भवान् ॥ २० ॥

भगवन् उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स
वाच्यो भगवानिति ॥ इत्युक्तज्ञानसम्पन्नः ॥ २० ॥

कियदायुश्च ते साधो वृत्तं स्मरसि किञ्च वा ।
केनायं वा निवासस्ते निर्दिष्टो दीर्घदर्शिनः ॥ २१ ॥

वृत्तमतिक्रान्तकल्पान्तचरित्रम् । अयं एतद्वृक्षरूपो निवसत्यस्मिन्निति निवासः ॥ २१ ॥

भुशुण्ड उवाच ।

यत्पृच्छसि मुने सर्वं तदिदं वर्णयाम्यहम् ।
अनुद्वेगितया यत्नात्कथा श्राव्या महात्मना ॥ २२ ॥

श्राव्या श्रोतव्या ॥ २२ ॥

युष्मद्विधास्त्रिभुवनप्रभुपूज्यरूपा आकर्णयन्ति यमुदारधियो महान्तः ।
तेनाशुभं प्रकथितेन विनाशमेति मेघास्पदेन विभवेन यथार्कतापः ॥ २३ ॥

यं वृत्तान्तं युष्मद्विधा आकर्णयन्ति तेन वृत्तान्तेन प्रकथितेन
वक्तॄनामन्येषां च श्रोतॄणामशुभं विनाशमेति । यथा मेघास्पदेन
वृष्टिच्छायावनादिविभवेनार्कतापो विनाशमेति तद्वत् ॥ २३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
वसिष्ठभुशुण्डसमायोगो नाम षोडशः सर्गः ॥ १६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
वसिष्ठभुशुण्डसमायोगो नाम षोडशः सर्गः ॥ १६ ॥