०१०

दशमः सर्गः १०

श्रीवसिष्ठ उवाच ।

तस्मान्नकिञ्चिदेवेदं जगत्स्थावरजङ्गमम् ।
नकिञ्चिद्भूततां प्राप्तं यत्किञ्चिदिति विद्धि हे ॥ १ ॥

अविद्याबन्धविभ्रान्तिः स्थावरेषु मनःस्थितिः ।
बुद्धिपूर्वाद्विचाराच्च बन्धमोक्षः प्रपञ्च्यते ॥

तस्माज्जगज्जीवभेदस्याज्ञातब्रह्ममात्रत्वाज्ज्ञाते तस्मिन्निदं नकिञ्चिदेवेत्यर्थः ॥
१ ॥

यत्र काचिन्न कलना भावाभावमयात्मिका ।
तदिदं राम जीवादि सर्वं व्यर्थं किमीहसे ॥ २ ॥

इदं जीवादि सर्वं यत्र भावाभावमयात्मिका काचित्कलना नास्ति तत्तादृशं
ब्रह्मैव । एवं च व्यर्थं किमीहसे इच्छसि ॥ २ ॥

सम्बन्धोऽयमसावन्तर्हृदि यो व्यपदिश्यते ।
न तं लभामहे सर्पं रज्जुसर्पभ्रमादिव ॥ ३ ॥

सम्बन्धो देहे बाह्यभोग्ये चाहम्ममतालक्षणः । न तं लभामहे विमर्शेनेति
शेषः ॥ ३ ॥

अपरिज्ञात आत्मैव भ्रमतां समुपागतः ।
ज्ञात आत्मत्वमायाति सीमान्तः सर्वसंविदाम् ॥ ४ ॥

भ्रमतां जगद्भ्रान्तिम् ॥ ४ ॥

अविद्येत्युच्यते लोके चिच्चेत्यमलमाश्रिता ।
चेत्यातीतात्मतामेति सर्वोपाधिविवर्जिता ॥ ५ ॥

चेत्यबीजभूतं मलं स्वसत्तारोपेणाश्रिता । एति विद्ययेति शेषः ॥ ५ ॥

चित्तमात्रं हि पुरुषस्तस्मिन्नष्टे च नश्यति ।
स्थिते तिष्ठति चात्मायं घटे सति घटाम्बरम् ॥ ६ ॥

एवमविद्यास्वरूपमुक्त्वा तत्कार्योपाधिना आत्मनो बन्धभ्रमं दर्शयति##-
नश्यतीव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति विनाशमेवापीतो भवति
इत्यादिश्रुतेः । घटाम्बरं यथेति शेषः ॥ ६ ॥

गच्छन्पश्यति गच्छन्तं स्थितं तिष्ठञ्छिशुर्यथा ।
भ्रान्तमेवमिदं चेतः पश्यत्यात्मानमाकुलम् ॥ ७ ॥

एवं गत्यादिकमपि चित्तधर्मं स्वात्मन्यारोपयतीत्याह-गच्छन्निति । अयमात्मा
एवं भ्रान्तमिदं चेतश्चित्तमेव आकुलमात्मानं पश्यति ॥ ७ ॥

कोशकारवदात्मानं वासनातनुतन्तुभिः ।
वेष्टयच्चैव चेतोऽन्तर्बालत्वान्नावबुध्यते ॥ ८ ॥

अतएव तद्गतवासनाभिः स्वं बध्नातीत्याह-कोशेति । कोशकारः कृमिविशेषः ।
बालत्वाद्विवेकशून्यत्वात् ॥ ८ ॥

श्रीराम उवाच ।

मौर्ख्यमत्यन्तघनतामागतं समवस्थितम् ।
स्थावरादि तनु प्राप्तं कीदृशं भवति प्रभो ॥ ९ ॥

बालपदोक्ताविवेकप्रसङ्गादविवेकपरमावधीनां स्थावराणां चित्तस्थितिं
जिज्ञासुः श्रीरामः पृच्छति-मौर्ख्यमिति । समवस्थितमवलम्बितम् ॥ ९ ॥

श्रीवसिष्ठ उवाच ।

अमनस्त्वमसम्प्राप्तं मनस्त्वादपि च च्युतम् ।
तटस्थं रूपमाश्रित्य स्थितैषा स्थावरेषु चित् ॥ १० ॥

अमनस्त्वं सुषुप्ताविव सुखदुःखसंवेदनायोग्यतापादकं मनोलयम् ।
पूर्वापरपरामर्शक्षममननयोग्यतालक्षणमनस्त्वादपि च्युतम् । तटस्थं
मुग्धतालक्षणं रूपमाश्रित्य । चित् जीवचित् ॥ १० ॥

तत्र दूरस्थिता मुक्तिर्मन्ये वेद्यविदां वर ।
सुप्तपुर्यष्टका यत्र चित्स्थिता दुःखदायिनी ।
मूकान्धजडवत्तत्र सत्तामात्रेण तिष्ठति ॥ ११ ॥

सुप्तं विवेकाक्षमम् । पुर्यष्टकपदेन तदन्तर्गतं बाह्यान्तःकरणजातं लक्ष्यते ।
अतएव दुःखप्रतीकाराक्षमत्वाद्बहुदुःखदायिनी । मूकपदेन कर्मेन्द्रियशून्यता ।
अन्धपदेन ज्ञानेन्द्रियप्रचारशून्यता । जडपदेन
मानसप्रसारणशून्यतोपलक्ष्यते ॥ ११ ॥

श्रीराम उवाच ।

सत्ताद्वैततया यत्र संस्थिता स्थावरेषु चित् ।
तत्रादूरस्थिता मुक्तिर्मन्ये वेद्यविदां वर ॥ १२ ॥

ज्ञानकर्मेन्द्रियव्यापारशून्यतया सत्तामात्रेण चित् स्थिता चेत्तादृशस्थितौ
योगिनामिव शीघ्रमेव वासनाक्षयमनोनाशसम्भवाददूरस्थिता मुक्तिरुचितेति
दूरस्थिता मुक्तिरिति वदतस्तव कोऽभिप्राय इत्याशयेन रामः पृच्छति-सत्तेति ॥ १२ ॥

श्रीवसिष्ठ उवाच ।

बुद्धिपूर्वं विचार्येदं यथावस्त्ववलोकनात् ।
सत्तासामान्यबोधो यः स मोक्षश्चेदनन्तकः ॥ १३ ॥

शास्त्रविहितकर्मानुष्ठानकृतचित्तशुद्धिसाधनचतुष्टयसम्पत्तिसहकृतश्रवण्
अमनननिदिध्यासनजन्यतत्त्वसाक्षात्कारकृतसमूलवासनाक्षयमनोनाशाभ्यां
सत्तासामान्यस्थितिर्हि मोक्षः स चानन्तदुष्कृतदुर्वासनाबीजसम्भूतानां
नारकिप्रायाणां स्थावराणां शास्त्राधिकारिजन्मदौर्लभ्याद्दुर्लभतर इति
श्रीवसिष्ठः स्वोक्तेरभिप्रायं वर्णयति-बुद्धिपूर्वमित्यादिना ॥ १३ ॥

परिज्ञाय परित्यागो वासनानां य उत्तमः ।
सत्तासामान्यरूपत्वं तत्कैवल्यपदं विदुः ॥ १४ ॥

परिज्ञायात्मतत्त्वमिति शेषः ॥ १४ ॥

विचार्यार्यैः सहालोक्य शास्त्राण्यध्यात्मभावनात् ।
सत्तासामान्यनिष्ठत्वं यत्तद्ब्रह्म परं विदुः ॥ १५ ॥

शास्त्राणि आर्यैर्गुरुसतीर्थ्यादिभिः सह विचार्य
अध्यात्मभावनान्मननपूर्वकनिदिध्यासनात्तत्त्वमालोक्य ॥ १५ ॥

अन्तः सुप्ता स्थिता मन्दा यत्र बीज इवाङ्कुरः ।
वासना तत्सुषुप्तत्वं विद्धि जन्मप्रदं पुनः ॥ १६ ॥

स्थावरेषु तद्दूरतरमित्युपपादयति-अन्तरित्यादिना ।सुषुप्तत्वमिव सुषुप्तत्वम् ॥ १६

अन्तः संलीनमननं परितः सुप्तवासनम् ।
सुषुप्तं जडधर्मापि जन्म दुःखशतप्रदम् ॥ १७ ॥

जडधर्मापि पाषाणादिभाववद्वृत्तिशून्यमपि ॥ १७ ॥

स्थावरादय एते हि समस्ता जडधर्मिणः ।
सुषुप्तपदमारूढा जन्मयोग्याः पुनः पुनः ॥ १८ ॥

यथा बीजेषु पुष्पादि मृदो राशौ घटो यथा ।
तथान्तः संस्थिता साधो स्थावरेषु स्ववासना ॥ १९ ॥

स्थावरेषु वासनैव नास्तीति मन्दाशङ्कां परिहरति-यथेति । पुष्पादीति
व्युत्क्रमादुक्तिः । अङ्कुरादिपुष्पान्तमित्यर्थः ॥ १९ ॥

यत्रास्ति वासनाबीजं तत्सुषुप्तं न सिद्धये ।
निर्बीजा वासना यत्र तत्तुर्यं सिद्धिदं स्मृतम् ॥ २० ॥

निर्बीजा ज्ञानाग्निभर्जितबीजशक्तिः ॥ २० ॥

वासनायास्तथा वह्नेरृणव्याधिद्विषामपि ।
स्नेहवैरविषाणां यः शेषः स्वल्पोऽपि बाधते ॥ २१ ॥

अतएवाल्पापि वासना परिशिष्टा वह्न्यादिशेषवत्क्रमादभिवृद्ध्या
महानर्थहेतुर्भवतीति निःशेषं तत्क्षयः कार्य इत्याशयेनाह-वासनाया इति ॥ २१

निर्दग्धवासनाबीजसत्तासामान्यरूपवान् ।
सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत् ॥ २२ ॥

चिच्छक्तिर्वासनाबीजरूपिणी स्वापधर्मिणि ।
स्थिता रसतया नित्यं स्थावरादिषु वस्तुषु ॥ २३ ॥

चिच्छक्तिरावृतचिद्रूपा वासना बीजशक्तिः रसतया बीजे अङ्कुरशक्तिलक्षणो
भर्जननाश्यो रस इव ॥ २३ ॥

बीजेषूल्लासरूपेण जाड्येन जडरूपिषु ।
द्रव्येषु द्रव्यभावेन काठिन्येनेतरेषु च ॥ २४ ॥

सैव बीजादिसर्वकारणेषु नानारूपेण स्थितेत्याह-बीजेष्वित्यादिना । उल्लासो
भूजलयोगादुत्फुल्लता तेन लिङ्गेन रूप्यते अनुभूयते
इत्युल्लासरूपमङ्कुरजननशक्तिस्तदात्मना द्रव्येषु धनरत्नादिषु द्रव्यभावेन
स्पृहणीयताप्रयोजकभव्यभावेन । द्रव्यं च भव्ये इत्यनुशासनात् । इतरेषु
शिलादिषु बालेन [पापेन इति पाठः ।] कुलमितिवदभेदान्वयः ॥ २४ ॥

भस्मन्यथानित्यरूपा पांसुष्वप्यणुरूपिणी ।
असितेष्वसितस्थित्या सितधारतयासिषु ॥ २५ ॥

भस्मनि पांसुष्वप्यनित्यरूपा पूर्वतनकाष्ठलोष्टादिध्वंसरूपा ।
अणुरूपिण्यप्यसितेषु मलिनेष्वक्षाधारे चासितस्थित्या मालिन्यमार्दवरूपया स्थित्या ।
असिषु खड्गादिषु सितधारतया तीक्ष्णधारतया ॥ २५ ॥

आत्मा शक्तिः पदार्थेषु तथा घटपटादिषु ।
सर्वत्र सत्तासामान्यरूपमाश्रित्य तिष्ठति ॥ २६ ॥

घटपटादिषु सर्वत्र सर्ववस्तुष्वात्मैव सत्तासामान्यरूपं गृहीत्वा
जलाहरणशीतनिवारणादिनानाशक्तिः संस्तिष्ठतीत्यर्थः ॥ २६ ॥

इतीयमखिला दृश्यदशामापूर्य संस्थिता ।
यथा घटापटा प्रावृडम्बरालम्बिनी तथा ॥ २७ ॥

घटा मेघजालमेव पट आच्छादको यस्यास्तथाविधा प्रावृड् वर्षर्तुः ॥ २७ ॥

स्वरूपमस्याश्चैवैतत्कथितं प्रविचारितम् ।
असर्वं सर्वतो व्यापि सदिवासन्मयात्मकम् ॥ २८ ॥

आत्मदृष्टिरदृष्टैषा संसारभ्रमदायिनी ।
दृष्टा सती समग्राणां दुःखानां क्षयकारिणी ॥ २९ ॥

अस्या अज्ञानावृतचिच्छक्तेः । असन्मयात्मकमसत्यमायाविकारतादात्म्यापन्नम् ॥
२८ ॥ २९ ॥

अस्यास्त्वदर्शनं यत्तदविद्येत्युच्यते बुधैः ।
अविद्या हि जगद्धेतुस्ततः सर्वं प्रवर्तते ॥ ३० ॥

अस्या आत्मदृष्टेरदर्शनं दर्शनविरोध्यावरणरूपम् ॥ ३० ॥

अविद्या रूपरहिता यावदेवावलोक्यते ।
तावदेव गलत्याशु तुहिनाणुर्यथातपे ॥ ३१ ॥

रूपरहिता स्वरूपशून्या ॥ ३१ ॥

यथा नरो गलन्निद्रो यावत्कलनया मनाक् ।
विमृशत्याशयं तावन्निद्रा तस्य विलीयते ॥ ३२ ॥

दृष्टान्तान्तराण्यप्याह-यथेत्यादिना । आशयं स्वचित्तवृत्तान्तम् ॥ ३२ ॥

यथा कीदृगवस्त्वेतदिति यावद्विकल्प्यते ।
अविद्या क्षीयते तावदालोकेनान्धता यथा ॥ ३३ ॥

तत्त्वपर्यालोचने सर्पादिभ्रमनिवृत्तिरप्यत्र दृष्टान्त इत्याशयेनाह-यथेति ।
अवस्तु सर्पादि कीदृक् । किं वास्तवमुत मद्भ्रान्तिकल्पितमिति यावद्विकल्प्यते
विमृश्यते । अन्धता तमःकृतदर्शनशक्तिप्रतिबन्धः ॥ ३३ ॥

दीपहस्तो यथाभ्येति तमोरूपदिदृक्षया ।
तथा विलीयते सर्वं तमस्तापैर्घृतं यथा ॥ ३४ ॥

अभ्येति चेदिति शेषः । यथा तमो विलीयते तथा सर्वं साविद्यं जगत् ॥ ३४ ॥

न च संलक्ष्यते दीपे तमसो रूपनिश्चयः ।
उदेति केवलं ध्वान्तध्वंसो विमलमूर्तिमान् ॥ ३५ ॥

तमोरूपादर्शननिदर्शनं विवृणोति-नचेति । दीपे आनीयमाने सतीति शेषः ॥ ३५ ॥

एवमालोक्यमानैषा क्वापि याति पलायते ।
असद्रूपा ह्यवस्तुत्वाद्दृश्यते ह्यविचारणात् ॥ ३६ ॥

मन्दमालोक्यमाना मन्दं याति सम्यगालोक्यमाना पलायते ॥ ३६ ॥

आलोक आगते यादृक्तमस्तद्दृश्यते तथा ।
याऽवस्तुत्वे त्वविद्यायास्त्ववस्तुत्वं प्रतीयते ॥ ३७ ॥

कुतस्तस्या आस्तुत्वमिति चेत्स्वप्रतीतिवलादेवेत्याह-आलोक इति । आलोके आगते सति तत्तमो
यादृक् असद्रूपं दृश्यते तथा या अविद्याप्यसती दृश्यते । ननु न तमस आलोकेन
बाधः । त्रैकालिकत्वाप्रतीतेः । किन्तु औष्ण्येन जलशैत्यस्येव तिरोभावमात्रम् ।
आलोकापगमे पुनस्तद्दर्शनादिति । तमसोऽवस्तुत्वे तु अस्तु तत्तथा । अविद्यायास्त्ववस्तुत्वं
त्रैकालिकबाधानुभवेन प्रतीयत एवेत्यर्थः ॥ ३७ ॥

यावन्नालोक्यते तावन्न किञ्चिदपि दृश्यते ।
आलोकिते यथाऽविद्या तत्तथा प्रतिपद्यते ॥ ३८ ॥

किञ्चिच्छुक्तिरज्ज्वाद्यपि वा रजतसर्पाद्यपि वा यावद्विचार्य नालोक्यते तावत्तत्त्वतो न
दृश्यते । आलोकिते तु यथा यावत्स्वभावा अविद्या यथा च वस्तुतत्त्वं वर्तते तत्तथैव
प्रतिपद्यत इत्यर्थः ॥ ३८ ॥

रक्तमांसास्थियन्त्रेऽस्मिन्कः स्यामहमिति स्वयम् ।
यावद्विचार्यते तावत्सर्वमाशु विलीयते ॥ ३९ ॥

कथं विमृश्यालोकनं कार्यं तदाह-रक्तेति ॥ ३९ ॥

आद्यन्तयोरसद्रूपे नूनं परिहृते हृदा ।
सर्वस्मिन्नेवयः शेषस्तमविद्याक्षयं विदुः ॥ ४० ॥

एवं विचारवता हृदा मनसा आद्यन्तयोरसद्रूपे सर्वस्मिन् दृश्ये परिहृते सति
यः शिष्यते इति शेषश्चिदात्मा । अध्यस्तबाधस्याधिष्ठानाव्यतिरेकादिति भावः ॥ ४० ॥

तन्न किञ्चिच्च किञ्चिद्वा तत्सद्ब्रह्मैव शाश्वतम् ।
तद्वस्तु तदुपादेयं यदविद्या निवर्तते ॥ ४१ ॥

रूपं स्वनाम्न एवास्या ज्ञायते निःस्वभावकम् ।
नहि जिह्वागतस्वाद्यस्वादोऽन्यस्मात्प्रतीयते ॥ ४२ ॥

बाध्यस्य निःस्वरूपत्वे तद्बाधस्यात्ममात्रत्वे वा न प्रमाणान्तरं मृग्यम् ।
माया अविद्यादिनाम्नस्तादृशस्वाप्नाद्यर्थेष्वेव रूढत्वादित्याह-रूपमिति ॥ ४२

नाविद्या क्वचिदप्यस्ति ब्रह्मैवेदमखण्डितम् ।
सदसत्कलनास्फारमशेषं येन मण्डितम् ॥ ४३ ॥

एतावदेवाविद्याया नेदं ब्रह्मेति निश्चयः ।
एतदेव क्षयो यस्या ब्रह्मेदमिति निश्चयः ॥ ४४ ॥

एवं सति फलितं निष्कृष्टमविद्यातत्क्षययोः स्वरूपमाह-एतावदिति ।
अविद्यायाः स्वरूपमिति शेषः ॥ ४४ ॥

घटपटशकटावभासजालं न विभुरितीत्युदितेह सा त्वविद्या ।
घटपटशकटावभासजालं विभुरिति चेद्गलितैव सा त्वविद्या ॥ ४५ ॥

तदेव विवृण्वन्नुपसंहरति-घटेति । घटः पटः शकटं
चेत्याद्यवभासमानं जगज्जालं विभुरपरिच्छिन्नसच्चिदात्मा न
किन्त्वन्यदित्यादिरारोपितदृष्टिरेवाविद्या तदपवादेनापरिच्छिन्नसन्मात्रदृष्टिरेव
तत्क्षय इत्यर्थः ॥ ४५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे
पू० अविद्याचिकित्सा नाम दशमः सर्गः ॥ १० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
अविद्याचिकित्सा नाम दशमः सर्गः ॥ १० ॥