अष्टमः सर्गः ८
श्रीवसिष्ठ उवाच ।
संसारवनखण्डेऽस्मिंश्चित्पर्वततटे स्थिता ।
कीदृशी सृष्ट्यविद्याख्या लता विकसिता कदा ॥ १ ॥
वर्णिता कारणाविद्या जगद्यस्या विभूतयः ।
कार्याविद्या भवारण्ये लतात्वेनेह वर्ण्यते ॥
तत्रादौ विषयं निर्दिश्य वर्णनप्रकारं प्रस्तौति-संसारेति । कूटस्थत्वाच्चिदेव
पर्वतस्तत्तटे स्थिता । कारणाविद्याव्यावृत्तये सृष्ट्यविद्याख्येति । कदा कीदृशीति
कालभेदेन विकासवैचित्र्यद्योतनार्थम् । तद्वर्णयामः श्रूयतामिति शेषः ॥ १ ॥
बृहत्पर्वतपर्वाढ्या ब्रह्माण्डत्वक्समावृता ।
देहयष्टिरियं यस्यास्त्रिलोकी लोककासिनी ॥ २ ॥
बृहन्तो मेर्वादयः पर्वता एव पर्वाणि काण्डसन्धयस्तैराढ्या ।
ब्रह्माण्डपदेन तदावरणानि गृह्यन्ते तल्लक्षणत्वग्भिः समावृता । लोकैर्जनैः
कासिनी पत्राङ्कुरादिविकासवती । इयं त्रिलोकी यस्या देहयष्टिः संस्थानम् ॥ २ ॥
सुखं दुःखं भवो भावो ज्ञानमज्ञानमेव च ।
अत्रैतान्युरुवृत्तानि मूलानि च फलानि च ॥ ३ ॥
भवो जन्म । भावः स्थितिः । अत्र अविद्यालतायाम् । उरुवृत्तानि प्रतिदिनं
वृद्धिस्वभावानि ॥ ३ ॥
सुखादविद्योदेत्युच्चैस्तदेवान्ते प्रयच्चति ।
दुःखादविद्योदेत्युच्चैस्तदेवैषा फलत्यलम् ॥ ४ ॥
मूलत्वं फलत्वं च सुखादेरुपपादयति-सुखादित्यादिना ।
भुज्यमानात्सम्पत्यादिसुखादग्रेऽपि मे इतोऽधिका सम्पद्भूयादिति रागलक्षणा
अविद्योदेति सा च यज्ञदानादिधर्मद्वारा सुखं फलति । दारिद्र्यादिदुःखाच्च
धनतृष्णादिलक्षणा अविद्योदेति । सा च पापवासनया
दुष्प्रतिग्रहचौर्याद्यधर्मप्रवृत्तिद्वारा पुनस्ततोऽधिकं दुःखं फलतीत्यादि
सर्वत्रोह्यम् । एवकारः सर्वत्र भिन्नक्रमः । फलत्येवेति योज्यम् ॥ ४ ॥
भवादविद्योदेत्येषा तमेव फलति स्फुटम् ।
भावात्सत्तामवाप्नोति तमेव फलति क्षणम् ॥ ५ ॥
अज्ञानाद्वृद्धिमायाति तदेव स्यात्फलं स्फुटम् ।
ज्ञानेनायाति संवित्तिस्तामेवान्ते प्रयच्छति ॥ ६ ॥
ज्ञानेन प्रत्यक्तत्त्वविमर्शेन संवित्तिरुत्तरोत्तरभूमिकाधिरोहलक्षणा
ज्ञानवृद्धिः । अन्ते सप्तमभूमिकायाम् ॥ ६ ॥
नानाविधोल्लासवती वासना मोदशालिनी ।
घनप्रवालतरला तनुरस्या विजृम्भते ॥ ७ ॥
प्रासङ्गिकमुपपाद्य प्रस्तुतां लतामेव वर्णयति-नानाविधेति ॥ ७ ॥
दिवसव्यूहकुसुमा यामिनीलोलषट्पदा ।
अजस्रं स्पन्दमानैषा प्रपतद्भूतपल्लवा ॥ ८ ॥
नानाविधोल्लासवतीत्येतत्प्रपञ्चयति-दिवसेत्यादिना । रागादिना प्रपतन्ति
प्रधावमानानि भूतानि प्राणिन एव पल्लवा यस्याः ॥ ८ ॥
आगत्यागत्य पतति विवेककरिणीं क्वचित् ।
विधूयते धूतरजाः प्रसक्तिं पुनरेति च ॥ ९ ॥
आगत्यागत्य कर्मवायुना पुनःपुनर्भ्रमित्वा
क्वचित्कस्मिंश्चिदधिकारिभूतपल्लवांशे विवेकलक्षणां करिणीं प्रति पतति । तया च
कदाचिद्विचारशुण्डाग्रेण तदालम्बनविषयतरुविश्लेषणेन विधूयते कम्प्यते ।
धूतरजाः निरस्तदुर्वासनापरागापि दैवात्तत्कराच्युता पुनर्विषयतरुणा प्रसक्तिमेति ॥
९ ॥
जायमानप्रवालाढ्या सञ्जाताङ्कुरदन्तुरा ।
सर्वर्तुकुसुमोपेता समग्ररसशालिनी ॥ १० ॥
जायमानैर्मित्रपश्वादिप्रवालैराढ्या । सञ्जातैः पुत्रपौत्राद्यङ्कुरैश्च दन्तुरा
आनन्दस्मितास्या ॥ १० ॥
जन्मपर्वाहिनीरन्ध्रा विनाशच्छिद्रचञ्चुरा ।
भोगाभोगरसापूर्णा विचारैकघुणक्षत ॥ ११ ॥
जन्मलक्षणेषु पर्वसु दुःखरोगाद्यहिभिर्नीरन्ध्रा निरवकाशा । विनाशा मरणानि
तल्लक्षणेषु शाखासन्धिच्छिदेषु बलाद्विदीर्यमाणेव चञ्चुरा व्याकुला । भोगानां
विषयाणामाभोगोऽनुभवस्तद्विषयेण रसेन रागमकरन्देनापूर्णा ॥ ११ ॥
विकसन्त्यः प्रतिदिनं चन्द्रार्कावलयोऽभितः ।
व्योम्नि वातविलोलानि पुष्पाण्यस्याः किल ग्रहाः ॥ १२ ॥
सर्वर्तुकुसुमोपेतेतेति यदुक्तं तद्विवृणोति-विकसन्त्य इति । ग्रहा नवग्रहरूपाः
चन्द्रार्कसहिता आवलयो ज्योतिःपङ्क्तयः ॥ १२ ॥
अस्याः प्रस्फुरिताकाराः कोरकत्वमुपागताः ।
पूरिताकाशकोशायास्तारका रघुनन्दन ॥ १३ ॥
चन्द्रार्कदहनालोका यस्यास्तत्कौसुमं रजः ।
अनेनेयं हि रौराङ्गी स्त्रीव चेतांसि कर्षति ॥ १४ ॥
चन्द्रार्कदहनानामालोकाः प्रकाशा यस्यास्तत् प्रसिद्धं कौसुमं कुसुमसम्बन्धि
रजः । अनेन रजसा चेतांसि कर्षति । मनोहरा भातीति यावत् ॥ १४ ॥
मनोमातङ्गविधुता सङ्कल्पकलकोकिला ।
इन्द्रियव्यालसम्बाधा तृष्णात्वगुपरञ्जिता ॥ १५ ॥
नीलाकाशतमालाङ्गसंश्रयेणोन्नतिं गता ।
रोदसीजानुसुस्तम्भा भुवनोद्यानभूषिता [भूस्थिता इति पाठः ।] ॥ १६ ॥
नीलाकाशलक्षणस्य तमालवृक्षस्याङ्गसंश्रयेणोन्नतिं विस्तारं गता । रोदस्यौ
द्यावापृथिव्यौ ते एव सङ्कुचितजान्वाकाराः सुस्तम्भाः परितो मूलावष्टम्भा
यस्याः ॥ १६ ॥
अधोब्रह्माण्डखण्डेषु [अधोभुवनखण्डेषु इति पाठष्टीकानुगुणः ।
] स्वालवालेन जालिता ।
विधृताशेषजलधिजलक्षीरादिसेचना ॥ १७ ॥
सप्ताब्धिखातलक्षणेन शोभनेनालवालेन विधृताशेषजलधिजलक्षीरादिसेचना सती
अधोभुवनखण्डेषु मूलसन्तानैर्जालिता ॥ १७ ॥
त्रयीविलोलभ्रमरा रमणीपुष्पपुञ्जिका ।
चित्स्पन्दवातचलिता क्रियाविपुलपुत्तिका ॥ १८ ॥
त्रयी काम्यकर्मकाण्डलक्षणा वेदत्रयी तया विलोला रागिजना एव भ्रमरा यस्याः ।
अतएव तदुपभोग्या रमण्यः स्त्रियः पुष्पपञ्जानि यस्याः । क्रियाशब्देन
स्वाभाविकप्रवृत्तिपरा जना लक्ष्यन्ते । त एव विपुला बहुला मूलपत्रकाण्डादिषु
भ्रमन्त्यः पुत्तिकाः सूक्ष्मकीटजातयो यस्याम् ॥ १८ ॥
कुकर्माजगरव्याप्ता स्वर्गश्रीपुष्पमण्डपा ।
जीवजीवननीरन्ध्रा नानामोदमदप्रदा ॥ १९ ॥
कुकर्म शास्त्रनिषिद्धक्रिया । जीवानां जीवनैर्जीवनोपायैर्नीरन्ध्रा पूर्णा । तस्याः
प्रसिद्धलताविलक्षणान्यपि बहुविधवैचित्र्याणि दर्शयति-नानेत्यादिना ।
नानाविधैरामोदैर्विषयवासनागन्धैर्मदप्रदा मूढानाम् ॥ १९ ॥
नानोपशमवैचित्र्यनानाकुसुमभासिनी ।
नानाफलावलीव्याप्ता नानावर्षविकासिनी ॥ २० ॥
विवेकिनां तु नानोपशमवैचित्र्यलक्षणनानाकुसुमभासिनी । वेषेण
पुष्पफलमकरन्दरजोवर्षेण विकासिनी ॥ २० ॥
नानालवालवलया नानाविहगधारिणी ।
नानापरागपरुषा नानाभूधरजालिका ॥ २१ ॥
नानाकलाकुड्मलिनी नानावनगणोत्थिता ।
नानागिरितटारूढा नानादलनिरन्तरा ॥ २२ ॥
जाता च जायमाना च म्रियमाणा तथा मृता ।
अर्धच्छिन्ना तथाऽच्छिन्ना नित्यमच्छेदिनी तथा ॥ २३ ॥
नित्यं प्रवाहरूपेणाच्छेदिनी ॥ २३ ॥
अतीता वर्तमाना च सत्येवासत्यवत्सदा ।
नित्यमत्यन्ततरुणी नित्यं शोषमुपेयुषी ॥ २४ ॥
नित्यमभीक्ष्णम् । तरुणी पल्लविता ॥ २४ ॥
महाविषलतैषा हि संसारविषमूर्च्छनाम् ।
ददाति रभसाश्लिष्टा परामृष्टा विनश्यति ॥ २५ ॥
परामृष्टा विचारिता सती विनश्यति ॥ २५ ॥
स्फीतेऽन्तर्गलिता तस्य अज्ञेऽन्तः संस्थितान्विता ।
इतो जलमितः शैला इतो नागाः सुरा इतः ॥ २६ ॥
तस्य विचारयितुः स्फीते पूर्णात्मनि अन्तर्गलिता बाधिता । अज्ञे तु अन्तः अन्विता
सर्वतोऽनुवृत्तैव संस्थिता । तदनुवृत्तिमेव प्रपञ्चयति-इत इत्यादिना ॥ २६ ॥
इतः पृथ्वीत्वमायाता तथेतो द्युतया स्थिता ।
इतश्चन्द्रार्कतां प्राप्ता तथेतस्तारकाकृतिः ॥ २७ ॥
इतस्तम इतस्तेज इतः खमित उर्वरा ।
इतः शास्त्रमितो वेदा इतो द्वयविवर्जिता ॥ २८ ॥
उर्वरा सस्याढ्या भूः । इतः प्रलयसुषुप्त्योर्द्वयविवर्जिता ॥ २८ ॥
क्वचित्खगतयोड्डीना क्वचिद्देवतयोत्थिता ।
क्वचित्स्थाणुतया रूढा क्वचित्पवनतां गता ॥ २९ ॥
क्वचिन्नरकसंलीना क्वचित्स्वर्गविलासिनी ।
क्वचित्सुरपदं प्राप्ता क्वचित्कृमितया स्थिता ॥ ३० ॥
नरकात्मना पातालकुहरे संलीना ॥ ३० ॥
क्वचिद्विष्णुः क्वचिद्ब्रह्मा क्वचिद्रुद्रः क्वचिद्रविः ।
क्वचिदग्निः क्वचिद्वायुः क्वचिच्चन्द्रः क्वचिद्यमः ॥ ३१ ॥
यत्किञ्चनाङ्ग भुवनेषु महामहिम्नाव्याप्तं जरत्तृणलवत्वमुपागतं
वा ।
दृश्यं स्फुरन्ननु हराद्यपि तामविद्यां विद्धि क्षयाय
तदतीततयात्मलाभः ॥ ३२ ॥
महामहिम्ना प्रभावोत्कर्षेणाव्याप्तं हरादिसर्वसंहार्यव्याकृतान्तं
प्रभावाल्पतया जरत्तृणलवत्वमुपागतं वा यत्किञ्चन दृश्यं स्फुरदस्ति तां
सर्वामविद्यां तत्त्वबोधेन क्षयाय बाधाय विद्धि । तदतीततया तद्बाधेन आत्मनो
लाभो मोक्ष इत्यर्थः ॥ ३२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू०
अविद्यालताविलासोपदेशो नामाष्टमः सर्गः ॥ ८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
अविद्यालताविलासोपदेशो नामाष्टमः सर्गः ॥ ८ ॥