त्रयोदशः सर्गः १३
श्रीराम उवाच ।
सम्यग्ज्ञानविलासेन वासनाविलयोदये ।
जीवन्मुक्तपदे ब्रह्मन्नूनन्न् विश्रान्तवानहम् ॥ १ ॥
वर्णितस्तत्त्वबोधेन वासनाविलयक्रमः ।
प्राणरोधेन तं वक्तुं पीठिकात्रोपरच्यते ॥
उपशमप्रकरणे दर्शितयोर्वासनाक्षयहेत्वोर्ज्ञानयोगक्रमयोर्मध्ये
उत्तमाधिकारिविषयेण ज्ञानविलासेन वासनाविलयफलं प्राप्य कृतार्थोऽपि रामो
मन्दमध्यमाधिकारिणामुपकाराय योगक्रमेणापि वासनानाशप्रकारं
जिज्ञासमानः पृच्छति-सम्यगिति द्वाभ्याम् ॥ १ ॥
प्राणस्पन्दनिरोधेन वासनाविलयोदये ।
जीवन्मुक्तपदे ब्रह्मन्वद विश्रम्यते कथम् ॥ २ ॥
श्रीवसिष्ठ उवाच
संसारोत्तरणे युक्तिर्योगशब्देन कथ्यते ।
तां विद्धि द्विप्रकारां त्वं चित्तोपशमधर्मिणीम् ॥ ३ ॥
पृष्टस्योत्तरं वक्तुं वसिष्ठोऽपि उपशमप्रकरणोक्तमेव
राजयोगहठयोगप्रकारद्वयं स्मारयन्प्रतिजानीते-संसारेति द्वाभ्याम् ॥ ३ ॥
आत्मज्ञानं प्रकारोऽस्या एकः प्रकटितो भुवि ।
द्वितीयः प्राणसंरोधः शृणु योऽयं मयोच्यते ॥ ४ ॥
श्रीराम उवाच ।
सुलभत्वाददुःखत्वात्कतरः शोभनोऽनयोः ।
येनावगतमात्रेण भूयः क्षोभो न बाधते ॥ ५ ॥
तत्र प्रथमं तयोः कतरस्य सुकरत्वमिति विशेषं पृच्छति-सुलभत्वादिति ।
क्षोभो विक्षेपः ॥ ५ ॥
श्रीवसिष्ठ उवाच ।
प्रकारौ द्वावपि प्रोक्तौ योगशब्देन यद्यपि ।
तथापि रूढिमायातः प्राणयुक्तावसौ भृशम् ॥ ६ ॥
प्राणयुक्तौ प्राणनिरोधे । असौ योगशब्दः ॥ ६ ॥
एको योगस्तथा ज्ञानं संसारोत्तरणक्रमे ।
समावुपायौ द्वावेव प्रोक्तावेकफलप्रदौ ॥ ७ ॥
असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः ।
मम त्वभिमतः साधो सुसाध्यो ज्ञाननिश्चयः ॥ ८ ॥
कस्यचित्सुकुमारचित्तस्य प्राणसंरोधदुःखासहिष्णोर्हठयोगोऽसाध्यः ।
कठोरचित्तस्य विचाराकुशलस्य ज्ञाननिश्चयोऽसाध्यः । मम शुद्धचित्तस्य
विचारकुशलस्य ज्ञाननिश्चयः सुसाध्योऽभिमत इत्यर्थः ॥ ८ ॥
अज्ञानं पुनरज्ञातं स्वप्नेष्वपि न तद्भवेत् ।
ज्ञानं सर्वास्ववस्थासु नित्यमेव प्रवर्तते ॥ ९ ॥
विचाराकुशलता हि ज्ञानाज्ञानस्वरूपविवेकासामर्थ्ये स्यात् । तत्तु प्रमाणकुशलस्य
स्वप्नेऽप्यसम्भावितमित्याशयेनाह-अज्ञानमिति । प्रवर्तते स्वत एव प्रथते ।
तथाचाज्ञनस्य सदैव साक्षिणा प्रसिद्धत्वाज्ज्ञानस्य च स्वप्रकाशतया
स्वतःप्रसिद्धेर्वैधर्म्यस्य चानुभवादेव प्रसिद्धेर्विवेकसम्भवाज्ज्ञानं
सुकरं योगस्तु न तथेति दुष्कर इति भावः ॥ ९ ॥
धारणासनदेशादिसाध्यत्वेन सुसाध्यताम् ।
नायाति योगो ह्यथवा विकल्पो नैव शोभनः ॥ १० ॥
प्रशस्तदेशकालविषयादिबाह्यहेतुसापेक्षत्वादपि योगो दुष्कर इत्याह-धारणेति ।
धारणादेशो बाह्यो गिरिकूटचन्द्रतारादिर्हृदयकण्ठतालुमूलभ्रमध्यादिश्च ।
आसनदेशस्तु समे शुचौ शर्करवह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः ।
मनोनुकूले न तु चक्षुपीडने गुहानिरुद्धाश्रयणे प्रयोजयेत् ॥ इति
श्रुतिस्मृतिशास्त्रप्रसिद्धस्तत्साध्यत्वेन योगः सुसाध्यतां नायाति । निरुत्साहानां
मन्दमतीनां मूर्खाणां पुरुषापसदानामिव न धीरस्य समर्थस्य
यतमानस्याधिकारिणः शास्त्रीये साधने सुसाध्यत्वकष्टसाध्यत्वविकल्पचिन्ता
युक्तेत्याह-अथवेति ॥ १० ॥
द्वावेव किल शास्त्रोक्तौ ज्ञानयोगौ रघूद्वह ।
तत्रोक्तं भवते ज्ञानमन्तस्थं ज्ञेयनिर्मलम् ॥ ११ ॥
एवमवान्तरप्रश्नं निरस्य पूर्वप्रश्नोत्तरं वक्तुमुपक्रमते-द्वावित्यादिना ॥
११ ॥
प्राणापानतया रूढो दृढदेहगुहाशयः ।
अनन्तसिद्धिदः साधो योगोऽयं बुद्धिदः शृणु ॥ १२ ॥
प्राणापानतया प्राणापानयोः समतासम्पत्तिरूपेण रूढः प्रसिद्धः
सिद्धिकामानां खेचरत्वाद्यनन्तसिद्धिदः । ज्ञानकामानां तु बुद्धिदः
साक्षात्कारहेतुः । अतस्तं शृण्वित्यर्थः ॥ १२ ॥
मुखानिलस्फुरणनिरोधसम्भवस्थितिं गतो नृपसुत चेतसाऽक्षये ।
समाहितस्थितिरिह योगयुक्तितः परे पदे प्रगलितगीर्निवत्स्यसि ॥ १३ ॥
तमेव समाधिसुखविश्रान्तिफलकीर्तनेनापि प्ररोचयन्नाह-मुखेति । हे नृपसुत
त्वं चेतसा उद्युक्तचित्तेन मुखानिलस्य प्राणस्य यत्स्फुरणं सञ्चरणं तन्निरोधेन
सम्भवति सिद्ध्यति तथाविधां स्थितिं प्रतिष्ठां गतः सन् इह प्रत्यग्रूपे अक्षरे परे
पदे योगश्चित्तवृत्तिनिरोधस्तदभ्यासयुक्तितः समाहितस्थितिः सन्
विगलितगीर्वागगोचरनिरतिशयानन्दरूपो भूत्वा निवत्स्यसि स्थास्यसि ॥ १३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे
पू० ज्ञानविचारयोगोपदेशो नाम त्रयोदशः सर्गः ॥ १३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
ज्ञानविचारयोगोपदेशो नाम त्रयोदशः सर्गः ॥ १३ ॥