०१५

पञ्चदशः सर्गः १५

श्रीवसिष्ठ उवाच ।

कुसुमापूर्णकल्पाभ्रकुन्तले तस्य मूर्धनि ।
कल्पाङ्गमहमद्राक्षं शाखाचक्रमिव स्थितम् ॥ १ ॥

शृङ्गे कल्पतरुश्चूतः पुष्पपक्ष्यादिसम्पदः ।
स्कन्धे काककुलं तत्र भुशुण्डश्चेह वर्ण्यते ॥

कुसुमापूर्णानि कल्पाभ्राण्येव कुन्तलाः केशा यस्मिंस्तथाविधे तस्य शृङ्गस्य
मूर्धनि शिरोदेशे प्राणिनामभिलषितार्थं पूरणाय कल्पन्त इति कल्पान्यङ्गानि
शाखाद्यवयवा यस्य तथाविधं परितः
समप्रसृतशाखापङ्क्तित्वाच्छाखाचक्रमिव स्थितम् । परं
वैचित्र्यमागतमित्यन्तद्वादशश्लोकोक्तविशेषणविशिष्टमर्थात् शातातपोक्तं
चूततरुमहमद्राक्षमिति सम्बन्धः ॥ १ ॥

पुष्परेण्वभ्रवलितं रत्नस्तबकदन्तुरम् ।
उत्सेधनिर्जिताकाशं शृङ्गे शृङ्गमिवार्पितम् ॥ २ ॥

पुष्परेणुलक्षणैरभ्रैर्वलितं व्याप्तम् । उत्सेद्धन्नैन्नत्यम् । शृङ्गे
प्राग्वर्णितमेरुशृङ्गे ॥ २ ॥

ताराद्विगुणपुष्पौघं मेघद्विगुणपल्लवम् ।
रश्मिद्विगुणरेण्वभ्रं तडिद्द्विगुणमञ्जरीम् ॥ ३ ॥

न केवलमुत्सेधेनैव निर्जिताकाशं किन्तु तारादिद्विगुणपुष्पौघादिनापीत्याह##-
ह्रस्वनिषेधश्छान्दसः कपो लोपः ॥ ३ ॥

स्कन्धेषु किन्नरीगीतद्विगुणभ्रमरस्वनम् ।
दोलालोलाप्सरोलोकद्विगुणीकृतपल्लवम् ॥ ४ ॥

दोलालोलाप्सरोलोकानामोष्ठकरपदपल्लवैर्द्विगुणीकृतपल्लवम् ॥ ४ ॥

सिद्धगन्धर्वसङ्घातद्विगुणोत्थविहङ्गमम् ।
रत्नकान्त्यच्छनीहारद्विगुणत्वग्वृतांशुकम् ॥ ५ ॥

कामरूपत्वात्स्वैरविहारार्थं कृतविहङ्गमवेषैः
सिद्धगन्धर्वसङ्घातैर्द्विगुणं यथा स्यात्तथा उत्था निष्पन्ना विहङ्गमा यस्मिन् ।
रत्नकान्तिलक्षणया अच्छनीहारद्विगुणया त्वचा वृतांशुकं परिहितवस्त्रमिव
स्थितम् ॥ ५ ॥

चन्द्रबिम्बसमाश्लेषद्विगुणाङ्गबृहत्फलम् ।
मूलसंलीनकल्पाभ्रद्विगुणीकृतपर्वकम् ॥ ६ ॥

औन्नत्यातिशयेन चन्द्रबिम्बसमाश्लेषादमृतरसपूर्त्येव द्विगुणाङ्गानि अतएव
बृहन्ति फलानि यस्य । स्कन्धमूलेषु संलीनैः कल्पाभ्रैर्द्विगुणीकृतानीव पर्वाणि
यस्य ॥ ६ ॥

सुरसंवलितस्कन्धं पत्रविश्रान्तकिन्नरम् ।
निकुञ्जकुञ्जजीमूतं कच्छसुप्तसुरादिकम् ॥ ७ ॥

स्वाकारविपुलं भृङ्गानुत्सार्य वलयस्वनैः ।
अप्सरोभ्रमरीभिश्च गृहीतकुसुमान्तरम् ॥ ८ ॥

अप्सरोलक्षणभ्रमरीभिर्वलयस्वनैः कटकक्वणितैर्भृङ्गानुत्सार्य गृहीताः
कुसुमानामान्तरा मकरन्दाः यस्य । चकारः प्राक्तनविशेषणैरस्य समुच्चयार्थः
॥ ८ ॥

सुरकिन्नरगन्धर्वविद्याधरवरान्वितम् ।
जगज्जालमिवानन्तदशाशाकाशपूरकम् ॥ ९ ॥

जगज्जालं ब्रह्माण्डमिव स्थितम् । अनन्तानामनवधीनां दशानामाशानां
दिशां परिपूरकम् ॥ ९ ॥

नीरन्ध्रकलिकाजालं नीरन्ध्रमृदुपल्लवम् ।
नीरन्ध्रविकसत्पुष्पं नीरन्ध्रवनमालितम् ॥ १० ॥

नीरन्ध्रमञ्जरीपुञ्जं नीरन्ध्रमणिगुच्छकम् ।
नीरन्ध्रांशुकरत्नाढ्यं लताविलसनाकुलम् ॥ ११ ॥

अंशुकैर्दिव्यवस्त्रै रत्नैश्चाढ्यमिवार्थिकामप्रपूरकम् । लतानां विलसनं
लास्यम् ॥ ११ ॥

सर्वत्र कुसुमापूरैः सर्वत्र फलपल्लवैः ।
सर्वामोदरजःपुञ्जैः परं वैचित्र्यमागतम् ॥ १२ ॥

तस्य कक्षेषु कुञ्जेषु लतापत्रेषु पर्वसु ।
पुष्पेष्वालयसंलीनान्विहगान्दृष्टवानहम् ॥ १३ ॥

कक्षेषु स्कन्धशाखासन्धिषु कुञ्जेषु लतावृतशाखाग्रेषु ॥ १३ ॥

निशानाथकलाखण्डमृणालशकलैधितान् ।
अर्जुनाम्भोजिनीकन्दकवलान्ब्रह्मसारसान् ॥ १४ ॥

विहगेषु विशेषमाह-निशानाथेति । निशाकरकलानां
खण्डामृणालशकलानीव तैरेधितान्वर्धितान् तथा अर्जुनाः शुभ्रा अम्भोजिनीकन्दा
अपि अवलानि ग्रासा येषां तथाविधान् ब्रह्मवाहनभूतान्सारसान् हंसान् ॥ १४ ॥

विरञ्चेरथ हंसानां पोतकान्सामगायिनः ।
ॐकारवेदसुहृदो ब्रह्मविद्यानुशासनान् ॥ १५ ॥

ॐकारस्य वेदानां च रहस्यार्थालोचनसहायत्वात्सुहृदो मित्रभूतान्
परापरब्रह्मविद्यास्वनुशासनं गुरुमुखाद्विधिनाध्ययनं येषाम् ॥ १५ ॥

उद्गीर्णमन्त्रनिचयान्स्वाहाकारनिभस्वनान् ।
अस्थिनैकतडित्पुञ्जनीलमेघसमोपमान् ॥ १६ ॥

अग्निवाहनशुकास्तत्र वर्णयति-उद्गीर्णेत्यादिना । अस्थि शङ्खः नैकान्यनेकानि
तडित्पुञ्जानि नीलमेघाश्च वर्णतः समा उपमा येषाम् ॥ १६ ॥

देवैर्निरीक्षितान्नित्यं यज्ञवेदिलतादलान् ।
शुकान्कार्शानवाञ्छ्यामाञ्छिशूञ्छिखिशिखाशिखान् ॥ १७ ॥

यज्ञवेदिषु आस्तीर्णानां हरितकुशलतानां दलानीव श्यामान् हरितान्
कृशानुरग्निस्तद्वाहनभूतान् शुकानहं दृष्टवानिति सर्वत्रानुषज्यते ।
मयूरपोतान्वर्णयति-शिशूनित्यादिना । शिखिनः अग्नेः शिखेव भास्वराः शिखा
येषाम् ॥ १७ ॥

गौरीरक्षितबर्हौघान्कौमारान्वरबर्हिणः ।
स्कन्दोपन्यस्तनिःशेषशैवविज्ञानकोविदान् ॥ १८ ॥

व्योम्नैव जातनष्टानां महतां व्योमपक्षिणाम् ।
बन्धूनाबद्धनिलयाञ्छरदभ्रसमाकृतीन् ॥ १९ ॥

व्योम्नैव जातानां तत्रैव नष्टानां मरणपर्यन्तं भूमावनवतरतां अत एव
बलाधिक्यान्महतामत एव व्योमपक्षिनाम्ना प्रसिद्धानां पक्षिजातिभेदानां
नित्यं क्रीडासहायत्वाद्बन्धून् आबद्धनिलयान् कृतनीडान् ॥ १९ ॥

विरञ्चिहंसजानन्यानन्यानग्निशुकोद्भवान् ।
कौमारबर्हिजानन्यानन्यानम्बरपक्षिजान् ॥ २० ॥

द्वितुण्डांश्च भरद्वाजान्हेमचूडान्विहङ्गमान् ।
कलविङ्कबलान्गृध्रान्कोकिलान्क्रौञ्चकुक्कुटान् ॥ २१ ॥

भासचाषबलाकादीन्बहूनन्यांश्च राघव ।
भूतौघं जगतीवाहं दृष्टवांस्तत्र पक्षिणः ॥ २२ ॥

भूतौघं प्राणिजातम् । तत्र तस्मिन्वृक्षे ॥ २२ ॥

दक्षिणस्कन्धशाखायां स्थितायां वै दवीयसि ।
अथाहं दृष्टवान्पुष्टपत्रायामम्बरस्थितः ॥ २३ ॥

पुष्टानि घनानि पत्राणि यस्याः ॥ २३ ॥

काले काकोलवलयं मञ्जरीजालमालितम् ।
लोकालोकाचलेऽरण्ये कल्पाभ्रौघमिव स्थितम् ॥ २४ ॥

काले दक्षिणशाखादर्शनानन्तरकाले काकोला द्रोणकाकाख्याः
काकजातिभेदास्तेषां वलयं मण्डलम् । कल्पाभ्राणि संवर्तमेघास्तदोघमिव
स्थितम् ॥ २४ ॥

तत्र पश्याम्यहं यावदेकान्ते स्कन्धकोटरे ।
विचित्रकुसुमास्तीर्णे विविधामोदशालिनि ॥ २५ ॥

पुण्यकृद्योषितां स्वर्गे प्रियस्तबकवासिताः ।
अपरिक्षुभिताकाराः सभायां वायसाः स्थिताः ॥ २६ ॥

पुण्यकृतां जनानां योषितां भोग्यानामप्सरसां स्वर्गे रतिसुखभोगयोग्ये
स्कन्धकोटरे इति पूर्वेणान्वयः । शान्त्यादिगुणशालित्वादपरिक्षुभिताकाराः ॥ २६ ॥

विभेद्यमेघा वातेन समेनेवापसारिताः ।
तेषां मध्ये स्थितः श्रीमान्भुशुण्डः प्रोन्नताकृतिः ॥ २७ ॥

मेघा वातेन वायुना समेन समभागेन विभेद्य छित्त्वा अपसारिताः कोटरे
प्रवेशिता इव ॥ २७ ॥

मध्ये च काचखण्डानामिन्द्रनील इवोन्नतः ।
परिपूर्णमना मानी समः सर्वाङ्गसुन्दरः ॥ २८ ॥

मानी मान्यः ॥ २८ ॥

प्राणस्पन्दावधानेन नित्यमन्तर्मुखः सुखी ।
चिरञ्जीवीति विख्यातश्चिरजीवितया तया ॥ २९ ॥

प्राणस्पन्दस्यावधानेन निरोधेन । तया प्रसिद्धतमया ॥ २९ ॥

जगद्विदितदीर्घायुर्भुशुण्ड इति विश्रुतः ।
युगागमापायदशादर्शनप्रौढमानसः ॥ ३० ॥

प्रतिकल्पं च गणयन्खिन्नश्चक्रपरम्पराम् ।
जन्मनां लोकपालानां शर्वशक्रमरुत्वताम् ॥ ३१ ॥

लोकपालप्रायापाठात् शर्वा ईशानाः शक्रा इन्द्राः मरुत्वन्तो मरुत्सखा
अग्नयस्तेषां जन्मनां चक्रपरम्परां गणयन् खिन्नो निर्विण्नः ॥ ३१ ॥

संस्मर्ता समतीतानां सुरासुरमहीभृताम् ।
प्रसन्नगम्भीरमनाः पेशलः स्निग्धमुग्धवाक् ॥ ३२ ॥

पेशलश्चतुरः ॥ ३२ ॥

अव्यक्तवक्ता विज्ञाता निर्ममो निरहङ्कृतिः ।
सुहृद्बन्धुस्तथा मित्रं मृत्युपुत्रो गुरुप्रभुः ।
सर्वदा सर्वथा सत्यं सर्वं सर्वस्य संस्तवे ॥ ३३ ॥

अव्यक्तानामस्फुटानां सूक्ष्मतमार्थानां स्फुटीकृत्य वक्ता । यतस्तेषां
विज्ञाता मृत्योः पुत्र इव परमप्रियः । बुद्ध्या गुरोर्बृहस्पतेरपि प्रभुः
समर्थः । कुतोऽयं सर्वेषां सुहृदादिस्तत्राह-सर्वदेति । यतोऽयं सर्वस्य
प्राणिजातस्य सर्वारोपाधिष्ठानत्वात्सर्वथा सर्वप्रकारेणापि सर्वदा सत्यं सर्वस्य
संस्तवे वर्णनप्रसङ्गे च सर्वमत इत्यर्थः ॥ ३३ ॥

सौम्यः प्रसन्नमधुरो रसवान्महात्मा हृद्यः सरोवर
इवान्तरखण्डशैत्यः ।
हृत्पुण्डरीककुहरं व्यवहारवेत्ता
गाम्भीर्यमच्छमजहात्प्रकटाशयश्रीः ॥ ३४ ॥

पक्षद्वयेऽपि विशेषणानि स्पष्टानि । हृत्पुण्डरीकस्य कुहरं । दहराकाशरूप
इत्यर्थः । तस्य भूताकाशशङ्कावारणायाह-व्यवहारवेत्तेति । सरःपक्षे
हृदि मध्ये पुण्डरीकाणामाधारभूतं कुहरं निखातं यस्य । वयः
पक्षिणस्तेषामवहारो विश्रान्तिस्तद्वेत्ता । निर्मलतमत्वात्प्रकटाशयश्रीः ॥ ३४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
भुशुण्डोपाख्याने भुशुण्डदर्शनं नाम पञ्चदशः सर्गः ॥ १५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
भुशुण्डदर्शनं नाम पञ्चदशः सर्गः ॥ १५ ॥