नवमः सर्गः ९
श्रीराम उवाच ।
आकारजातमुदितं शुद्धं हरिहराद्यपि ।
अविद्यैवेत्यहं श्रुत्वा ब्रह्मन्भ्रममिवागतः ॥ १ ॥
गुणत्रयविभागोऽत्र हरादेः शुद्धसत्त्वता ।
विद्याविद्यास्वरूपं च तदतीतं च वर्ण्यते ॥
दृश्यं स्फुरन्ननु हराद्यपि तामविद्यां विद्धि इति यदुक्तं तत्र हरादिशरीरस्य
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं
विश्वरूपाय वै नमो नमः घृतरीतिघनीभूतसच्चिदानन्दविग्रह
इत्यादिश्रुतिस्मृतिषु परब्रह्मत्वसच्चिदानन्दरूपत्वप्रसिद्धेः ईशानः
सर्वविद्यानामीश्वरः सर्वभूतानाम्
इत्यादिश्रुतिप्रसिद्धसर्वविद्याधिपत्यविरोधाद्वासुदेवमूर्तेः पुराणेषु
तुरीयत्वपरब्रह्मत्वादिप्रसिद्धेश्चाविद्यात्वमसम्भावयन्प्रसङ्गात्तद्##-
भ्रममिव मिथ्याभ्रान्तिमागतस्तमपनयेति शेषः ॥ १ ॥
श्रीवसिष्ठ उवाच ।
संवेद्येनापरामृष्टं शान्तं सर्वात्मकं च यत् ।
तत्सच्चिदाभासमयमस्तीह कलनोज्झितम् ॥ २ ॥
तत्र निर्विकारशुद्धचितो घृतवत्स्वतो घनीभावस्य मूर्ताकारस्य
चाघटनान्मायाधीनविवर्तप्रयुक्तत्वे सिद्धे श्रुतस्य परब्रह्मत्वस्याविरोधाय
तत्प्रयोजको मायांशः स्वच्छसूक्ष्मतमस्वरूपानावरकः कल्प्यः स एव
शुद्धसत्त्वमित्युच्यते । तस्य च स्वच्छतमत्वाच्चित्प्रतिबिम्बग्राहितया
सर्वविद्योद्दीपकत्वात्स्वरूपानावरकत्वाच्च न सर्वविद्याधिपत्यविरोधः । यत्र त्वस्य
सर्वमात्मैवाभूतत्केन कं पश्येत् । भूयश्चान्ते विश्वमायानिवृत्तिः
इत्यादिश्रुत्या अस्मदीयतत्त्वज्ञानबाध्यत्वाच्चाविद्यात्वमिति नात्रासम्भावना
युक्तेत्याशयेनोत्तरं वक्तुकामो वसिष्ठस्तत्कल्पनाक्रममनुक्रमिष्यन्नधिष्ठानं
प्रथमं दर्शयति-संवेद्येनेति । संवेद्येन जगदाकारेण अपरामृष्टं
सर्वजगत्संस्कारसम्भृतमायाशबलत्वात्सर्वात्मकमतएव सच्चित्प्रकाशप्रचुरं
सन्मात्रमस्ति सर्गात्प्रागित्यर्थः ॥ २ ॥
समुदेति स्वतस्तस्मात्कला कलनरूपिणी ।
जलादावर्तलेखेव स्फुरज्जलतयोदिता ॥ ३ ॥
कलनं जगत्संस्कारोद्बोधस्तल्लक्षणा कला चिदाभासस्फूर्तिः सर्गादिकाले समुदेति
स्वसत्तया स्थितैव ईषत् पृथगिव गुणिगुणभेदव्यवहारयोग्यतया आविर्भवति । अतएव
तदनुरूपो दृष्टान्त आवर्तलेखेवेति ॥ ३ ॥
सूक्ष्मा मध्या तथा स्थूला चेति सा कल्प्यते त्रिधा ।
पश्चान्मनस्तया तेन ज्ञातैव वपुषा पुनः ॥ ४ ॥
सा च कला सूर्यात्पृथक् प्रौढातपमन्दातपच्छायाभेदेषु तेजोपकर्ष इव सूक्ष्मा
मध्या स्थूला चेति त्रिधा कल्प्यत इत्यर्थः । सूक्ष्मकल्पनात्पश्चात्तेन कल्पयित्रा
मनस्तया हिरण्यगर्भतया मध्या ज्ञाता पुनस्तदनन्तरं वपुषा
स्थूलविराडाकारेण ज्ञाता तथैव तिष्ठतीति परेणान्वयः ॥ ४ ॥
तिष्ठत्येतास्ववस्थासु भेदतः कल्प्यते त्रिधा ।
सत्त्वं रजस्तम इति एषैव प्रकृतिः स्मृता ॥ ५ ॥
यत एषा अव्याकृतोपाधिप्रकृतिरेव त्रिधा स्थिता अतएवासु सूक्ष्माद्यवस्थास्वपि
त्रिधा कल्प्यत इत्यन्वयः ॥ ५ ॥
अविद्यां प्रकृतिं विद्धि गुणत्रितयधर्मिणीम् ।
एषैव संसृतिर्जन्तोरस्याः पारं परं पदम् ॥ ६ ॥
प्रश्नोत्तरानुगुण्याय प्रकृतेरविद्यात्वमाह-अविद्यामिति ॥ ६ ॥
अत्र ते ये त्रयः प्रोक्ता गुणास्तेऽपि त्रिधा स्मृताः ।
सत्त्वं रजस्तम इति प्रत्येकं भिद्यते गुणः ॥ ७ ॥
कार्यकारणाविद्यासाधारण्येनैकैकस्य गुणस्यावान्तरत्रैविध्यमाह-अत्रेति ॥ ७ ॥
नवधैवं विभक्तेयमविद्या गुणभेदतः ।
यावत्किञ्चिदिदं दृश्यमनयैव तदाश्रितम् ॥ ८ ॥
ऋषयो मुनयः सिद्धा नागा विद्याधराः सुराः ।
इति भागमविद्यायाः सात्त्विकं विद्धि राघव ॥ ९ ॥
तत्र प्रथमविभागे सत्त्वांशमुदाहरति-ऋषय इति ॥ ९ ॥
सात्त्विकस्यास्य भागस्य नागविद्याधरास्तमः ।
रजस्तु मुनयः सिद्धाः सत्त्वं देवा हरादयः ॥१० ॥
तदवान्तरविभागे त्रीनप्युदाहरति-सात्त्विकस्येति ॥ १० ॥
सत्त्वजातौ देवयोनावविद्या प्राकृतैर्गुणैः ।
निर्मलं पदमायाताः सत्त्वं हरिहरादयः ॥ ११ ॥
हरादीनां सत्त्वगुणान्तर्गतशुद्धसत्त्वदेहत्वे उपपत्तिमाह-सत्त्वजाताविति ।
निर्मलं कदाप्यविद्यावरणशून्यं स्वात्मपदं स्वाभाविक्यैव विद्यया
सदैवायाता अतस्ते शुद्धसत्त्वमित्यर्थः । एतेन विधिहरयो राजसतामसशरीरत्वेन
मूढजनप्रसिद्धिर्निरस्ता । सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष
एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति सञ्ज्ञाः श्रेयांसि तत्र खलु
सत्त्वतनोर्नृणां स्युः ॥ इति भागवतादिवाक्यानि । तथा यस्य तमः साक्षाच्छरीरं
सात्त्विको गुणः । पालनाय त्रिमूर्तीनां स विष्णुः स्यान्न चापरः ॥ इति स्कान्दवचनं च
सृष्ट्याद्युपकरणे शरीरत्वोपचारेण द्वाभ्यामेकस्य वरगोष्ठीन्यायेन
प्रशंसार्थानि नेतरयोरपकृष्टतापराणि ।
सर्वज्ञत्वसत्यसङ्कल्पतास्वभक्तप्रबोधकत्वनिःश्रेयसहेतुत्वानां त्रिमूर्तिष्वपि
श्रुतिस्मृतिपुराणेषु प्रसिद्धतमत्वात् । अयं परस्त्वयं नेति संरम्भाभिनिवेशिनः
। यातुधानाश्च जायन्ते पिशाचाश्च न संशयः ॥ इत्यपकर्षदर्शनस्य
निन्दितत्वात्त्रिमूर्तीनामीश्वरकोटित्वेनैकतया
अपकर्षायोग्यत्वात्सर्वोत्कर्षप्रयोजकशुद्धसत्त्वशरीरत्वमेवोचितमिति भावः ॥ ११ ॥
सात्त्विकः प्राकृतो भागो राम तज्ज्ञो हि यो भवेत् ।
न समुत्पद्यते भूयस्तेनासौ मुक्त उच्यते ॥ १२ ॥
अतएव तदुपासकानामपि ज्ञानप्राप्त्या पुनर्जन्मनिवृत्तिः प्रसिद्धेत्याह##-
अतएव त्रिमूर्तीनामावरणाभावादनागन्तुकी जीवन्मुक्तेत्याह-तेनेति । असौ
हरिहरादिः ॥ १२ ॥
तेन रुद्रादयो ह्येते सत्त्वभागा महामते ।
तिष्ठन्ति मुक्ताः पुरुषा यावद्देहं जगत्स्थितौ ॥ १३ ॥
यावद्देहं महात्मानो जीवन्मुक्ता व्यवस्थिताः ।
विदेहमुक्ता देहान्ते स्थास्यन्ति परमेश्वरे ॥ १४ ॥
परमेश्वरे शुद्धब्रह्मस्वभावे ॥ १४ ॥
भाग एष त्वविद्याया एवं विद्यात्वमागतः ।
बीजं फलत्वमायाति फलमायाति बीजताम् ॥ १५ ॥
प्रश्नसमाधानमुपसंहृत्य प्रस्तुतमेव प्रस्तौति-भाग इति । कार्याविद्या
फलं तत्प्रलये बीजतां कारणाविद्यात्वमायाति ॥ १५ ॥
उदेत्यविद्या विद्यायाः सलिलादिव बुद्बुदः ।
विद्यायां लीयतेऽविद्या पयसीव हि बुद्बुदः ॥ १६ ॥
कार्याविद्योदयलयाधारत्वादपि विद्याशरीराणां तेषामविद्यात्वमेवेत्याह##-
सकाशात्कार्याविद्यालक्षणसृष्टिरुदेति तत्रैव प्रलये लीयते ॥ १६ ॥
पयस्तरङ्गयोर्द्वित्वभावनादेव भिन्नता ।
विद्याविद्यादृशोर्भेदभावनादेव भिन्नता ॥ १७ ॥
एवं च विद्याविद्याभेदोऽपि कल्पित एवेति सिद्धमित्याह-पय इति ॥ १७ ॥
पयस्तरङ्गयोरैक्यं यथैव परमार्थतः ।
नाविद्यात्वं न विद्यात्वमिह किञ्चन विद्यते ॥ १८ ॥
किञ्च विद्यादृशा विद्याविद्योभयबाधे सुतरां
तद्भेदप्रसक्तिर्नास्तीत्याशयेनाह-नाविद्यात्वमिति ॥ १८ ॥
विद्याविद्यादृशौ त्यक्त्वा यदस्तीह तदस्ति हि ।
प्रतियोगिव्यवच्छेदवशादेतद्रघूद्वह ॥ १९ ॥
विद्याविद्यादृशौ तद्भेदविरोधादिदृष्टी । ननु अविद्यादृशो बाध्यत्वादस्तु
त्यागः विद्यादृशस्तु बाधिकायाः केन त्यागस्तत्राह-प्रतियोगीति ।
बाधेनाविद्याया असत्त्वापत्तौ तन्निरूपितबाधकताया
असिद्धेर्व्यावृत्तिप्रसिद्धेर्व्यावर्त्यप्रतियोगिप्रसिद्ध्यधीनत्वाच्चेत्यर्थः ॥ १९ ॥
विद्याविद्यादृशौ न स्तः शेषे बद्धपदो भव ।
नाविद्यास्ति न विद्यास्ति कृतं कल्पनयानया ॥ २० ॥
शेषे परिशिष्टचिन्मात्रे ॥ २० ॥
किञ्चिदस्ति न किञ्चिद्यच्चित्संविदिति तत्स्थितम् ।
तदेवाविदिताभासं सदविद्येत्युदाहृतम् ॥ २१ ॥
कोऽसौ शेषस्तं दर्शयंस्तदेशप्राग्बोधादविद्येति कल्पितमित्याह-किञ्चिदिति ।
नास्ति किञ्चित्स्वातिरिक्तं यत्र तन्नकिञ्चित् ॥ २१ ॥
विदितं सत्तदेवेदमविद्याक्षयसञ्ज्ञितम् ।
विद्याभावादविद्याख्यामिथ्यैवोदेति कल्पना ॥ २२ ॥
मिथः स्वान्ते तयोरन्तश्छायातपनयोरिव ।
अविद्यायां विलीनायां क्षीणे द्वे एव कल्पने ॥ २३ ॥
स्वान्ते मनसि मिथः अन्योन्यं छायातपनयोरिव विरुद्धयोस्तयोर्विद्याविद्ययोर्मध्ये
अविद्यायामन्तः अन्तरे चिति बाधेन विलीनायां सत्याम् ॥ २३ ॥
एते राघव लीयेते अवाप्यं परिशिष्यते ।
अविद्यासङ्क्षयात्क्षीणो विद्यापक्षोऽपि राघव ॥ २४ ॥
अवाप्यं विद्याफलमभिव्यक्तं पूर्णानन्दरूपम् । ननु विद्यापि निराबाधत्वात्कुतो
न परिशिष्यते तत्राह-अविद्यासङ्क्षयादिति । इन्धनसङ्क्षयादग्निरिवेति भावः ॥ २४
॥
यच्छिष्टं तन्न किञ्चिद्वा किञ्चिद्वापीदमाततम् ।
तत्रैवं दृश्यते सर्वं न किञ्चन च दृश्यते ॥ २५ ॥
सर्वबाधात्मकत्वान्न किञ्चित्परमार्थसद्रूपत्वात्किञ्चित् । अतएव तद्दर्शनमेव
तत्त्वतः सर्वदर्शनं सर्वबाधदर्शनं चेत्याह-तत्रैवमिति । एवमुक्तेन
तात्त्विकरूपेण । मायिकरूपेण तु न किञ्चिदपि दृश्यते ॥ २५ ॥
वटश्च वटधानायामिव पुष्पफलादिमान् ।
सर्वशक्तिर्हि किञ्चित्त्वं सर्वशक्तिसमुद्गकम् ॥ २६ ॥
अज्ञानावृतदशायामपि तस्यैवाकिञ्चित्त्वेऽपि
वटबीजवद्व्याकृताव्याकृतावस्थयोः स्थूलसूक्ष्मीभूतसर्वात्मकतालक्षणं
किञ्चित्त्वं प्रसिद्धमित्याह-वटश्चेत्यादिना ॥ २६ ॥
नभसोऽप्यधिकं शून्यन्न् नच शून्यं चिदात्मकम् ।
सूर्यकान्ते यथा वह्निर्यथा क्षीरे घृतं तथा ॥ २७ ॥
तत्रेदं संस्थितं सर्वं देशकालक्रमोदये ।
यथा स्फुलिङ्गा अनलाद्यथा भासो दिवाकरात् ॥ २८ ॥
तत्र सत्त्वादेव देशकालक्रमोदये तस्मान्निर्यान्तीति परेणान्वयः ।
अतएवाग्निविस्फुलिङ्गादिन्यायेन जीवानामुपाधिभिः सह ततो निर्गमनं श्रुतिषु
प्रसिद्धमित्याशयेनाह-यथेत्यादिना ॥ २८ ॥
तस्मात्तथेमा निर्यान्ति स्फुरन्त्याः संविदश्चितः ।
यथाम्भोधिस्तरङ्गाणां यथामलमणिस्त्विषाम् ॥ २९ ॥
तस्मात्तत्र स्थितत्वादेव ब्रह्मसंविदः सकाशादिमाः प्रसिद्धा जीवचितो निर्यान्ति ।
अतएव तद्ब्रह्म सर्वजीवसंविदां कोश इत्याह-यथेति ॥ २९ ॥
कोशो नित्यमनन्तानां तथा तत्संविदां त्विषाम् ।
सबाह्याभ्यन्तरे सर्वं वस्तुन्यस्त्येव वस्तुसत् ॥ ३० ॥
त्विषां भ्रमस्थानीयानाम् । निर्गमनावधित्वोक्तेर्मणिप्रभादृष्टान्ताच्च
जीवजगतोर्ब्रह्मणो बहिरवस्थानप्रसक्तिं वारयन्नाह-सबाह्याभ्यन्तरमिति ।
वस्तुन्येवास्तीति सम्बन्धः । यतो वस्तुसत् वस्त्वधीनसत्ताकम् ॥ ३० ॥
सर्वदैवाविनाशात्म कुम्भानां गगनं यथा ।
यथा मणेरयःस्पन्दे अयस्कान्तस्य कर्तृता ॥ ३१ ॥
वस्तु च सर्वदैव अविनाशात्मत्रिविधपरिच्छेदरहितमिति यावत् । तथा च जीवनिर्गमनं
कुम्भाकाशोदरे [इदं सप्तम्यन्तमधिकमिव प्रतीयते ।]
कुम्भनिर्गमनात्कुम्भाकाशनिर्गमनमिवौपचारिकं सम्पन्नमित्याशयेनाह##-
अकर्तुरेव हि तथा कर्तृता तस्य कथ्यते ।
मणिसन्निधिमात्रेण यथायः स्पन्दते जडम ।
तत्सत्तया तथैवायं देहश्चेतत्यचिद्वपुः ॥ ३२ ॥
तत्र स्थितं जगदिदं जगदेकबीजे चिन्नाम्नि संविदितकल्पितकल्पनेन ।
लोलोर्मिजालमिव वारिणि चित्ररूपं खादप्यरूपवति यत्र न किञ्चिदस्ति ॥ ३३ ॥
उक्तमर्थं सङ्क्षिप्योपसंहरति-तत्रेति । तत्र अज्ञाते ब्रह्मणि
पूर्वपूर्वसंविदितजगत्कल्पितवासनाप्रयुक्तेनोत्तरोत्तरकल्पनेनेदं जगत्स्थितम् । यत्र
यस्मिन् ज्ञाते खादाकाशादप्यरूपिणि मूर्तामूर्तरूपशून्ये नान्यत्किञ्चिदस्तीत्यर्थः
॥ ३३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु
निर्वाणप्रकरणे पू० विद्यानिराकरणं नाम नवमः सर्गः ॥ ९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
विद्यानिराकरणं नाम नवमः सर्गः ॥ ९ ॥