०११

एकादशः सर्गः ११

श्रीवसिष्ठ उवाच ।

पुनःपुनरिदं राम प्रबोधार्थं मयोच्यते ।
अभ्यासेन विना साधो नाभ्युदेत्यात्मभावना ॥ १ ॥

जीवन्मुक्ता यया दृष्ट्या स्थिता हरिहरादयः ।
सर्वं ब्रह्मेति सा दृष्टी रामायात्रोपदिश्यते ॥

उपदिष्टस्यैवार्थस्य पुनःपुनर्भङ्ग्यन्तरेणोपदेश
उपदेश्यार्थव्युत्पत्तिदार्ढ्यार्थः । दृष्टफला हि
श्रवणादयोऽवघातादिवद्यावत्फलोदयमावर्तनीयाः । तथा हि भगवतो
बादरायणस्य सूत्रम् आवृत्तिरसकृदुपदेशात् इति । इति रहस्य
जामितादोषपरिहारेणोत्साहजननायोद्घाटयन्प्रकृतामविद्याक्षये परिशिष्टां
दृष्टिं श्रोतुं राममभिमुखीकरोति-पुनःपुनरिति ॥ १ ॥

अज्ञानमेतद्बलवदविद्येतरनामकम् ।
जन्मान्तरसहस्रोत्थं घनं स्थितिमुपागतम् ॥ २ ॥

कुतो नाभ्युदेति तत्राह-अज्ञानमिति । सहस्रपदमानन्त्यपरम् । तथा
चानन्तकोटिजन्माभ्यस्तद्वैतवासनास्थिरीकृतत्वान्न
सकृदुपदेशात्सूच्छेदमित्यर्थः ॥ २ ॥

सबाह्याभ्यन्तरं सर्वैरिन्द्रियैरनुभूयते ।
भावाभावेषु देहस्य तेनातिघनतां गतम् ॥ ३ ॥

चक्षुरादिप्रबलतरबाह्याभ्यन्तरबहुप्रमाणग्राह्यद्वैतरूपत्वाच्च
प्राबल्यमित्याह-सबाह्याभ्यन्तरमिति । देहस्य भावे जीवनजागराद्यवस्थासु
इन्द्रियैः । अभावे मरणप्रलयाद्यवस्थासु साक्षिणा सदानुभूयते ।
अतिघनतामतिप्राबल्यम् ॥ ३ ॥

आत्मज्ञानं तु सर्वेषामिन्द्रियाणामगोचरम् ।
सत्तां केवलमायाति मनःषष्ठेन्द्रियक्षये ॥ ४ ॥

ज्ञानस्य च सामग्र्या दौर्लभ्यं दर्शयति-आत्मेति द्वाभ्याम् ॥ ४ ॥

प्रोल्लङ्घ्येन्द्रियजां वृत्तिं यत्स्थितं तत्कथं किल ।
याति प्रत्यक्षतां जन्तोः प्रत्यक्षातीतवृत्तिमत् ॥ ५ ॥

प्रोल्लङ्घ्य अतिक्रम्य ॥ ५ ॥

त्वमविद्यालतामेतां प्ररूढां हृदयद्रुमे ।
ज्ञानाभ्यासविलासासिपातैश्छिन्धि स्वसिद्धये ॥ ६ ॥

अतएव पुनःपुनरुपदेशस्य मननाद्यभ्यासस्य चाविद्यालतानानाप्रतानच्छेदनेन
सार्थक्यमित्याशयेनोपसंहरति-त्वमिति ॥ ६ ॥

यथा विहरति ज्ञातज्ञेयो जनकभूपतिः ।
आत्मज्ञानाभ्यासपरस्तथा विहर राघव ॥ ७ ॥

निश्चयोऽयमभूत्तस्य कार्याकार्यविहारिणः ।
जाग्रतस्तिष्ठतो वापि तज्ज्ञानां तेन सत्यता ॥ ८ ॥

अयं मदनुभवानुसारी निश्चयः कार्येण बहिर्व्यवहारेण अकार्येण समाधिना च
विहारिणस्तस्याभूत् । तदेवाभ्यासफलं ज्ञानं तेन ज्ञानेनैवाभिव्यक्तस्य
स्वरूपस्य सत्यता नापातज्ञानेनेत्यर्थः ॥ ८ ॥

निश्चयेन हरिर्येन विविधाचारकारिणा ।
योनिष्ववतरत्युर्व्यां तत्तज्ज्ञत्वमुदाहृतम् ॥ ९ ॥

योनिषु गर्भवासादिकृच्छ्रेष्ववतरति । अवतरन्नपि न तत्प्रयुक्तदुःखैः स्पृश्यत
इत्यर्थः । एवमुत्तरेष्वप्यूह्यम् ॥ ९ ॥

निश्चयो यस्त्रिनेत्रस्य कान्तया सह तिष्ठतः ।
ब्रह्मणो वाप्यरागस्य स ते भवतु राघव ॥ १० ॥

यो निश्चयः सुरगुरोर्वाक्पतेर्भार्गवस्य च ।
दिवाकरस्य शशिनः पवनस्यानलस्य च ॥ ११ ॥

नारदस्य पुलस्त्यस्य मम चाङ्गिरसस्तथा ।
प्रचेतसो भृगोश्चैव क्रतोरत्रेः शुकस्य च ॥ १२ ॥

अन्येषामेव विप्रेन्द्र राजर्षीणां च राघव ।
यो निश्चयो विमुक्तानां जीवतां ते भवत्वसौ ॥ १३ ॥

एवकारो जीवतामित्यनेन सम्बध्यते ॥ १३ ॥

श्रीराम उवाच ।

येनैते भगवन्धीरा निश्चयेन महाधियः ।
विशोकाः संस्थितास्तन्मे ब्रह्मन्प्रब्रूहि तत्त्वतः ॥ १४ ॥

प्रश्रः स्पष्टः ॥ १४ ॥

श्रीवसिष्ठ उवाच ।

राजपुत्र महाबाहो विदिताखिलवेद्य हे ।
स्फुटं शृणु यथा पृष्टमयमेषां हि निश्चयः ॥ १५ ॥

अयं वक्ष्यमाणप्रकारः ॥ १५ ॥

यदिदं किञ्चिदाभोगि जगज्जालं प्रदृश्यते ।
तत्सर्वममलं ब्रह्म भवत्येतद्व्यवस्थितम् ॥ १६ ॥

तमेवाह-यदिदमित्यादिना । व्यवस्थितं मायिकाव्यवस्थितरूपत्यागेन
पारमार्थिकस्वरूपे स्थितम् ॥ १६ ॥

ब्रह्म चिद्ब्रह्म भुवनं ब्रह्म भूतपरम्पराः ।
ब्रह्माहं ब्रह्म मच्छत्रुर्ब्रह्म सन्मित्रबान्धवाः ॥ १७ ॥

सङ्क्षिप्योक्तमेव विस्तराद्विशिष्य दर्शयति-ब्रह्मेति ॥ १७ ॥

ब्रह्म कालत्रयं तच्च ब्रह्मण्येव व्यवस्थितम् ।
तरङ्गमालयाम्भोधिर्यथात्मनि विवर्धते ॥ १८ ॥

विवर्धते विजृम्भते ॥ १८ ॥

तथा पदार्थलक्ष्म्येत्थमिदं ब्रह्म विवर्धते ।
गृह्यते ब्रह्मणा ब्रह्म भुज्यते ब्रह्म ब्रह्मणा ॥ १९ ॥

सर्वक्रियाकारकफलानां ब्रह्मतैवेत्याशयेनाह-गृह्यत इति ॥ १९ ॥

ब्रह्म ब्रह्मणि बृंहाभिर्ब्रह्मशक्त्येव बृंहति ।
ब्रह्म मच्छत्रुरूपं मे ब्रह्मणोऽप्रियकृद्यदि ॥ २० ॥

ब्रह्मशक्त्या मायया । बृंहाभिर्विवर्तैः । बृंहति वर्धत इव । अनया दृशा न
क्वचिद्वेषरागादिप्रसक्तिरित्याशयेनाह-ब्रह्मेति । अप्रियकृदनिष्टकर्तृ ॥ २० ॥

तद्ब्रह्मणि ब्रह्मनिष्ठं किमन्यत्कस्यचित्कृतम् ।
रागादीनामवस्थानं कल्पितानां खवृक्षवत् ॥ २१ ॥

तत्तर्हि ॥ २१ ॥

असङ्कल्पेन नष्टानां कः प्रसङ्गोऽत्र वर्धते ।
ब्रह्मण्येव हि सर्वस्मिंश्चरणस्पन्दनादिकम् ॥ २२ ॥

अत्र ब्रह्मणि । सर्वस्मिन् पूर्णे । चरणस्पन्दनं गमनं तदादिकम् ॥ २२ ॥

स्फुरति ब्रह्म सकलं सुखितादुःखिते कुतः ।
ब्रह्म ब्रह्मणि सन्तृप्तं ब्रह्म ब्रह्मणि संस्थितम् ॥ २३ ॥

यतः सकलं ब्रह्म सुखैकरसं स्फुरत्यतो दुःखितादि कुतः ॥ २३ ॥

स्फुरति ब्रह्मणि ब्रह्म नाहमस्मीतरात्मकः ।
घटो ब्रह्म पटो ब्रह्म ब्रह्माहमिदमाततम् ॥ २४ ॥

अतो रागविरागाणां मृषेव कलनेह का ।
मरणब्रह्मणि स्वैरं देहब्रह्मणि सङ्गते ॥ २५ ॥

अनया दृशा आत्यन्तिकीमभयप्राप्तिमाह-मरणेति ॥ २५ ॥

दुःखितानाम कैव स्याद्रज्जुसर्पभ्रमोपमा ।
सम्भोगादौ सुखं ब्रह्मण्यास्थिते देहब्रह्मणि ॥ २६ ॥

एवमात्यन्तिकी भोगरागनिवृत्तिरपि सिध्यतीत्याह-सम्भोगेति ॥ २६ ॥

सम्पन्नमेतन्म इति मुधा स्यात्कलना कुतः ।
वीच्यम्भसोः स्पन्दवतोर्न त्वन्यदम्बुनो यथा ॥ २७ ॥

कलना इच्छा । स्पन्दवतोः सतोरम्बुनोऽन्यद्यथा किञ्चिदपि नास्ति तथेत्यर्थः ॥ २७ ॥

त्वत्तामत्ते तथा न स्तो ब्रह्मणि स्पन्दरूपिणी ।
यथावर्तमृते तोये न किञ्चिन्म्रियते क्वचित् ॥ २८ ॥

स्पन्दो रागद्वेषादिना चलनं तद्रूपिणी । तत्प्रयोजके इति यावत् । आवर्तस्य मृते नाशे ॥
२८ ॥

मृतिब्रह्मत्वमायाते देहब्रह्मणि वै तथा ।
यथा चलाचले तोये त्वत्तामत्ते न तिष्ठतः ॥ २९ ॥

तथा देहब्रह्मणि मृतिब्रह्मत्वमायातेऽपि न किञ्चिन्म्रियते इत्यर्थः ।
जडरूपापरित्यागेनैव सर्वपर्यायेषु ब्रह्मता मा ग्राहीति तन्निषेधति-यथेति ।
चलाचले चञ्चले चले अचले चेति वा ॥ २९ ॥

तथा जडाजडे रूपे न स्थिते परमात्मनि ।
कटकत्वं यथा हेम्नो यथावर्तो जलस्य च ॥ ३० ॥

जडरूपाभावे प्रतियोग्यप्रसिद्धावजडमिति तद्व्यावृत्तरूपस्याप्यप्रसक्तेरिति
भावः ॥ ३० ॥

तदतद्भावरूपेयं तथा प्रकृतिरात्मनः ।
इदं हि जीवभूतात्म जडरूपमिदं भवेत् ॥ ३१ ॥

तस्यैव अतदिव भावो यया तथारूपा प्रकृतिर्मायिकः स्वभावस्तद्वशादेव
जीवजडरूपभेदकल्पनेत्याह-इदमिति ॥ ३१ ॥

इत्यज्ञानात्मनो मोहो न च ज्ञानात्मनः क्वचित् ।
अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं जगत् ॥ ३२ ॥

अतएव तत्त्वविदः सर्वं जगदानन्दैकरसमेवेत्याह-अज्ञस्येति ॥ ३२ ॥

अन्धं भुवनमन्धस्य प्रकाशं तु स चक्षुषः ।
जगदेकात्मकं ज्ञस्य मूर्खस्यातीव दुःखदम् ॥ ३३ ॥

शिशोरिव स्फुरद्यक्षा निशा पुंसस्तु केवला ।
अस्मिन्ब्रह्मघटे नित्यमेकस्मिन्सर्वतः स्थिते ॥ ३४ ॥

यथा निशा रात्रिः शिशोर्बालस्य दृशा स्फुरन्स्वभ्रान्तिपरिकल्पितो यक्षो यस्यां
तथाविधा । पुंसो युववृद्धपुरुषस्य केवला निर्यक्षा । ब्रह्मलक्षणे
पूर्णामृतघटे ॥ ३४ ॥

न किञ्चिन्म्रियते नाम न च किञ्चन जीवति ।
यथोल्लासविलासेषु न नश्यति न जायते ॥ ३५ ॥

तरङ्गादिमहाम्भोधौ भूतवृन्दं तथात्मनि ।
इदं नास्तीदमस्तीति भ्रान्तिर्नामात्मनात्मनि ॥ ३६ ॥

शक्तिर्निर्हेतुकैवान्तः स्फुरति स्फटिकांशुवत् ।
जगच्छक्त्यात्मनात्मैव ब्रह्म स्वात्मनि संस्थितम् ॥ ३७ ॥

शक्तिर्मायास्फटिकस्यांशुरनेकप्रतिबिम्बग्रहणयोग्यतापादकस्वच्छता सैव
यथा नानाप्रतिबिम्बतत्तद्गुणक्रियादिवैचित्र्यात्मना अन्तः स्फुरति तद्वत्सा
जगदात्मना तत्तत्पदार्थशक्त्यात्मना च स्फुरति प्रथते । सा च प्रथा आत्मैव तच्च
ब्रह्म स्वात्मन्येवाद्वये संस्थितम् ॥ ३७ ॥

तरङ्गकणजालेन पयसीव पयो घनम् ।
शरीरनाशेन कथं ब्रह्मणो मृतधीर्भवेत् ॥ ३८ ॥

अतएव शरीरनाशेन नात्मनाश इति दृष्टान्तेनोपपादयति चतुर्भिः ॥ ३८ ॥

ब्रह्मणो व्यतिरिक्तं हि न शरीरादि विद्यते ।
पयसो व्यतिरेकेण तरङ्गादि महार्णवे ॥ ३९ ॥

यः कणो या च कणिका या वीचिर्यस्तरङ्गकः ।
यः फेनो या च लहरी तद्यथा वारि वारिणि ॥ ४० ॥

यो देहो या च कलना यद्दृश्यं यौ क्षयाक्षयौ ।
या भावरचना योऽर्थस्तया तद्ब्रह्म ब्रह्मणि ॥ ४१ ॥

कलना इन्द्रियव्यापारः । दृश्यं भोग्यम् । क्षयाक्षयौ विपत्सम्पदौ । भावा
हर्षविषादादयस्तद्रचना । अर्थः पुरुषार्थभोगः ॥ ४१ ॥

संस्थानरचना चित्रा ब्रह्मणः कनकादिव ।
नान्यरूपा विमूढानां मृषैव द्वित्वभावना ॥ ४२ ॥

मनो बुद्धिरहङ्कारस्तन्मात्राणीन्द्रियाणि च ।
ब्रह्मैव सर्वं नानात्म सुखं दुःखं न विद्यते ॥ ४३ ॥

अयं सोऽहमिदं चित्तमित्याद्यर्थोत्थया गिरा ।
शब्दप्रतिश्रवेणाद्राविवात्मात्मनि जृम्भते ॥ ४४ ॥

यथा एक एव शब्दः अद्रौ पर्वतसन्निधौ प्रतिश्रवेण प्रतिध्वन्यात्मना द्विरुक्त इव
जृम्भते तथा देहचित्तबाह्यार्थादिरूपनामभेदेनात्मैव जृम्भत इत्यर्थः ॥ ४४ ॥

ब्रह्मैवाज्ञातमज्ञत्वमभ्यागतमिव स्थितम् ।
तथा हि दृश्यते स्वप्ने चेतसात्मात्मनात्मनः ॥ ४५ ॥

अज्ञत्वं जीवजगद्भावम् । तत्र आत्मनि चैव विचित्राश्च हि इति बादरायणोक्तं
स्वप्नदृष्टान्तमाह-तथाहीति ॥ ४५ ॥

अभावितं ब्रह्मतया ब्रह्माज्ञानमलं भवेत् ।
अभावितं हेमतया यथा हेम च मृद्भवेत् ॥ ४६ ॥

अज्ञानस्यात्यन्तविरुद्धासम्भावितकारिता लोके प्रसिद्धैवेत्याह-अभावितमिति ॥ ४६

स्वयं प्रभुर्महात्मैव ब्रह्म ब्रह्मविदो विदुः ।
अपरिज्ञातमज्ञानमज्ञानामिति कथ्यते ॥ ४७ ॥

अतएव तदज्ञदृशैवाज्ञानरूपं न तत्त्वज्ञदृशेत्याह-स्वयम्प्रभुरिति ॥
४७ ॥

ज्ञातं ब्रह्मतया ब्रह्म ब्रह्मैव भवति क्षणात् ।
ज्ञातं हेमतया हेम हेमैव भवति क्षणात् ॥ ४८ ॥

ब्रह्मात्मा सर्वशक्तिर्हि तद्यथा भावयत्यलम् ।
निर्हेतुकः स्वयं शक्त्या तत्तथाशु प्रपश्यति ॥ ४९ ॥

आत्मा स्वयं ब्रह्म यथा जीवजगद्रूपेण तात्त्विकब्रह्मरूपेण वा भावयति ॥ ४९ ॥

अकर्मकर्तृकरणमकारणमनामयम् ।
स्वयम्प्रभुं महात्मानं ब्रह्म ब्रह्मविदो विदुः ॥ ५० ॥

अतएव तत्त्वविदो न जीवजगद्भावेन पश्यन्तीत्याह-अकर्मेति । स्वबोधात्स्वभावे
स्वयं प्रभवतीति स्वयं प्रभुस्तम् ॥ ५० ॥

अपरिज्ञातमज्ञानामज्ञानमिति कथ्यते ।
परिज्ञातं भवेज्ज्ञानमज्ञानपरिनाशनम् ॥ ५१ ॥

बन्धुरेवापरिज्ञातो ह्यबन्धुरिति कथ्यते ।
परिज्ञातो भवेद्बन्धुरबन्धुभ्रमनाशनात् ॥ ५२ ॥

इदं त्वयुक्तमित्यन्तर्ज्ञाते सोदेति भावना ।
यस्मादयुक्ताद्वैरस्याद्यया किल विरज्यते ॥ ५३ ॥

तर्हि जीवजगतोर्ब्रह्ममात्रताभावना सहसैव सर्वेषां कुतो नोदेति वैराग्याभावादिति
चेतद्धेतव एव तर्ह्युच्यन्तां तत्राह-इदं त्वित्यादिना । इदं
जीवजगद्रूपमयुक्तं विचारासहमिति ज्ञाते सति सा ब्रह्मभावना उदेति ।
यस्माद्धेतोरयुक्ताच्छुक्तिरजतादेर्वैरस्यप्रसिद्धेर्यया विचारणया जगत इव
भोग्यवर्गादपि विरज्यते पुरुष इत्यर्थः ॥ ५३ ॥

द्वैतं त्वसत्यमित्यन्तर्ज्ञाते सोदेति भावना ।
तस्माद्वैताच्च वैरस्याद्यया किल विरज्यते ॥ ५४ ॥

उक्ता विचारणा जगद्विषये तत्पदार्थशोधनतया पर्यवस्यतीत्याशयेन जगदंशे
उक्तमेव स्फुटमाह-द्वैतमिति ॥ ५४ ॥

अयं नाहमिति ज्ञाते स्फुटे सोदेति भावना ।
मिथ्याहङ्कारता तस्माद्यया नूनं विरज्यते ॥ ५५ ॥

जीवांशेऽपि सा त्वम्पदार्थशोधनतया पर्यवस्यतीत्याशयेन तदंशेऽप्युक्तं
स्फुटयति-अयमिति । अयं देहादिकार्यकारणसङ्घातो नाहमिति ज्ञाते सति ॥ ५५ ॥

ब्रह्मैवाहमिति ज्ञाने सत्ये सोदेति भावना ।
तस्मिन्सत्ये निजे रूपे यथान्तः परिलीयते ॥ ५६ ॥

पदार्थशोधफलभूताखण्डवाक्यार्थबोधतयापि सा पर्यवस्यतीत्याशयेन तस्मिन्
जीवजगद्भावयोर्बाधलक्षणं लयं स्फुटयति-ब्रह्मैवेति ॥ ५६ ॥

सति विस्तारजे तस्मिन्ब्रह्मेदमिति वेद्म्यहम् ।
त्वमहन्त्वादिबाधे तत्सदित्यादि जगद्गतम् ॥ ५७ ॥

अखण्डाकारबोधे सति स्थितमपि जगत्सदेकरसं ब्रह्मैव न
पूर्ववद्दुःखरूपमित्याशयेनाह-सतीति द्वाभ्याम् । तस्मिन्नखण्डवाक्यार्थे
विस्तारजे अपरिच्छिन्नस्वभावेनाविर्भूते सति त्वन्त्वमहन्त्वमादिपदादिदन्त्वं च
तेषां बाधे सति तत् प्राक् प्रसिद्ध सत् आदिपदाद्भाति प्रियं मान रूपमिति
पञ्चरूपमिदं जगद्गतं वस्तुजातं ब्रह्मैवेति वेद्मीत्यर्थः ॥ ५७ ॥

सत्यं सर्वप्रकाराढ्यं ब्रह्मेदमिति वेद्म्यहम् ।
न मे दुःखं न कर्माणि न मे मोहो न वाञ्छितम् ॥ ५८ ॥

समः स्वस्थो विशोकोऽस्मि ब्रह्माहमिति सत्यता ।
कलाकलङ्कमुक्तोऽस्मि सर्वमस्मि निरामयः ॥ ५९ ॥

तत्स्वभावस्थितमेव परमपुरुषार्थतया वर्णयति-सम इत्यादिना ॥ ५९ ॥

न त्यजामि न वाञ्छामि ब्रह्माहमिति सत्यता ।
अहं रक्तमहं मांसमहमस्थीन्यहं वपुः ॥ ६० ॥

त्वन्तत्पदार्थशोधनमपि परिच्छेदपारोक्ष्यनिरासायैव तन्निरासेन
सार्वात्म्यलाभे तु रक्तमांसादिरूपदेहादिरप्यात्मैवेति न
निरासार्हमित्याशयेनाह-अहं रक्तमित्यादिना ॥ ६० ॥

चिदहं चेतनं चाहं ब्रह्माहमिति सत्यता ।
द्यौरहं खमहं सार्कमहमाशा भुवोऽप्यहम् ॥ ६१ ॥

अहं घटपटाकारो ब्रह्माहमिति सत्यता ।
अहं तृणमहं चोर्वी गुल्मोऽहं काननाद्यहम् ॥ ६२ ॥

शैलसागरसार्थोऽहं ब्रह्मैकत्वं किल स्थितम् ।
आदानदानसङ्कोचपूर्विका भूतशक्तयः ॥ ६३ ॥

शैलाः सागराः सार्थः प्राणिसङ्घश्चाहम् । भूतशक्तयः प्राणिधर्माः ॥ ६३ ॥

सर्वमेव चिदेआत्मास्मि ब्रह्मण्याततरूपधृक् ।
लतागुल्माङ्कुरादीनामहंसम्भवनैषिणाम् ॥ ६४ ॥

सम्भवनमङ्कुरकाण्डप्रतानशाखाद्याविर्भावस्तदेषिणाम् ॥ ६४ ॥

चिदात्मान्तर्गतं शान्तं परं ब्रह्म रसात्मकम् ।
यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ॥ ६५ ॥

यो मतः सर्व एकात्मा परं ब्रह्मेति निश्चयः ।
चिदात्मा ब्रह्म सत्सत्यमृतं ज्ञ इति नामभिः ॥ ६६ ॥

प्रोच्यते सर्वगं तत्त्वं चिन्मात्रं चेत्यवर्जितम् ।
आभासमात्रममलं सर्वभूतात्मबोधकम् ॥ ६७ ॥

सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते ।
मनोबुद्धीन्द्रियव्रातसमस्तकलनान्वितम् ॥ ६८ ॥

अनुभूयते । ब्रह्मविद्भिरिति शेषः । ननु प्रतिपुरुषं मनोबुद्धीन्द्रियवृत्तिभेदेन
चिति भेदानुभवात्कथं सा ब्रह्म स्यात्तत्राह-मन इत्यादिना । समस्तासु कलनासु
वृत्तिष्वन्वितमनुगतम् ॥ ६८ ॥

भेदं त्यक्त्वा स्वमाभासं चिद्ब्रह्माहमनामयम् ।
शब्दादीनामशेषाणां कारणानां जगत्स्थितेः ॥ ६९ ॥

स्वं प्रत्यक्स्वरूपमेव मा प्रमा तदाभासं स्वप्रकाशम् । शब्दादीनां
तत्कारणानामाकाशादीनां तत्कृतजगत्स्थितेश्च तत्त्वावकाशकं
सत्ताप्रथास्वरूपम् ॥ ६९ ॥

तत्त्वावकाशकं स्वच्छं चिद्ब्रह्मास्मि न मे क्षयः ।
अनारतगलत्स्वच्छचिद्धारागहनात्मकम् ॥ ७० ॥

समस्तकलनान्वितत्वमुपपादयन्नक्तमेव स्फुटमाह-अनारतेति ।
अग्निविस्फुलिङ्गधारावद्वृत्त्युपाधिधाराभिरनारतं गलन्त्यो निःसरन्त्यो
याश्चिद्धारास्तासां गहनात्मकमाकरस्थानीयं प्रत्यगात्मरूपम् ॥ ७० ॥

आलोकः सुमनोमौनं चिद्ब्रह्मास्म्यमृतं परम् ।
अनारतगलद्रूपं नित्यं चानुभवामृतम् ॥ ७१ ॥

सुमनसां योगिनां मौनमनुभूयमानमप्यभिलपितुमशक्यम् । अमृतं परं
निरविषयानन्दरूपम् । एतदपि पूर्ववदुपपादयन्नुक्तमेवाह-अनारतेति ।
अहङ्कारलक्षणानि निःशेषाणि समस्तानि भोक्तृचक्राणि प्रति
तत्तद्भोगवृत्तिधारोपाधिभिर्मधुधारावदनारतगलद्रूपं
कूटस्थनित्यानुभवानन्दैकरसं चिद्ब्रह्माहमित्यन्वयः ॥ ७१ ॥

अहन्निःशेषचक्राणि चिद्ब्रह्माहमलेपकम् ।
सुषुप्तसदृशं शान्तमालोकविमलात्मकम् ॥ ७२ ॥

नित्यं चानुभवामृतमित्येतत्समाधिनिष्ठानुभवेनोपपादयन्नाह-सुषुप्तेति ॥
७२ ॥

सम्भोगोत्तममाभासं चिद्ब्रह्मास्म्यपवासनम् ।
खण्डादिस्वादुसंवित्तिरीषन्मात्रा तु तिष्ठति ॥ ७३ ॥

सम्भोगा मानुषानन्दादिहैरण्यगर्भान्तविषयसुखानि तेभ्योऽप्युत्तमम् । आभासं
सर्वतः प्रकाशमानम् । सम्भोगोत्तममिति यदुक्तं तदुपपाद्यानुभावयति##-
खण्डशर्करादिस्वादुसंवित्तिरीषन्मात्राखण्डरसस्य जिह्वातः
कण्ठोपसर्पणपर्यन्ताल्पतरदेशकालपरिच्छिन्ना तिष्ठति सैव तु
स्वपरिच्छेदहेतुषु चित्तचेत्यचेतयितृषु स्वप्रकाशानन्दैकरसतयावबुद्धेषु सत्सु
परिच्छेदोपाधिच्युतावपि च्युतिरहितात्मा तदेव निरतिशयानन्दं ब्रह्माहमित्यन्वयः
॥ ७३ ॥

चित्तादिष्ववबुद्धेषु तद्धि ब्रह्माहमच्युतः ।
कान्तासंसक्तचित्तस्य चन्द्रे समुदिते सति ॥ ७४ ॥

ननु ज्ञानस्य विषयोपाधिनिर्मुक्ता स्थितिरेवाप्रसिद्धेत्याशङ्क्य तत्प्रसिद्धिं
दर्शयति-कान्तेति । निशि कान्तासंसक्तचित्तस्य चन्द्रोदये सति
चन्द्रकान्तोभयदर्शने अन्तराले देशे चितो
विच्छेदाननुभवाच्चन्द्राकारप्रत्ययपर्यन्तमविच्छिन्नसत्तात्मकं निर्विषयं
चिद्ब्रह्म प्रसिद्धं तदेवाहमित्यर्थः ॥ ७४ ॥

चन्द्रप्रत्ययसत्त्वात्म चिद्ब्रह्माहमनामयम् ।
भूमिष्ठनरदृष्टीनां लग्नानां खे निशाकरे ॥ ७५ ॥

भूमिष्ठेति तस्यैव स्फुटीकरणम् ॥ ७५ ॥

या खस्था ननु चिच्छक्तिस्तच्चिद्ब्रह्मास्ति निर्मलम् ।
सुखदुःखादिकलनाविकलो निर्मलस्तथा ॥ ७६ ॥

खस्था आन्तरालिकनभःप्रदेशस्था । उदासीनानां
सुखदुःखाद्याकारवृत्त्यन्तरशून्यतादशायां निर्विषयस्वात्मप्रथा
प्रसिद्धैवेत्याशयेनाह-सुखेति ॥ ७६ ॥

सत्यानुभवरूपात्म चिद्ब्रह्मात्मास्मि शाश्वतः ।
असंस्तुताध्वगालोके मनस्यन्यत्र संस्थिते ॥ ७७ ॥

एवमिहस्थस्य पुंसोऽन्यत्र दूरस्थे विषये न संस्तुतः
सम्पादितोऽध्वगानामन्तरालमार्गस्थानां पदार्थानामालोको येन तथाविधे मनसि
संस्थिते सति अन्तराले देशे अनागस्का विषयसंस्पर्शापराधशून्या या
प्रतीतिश्चिन्मात्रं तदित्यर्थः ॥ ७७ ॥

या प्रतीतिरनागस्का तच्चिद्ब्रह्मास्मि सर्वगः ।
भूवार्यनिलबीजानां सम्बन्धेऽङ्कुरकर्मसु ॥ ७८ ॥

सम्बन्धे मेलने सति अङ्कुरलक्षणेषु कर्मसु कार्येषु उद्गमनीया
बहिर्निर्गमनानुकूला या चिच्छक्तिस्तद्ब्रह्मेत्यर्थः ॥ ७८ ॥

शक्तिरुद्गमनीयान्तस्तच्चिद्ब्रह्माहमाततम् ।
खर्जूरनिम्बबिम्बानां स्वयमात्मनि तिष्ठताम् ॥ ७९ ॥

खर्जूरादीनां फलानामात्मनि स्वीये जडस्वभावे तिष्ठतां रसभेदानां
स्वयमन्तर्लीना रासनादिवृत्त्यभिव्यक्ता प्रथारूपा या स्वादसत्ता तदेव
ब्रह्मेत्यर्थः ॥ ७९ ॥

या स्वादसत्ता लीनान्तस्तद्ब्रह्म चिदहं समः ।
खेदानन्दविमुक्तान्तः संवित्तिर्मननोदया ॥ ८० ॥

किञ्च यैव संवित्तिरिष्टलाभालाभयोः खेदानन्दवती प्रसिद्धा सैव
शास्त्रानुसारिमननोदयविशोधिता सती खेदानन्दविनिर्मुक्ता चेत्तदेव ब्रह्मेत्याह##-

लाभालाभविधौ तुल्या चिद्ब्रह्मास्मि निरामयम् ।
यावद्भूम्यर्कमेतावद्दृष्टिसूत्रं यदाततम् ॥ ८१ ॥

भूमिष्ठस्यादित्यं पश्यतः पुंसो यावद्भूम्यर्कं भूमिमारभ्यार्कपर्यन्तं
यत् दृष्टिश्चक्षुस्तल्लक्षणं सूत्रमाततं विस्तीर्णमस्ति तस्य यन्मध्यं
नेत्रसूर्योभयासंलग्नभागस्तत्सदृशं विषयप्रकाशनसमर्थमपि
तद्विनिर्मुक्तमित्यर्थः ॥ ८१ ॥

तन्मध्यसदृशं शान्तं निर्मलं चिदहं ततम् ।
जाग्रत्यपि सुषुप्तेऽपि तत्स्वप्नेऽपि तथोदितम् ॥ ८२ ॥

एवमवस्यात्रयसाक्षिरूपमेव तत्परित्यागे तुर्यभूतं ब्रह्मेत्याह-जाग्रतीति ॥ ८२ ॥

तुर्यं रूपमनाद्यन्तं चिद्ब्रह्माहमनामयम् ।
पुंसां क्षेत्रशतोत्थानामिक्षूणां स्वादुवत्स्थितम् ॥ ८३ ॥

सर्वेषां पुंसामन्तः एकरूपं स्थितम् ॥ ८३ ॥

सर्वेषामेकरूपं तच्चिद्ब्रह्मास्मि समः स्थितः ।
सर्वगा प्रकृता स्वच्छरूपा भानोरिव प्रभा ॥ ८४ ॥

आलोककारिणी कान्ता चिद्ब्रह्मेदमहं ततम् ।
सम्भोगानन्दलववदमृतास्वादशक्तिवत् ॥ ८५ ॥

स्वानुभूत्यैकमात्रं यच्चिद्ब्रह्मास्मि तदव्ययम् ।
प्रोताङ्गमपि गुप्तास्यं देहे तन्तुर्बिसे यथा ॥ ८६ ॥

तस्य आनखाग्रसर्वाङ्गव्याप्तिं देहच्छेदादावच्छेद्यतां चाह##-

छेदे भेदे स्फुरद्रूपं चिद्ब्रह्माहमनामयम् ।
आक्रान्तभुवनाप्यभ्रमालेव स्पन्दशालिनी ॥ ८७ ॥

भुवनानि लोका जलानि च । वृत्तिवायूपाधिस्पन्दास्पन्दशालिनि ॥ ८७ ॥

दुर्लक्ष्याणुमयाकारा चिच्छक्तिरहमातता ।
अनुभूतिमयान्तस्था स्नेहमात्रोपलक्षिता ॥ ८८ ॥

दुर्लक्ष्या अणवह् सूक्ष्मा जीवा जलकणाश्च तन्मयः कल्पिताकारो यस्याः ।
अनुभूतिमयोऽनुभवमात्रगम्योऽन्तस्थः सारो यस्याः । स्नेहश्चिक्कणता परप्रेमा च
तन्मात्रोपलक्षिता ॥ ८८ ॥

क्षीराद्धृतस्य सत्तेव चिदहं क्षयवर्जिता ।
कटकाङ्गदकेयूररचना तदतन्मयी ॥ ८९ ॥

तदतन्मयी हेम्नि हेमसत्तेवेति शेषः ॥ ८९ ॥

हेम्नीव संस्थिता देहे चिद्ब्रह्मात्मास्मि सर्वगः ।
पदार्थौघस्य शैलादेर्बहिरन्तश्च सर्वदा ॥ ९० ॥

सत्तासामान्यरूपेण या चित्सोऽहमलेपकः ।
सर्वासामनुभूतीनामादर्शो यो ह्यकृत्रिमः ॥ ९१ ॥

अनुभूतीनामनुभववृत्तिभेदानाम् ॥ ९१ ॥

अगम्यो मललेखानां तच्चित्तत्त्वमहं महत् ।
सर्वसङ्कल्पफलदं सर्वतेजः प्रकाशकम् ॥ ९२ ॥

सर्वोपादेयसीमान्तं चिदात्मानमुपास्महे ।
सर्वावयवविश्रान्तं समस्तावयवातिगम् ॥ ९३ ॥

सर्वेषामुपादेयानामुपादानस्यात्मार्थत्वात्तत्सीमान्तम् ॥ ९३ ॥

अनारतकचद्रूपं चिदात्मानमुपास्महे ।
घटे पटे तटे कूपे स्पन्दमानं सदा तनौ ॥ ९४ ॥

घटपटादौ सद्रूपेण स्थितम् । तनौ चतुर्विधदेह स्पन्दमानं स्फुरद्रूपं
चेष्टानिमित्तभूतं वा । जाग्रदवस्थायामपि सुषुप्तमिव परमार्थतो निर्विशेषतया
स्थितम् ॥ ९४ ॥

जाग्रत्यपि सुषुप्तस्थं चिदात्मानमुपास्महे ।
उष्णमग्नौ हिमे शीतं मृष्टमन्ने शितं क्षुरे ॥ ९५ ॥

अग्न्यौष्ण्यादिसत्तात्मनामपि चित एव स्फुरणात्परमार्थतः सैव तानीत्याशयेनाह##-

कृष्णं ध्वान्ते सितं चन्द्रे चिदात्मानमुपास्महे ।
आलोकं बहिरन्तस्थं स्थितंवस्तुनि ॥ ९६ ॥

अदूरमपि दूरस्थं चिदात्मानमुपास्महे ।
माधुर्यादिषु माधुर्यं तीक्ष्णादिषु च तीक्ष्णताम् ॥ ९७ ॥

प्रत्यगात्मत्वाददूरमप्यज्ञानाद्दूरस्थम् ॥ ९७ ॥

गतं पदार्थजातेषु चिदात्मानमुपास्महे ।
जाग्रत्स्वप्नसुषुप्तेषु तुर्यातुर्यातिगे पदे ॥ ९८ ॥

गतमिति पूर्वान्वयि ॥ ९८ ॥

समं सदैव सर्वत्र चिदात्मानमुपास्महे ।
प्रशान्तसर्वसङ्कल्पं विगताखिलकौतुकम् ॥ ९९ ॥

कौतुकं कामः ॥ ९९ ॥

विगताशेषसंरम्भं चिदात्मानमुपास्महे ।
निष्कौतुकं निरारम्भं निरीहं सर्वमेव च ॥ १०० ॥

संरम्भः क्रोधः । कौतुकं भोगोत्कण्ठा । आरम्भो यन्नः । ईहा चेष्टा । सर्वं
निरवशेषम् ॥ १०० ॥

निरंशं निरहङ्कारं चिदात्मानमुपास्महे ।
सर्वस्यान्तःस्थितं सर्वमप्यपारैकरूपिणम् ॥ १०१ ॥

अपर्यन्तचिदारम्भं चिदात्मानमुपागतः ।
त्रैलोक्यदेहमुक्तानां तन्तुमुन्नतमाततम् ॥ १०२ ॥

अपर्यन्तानां प्रतिबिम्बचिता आरम्भा यस्मात्तम् । त्रैलोक्यस्थानां देहलक्षणानां
मुक्तानां तन्तुम् ॥ १०२ ॥

प्रचारसङ्कोचकरं चिदात्मानमुपागतः ।
लीनमन्तर्बहिःस्वाप्तान्क्रोडीकृत्य जगत्खगान् ॥ १०३ ॥

प्रचाराचारौ [अत्र प्रचारावित्येवापेक्षितम् ।
कृतैकशेषद्विवचनान्तप्रचारशब्देन द्वन्द्वस्तेन
प्रचारशब्दाज्जाग्रत्स्वप्नयोर्लाभः । अत्राचारग्रहणं चिन्त्यम् ।] जाग्रत्स्वप्नौ
सङ्कोचः सुषुप्तिस्तत्करम् । अन्तर्बहिश्च स्वेन आप्तान्व्याप्तान्
जगल्लक्षणान्खगान्पक्षिणः क्रोडीकृत्यान्तर्भाव्य लीनं प्रच्छन्नतया स्थितम् ॥
१०३ ॥

चित्रं बृहज्जालमिव चिदात्मानमुपागतः ।
सर्वं यत्रेदमस्त्येव नास्त्येव च मनागपि ॥ १०४ ॥

सदसद्रूपमेकं तं चिदात्मानमुपागतः ।
परमप्रत्ययं पूर्णमास्पदं सर्वसम्पदाम् ॥ १०५ ॥

सर्गे सर्वसत्तानिर्वाहकत्वात्सद्रूपं प्रलये सर्वासत्तानिर्वाहकत्वादसद्रूपमिति
भावः । परमप्रत्ययमत्यन्तविश्वासार्हं चिदेकरसं वा । सर्वासां सम्पदां
सुखलवानामास्पदं प्रतिष्ठाम् ॥ १०५ ॥

सर्वाकारविहारस्थं चिदात्मानमुपागतः ।
स्नेहाधारमथोऽशान्तं [प्रकृतिभाङ्गाभावच्छान्दसः ।]
जडवाताहतिभ्रमैः ॥ १०६ ॥

स्नेहस्तैलं निरुपाधिप्रेमा च तदाधारम् । जडानां देहादीनां वातानां
प्राणानां वृष्टिवातानां चाहतिरध्यासोऽभिघातश्च
तत्प्रयुक्तैर्भ्रमैरशान्तमविनष्टम् । भ्रान्तदृशा तैर्युक्तं तत्त्वदृशा तु
मुक्तं च ॥ १०६ ॥

युक्तं मुक्तं च चिद्दीपं बहिरन्तरुपास्महे ।
हृत्सरःपद्मिनीकन्दं तन्तुं सर्वाङ्गसुन्दरम् ॥ १०७ ॥

हृत्सरसि पद्मिनीकन्दवन्निगूढम् । सर्वेषां हस्तपादाद्यङ्गानां सुन्दरं
दृढविष्टम्भकं तन्तुं रज्जुवदाधारम् ॥ १०७ ॥

जनताजीवनोपायं चिदात्मानमुपागतः ।
अक्षीरार्णवसम्भूतमशशाङ्कमुपस्थितम् ॥ १०८ ॥

प्रसिद्धामृतवैलक्षण्यमाह-अक्षीरार्णवेति ॥ १०८ ॥

अहार्यममृतं सत्यं चिदात्मानमुपास्महे ।
शब्दरूपरसस्पर्शगन्धैराभासमागतम् ॥ १०९ ॥

अहार्यं गरुडादिभिरपहर्तुमशक्यम् । आभासं अभिव्यक्तिम् ॥ १०९ ॥

तैरेव रहितं शान्तं चिदात्मानमुपागतः ।
आकाशकोशविशदं सर्वलोकस्य रञ्जनम् ॥ ११० ॥

रञ्जनं स्वव्याप्त्या अभिव्यञ्जकम् ॥ ११० ॥

न रञ्जनं न चाकाशं चिदात्मानमुपागतः ।
महामहिम्ना सहितं रहितं सर्वभूतिभिः ।
कर्तृत्वे वाप्यकर्तारं चिदात्मानमुपागतः ॥ १११ ॥

अखिलमिदमहं ममैव सर्वं त्वहमपि नाहमथेतरच्च नाहम् ।
इति विदितवतो जगत्कृतं मे स्थिरमथवास्तु गतज्वरो भवामि ॥ ११२ ॥

तादात्म्याध्यारोपदृशा अखिलमहम् । संसर्गाध्यारोपदृशा तु ममैव सर्वम् ।
अपवाददृशा तु अहन्त्वारोपनिमित्तमहङ्कारोऽपि नाहम् । इतरत्तु सुतरां नाहं
इत्यध्यारोपापवादाभ्यां तत्त्वं विदितवतो मे मम जगत्कृतं कृत्रिमं
मायामयं वा अस्तु अथवा स्थिरमकृत्रिममात्मैव वास्तु उभयथाप्यहं गतज्वरो
भवामीत्यर्थः ॥ ११२ ॥

इत्यार्षे श्रीवा० रामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू०
जीवन्मुक्तनिश्चययोगोपदेशो नामैकादशः सर्गः ॥ ११ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
जीवन्मुक्तनिश्चययोगोपदेशो नामैकादशः सर्गः ॥ ११ ॥