चतुर्दशः सर्गः १४
श्रीवसिष्ठ उवाच ।
अस्ति तावदनन्तस्य तस्य क्वचिदयं किल ।
जगद्रूपः परिस्पन्दो मृगतृष्णा मराविव ॥ १ ॥
सुरसंसच्छ्रुतस्यात्र भुशुण्डस्य दिदृक्षया ।
वसिष्ठगमनं मेरुस्तच्छृङ्गं चात्र वर्ण्यते ॥
प्रस्तुतं प्राणायामादियोगक्रमं भुशुण्डोक्तिप्रपञ्चनेन विस्तराद्वर्णयिष्यन्
भुशुण्डाख्यायिकामारभते-अस्तीत्यादिना । तस्य योगिविश्रान्तिस्थानत्वेन
वर्णितस्य परमपदस्य क्वचिदविद्यावृतप्रदेशे पादोऽस्य विश्वा भूतानि इति
श्रुतेर्जगद्रूपो ब्रह्माण्डाकारः परिस्पन्दो विवर्तः ॥ १ ॥
तत्र कारणतां यातो ब्रह्मा कमलसम्भवः ।
स्थितः पितामहत्वेन सृष्टभूतभरभ्रमः ॥ २ ॥
तत्र ब्रह्माण्डे मनुप्रजापतिप्रभृतीनां कारणतां यातः ॥ २ ॥
तस्याहं मानसः पुत्रो वसिष्ठः श्रेष्ठचेष्टितः ।
ऋक्षचक्रे ध्रुवधृते निवसामि युगं प्रति ॥ ३ ॥
ऋक्षचक्रे नक्षत्रचक्रे सप्तर्षिलोके । युगशब्देन युगसमूहो वैवस्वतमन्वन्तरं
लक्ष्यते ॥ ३ ॥
सोऽहं कदाचिदास्थाने स्वर्गे तिष्ठञ्छतक्रतोः ।
श्रुतवान्नारदादिभ्यः कथां सुचिरजीविनाम् ॥ ४ ॥
शतऋतोरिन्द्रस्य आस्थाने सभायाम् ॥ ४ ॥
कथाप्रसङ्गे कस्मिंश्चिदथ तत्राभ्युवाच ह ।
शातातपो नाम मुनिर्मौनी मानी महामतिः ॥ ५ ॥
मौनी अल्पभाषिता । मानी माननार्हः प्रमाणकुशलश्च ॥ ५ ॥
मेरोरीशानकोणस्थे पद्मरागमये दिवि ।
अस्ति कल्पतरुः श्रीमाञ्छृङ्गे चूत इति श्रुतः ॥ ६ ॥
यदुवाच तदाह-मेरोरित्यादिना । पद्मरागमये शृङ्गे दिवि नभादेशे चूत इति
श्रुतो विश्रुतः कल्पतरुरस्ति ॥ ६ ॥
तस्य कल्पतरोर्मूर्ध्नि दक्षिणस्कन्धकोटरे ।
कलधौतलताप्रोते विद्यते विहगालयः ॥ ७ ॥
कलधौते हेमरूप्ये तन्मयीभिः कल्पलताभिः प्रोते ॥ ७ ॥
तस्मिन्निवसति श्रीमान्भुशुण्डो नाम वायसः ।
वीतरागो बृहत्कोशे ब्रह्मेव निजपङ्कजे ॥ ८ ॥
स यथा जगतां कोशे जीवतीह सुराश्चिरम् ।
चिरञ्जीवी तथा स्वर्गे न भूतो न भविष्यति ॥ ९ ॥
स दीर्घायुः स नीरागः स श्रीमान्स महामतिः ।
स विश्रान्तमतिः शान्तः स कान्तः कालकोविदः ॥ १० ॥
यतो विश्रान्तमतिरत एव शान्तः ॥ १० ॥
स यथा जीवति खगस्तथेह यदि जीव्यते ।
तद्भवेज्जीवितं पुण्यं दीर्घं चोदयमेव च ॥ ११ ॥
तत्तथाविधं दीर्घं जीवितं साधनदशायां पुण्यं फलदशायामुदयं
परमपुरुषार्थाभ्युदययुक्तं च भवेत् । सम्भावनायां लिङ् ॥ ११ ॥
इति तेन भुशुण्डोऽसौ भूयः पृष्टेन वर्णितः ।
यथावदेव देवानां सभायां सत्यमुक्तवान् ॥ १२ ॥
भूयोऽपि मया पृष्टेन तेन शातातपेन इति उक्तप्रकारेणैव भुशुण्डो वर्णितः ।
तदुक्तेः प्रशंसामात्रत्वशङ्कां वारयति-सत्यमुक्तवानिति ॥ १२ ॥
कथावसरसंशान्तावथ याते सुरव्रजे ।
भुशुण्डं विहगं द्रष्टुमहं यातः कुतूहलात् ॥ १३ ॥
भुशुण्डः संस्थितो यत्र मेरोः शृङ्गं तदुत्तरम् ।
सम्प्राप्तवान्क्षणेनाहं पद्मरागमयं बृहत् ॥ १४ ॥
रत्नगैरिककान्तेन तेजसा वह्निवर्चसा ।
मध्वासवरसेनेव रञ्जयत्ककुभां गणम् ॥ १५ ॥
तदेव शृङ्गं वर्णयति-रत्नेत्यादिना । रत्नैर्गैरिकैश्च कान्तेन ।
मध्वासवप्रयुक्तेन रसेन मदेनेव ककुभां दिशां गणं रञ्जयत् लोहितीकुर्वत् ।
क्षीबा हि लोहितायमानाः प्रसिद्धाः ॥ १५ ॥
कल्पान्तज्वलनोज्ज्वालापिण्डाद्रिमिव सञ्चितम् ।
इन्द्रनीलशिखाधूममालोकारुणिताम्बरम् ॥ १६ ॥
कल्पान्तज्वलनादुद्गतानां ज्वालानां पिण्ड एवाद्रिः सम्पन्न इवेत्युत्प्रेक्षा ।
सञ्चितं शोभोपचितम् । इन्द्रनीलानां शिखा इव ऊर्ध्वप्रसृताः प्रभा एव धूमा
यस्येत्युत्प्रेक्षायामुपपत्तिः ॥ १६ ॥
सर्वेषामेव रागाणां राशिमद्राविव स्थितम् ।
सर्वसन्ध्याभ्रजालानां घनमेकमिवाकरम् ॥ १७ ॥
सर्वेषां रागाणां लौहित्यानां सर्वेषां प्राणिनां रागाणां दर्शनेच्छानां
वा ॥ १७ ॥
उत्क्रान्तिं कुर्वतो मेरोर्ब्रह्मनाड्येव निर्गतम् ।
मूर्धानमागतं कान्तं वाडवं जठरानलम् ॥ १८ ॥
ब्रह्मनाड्या सुषुम्नया उत्क्रान्तियोगेन ब्रह्मरन्ध्रं भित्त्वा निर्गमनं
कुर्वतश्चिकीर्षतो मेरोर्जठरान्निर्गतं मूर्धानं शिरःप्रदेशमागतं वाडवं
वडवाग्निकल्पं जठरानलमिव स्थितमित्युत्प्रेक्षा ॥ १८ ॥
सुमेरुवनदेव्येव नवालक्तकरञ्जितम् ।
लीलयाऽऽदातुमिन्दुं खेनीतं हस्तशिखाङ्गुलिम् ॥ १९ ॥
सुमेरुवनदेव्या लीलया क्रीडाकौतुकेन इन्दुमादातुं ग्रहीतुं खे नीतं
प्रसारितमलक्तकरसरञ्जितं हस्तस्य शिखावत्संहतमङ्गुलिजातमिव ॥ १९ ॥
ज्वालाभिरिव मालाभिररुणाभिः पयोमुखम् ।
खं गन्तुमिव सस्पन्दं शैलस्थमिव वाडवम् ॥ २० ॥
मालाभिरिव ग्रथिताभिर्ज्वालाभिः ख्नं गन्तुमिव सस्पन्दं चलितमत एव शैलस्थं
पर्वतमारूढं हव्यवाहकत्वादग्निहोत्राद्याहुतिपयो मुखे यस्य तथाविधं
वाडवं ब्राह्मणसम्बन्धिनमध्वराग्निमिव स्थितम् । शृङ्गपक्षे पयो
निर्झरोदकं मुखे अग्रभागे यस्य ॥ २० ॥
ताराः स्प्रष्टुमिवाकाशमङ्गुलीभिरिव त्रिभिः ।
कचदंशुनखाग्राभिः परिचुम्बदिवोन्नतम् ॥ २१ ॥
कचद्रत्नांशुनखाग्राभिस्त्रिभिः शृङ्गाग्राङ्गुलिभिस्तारा अश्विन्यादीः स्प्रष्टुं
स्पृष्ट्वा गणयितुमिव आकाशं परिचुम्बत् व्याप्नुवदिव उन्नतम् ॥ २१ ॥
गर्जज्जीमृतमुरजं भूभृतानां तु मण्डपम् ।
हसत्कुसुमगुच्छाढ्यं ध्वनत्षट्पदपेटकम् ॥ २२ ॥
मुरजा वाद्यभेदाः । भुवा वनभूम्या भृतानां पुष्टानां वनलक्ष्मीणां
नृत्यमण्डपमिव स्थितम् । ध्वनत्षट्पदपेटकं भ्रमरसमूहो यस्मिन् ॥ २२ ॥
दन्ततालदलावल्या परिहासादिव स्फुरत् ।
दोलालोलाप्सरोवृन्दमुदारमदमन्मथम् ॥ २३ ॥
दन्तपङ्क्तिवद्विकसन्त्या तालपत्राणामावल्या पङ्क्त्या । उदारौ मदमन्मथौ
सर्वप्राणिनां यस्मिन् ॥ २३ ॥
शिलाविश्रान्तविबुधमिथुनाश्रितकन्दरम् ।
वराम्बराजिनं शुभ्रगङ्गायज्ञोपवीति च ॥ २४ ॥
तापसत्वेनोत्प्रेक्षते-वरेति ॥ २४ ॥
तापसं पिङ्गलमिव वेणुदण्डधरं स्थितम् ।
गङ्गानिर्झरनिर्ह्रादि लतागृहगतामरम् ॥ २५ ॥
गन्धर्वगीतसुभगमामोदमधुरानिलम् ।
फुल्लहेमाम्बुजोत्तंसं तारारत्नविभूषितम् ।
व्योम्नः पारमिव प्राप्तं पिङ्गलं मैरवं शिरः ॥ २६ ॥
पारं ऊर्ध्वावधिम् ॥ २६ ॥
सितहरितपीतपाटलधवलैर्वनकुसुमराशिनवरङ्गैः ।
दिवि विहितामलचित्रं लीलाचलममरयुवतिवर्गस्य ॥ २७ ॥
सितहरितादिवर्णैर्वनकुसुमराशिलक्षणैः प्रतिदिनं नवै रङ्गै रञ्जकद्रव्यैर्दिवि
व्योम्नि विहितानि लिखितानीव अमलानि चित्राणि येन तथाविधममरयुवतिवर्गस्य लीलाचलं
क्रीडापर्वतभूतं मैरवं शिरः शृङ्गमहं सम्प्राप्तवानिति
प्राक्तनचतुर्दशश्लोकेन सर्वेषामन्वयः ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाण प्र० पू०
भुशुण्डोपाख्याने मेरुशिखरवर्णनं नाम चतुर्दशः सर्गः ॥ १४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
मेरुशिखरवर्णनं नाम चतुर्दशः सर्गः ॥ १४ ॥