सप्तमः सर्गः ७
श्रीवसिष्ठ उवाच ।
यन्मुक्तावलिता रत्नभूषिता भान्ति योषितः ।
मदेन्दावुदिते क्षुब्धकामक्षीरार्णवोर्मयः ॥ १ ॥
कामादिभिरनर्थादिष्वर्थता रम्यतावहाः ।
विस्तरेणात्र वर्ण्यन्ते अज्ञानस्य विभूतयः ॥
तत्र सर्वविवेकापहारिण्यः सद्योनर्थगर्तपातिन्यः प्रस्तुताः स्त्रिय एवाज्ञानस्य
कामस्य च महाविभूतय इत्याशयेन ता एव प्रथमं वर्णयति-यदित्यादिना । अस्य
यच्छब्दस्य सर्वेषु श्लोकेषु प्रतिवाक्यं सम्बध्यमानस्य
सप्तषष्ठितमसर्गोपान्त्यश्लोकार्धे तदज्ञानविजृम्भितमित्यत्र सम्बन्धः ।
मदलक्षणे इन्दौ उदिते सति योषितः क्षुब्धस्य कामक्षीरार्णवस्योर्मय इव यद्भान्ति
तदज्ञानस्य विजृम्भितं विभूतिरिति प्रतिवाक्यं योज्यम् ॥ १ ॥
सौवर्णाम्भोजकोशस्थलोलालिपटलश्रियम् ।
धारयन्ति दृशः स्त्रीणां कपोलतलदोलिताः ॥ २ ॥
यद्धारयन्ति तदप्यज्ञानविजृम्भितम् ॥ २ ॥
उद्यानवनखण्डेषु भूमौ कृतमदा मधौ ।
हृद्याः सुमनसो भान्ति दासा इव मनोभुवः ॥ ३ ॥
मधौ वसन्ते वनखण्डेषु तरुषु भूमौ च मनोभुवो दासा आज्ञाप्या इव
कृतमदाः कामिनां जनितोन्मादाः ॥ ३ ॥
क्रव्यादगृध्रगोमायुकौलेयकवलाङ्गिकाः ।
स्त्रियः समुपमीयन्ते चन्द्रचन्दनपङ्कजैः ॥ ४ ॥
क्रव्यादाः क्रव्यमात्राहारा व्याघ्रादयः । गृध्रगोमाय्वादयस्तु लाभे
अन्नाद्यप्यश्नन्तीति पुनर्ग्रहणम् ॥ ४ ॥
सौवर्णकलशाम्भोजकलिकामातुलुङ्गवत् ।
दृश्यते स्त्रीस्तनश्रेणी रक्तपूतिसुगन्धिका ॥ ५ ॥
रक्तपूतिगन्ध एव सुगन्धो यस्यास्तथाविधा स्त्रीणां स्तनश्रेणिः
सौवर्णकलशादिवद्यद्दृश्यते तदज्ञानविजृम्भितम् ॥ ५ ॥
रसायनेन्दुनिस्यन्दमधुबिम्बासवद्रवैः ।
ओष्ठाभिधो मांसलवो लालाक्त उपमीयते ॥ ६ ॥
इन्दुनिस्यन्दोऽमृतम् ॥ ६ ॥
अल्पाल्पाष्ठीवदाकारा भुजाक्रूरास्थिशङ्कवः ।
महाबाहुलताशब्दैर्वर्ण्यन्ते कविभिः शुभैः ॥ ७ ॥
प्रत्येकं विभज्य दर्शने अल्पाल्पा अष्ठीवन्तः पर्वाणि तदाकाराश्च
भुजाशब्दवाच्याः क्रूरा अस्थिशङ्कवः ॥ ७ ॥
कदलीस्तम्भसम्भारसुन्दरीभिस्तथा [तदूरुभिस्तथा भृता इति पाठः ।
] भृता ।
कुचशोभोचितानन्दा तोरणालिर्विराजते ॥ ८ ॥
तथा कदलीस्तम्भावेव सम्भार उरुसामग्री यासां तथाविधाभिः सुन्दरीभिर्मृता
कुचकलशशोभाया उचितो द्रष्टृनेत्रानन्दो यस्याः सकाशात्तथाविधा
तोरणालिर्मन्मथागारतोरणस्रग्भूता काञ्ची यद्विराजते तदप्यज्ञानविजृम्भितमिति
प्राग्वत् ॥ ८ ॥
आपातमन्दमधुरा मध्ये द्वन्द्वानुबन्धिनी ।
शीघ्रावसानविरला लक्ष्मीरप्यभिवाञ्छ्यते ॥ ९ ॥
आपाते आरम्भे मन्दानां मधुरा आपाततोऽल्पमधुरा वा । मध्ये व्ययकाले
रागद्वेषादिद्वन्द्वानुपातिनी । शीघ्रमवसानं क्षयो यस्याः । कतिपयजनेषु
दृश्यत्वाद्विरला ईदृशी लक्ष्मीरपि यदभिवाञ्छ्यते तदिति प्राग्वत् ॥ ९ ॥
समुपैति मतिर्दुःखं सुखं च शतशाखताम् ।
दुःखशाखास्तु जायन्ते नानाकर्मफलाः श्रियः ॥ १० ॥
यन्मतिर्दुःखं समुपैति यच्च सुखं शतशाखतां समुपैति यच्च
नानाकर्मफलाः श्रियो दुःखान्येव शाखा यासां तथाविधा जायन्ते तदपीति
प्राग्वत् ॥ १० ॥
बद्धजालघनाकाराः कारार्थमिव रज्जवः ।
दच्छदः सदृशा वाचः प्रतानगहने स्थिताः ॥ ११ ॥
श्रीणामज्ञानविजृम्भितत्वे तत्फलककाम्यकर्मसु प्रवर्तकानां
कर्मकाण्डवचसां सुतरां तथात्वमित्याशयेनाह-वद्धेति । प्रतानानि
काम्यकर्मविस्तारास्तल्लक्षणे गहने अरण्ये स्थिता लता इव
बद्धैर्नानाफलकामजालैर्घनाकारा निविडाकारा अतएव देवादिऋणिनां कर्मिणां
कारागृहरक्षणार्था रज्जव इव स्थिताः । दतां दन्तानां छदावोष्ठौ
तत्सदृशाः । रागचापलप्रधाना इति यावत् । ईदृशाः
कर्मकाण्डवाचोऽप्यविद्याविजृम्भितमित्यर्थः । छदशब्दस्य समासे
विभक्तेरलुग्विसर्गश्च च्छान्दसः । इदं च यामिमां पुष्पितां वाचम् इत्यादिना
भगवता गीतासु स्फुटीकृतम् ॥ ११ ॥
सन्तप्त मोहमिहिका कार्यासारविसारिणी ।
यमुना प्रावृषीवैति तिमिरश्यामला चिरम् ॥ १२ ॥
मोहवशात्स्वत एव काम्येषु प्रवृत्तानां पुनः शास्त्रेणापि
प्रवर्तनमन्धोन्मत्तस्य स्वतः कूपे पततो बलात्पातनमिवानुचितमित्याशयेन
मोहात्स्वतःप्रवृत्तिं दर्शयति-सन्ततेति । कार्याणि
प्रवृत्तयस्तल्लक्षणैरासारैर्विसारिणी विस्तीर्णा मोहलक्षणा मिहिका स्वतः श्यामला
प्रावृषि रजसा च कलुषा तत्रापि निशि तिमिरेणात्यन्तश्यामला यमुना यथा एति
प्रवहति तद्वत्स्वत एवैति । पुरुषमन्धीकृत्य विषयेषु प्रवर्तयतीत्यर्थः ॥ १२ ॥
कटूकृतान्तःकरणो नानासुखविशारदः ।
वर्धते हि गतस्नेहं जन्मप्रतिविषारसः ॥ १३ ॥
भोगे प्रवृत्तस्य च विषयेषु पुत्रपौत्रादिषु च रागोऽभिवर्धत इत्याह-कट्विति ।
आपाततो नानासुखविशारदः परिणामे
दुःखपर्यवसानाद्द्वेषमात्सर्यचिन्तादिजननाच्च गतस्नेहं यथा स्यात्तथा
कटूकृतान्तःकरणो जन्मलक्षणायाः प्रतिविषाया विषवल्ल्या रस इव
पल्लवोपचयप्रदो रागो वर्धते ॥ १३ ॥
व्याधूतजर्जराकीर्णजगतापर्णराजयः ।
स्वकर्मपवना वान्ति नानावकररेणवः ॥ १४ ॥
ततश्च क्रमात्पुत्रादीनां मरणे तद्वियोगदुःखपरम्परा भवतीत्याशयेनाह##-
पुत्रादिपरिजनसमूहा एव पर्णराजयो यैस्तथाविधा नानाविधा अवकररेणव इव
विवेकदृष्टिहारिणो विक्षेपभेदा येषु तथाविधाः स्वदुष्कर्मपरिपाकलक्षणाः
पवना वान्ति ॥ १४ ॥
कालः कवलितानन्तजगत्पक्वफलोऽप्ययम् ।
घस्मराचारजठरः कल्पैरपि न तृप्यति ॥ १५ ॥
ततः स्वस्यापि मृत्युरिति सदैवैवं जन्मपरम्परया मृत्युमुखे प्रवेश
इत्याह-काल इति ॥ १५ ॥
मोहमारुतमापीय त्वचा विषमचारिणः ।
स्फुरन्तीहाहयश्चित्राः शीतलाचलदीप्तयः ॥ १६ ॥
एवं परिवर्तमानानज्ञजीवान् अहित्वेनोत्प्रेक्षते-मोहेति । शीतलस्य
त्रिविधतापशून्यस्याचलस्य च ब्रह्मणो दीप्तयः प्रकाशायमाना जीवा इव संसारे
चित्रा अहयः सर्पा एव । तत्कुतः । यत एते मोहलक्षणं मारुतमापीयान्तः पूरयित्वा
स्थिताः पुनर्वियुज्यमानया नानादेहलक्षणया त्वचा चोपलक्षिता विषमचारिणः
कुटिलगतयः स्फुरन्ति । सञ्चलन्तीत्यर्थः ॥ १६ ॥
चिन्तापिशाचोपहता विवेकेन्दूदयं विना ।
तमसेव निरालोका याति यौवनयामिनी ॥ १७ ॥
तैः प्रतिजन्म प्राप्यमाणं यौवनमपि मोक्षसाधनेषु
विवेकवैराग्यश्रवणादिष्वनुपयोजनाद्रुथैवेत्याशयेनाह-चिन्तेति । याति तेषामिति
शेषः ॥ १७ ॥
जिह्वा जर्जरतामेनि प्राकृतानुनयज्वरैः ।
पद्मकोटरकोणस्थमपि सूत्रं हिमैरिव ॥ १८ ॥
एवं तदीयजिह्वादीनामपि वैयर्थ्यानर्थते दर्शयति-जिह्वेत्यादिना । प्राकृतानां
पामराणां स्त्रीपुत्रादीनामनुनयः कोपापनयनं तत्प्रयुक्तैर्ज्वरैः सन्तापैः
जिह्वोपमानत्वोपपत्तये सूत्रपदेन तदृढावष्टब्धमन्तर्दलं लक्ष्यते । उक्तो
न्यायश्चक्षुराद्यङ्गेष्वपि ज्ञेयः ॥ १८ ॥
दुःखशोकमहाष्ठीलः कष्टकण्टकसङ्कटः ।
सहस्रशाखतां याति दारिद्र्यदृढशाल्मलिः ॥ १९ ॥
अष्ठीला ग्रन्थयः ॥ १९ ॥
अन्तःशून्योन्नतिध्वस्तचित्तचैत्यकृतालयः ।
मायाबहुलयामिन्यां लोभोलूको विवल्गति ॥ २० ॥
सत्यवस्त्वनवलम्बनादन्तःशून्यः सकोटरश्च स्वोन्नतिभारेण
भुग्नश्चित्तलक्षणश्चैत्यवृक्षस्तत्र कृतालयः मायालक्षणायां
बहुलयामिन्यां कृष्णपक्षनिशायाम् ॥ २० ॥
पूर्वं गृहीत्वा कर्णाभ्यां स्फुरन्ती परिनिश्चयम् [परितश्च य इति
पाठः ।] ।
जराजर्जरमार्जारी यौवनाखुं निकृन्तति ॥ २१ ॥
पूर्वमारम्भकाले कर्णाभ्यां कर्णसन्निहितकपोलयोर्गृहीत्वा ॥ २१ ॥
निःसारा क्रमशः क्रान्तधराधरसमुन्नतिः ।
डिण्डीरपिण्डिकेवेयं सृष्टिरायाति पुष्टताम् ॥ २२ ॥
अज्ञानादेव पुनः सृष्टिप्रसरं दर्शयति-निःसारेत्यादिना । क्रमशः क्रान्ता
रचयितुमुपक्रान्ता धराधराणां धराधर इव च समुन्नतिर्यया । डिण्डीरस्य
फेनस्य पिण्डिका तादृशी प्रसिद्धा सृष्टिर्जगद्दृष्टिः ॥ २२ ॥
आभासपुष्पधवला जगत्पल्लवशालिनी ।
सत्तालता विकसिता धर्मार्थफलधारिणी ॥ २३ ॥
आभासश्चिदाभासप्रकाशस्तल्लक्षणपुष्पैर्धवला उज्ज्वला सत्ता
व्यावहारिकसत्यतालक्षणा लता ॥ २३ ॥
सुराचलमहास्थूणं चन्द्रसूर्यगवाक्षकम् ।
गगनाच्छादनं चारु ध्रियते त्रिजगद्गृहम् ॥ २४ ॥
सुराचलोपलक्षितपर्वता एव महान्तः स्थूणाः स्तम्भा यस्य । गमनमेवाच्छादनं
च्छदिर्यस्य ॥ २४ ॥
संसारसरसि स्फारे चरन्ति प्राणषट्पदाः ।
शरीरपुष्करेष्वन्तश्चिद्रूपरसपायिनः ॥ २५ ॥
स्फारे विस्तीर्णे संसारसरसि जातेषु शरीरपुष्करेषु अन्तःस्थचिद्रूपरसपानशीलाः
प्राणषट्पदाश्चरन्ति एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति आनन्देन
जातानि जीवन्ति इत्यादिश्रुतेरिति भावः ॥ २५ ॥
नभोमार्गमहानीलकुट्टिमैकान्तशालिनी ।
भुवनौदररभ्यान्तः स्फुरत्यादित्यदीपिका ॥ २६ ॥
नभोमार्गलक्षणे महति नीलमणिनिर्मिते कुट्टिमे कृत्रिमभूभागे एकान्तं शालिनी
शोभमाना भुवनोदरे रमणीयतरा आदित्यदीपिका स्फुरति दीप्यते
यत्तदप्यविद्याविजृम्भितमिति सर्वत्र ॥ २६ ॥
आशातन्तुनिबद्धाङ्गी जागती जीर्णपक्षिणी ।
स्ववासनाशलाकेऽन्तर्निबद्धेन्द्रियपञ्जरे ॥ २७ ॥
जागती जगदन्तर्गतजीवराशिलक्षणा जीर्णपक्षिणी स्ववासनाशलाके इन्द्रियपञ्जरे देहे
यन्निबद्धा तदपि ॥ २७ ॥
अनारतपतज्जालभूतपर्णपरम्परा ।
स्पन्दते मरुताऽऽमृष्टा संसृतिव्रततिश्चिरम् ॥ २८ ॥
मरुता प्राणेन आमृष्टा कम्पिता ॥ २८ ॥
सृष्टेः कतिपयं कालं प्रहृष्टाः कुलशालिनः ।
अधःकृतोग्रनरकपङ्काः शङ्कोज्झिताः क्षणम् ॥ २९ ॥
अधः पाताले स्पष्टं प्रदर्शनाय धात्रा कृतोग्रनरकपङ्काः सन्तोऽपि
तत्पतनशङ्कोज्झिताः सन्तो यत्प्रहृष्टास्तदपीति प्राग्वत् । अथवा
स्वात्मतादात्म्याध्यासेन अधःकृतास्तिरस्कृता इव उप्रा
रक्तमांसमलमूत्रादिदेहनरकपङ्का यैस्तथाविधास्तच्छङ्कोज्झिताः सन्तो
वयं कुलशालिनो महाशया इत्याद्यभिमानैर्यत्प्रहृष्टास्तदित्यर्थः ॥ २९ ॥
भुक्तेन्दुखण्डकणिकानीननीरदशैवले ।
स्वर्गमार्गसरस्यन्तः स्फुरन्ति सुरसा रसाः ॥ ३० ॥
स्वर्गलक्षणेऽभ्रमार्गस्थसरसि सुरा देवास्तद्रूपाः सारसपक्षिणो यत्स्फुरन्ति तदपि ॥
३० ॥
नानाफलालिमलिना वासनाजालमालिता ।
स्पन्दामोदमयी स्फीता क्रियाविकसितालिनी ॥ ३१ ॥
यच्च नानाकाम्यफललक्षणैरलिभिर्मलिना क्रियालक्षणा अब्जिनी विकसिता तदपि ॥ ३१ ॥
वराकी सृष्टिशफरी स्फुरन्ती भवपल्वले ।
कृतान्तवृद्धगृध्रेण शठेन विनिगृह्यते ॥ ३२ ॥
शफरी प्रोष्ठ्याख्या क्षुद्रमत्स्यजातिः ॥ ३२ ॥
तरङ्गफेनमालेव सैवान्येव च भङ्गुरा ।
श्वःश्वोऽपरेन्दुलेखेव समुदेति विचित्रता ॥ ३३ ॥
श्वः श्वः अपरा प्रतिदिनं भिन्नपरिमाणा इन्दुलेखेव ॥ ३३ ॥
भूरिभूतशराबाणि क्षणभङ्गानि कुर्वता ।
इदं कालकुलालेन चक्रं सम्परिवर्त्यते ॥ ३४ ॥
क्षणभङ्गानि अचिरनश्वराणि ॥ ३४ ॥
असङ्ख्यातानि कल्पानि सञ्जातान्यचले पदे ।
जगज्जङ्गलजालानि दग्धानि युगवह्निना ॥ ३५ ॥
कल्पानि सर्वव्यवहारसमर्थानि । अचले पदे ब्रह्मणि । युगवह्निना युगान्ताग्निना ॥ ३५ ॥
भावाभावैरपर्यन्तैः सुखदुःखदशाशतैः ।
वैपरीत्यं प्रयात्येवमजस्रं जागती स्थितिः ॥ ३६ ॥
वैपरीत्यं विपरिणामम् ॥ ३६ ॥
क्षुब्धैर्युगपरावर्तैर्वासनाशृङ्खलोम्भिता ।
महाशनिनिपातैश्च न भग्नाऽबुद्धधीरता ॥ ३७ ॥
एतादृशानर्थपरम्परादर्शनेऽप्यज्ञानां कुतो न निर्वेदोद्धयस्तत्राह##-
मौर्ख्यदार्ढ्यलक्षणा धीरता यतो न कैश्चिदपि भग्नेत्यर्थः ॥ ३७ ॥
शतशो विद्रुतारिध्रैर्दनुपुत्रैरभिष्टुताम् ।
भवभग्नतया[तयां इति तय गतौ इत्यस्य रूपम् । भग्नरयां इति पाठः ।
] मैन्द्रीं तनुं वहति वासना ॥ ३८ ॥
या वासना ज्ञानेनाज्ञानबाधेऽप्यधिकारप्रारब्धबलादिन्द्रादिशरीरं
मन्वन्तरकालपर्यन्तं धत्ते तस्याः केनान्येन भङ्गप्रसक्तिरित्याशयेनोदाहरति##-
पुनर्युद्धाभिकाङ्क्षया धारयन्ति पालयन्तीति
विद्रुतारिध्रास्तथाविधैर्दनुपुत्रैरप्यभिष्टुतां भवे पुनर्जन्मादिविषये
भग्नस्तयो वेगो यस्यास्तथाविधामपि ऐन्द्रीं तनुं वासना यद्बहति यावदधिकारं
धारयति तदपीत्यर्थः ॥ ३८ ॥
विशत्यविरतं भूतसर्गपांसुपरम्परा ।
नित्यं नियतिवात्येयं कालव्यालगलान्तरम् ॥ ३९ ॥
भूतसर्ग एव पांसुपरम्परा यस्यां तथाविधा नियतिलक्षणा वात्या काललक्षणस्य
व्यालस्य गलान्तरं यद्विशति तदपि । सर्पाणां वायुभक्षकत्वप्रसिद्धेरुत्प्रेक्षा ॥ ३९
॥
पदार्थाम्भसि सर्वाणि फलफेनानि सर्वतः ।
पतन्त्यविरतापातमभाववडवामुखे ॥ ४० ॥
अभावो नाशस्तल्लक्षणे वडवाग्निमुखे यत्पतन्ति तदपि ॥ ४० ॥
स्फुरन्त्याकस्मिकोद्धूताविचित्रद्रव्यशक्तयः ।
स्वभावमात्रसम्पन्नाः स्पन्दश्रिय इवाम्भसः ॥ ४१ ॥
स्वस्य भावः अधिष्ठानसत्ता तावन्मात्रेण सम्पन्ना लब्धस्वरूपा
आकस्मिकेनातर्क्येण वासनावैचित्र्येणोद्धूताश्चालिता यत्स्फुरन्ति प्रसरन्ति तदपि ॥ ४१ ॥
भूतमौक्तिकसम्पूर्णान्बृहतः सुबहूनपि ।
जगत्कलभकानत्ति कृतान्तोद्रिक्तकेसरी ॥ ४२ ॥
कलभकान् मत्तगजान्यदत्ति तदपि ॥ ४२ ॥
कुलशैलफला मेघपक्षपुञ्जाः फलामृजः ।
जायन्ते च म्रियन्ते च ध्रियन्ते च जगत्खगाः ॥ ४३ ॥
कुलशैला हिमवदादय उपभोग्यत्वान्महत्त्वाच्च फलानि येषाम् । मेघा एव
नभोगत्याकारसादृश्याभ्यां पक्षपुञ्जा येषाम् । फलानि आमृजन्ति सर्वतः
परिशोधयन्ति विचिन्वन्तीति फलामृजः । मृजेर्बाहुलकात्कः । गच्छन्ति
उत्तरायणदक्षिणायनादिमार्गेण सदा भ्रमन्तीति जगन्ति जीवास्तल्लक्षणाः खगाः
पक्षिणो यज्जायन्ते यस्मियन्ते यत् ध्रियन्ते यावन्मरणं जीवन्ति
तदप्यज्ञानविजृम्भितमित्यर्थः । अत्र कुलाचलानां मूलमध्याग्रभागानां
नागमर्त्यदेवैरुपभोग्यत्वात्फलत्वोत्प्रेक्षा मेघानां च दक्षिणायनमार्गपर्वसु
धूमत्वेनाभ्रमेघत्वादिना चोर्ध्वाधोगतिनिर्वाहकत्वात्पक्षत्वोत्प्रेक्षा बोध्या ॥ ४३
॥
चिद्भित्तौ स्पन्दशुभ्रायां रङ्गैः पञ्चभिरिन्द्रियैः ।
उन्मीलयति संसारचित्राणि विधिचित्रकृत् ॥ ४४ ॥
दृष्टिसृष्टिपक्षमवलम्ब्याह-चिदिति ।
स्पन्दैश्चाक्षुषादिवृत्तिव्याप्तिभिर्निरस्तावरणस्पष्टत्वाच्छुभ्रायाम् । रङ्गै
रङ्गद्रव्यस्थानीयैः पञ्चभिर्बहिरिन्द्रियैर्विदधाति दृष्टिमात्रेण सृजतीति
विधिर्द्रष्टा स एव चित्रकृत् ॥ ४४ ॥
अजस्रगत्वरीं सर्वपरिवर्तविधायिनीम् ।
निमेषशतभागाङ्गीमसद्दुःसाधिताङ्कुराम् ॥ ४५ ॥
तस्यां दृष्टिसृष्टौ स्थावरजङ्गमयोरनुभवे यो विशेषस्तं प्रथमं
स्थावरेषु दर्शयति-अजस्रेति द्वाभ्याम् । स्थावरजातयः स्वस्यात्मनः स्मुत्थानं
जगदाकारेण विवर्तस्तत्कारिणीमजस्नगत्वरत्वादिविशेषणविशिष्टां सूक्ष्मां
कालस्य कलनां ध्यानेनैवान्तरेण बहिः स्फुटव्यवहाराक्षमेणानुभवेन
अन्ववेक्ष्य स्थिता इति द्वयोरर्थः ॥ ४५ ॥
सूक्ष्मां कालस्य कलनां स्वसमुत्थानकारिणीम् ।
ध्यानेनैवान्ववेक्ष्यैताः स्थिताः स्थावरजातयः ॥ ४६ ॥
रागद्वेषसमुत्थेन भावाभावमयेन च ।
जरामरणरोगेण जीर्णा जङ्गमजातयः ॥ ४७ ॥
ततो जङ्गमेषु विशेषं दर्शयति-रागेति ॥ ४७ ॥
सुदुष्कृतोत्तमध्यानचारिण्यो धरणीतले ।
नियस्या नियतं कालं पीड्यन्ते कीटपङ्क्तयः ॥ ४८ ॥
तेष्वपि कृमिकीटादीनां दुःखानुभवातिशयं सनिमित्तं दर्शयति##-
चरितुं शीलं यासां तथाविधाः ॥ ४८ ॥
क्षणेनादृश्य एवेदं निगिरत्यखिलं सुखी ।
सुदुर्लक्ष्यबिलः कालव्यालो विपुलभोगवान् ॥ ४९ ॥
स यद्यदेवासृजत तत्तदत्तुमध्रियत इति श्रुतेः कालकवलनीयत्वं
स्थावरजङ्गमानां समानमित्याह-क्षणेनेति ॥ ४९ ॥
कालेन किञ्चिदालक्ष्य स्वशरीराकुलीकृताः ।
शीतवातातपप्रौढाः प्रोल्लसत्पुष्पदीप्तयः ॥ ५० ॥
एवं स्थावरेषु नियतकालं
फलपुष्पादिपरिणामशालित्वमनिवार्यशीतवातातपादिसहत्वं च विशेष इति
दर्शयति-कालेनेति सार्धेन । श्वभ्रं भूविलं तत्र प्रविष्टो विग्रहः
शरीरमूलभागो यषां तथाविधाः स्थावराः किञ्चिद्भोजकं
स्वपरादृष्टमालक्ष्य निमित्तीकृत्य मनुष्यपक्षिसर्पादिभिः स्वशरीरे
आकुलीकृताः पीडिता वसन्तादिकालभेदेन प्रोल्लसत्पुष्पदीप्तयः फलप्रदाश्च अतएव
शीलिनस्तपःशमदमतितिक्षौदार्यादिशीलवन्त इव चरन्ति कालं नयन्ति ॥ ५० ॥
फलप्रदाश्चरन्तीह शीलिनः श्वभ्रविग्रहाः ।
पयः पटलविश्रान्तत्रैलोक्याम्भोजकोटरे ॥ ५१ ॥
इदानीं लोकत्रयमम्भोजत्रयत्वेन कल्पयित्वा तत्रत्यचरप्राणिनिकायं
भ्रमरसमूहत्वेनोत्प्रेक्षते-पय इत्यर्धाभ्याम् । यद्यपि पृथिव्येव
पद्मपत्रवज्जले प्रतिष्ठिता पुराणादिप्रसिद्धा नान्तरिक्षद्युलोकौ तथापि तयोरपि
त्रिवृत्कृतजलकार्यत्वाज्जलभागप्रतिष्ठितत्वमस्त्येवेति सूचनाय पटलपदम् ॥ ५१ ॥
करोति घुङ्घुमं भूरि भूतभ्रमरपेटिका ।
ब्रह्माण्डभैक्ष्यभाण्डेयं काली भगवती क्रिया ॥ ५२ ॥
घुङ्घुमं गुञ्जाध्वनिम् । भ्रमरपेटिका भ्रमरसमूहः । इदानीं फलनियतां
प्राणिक्रियां कालीत्वेन ब्रह्माण्डं च तदीयभिक्षापात्रत्वेन चतुर्विधभूतग्रामं
च तदीयभैक्ष्यभावेनोत्प्रेक्षते-ब्रह्माण्डेति । कालस्य स्त्री काली पूर्वगृहीतां
भूतभिक्षां स्वभर्त्रे कालाय दत्वैव दत्वैव पुनः पुनर्दत्वा अन्यामन्यां
भूतभिक्षां जिघृक्षतीत्यर्थः ॥ ५२ ॥
स्वयं दत्वैव दत्वैव भूतभिक्षां जिघृक्षति ।
तिमिरालीककबरी इन्द्वर्कचपलेक्षणा ॥ ५३ ॥
इदानीं क्रियाफलभूतां त्रिलोकीं वृद्धकामिनीत्वेन वर्णयति-तिमिरेत्यादिना ।
अलीकपदं व्याजार्थे ॥ ५३ ॥
ब्रह्मोपेन्द्रमहेन्द्रादिधरागिरिवरादिका ।
ब्रह्मतत्त्वैकपिटका लम्बमानपयोधरा ॥ ५४ ॥
ब्रह्मोपेन्द्रमहेन्द्रादिका आन्तरचेतनस्वभावेन धरागिरिवरादिका
बाह्यस्थूलदेहस्थानीयजडस्वभावेन । ब्रह्मतत्त्वमेवैकं हृदि विस्फोट इव
बन्धनैः पिधाय सदा गोप्यं यस्याः ॥ ५४ ॥
चिच्छक्तिमातृका स्थूला तरला घनचापला ।
तारकाजालदशना सन्ध्यारुणतरा धरा ॥ ५५ ॥
चिच्छक्तिश्चिदाभासः सैव मातेव पोषयित्री यस्याः । अतएव स्थूला ॥ ५५ ॥
समस्तपद्मिनीहस्ता शतक्रतुपुरानना ।
सप्ताब्धिमुक्तालतिका नीलाम्बरपरीवृता ॥ ५६ ॥
समस्ताः पद्मिन्यो विसलता हस्ता यस्याः । नीलमम्बरं नभस्तदेवाम्बरमुत्तरीयं
तेन परीवृता । वृञः क्विपि नहिवृतिवृधि इत्यादिना परेदीर्घः । आपं चैव
हलन्तानाम् इति भागुरिमते टाप् ॥ ५६ ॥
जम्बूद्वीपमहानाभिर्वनश्रीरोमराजिका ।
भूत्वा भूत्वा विनश्यन्ती त्रिलोकीवृद्धकामिनी ॥ ५७ ॥
असकृज्जायते नष्टा भूरिविभ्रमकारिणी ।
मग्नमन्यैरथोन्मग्नं भीमे कालमहार्णवे ॥ ५८ ॥
इदानीं कालं महार्णवत्वेन वर्णयति-मग्नमिति । निष्ठाद्वयं भावे ॥ ५८ ॥
प्रतिकल्पक्षणं क्षीणैर्ब्रह्माण्डस्फुटबुद्बुदैः ।
कालेऽगाधरसस्यन्दे स्थित्वा स्थित्वा पुनःपुनः ॥ ५९ ॥
कल्पा एव क्षणाः । वीप्सायामव्ययीभावः । अगाधः रसस्यन्दो
भ्रान्तिसहस्रतृष्णाजलस्यन्दो यस्मिन् ॥ ५९ ॥
कल्पमात्रनिमेषेणोड्डीनाः कारणसारसाः ।
उत्पत्त्योत्पत्त्य नाशिन्यः सन्तप्ताः सृष्टिविद्युतः ॥ ६० ॥
कारणभूतहिरण्यगर्भसारसाः । सारससम्बन्धात्कालस्य नदत्वकल्पना गम्यते ।
मेघत्वेन तं कल्पयति-उत्पत्त्योत्पत्त्येति ॥ ६० ॥
कालमेघे स्फुरन्त्येताश्चित्प्रकाशवनोद्यमाः ।
प्रपतद्भूतविहगाः पतन्त्यविरतभ्रमाः ॥ ६१ ॥
चित्प्रकाशस्य वननं वनः सम्भजनं तेन उद्यमः प्रकाशशक्तिर्यासाम् । तस्य
भासा सर्वमिदं विभाति इति श्रुतेः ॥ ६१ ॥
कालतालात्किलोत्तालाद्ब्रह्माण्डफलपालयः ।
उन्मेषकृतवैरिञ्चसृष्टयो देवनायकाः ॥ ६२ ॥
उत्तालादयुन्नतात्काललक्षणात्तालवृक्षात्प्रपतन्तो भूतानि प्राणिनस्तल्लक्षणा
विहगाः काका येभ्यस्तथाविधाः । ब्रह्माण्डलक्षणानां फलानां पालयः
पङ्क्तयः प्रपतन्ति । अतर्कितहेतुकत्वसूचनात्काकतालीयन्यायोऽत्रोत्प्रेक्षितः ।
देवनायका विष्णुरुद्रेश्वरसदाशिवाख्याः ॥ ६२ ॥
निमेषकृतसंहाराः सन्ति केचन कुत्रचित् ।
निमेषोन्मेषसङ्क्षीणकल्पजालाः सहस्रशः ॥ ६३ ॥
रुद्राः केचन विद्यन्ते तस्मिंश्चित्परमे पुनः ।
तेऽपि यस्य निमेषेण भवन्ति न भवन्ति च ॥ ६४ ॥
चिद्रूपे परमे परमकारणे । ते रुद्रा अपि ॥ ६४ ॥
तादृशोऽप्यस्ति देवेशो ह्यनन्तेयं क्रियास्थितिः ।
अनन्तसङ्कल्पमये शून्ये च ब्रह्मणः पदे ॥ ६५ ॥
इयं रुद्रान्ता क्रियास्थितिः कर्मोपासनफलभावस्थितिरनन्ता असङ्ख्याता । नन्विदं
कथं सम्भाव्यत इति चेन्मायायां सर्वसम्भवान्नात्रासम्भावना
युक्तेत्याशयेनाह-अनन्तेति ॥ ६५ ॥
न सम्भवन्ति का नाम शक्तयश्चित्रपूरकाः [इत्वाभावश्छान्दसः ।]
।
एवमक्षीणसङ्कल्पलब्धार्थभरभासुरा ।
जागती कल्पना येयं तदज्ञानविजृम्भितम् ॥ ६६ ॥
चित्रस्य आश्चर्यसहस्रस्य पूरकाः । अज्ञानविभूतिप्रपञ्चनमुपसंहरति##-
याः सम्पदो यदुत सन्ततमापदश्च यद्बाल्ययौवनजरामरणोपतापाः ।
यन्मज्जनं च सुखदुःखपरम्पराभिरज्ञानतीव्रतिमिरस्य विभूतयस्ताः ॥
६७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु
निर्वाणप्रकरणे पू० अज्ञानमाहात्म्यं नाम सप्तमः सर्गः ॥ ७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
अज्ञानमाहात्म्यं नाम सप्तमः सर्गः ॥ ७ ॥