द्वादशः सर्गः १२
श्रीवसिष्ठ उवाच ।
इति निश्चयवन्तस्ते महान्तो विगतैनसः ।
सत्याः सत्ये पदे शान्ते समे सुखमवस्थिताः ॥ १ ॥
बहिर्नीरागनिःसङ्गामन्तःस्वच्छात्मभास्वराम् ।
जनकादिस्थितिं रामो गुरुप्रोक्तामिहाग्रहीत् ॥
ते जनकादयो जीवन्मुक्ताः अन्तः सत्ये पदे शोधिततत्पदार्थे व्यवस्थिताः ॥ १ ॥
इति पूर्णधियो धीराः समनीरागचेतसः ।
न निन्दन्ति न नन्दन्ति जीवितं मरणं तथा ॥ २ ॥
बहिः पूर्णा धीः शोधितत्वम्पदार्थो येषाम् । अतएवान्तर्बहिश्च समानीरागचेतसः ॥
२ ॥
इत्यलक्ष्यचमत्कारा नारायणभुजा इव ।
ऋजवः स्खलिताकारा अपरा इव मेरवः ॥ ३ ॥
अलक्ष्ये सूक्ष्मतमेऽपि तक्ष्ये वेधनचमत्कारो येषाम् । अतएव नारायणभुजा इव
स्थिताः । स्खलिताकारा नम्रस्वभावाः अपरा मेरव इव स्थिराः ॥ ३ ॥
रेमिरे वनखण्डेषु द्वीपेषु नगरेषु च ।
देवोपवनमालासु स्वर्गेषु च सुरा इव ॥ ४ ॥
तेषां समदृष्ट्या विहारं प्रपञ्चयति-रेमिरे इत्यादिना ॥ ४ ॥
भ्रेमुः कुसुमपूर्णासु दोलान्दोलचलासु च ।
विचित्रवनलेखासु मेरुशृङ्गशिखासु च ॥ ५ ॥
दोलानामान्दोलनैश्चलासु ॥ ५ ॥
चक्रुर्विजितशत्रूणि चामरच्छत्रवन्ति च ।
विचित्रार्थानि राज्यानि चित्राचारमयानि च ॥ ६ ॥
विचित्रा अर्थास्त्रिवर्गा येषु तानि ॥ ६ ॥
अनुजग्मुरिमान्सर्वान्नानाचारविचेष्टितान् ।
श्रुतिस्मृत्युदितारम्भामितिकर्तव्यतामिति ॥ ७ ॥
नानाचारा बहुविधशिष्टाचारास्तैर्विचेष्टिताननुष्ठितान्धर्माननुजग्मुः ।
स्वयमप्यनुष्ठितवन्त इत्यर्थः । इति इत्थमेव श्रुतिस्मृत्युदिता आरम्भाः प्रयत्ना
यस्यास्तथाविधामितिकर्तव्यताम् । साङ्गं यागादीति यावत् । अनुजग्मुः ॥ ७ ॥
ईदृशीरमणीयेषु ललनाहास्यहारिषु ।
विहाराहाररम्येषु भोगाभोगेषु भूषिताः ॥ ८ ॥
ईदृशीभिर्दृष्टादृष्टसाधनसम्पद्भिः रमणीयेषु भोगानामाभोगेषु
कलापेषु ॥ ८ ॥
विविशुश्चारुचूतासु मन्दारवलितासु च ।
अप्सरोगीतपूर्णासु नन्दनोद्यानभूमिषु ॥ ९ ॥
विविशुर्निर्विविशुः ॥ ९ ॥
सचराचरभूतेषु विश्रान्ताखिलजन्तुषु ।
यज्ञक्रियाकलापेषु गार्हस्थ्येषु यथाक्रमम् ॥ १० ॥
चराचरभूतैः सहितेषु सर्वभुवनेषु । विश्रान्ताः सुखिता अखिला जन्तवो
यैस्तथाविधेषु । यज्ञक्रियाकलापेषु गार्हस्थ्येषु च । अयं वा आत्मा सर्वेषां
भूतानां लोकः । यथैव क्षुधिता बाला मातरं पर्युपासते । एवं सर्वाणि
भूतान्यग्निहोत्रमुपासते इत्यादिश्रुतेरिति भावः ॥ १० ॥
तेरुर्हतगजेन्द्रासु भ्रान्तभूरिशिवासु च ।
भेरीभाङ्कारभीमासु सङ्ग्रामार्णववीथिषु ॥ ११ ॥
तेरुर्निस्तेरुः ॥ ११ ॥
तस्थुः परुषचित्तासु हृतवित्तोद्धतासु च ।
संरम्भक्षोभरौद्रीषु सर्वासु द्वन्द्वरीतिषु ॥ १२ ॥
परुषाणि क्रूराणि क्लेशराहानि चित्तानि यासु हृतवित्तैः शत्रुभिरुद्धतासु परिभूतासु
। द्वन्द्वरीतिषु विपत्स्विति यावत् ॥ १२ ॥
मनस्तेषां तु नीरागमनुपाधि गतभ्रमम् ।
असक्तं मुक्तमाशान्तं परं सत्वपदं गतम् ॥ १३ ॥
न ममज्जुः क्वचिदपि सङ्कटेषु महत्स्वपि ।
महदप्युपयातेषु कुलशैलाः सरस्स्विव ॥ १४ ॥
महदपि ऐश्वर्यमिति शेषः । कुलशैला हिमवदादयः ॥ १४ ॥
नोल्ललास विलासिन्या श्रिया परमकान्तया ।
परिपूर्णेन्दुलक्ष्म्येव जलराशी रघूद्वह ॥ १५ ॥
जलराशिरिति व्यतिरेके दृष्टान्तः । ढ्रलोपे इति दीर्घः ॥ १५ ॥
न मम्लौ दुःखशोकेन ग्रीष्मेणेव वनस्थलम् ।
जहर्ष च न भोगौघैरवश्यायैरिवौषधीः ॥ १६ ॥
ते हि केवलमव्यग्राः कुर्वन्तः काममञ्जरी ।
इष्टानिष्टफलं राम नाभिलेषुर्न तत्यजुः ॥ १७ ॥
अव्यग्राः कर्तृत्वाभिनिवेशरहिताः । काम्यन्त इति कामा भोगास्तल्लक्षणा मञ्जरीः
कुर्वन्तोऽनुभवन्तः ॥ १७ ॥
नोदगुः कार्यसम्पत्तावाक्रान्ता नास्तमाययुः ।
जहृषुर्न सुखप्राप्तौ मम्लुर्नैव च सङ्कटे ॥ १८ ॥
शत्रुजयादिकार्यसम्पत्तौ सत्यां न उदगुरुत्कर्षं प्रापुः । शत्रुभिराक्रान्ताश्च
अस्तमपकर्षं नाययुः ॥ १८ ॥
मुमुहुर्न विमोहेषु न ममज्जुर्विपत्क्रमैः ।
न जहर्षुः शुभैः शोकै रुरुदुर्न भवानिव ॥ १९ ॥
विमोहेषु विमोहहेतुषु कृच्छ्रेषु । विपदां क्रमैराक्रमणैः ॥ १९ ॥
प्राकृताचारसम्प्राप्ते कुर्वन्तः कर्म केवलम् ।
स्थिता विगतसंरम्भमपरा इव मेरवः ॥ २० ॥
प्रकृत एव प्राकृतः स्वस्ववर्णोचित आचारस्तेन सम्प्राप्ते विषये ॥ २० ॥
तां त्वं दृष्टिमवष्टभ्य राघवाऽघविनाशिनीम् ।
अनहङ्कृत्यहङ्कारो विहरस्व यथाक्रमम् ॥ २१ ॥
अनहङ्कृतौ अहकारनिष्कृष्टशुद्धचिन्मात्रे अहङ्कार आत्मबुद्धिर्यस्य
तथाविधः सन् ॥ २१ ॥
यथाभूतामिमामेव पश्यन्सर्गपरम्पराम् ।
मेरुस्थितोऽब्धिगम्भीरः सममास्स्व गतभ्रमः ॥ २२ ॥
यथाभूतां यथास्थिताम् । मेरुरिव स्थितः स्थिरः ॥ २२ ॥
चिन्मात्रं सर्वमेवेदमित्थमाभासतां गतम् ।
नेह सत्यमसत्यं वा क्वचिदस्ति न किञ्चन ॥ २३ ॥
कीदृशं तद्यथाभूतदर्शनं तदाह-चिन्मात्रमिति ॥ २३ ॥
महत्तामलमालम्ब्य त्यक्त्वेदमवहेलया ।
असक्तबुद्धिः सर्वत्र भव भव्य भवक्षयी ॥ २४ ॥
महत्तां ब्रह्मताम् ॥ २४ ॥
किं रोदिषि घनोद्वेगं मूढवच्चानुशोचसि ।
भ्रमस्युद्भ्रान्तचित्तश्च सौम्यावर्ते तृणं यथा ॥ २५ ॥
श्रीराम उवाच ।
अहो न भगवन्नूनं सम्यग्जातमलक्षयः ।
त्वत्प्रसादात्प्रबुद्धोऽस्मि सूर्यसङ्गादिवाम्बुजम् ॥ २६ ॥
रामवाक्यानि स्पष्टानि ॥ २६ ॥
भ्रान्तिरस्तं गता नूनं मिहिका शरदीव मे ।
संशान्ताखिलसन्देहः करिष्ये वचनं तव ॥ २७ ॥
व्यपगतमदमोहो मानमात्सर्यमुक्तश्चिरतरमुदितात्मा शान्तशोकश्चिरेण ।
पुनरसुखमगच्छन्स्वच्छयैकान्तबुद्ध्या यदिह वदसि साधो
तत्करिष्येऽविशङ्कं ॥ २८ ॥
न विद्यते सुखं यस्मात्तदसुखं बद्धात्मताभ्रमम् । एकान्तबुद्ध्या
निश्चितबुद्ध्या यत् इह अस्मिन्नपदिष्टार्थविषये दार्ढ्यसाधनं अन्यद्वा
राज्यपरिपालनादिकर्तव्यतया वदसि तत् अविशङ्कं करिष्ये ॥ २८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे
पूर्वार्धे जीवन्मुक्तसंशयनिरूपणं नाम द्वादशः सर्गः ॥ १२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
जीवन्मुक्तसंशयनिरूपणं नाम द्वादशः सर्गः ॥ १२ ॥