००६

षष्ठः सर्गः ६

श्रीवसिष्ठ उवाच ।

भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥

देहात्मप्रविवेकोऽत्र दुःखं देहात्मदर्शनात् ।
मूढानामङ्गनासङ्गान्मोहवृद्धिश्च वर्ण्यते ॥

इत्थं श्रीरामे सम्यक्प्रबुद्धेऽप्यन्येषां श्रोतॄणां तथैव प्रबोधजननाय
प्रवर्तमानो भगवान्वसिष्ठो वक्ष्यमाणदेहात्मविवेकादिश्रवणे
राममप्यनुकूलयन्नाह-भूय एवेत्यादिना । प्रीयमाणाय
उपदेशतात्पर्यगोचरनिरतिशयानन्दात्मानुभवलक्षणप्रीतिभाजनाय ते
सर्वजनहितकाम्यया यद्वक्ष्यामि तच्छृण्वित्यर्थः ॥ १ ॥

भेदमभ्युपगम्यापि शृणु बुद्धिविवृद्धये ।
भवेदल्पप्रबुद्धानामपि नो दुःखिता यथा ॥ २ ॥

ननु श्रोतृश्रावयितृश्रोतव्यादिभेदानां बाधितत्वात्कथं मे श्रवणे
प्रवृत्तिः किंवा तत्फलं तत्राह-भेदमिति । बाधितानुवृत्त्या
भेदाभ्युपगमेन श्रवणे प्रवृत्तिसिद्धिस्तव
बोधाभिवृद्धिरल्पप्रबुद्धोद्धारश्च तत्फलमित्यर्थः ॥ २ ॥

यस्याज्ञानात्मनोऽज्ञस्य देह एवात्मभावना ।
उदितेति रुषैवाक्षरिपवोऽभिभवन्ति तम् ॥ ३ ॥

तत्रादौ श्रोतॄणामिन्द्रियजयासामर्थ्यात्तैराकृष्यमाणस्य मनसः पूर्णात्मनि
प्रतिष्ठा कथं स्यादिति जिज्ञासां लिङ्गैरुपलक्ष्य यस्त्वविज्ञानवान्भवत्ययुक्तेन
मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः । यस्तु विज्ञानवान्भवति
युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः इति
श्रुतिद्वयोक्तदिशैव तां क्रमेण परिहरति-यस्येति द्वाभ्याम् ।
इत्येतस्मादेवासदात्मभावेनापराधादतिरुषा अक्षाणि रिपवः शत्रवो भूत्वा
तमज्ञमभिभवन्ति पराभावयन्ति ॥ ३ ॥

यस्य ज्ञानात्मनो ज्ञम्य सत्येवात्मनि संस्थितिः ।
सन्तुष्ट्यैवाक्षसुहृदो न घ्नन्ति तमनिन्दितम् ॥ ४ ॥

सन्तुष्ट्या सत्यात्मदर्शनोपकारजनितसन्तोषेणेव अक्षाणि सुहृदो मित्राणि भूत्वा
न घ्नन्ति किन्तु ज्ञानाभिवृद्ध्यनुकूलाचरणेन पालयन्तीत्यर्थः ॥ ४ ॥

पदार्थे स्फुरतो यस्य न स्तुतिर्निन्दनादृते ।
स देहं देहदुःखार्थमादत्ते [दुःखार्त इत्युभयत्र पाठः ।] केन
हेतुना ॥ ५ ॥

स्फुरतो व्यवहरतो यस्य पुंसो भोग्यपदार्थे सदैव दोषदर्शनान्निन्दनादृते
कुत्सनं विना स्तुतिः प्रशस्तताबुद्धिर्न भवत्येव स
पुमान्देहसम्बन्धिदुःखार्थं [दुःखार्तं इत्युभयत्र पाठः ।] देहं
केन हेतुना आत्मतया आदत्ते । तत्र हेतुर्नास्तीत्यर्थः ॥ ५ ॥

नात्मा शरीरसम्बन्धी शरीरमपि नात्मनि ।
मिथो विलक्षणावेतौ प्रकाशतमसी यथा ॥ ६ ॥

इदानीं देहात्मैक्यभ्रमवारणाय युक्तीः प्रस्तौति-नात्मेत्यादिना ।
जडचित्त्वाभ्यां विरुद्धयोर्देहात्मनोराधाराधेयभावादिसम्बन्धोऽपि
दुर्लभस्तादात्म्यं तु दूरे निरस्तमित्याशयः ॥ ६ ॥

सर्वैर्भावविकारैस्तु नित्योन्मुक्तस्त्वलेपकः ।
नात्मास्तमेति भगवान्न चोदेति सदोदितः ॥ ७ ॥

एवं निर्विकारत्वसविकारत्वादिकृतविरोधादपि न तत्प्रसक्तिरित्याह-सर्वैरिति ॥ ७ ॥

जडस्याज्ञस्य तुच्छस्य कृतघ्नस्य विनाशिनः ।
शरीरकोपलस्यास्य यद्भवत्यस्तु तत्तथा ॥ ८ ॥

आत्माधीनं स्वप्रथोपकारं प्राप्यात्मन एव दुःखभोजकत्वात्कृतघ्नस्य ॥ ८ ॥

आदत्ते तत्कथं नित्यं चिन्मयत्वं सदोदितम् ।
ययोरेकपरिज्ञाने जडतैवाऽपरस्थिता ॥ ९ ॥

ननु चिन्मयत्वमपि देहस्यैव धर्मोऽस्तु तथा च न कोऽपि विरोध इत्याशङ्क्याह##-
शक्यं तत्परिचये च जडतैव अपरस्य देहस्य स्थितेति तत्स्वभावविरुद्धं
चिन्मयत्वं कथमादत्ते इत्यर्थः ॥ ९ ॥

तयोः कीदृग्विधा भूता समानसुखदुःखता ।
यौ समौ समधर्माणौ न कदाचन तौ कथम् ॥ १० ॥

नन्वात्मनो मानसदुःखभोगेन देहे कार्श्यं जायमानं दृश्यते देहे च
ताडनादिना आत्मनो दुःखभोग इति तयोः समानसुखदुःखतादर्शनात्तादात्म्यं
किं न स्यात्तत्राह-तयोरिति । यौ आत्मदेहौ वह्न्ययः पिण्डाविव समौ अविविक्तौ
परस्परधर्मविनिमयात्समधर्माणौ भासेते विविक्तौ तु तौ न कदाचन तथा
भासेते तयोः कीदृग्विधा कथं च समानसुखदुःखता भूता परमार्थसत्या
वक्तुं शक्येत्यर्थः ॥ १० ॥

यावप्यसक्तावन्योन्यं मिथः सन्नमितौ [सगमितौ इति पाठः ।] कथम्

कथं स्थूलोऽणुरूपः स्यादणुः स्थूलः कथं भवेत् ॥ ११ ॥

किं च असङ्गेन परमसूक्ष्मेण आत्मना स्थूलस्य देहस्य सङ्गम एव दुर्लभो दूरे
ऐक्यमित्याह-यावपीति ॥ ११ ॥

एकोदये द्वितीयस्य न सत्ता दिनरात्रयोः ।
ज्ञानं नाज्ञानतामेति च्छाया नायाति तापताम् ॥ १२ ॥

परस्परोपघातिस्वभावत्वादपि नैक्यप्रसक्तिरित्याह-एकेति ॥ १२ ॥

सद्ब्रह्म नासद्भवति विचित्रास्वपि दृष्टिषु ।
मनागपि न संश्लेषः सर्वगस्यापि देहिनः ॥ १३ ॥

सद्ब्रह्म असद्देहादिरूपं न भवति । सतश्च देहिनो देहाधिष्ठानप्रतीचः
स्वाध्यस्तेन देहादिना मनागपि न संश्लेषः ॥ १३ ॥

देहेन देहगस्यापि [देद्दिनः क्वापि इति पाठः ।] कमलस्येव वारिणा ।
मनागपि न संश्लेषो ब्रह्मणो देहसत्तया [एतदग्रे जगत्यात्मनिकः
किञ्चिन्नात्ततो देहकस्य च । तदा तच्च मुधैवैष सुखदुःखक्रमः कुतः ॥ इति
प्रक्षिप्तः श्लोको मुद्रितपुस्तके लभ्यते ।] ॥ १४ ॥

उक्तमेव दृष्टान्तोपदर्शनाय पुनराह-देहेनेति । कुतो न संश्लेषस्तत्राह##-
भगवत्पादैः यत्र हि यदध्यासस्तत्कृतेन गुणेन दोषेण वा अणुमात्रेणापि स न
सम्बध्यते इति ॥ १४ ॥

तद्गतस्याप्यतद्वृत्तेरम्बरस्येव वायुतः ।
जरा मरणमापच्च सुखदुःखे भवाभवौ ॥ १५ ॥

अतद्वृत्तेः अलेपकत्वात्तद्विलक्षणस्वभावस्याम्बरस्य वायुतो यथा
शोषकम्परजोलेपादयो दोषा न सन्ति तद्वद्देहादित आत्मनो जरादयो मनागपि न
सन्तीत्यर्थः ॥ १५ ॥

मनागपि न सन्तीह तस्मात्त्वं निर्वृतो भव ।
स्थितो देहतयाप्युच्चैः पातोत्पातमयो [महाभ्रमः इति पाठः ।]
भ्रमः ॥ १६ ॥

देहतया देहात्मदृष्ट्या स्थितोऽपि मरणजन्मादिभ्रमो ब्रह्मात्मदृष्ट्या
ब्रह्मणि अप्सु वीचिचय इव भ्रह्ममात्रो दृश्यत इत्यर्थः ॥ १६ ॥

दृश्यते केवलं ब्रह्मण्यप्सु वीचिचयो यथा ।
आत्मसत्तोपजीवित्वादात्मानुभवतीह हि ॥ १७ ॥

देहयन्त्रं [इदमर्ध पूर्वान्वयि ।] पयःसत्तामात्रादूर्मिमिव स्थितम् ।
आधारस्पन्दनेनाङ्ग यथा क्षोभो न वा भवः ॥ १८ ॥

यथा पयः स्वसत्तयैव स्थितमूर्मित्वमनुभवतीव तद्वत् । यथा प्रतिबिम्बस्य
आधारस्पन्दनेन हेतुना क्षोभे सति सूर्यादेर्मनागपि क्षोभो नास्ति तथा देहेन
चिदाभासक्षोभेऽपि देहिनो देहसाक्षिण इत्यर्थः ॥ १८ ॥

सूर्यादेः प्रतिबिम्बस्य तथा देहेन देहिनः ।
सम्यग्दृष्टे यथाभूते वस्तुन्येवाभिजायते ॥ १९ ॥

सम्यग्दृष्टे तु वस्तुन्येव स्थितिरभिजायते । देहमयोऽज्ञानविभ्रमश्च लयमेति ॥ १९

स्थितिर्देहमयो ज्ञानविभ्रमो लयमेति च ।
देहदेहवतोर्ज्ञानाद्यथाभूतार्थयोः स्थितिः ॥ २० ॥

यथाभूतार्थयोर्विमर्शे
निष्कृष्टपरमार्थस्वभावयोर्देहतत्साक्षिणोर्ज्ञानाद्देहस्यासत्तात्मिका
तत्साक्षिणश्च सत्तात्मिका स्थितिरुदेति प्रकटीभवति ॥ २० ॥

सत्तासत्तात्मिकोद्धेति दीपाद्दीपपदार्थयोः ।
असम्यग्दर्शिनो [असम्यग्ज्ञानिन इति पाठः ।] देहस्यावर्तपरिवर्तनैः ॥
२१ ॥

द्रीपेनाद्यते प्रस्यत इति दीपात् तमः प्रदीपश्च तादृशयोः । परस्परोत्थिति
स्वभावपदार्थभूतयोरित्यर्थः । इदानीमज्ञस्य जगद्दर्शनप्रकारं निन्दितुं
प्रपञ्चयति-असम्यग्दर्शिन इत्यादिना ॥ २१ ॥

अन्तःशून्याः स्फुरन्तीह ते मोहार्जुनपादपाः ।
अपर्यालोचितात्मार्था अपरामृष्टसंविदः ॥ २२ ॥

स्पन्दन्ते चेतितोन्मुक्तास्तृणवन्मूढबुद्धयः ।
अनास्वादितचित्तत्वाज्जडाः सर्वे खघ्रायुभिः ॥ २३ ॥

चेतिता चेतनया तयोन्मुक्ताः । भावे घञन्ताच्चितेर्मत्वर्थे इनिस्ततस्तल् ।
नह्यचेतनदेहात्मभूताश्चेतना इति वक्तुं योग्या इति भावः । यदि ते अचेतनास्तर्हि
कथं वदन्ति तृणकाष्ठाहरणादिना व्यवहरन्ति च तत्राह-अनास्वादितेत्यादिना ।
ते सर्वे जडा अपि खैर्मुखनासिकादिच्छिद्रैस्तत्सञ्चारिभिर्वायुभिश्च यत्र यत्र
प्रदेशे कीचकवदुदितेन नोदनेन आक्रान्तास्तत्र रटन्ति प्रस्फुरन्ति सञ्चरन्ति चेति
परेणान्वयः ॥ २३ ॥

यत्र तत्रोदिताक्रान्ता रटन्ति प्रस्फुरन्ति च ।
तृणकाष्ठादिकं सर्वमाहरन्ति त्यजन्ति च ॥ २४ ॥

सशब्दस्पर्शरूपाढ्यास्तरङ्गतरलाङ्गकाः ।
जडाः सन्तः स्फुरद्रूपा भृशं स्फाररसासवाः ॥ २५ ॥

शब्दस्पर्शसहितरूपादिविषयलाभेनैव आढ्याः कृतार्थमन्याः । स्फारो रसो
भोगाभिनिवेश एव आसवमिवोन्मादको येषाम् ॥ २५ ॥

सविहारागमापाया महौघा इव दुर्धियः ।
सर्वेषामेव चैतेषां स्थितैवैषा पिदव्यया ॥ २६ ॥

यथा नाद्यादिमहौघा अचेतना अपि विहारागमापायादिचेष्टासहितास्तद्वद्दुर्धियोऽपि
किमेषामात्मचिन्नास्त्येव न किन्तु विद्यमानाप्यबोधाद्व्यर्थाऽसम्पन्नेत्याह##-

किन्त्वबोधवशादस्याः परां कृपणतां गता ।
श्वाससन्ततयो ह्यज्ञाल्लोहकारदृतेर्यथा ॥ २७ ॥

अज्ञान्मूर्खात् । निःसरन्त्य इति शेषः ॥ २७ ॥

स्पन्दमात्रार्थमेवाशु दृश्यन्ते नार्थकारिणाः ।
तर्जनं गर्जनं मूढाद्धनुर्दण्डगुणादिव ॥ २८ ॥

जठराग्निस्पन्दमात्रार्थम् । एवं मूढान्निष्पद्यमानं परतर्जनं गर्जनं च न
चेतनतालिङ्गं मरणाद्यनर्थमात्रहेतुत्वाद्धनुर्गुणविस्फारवदित्याह##-

श्रूयते मरणायैव चिद्बोधपरिवर्जितम् ।
फलभोगोऽपि यो मूढात्तदरण्यतरोरिव ॥ २९ ॥

फलभोगः फललाभः ॥ २९ ॥

तस्मिन्विश्रमणं यत्तच्छिलाफलहके यथा ।
तेन यत्सङ्गमः स स्यात्स्थाणुना भुवि जङ्गले ॥ ३० ॥

शिलाफलहके तप्तशिलाफलके यथा तथा । स्थाणुना छिन्नतरुमूलेन ॥ ३० ॥

तदर्थं यत्कृतं किञ्चित्तद्व्योम लकुटैर्हतम् ।
तस्मिन्यदधमे दत्तं तत्त्यक्तं किं न कर्दमे ॥ ३१ ॥

कृतमुपकृतं स्वेन तत् । लकुटैर्दण्डैः । हतं ताडितम् ॥ ३१ ॥

तेन सार्धं कथा यत्तत्कौलेयाह्वानमम्बरे ।
अज्ञानमापदां निष्ठा का हि नापदजानतः ॥ ३२ ॥

कौलेयः श्वा । कुलकुक्षीत्यादिना विहितस्य ढकञः कलोपश्छान्दसः ।
इदमज्ञनिन्दनमज्ञानस्य हेयताप्रदर्शनार्थं दयया न त्वज्ञेषु
द्वेषादित्याशयेनाह-अज्ञानमिति ॥ ३२ ॥

इयं संसारसरणिर्वहत्यज्ञ प्रमादत्तः ।
अज्ञस्योग्राणि दुःखानि सुखान्यपि दृढानि च ॥ ३३ ॥

पुनःपुनर्निवर्तन्ते युगं प्रत्यचला इव ।
शरीरधनदारादावास्थां समनुबध्नतः ॥ ३४ ॥

युगं युगोपलक्षितं लाङ्गलं रथं वा प्रति अचला इव दृढानि दुरुल्लङ्घनानि
च ॥ ३४ ॥

इदं [इदं तु दुःखं इति पाठः ।] दुर्दुःखमज्ञस्य न कदाचन
शाम्यति ।
अनात्मनि शठे देहे आत्मभावमुपेयुषि ॥ ३५ ॥

असद्बोधमयी माया कथं नामानि नश्यति ।
दुर्भावस्वञ्चितधियो वस्तुन्यन्धस्य दुर्मतेः ॥ ३६ ॥

दुष्टैर्भावैः सुष्नुः अञ्चिता व्याप्ता धीर्यस्य ॥ ३६ ॥

अवस्तुनि सनेत्रस्य लुठतश्च पदे पदे ।
विषमुत्पद्यते चन्द्रादामोदः कुसुमादिव ॥ ३७ ॥

अवस्तुन्यसद्वस्तुनि सनेत्रस्य पश्यत इति यावत् ॥ ३७ ॥

कण्टकश्चैति पयसो दूर्वाङ्कुर इव स्थलात् ।
देहशाल्मलिभोगिन्यो मनोमातङ्गशृङ्खलाः ॥ ३८ ॥

पयसः क्षीरात्कण्टकश्च एति आगच्छति । उत्पद्यत इति यावत् । देहलक्षणस्य शाल्मलेः
कोटरे निवसन्त्यो भोगिन्यः सर्पिणीभूता आशाः प्रसूयन्ते रागलोभदैन्यादिसर्पान् ।
अथवा मनोगातङ्गस्य शृङ्खलाभूता आशा दुःखानि प्रसूयन्ते इति
आन्तरबाह्यविषयभेदेनाशाभेदं प्रकल्प्य रूपकद्वयं योज्यम् ॥ ३८ ॥

अज्ञस्याशाः प्रसूयन्ते सुकृष्टादिव शालयः ।
नरकश्रीरिहाज्ञानं कुष्कृतव्यालवेष्टितम् ॥ ३९ ॥

सुकृष्टात्क्षेत्रात् । न विद्यते ज्ञानं यस्य सः अज्ञानस्तं नरकश्रीः परिपालयति
प्रतीक्षते ॥ ३९ ॥

परिपालयति प्रीता मयूरी वारिदं यथा ।
नेत्रलोलालिनीलोला स्फुरिताधरपल्लवा ॥ ४० ॥

मूर्खार्थमेव विकसत्यङ्गना विषवल्लरी ।
अज्ञस्य हृदि सद्भूमावेव [सद्भूमाविव पेलवपल्लवः इति पाठः ।]
पेलवपल्लवा ॥ ४१ ॥

हृदि मनोलक्षणायां सद्भूमौ ॥ ४१ ॥

विद्यते पतगच्छायो रागविद्रुमदुर्द्रुमः ।
तरुच्छदलसद्धूमः शस्त्रजालरदोल्मुकः ॥ ४२ ॥

तरुच्छदः पल्लवस्तत्स्थानापन्नयोः स्फुरदोष्ठयोर्लसन्तो निश्वासधूमा यस्य ।
शस्त्रजालमिव कटकटायमाना रदा दन्ता एवोल्मुका यस्य । द्वेष एव दावाग्निर्यस्य ।
हृन्मनस्तल्लक्षणे मरौ निर्जलारण्ये ज्वलति भस्मीभवतीव ॥ ४२ ॥

ज्वलति द्वेषदावाग्निर्हृन्मरौ कायतापदः ।
अज्ञमात्सर्यमनसि परापवदनच्छदा ॥ ४३ ॥

मात्सर्यजलपूर्णे मनसि मानसे । मात्सर्यमानसेऽज्ञस्येति पाठः साधुः ॥ ४३ ॥

ईर्ष्याकमलिनी चिन्ताषट्पदा विलसत्यलम् ।
प्रतिजन्मप्रमृष्टोग्रदुःखकल्लोलविभ्रमम् ॥ ४४ ॥

प्रमृष्टा नानाप्रतीकारोपायवेलोपसर्पणेन मार्जिता उग्रदुःखकल्लोलविभ्रमा यत्र
तं जडमज्ञं जलमयं समुद्रं च मरणलक्षणो वाडवो वडवानलः ॥ ४४ ॥

जडमेव समभ्येति पुनर्मरणवाडवः ।
जन्म बाल्यं व्रजत्येतद्यौवनं युवता जराम् ॥ ४५ ॥

जन्मादीनामुत्तरोत्तरमनर्थप्रापकत्वमेवेत्याह-जन्मेत् ॥ ४५ ॥

जरा मरणमभ्येति मूढस्यैव पुनः पुनः ।
जगज्जीर्णारघट्टेऽस्मिन्नज्ज्वा संसृतिरूपया ॥ ४६ ॥

आरघट्टे यन्त्रे घटीयन्त्रे ॥ ४६ ॥

मज्जनोन्मज्जनैरज्ञो यन्त्रे कलशतां गतः ।
यदेव गोष्पदापूरं ज्ञधियः पेलवं जगत् ॥ ४७ ॥

गोष्पदमापूरयतीति गोष्पदापूरम् । अल्पजलप्रायमित्यर्थः ॥ ४७ ॥

तदेवापारपर्यन्तमगाधममहात्मनः ।
धियोऽदृश इवाज्ञस्य दीर्घं जठरकोटरात् ॥ ४८ ॥

अमहात्मनः परिच्छिन्न देहात्मदर्शिनः अपारपर्यन्तमगाधं च भवति । अतः
अदृशः अन्धस्येव अज्ञस्य धियो
जठरकोटरादुदरभरणासक्तिबन्धनवशादपरं दीर्घं संसाराब्धिपारं न
प्रयान्तीत्यन्वयः ॥ ४८ ॥

न प्रयान्त्यपरं पारं विहङ्ग्यः पञ्जरादिव ।
भावमात्रपरावृत्तवासनाभारनाभयः ॥ ४९ ॥

कुतो न प्रयान्ति तत्राह-भावेत्यादिना । पराश्चि खानि
व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् इति श्रुतेर्बाह्येषु
विषयमात्रेषु परावृत्तवासनाभाराक्रान्तहृदयनाभयः सत्यो विषयपङ्केषु
मग्ना जन्मचक्रस्य नेमयो नेमिस्थानीयेन्द्रियगणा उद्धृत्य स्पष्टीकर्तुं
शोधयितुं न शक्यन्ते ॥ ४९ ॥

स्पष्टीकर्तुं न शक्यन्ते जन्मचक्रस्य नेमयः ।
अज्ञेनेन्द्रियगृध्रार्थं [अज्ञानेन्द्रिय इति पाठः ।]
रागान्मृगयुणा तनुः ॥ ५० ॥

गृध्रपदेन मृगयोपयोगिनः श्येना ग्राह्याः । तनुः स्वदेहपरम्परा ।
दूराद्दूरदेशकालयोरपि सर्वदा सर्वत्रेति यावत् । रागान्मृगयाव्यसनात् ॥ ५० ॥

संसारारण्य आस्तीर्णा दूरादामिषपिण्डवत् ।
भूतशैलमयी दृष्टिर्मृन्मांसलवमात्रिका ॥ ५१ ॥

आमिषपिण्डवदिति वतिप्रयोगो भ्रान्तिदृशा भेदाभावे
सादृश्याभावादित्याशयेनाह-भूतेति । भूतमयी मनुष्यपश्वादिप्राणिप्रचुरा
हिमवान्विन्ध्यो मलय इत्यादिशैलप्रचुरा च दृष्टिर्वस्तुतो मांसलवमात्रिका
मृल्लवमात्रिका चेति विभज्य व्युत्क्रमेण सम्बन्धः । मोहात्तत्त्वापर्यालोचनादेव
गौरश्वः पुरुषो माता भ्राता हिमवान्मलय इत्यादिकल्पनया संलक्ष्यते इत्यर्थः ॥
५१ ॥

मोहात्संलक्ष्यते चित्रपदार्थानन्तरञ्जनः ।
जयत्यनल्पसङ्कल्पकल्पनाकल्पपादपः ॥ ५२ ॥

अतएव चित्रैः पदैरर्थैश्च अनन्तानि रञ्जनानि यस्य
तथाविधोऽनल्पसङ्कल्पकलनालक्षणः कल्पपादपो जयति । अत्यन्तासद्भिरपि पदार्थैः
सर्वकामपूरणसमर्थत्वात्सर्वोत्कर्षेण वर्तत इत्यर्थः ॥ ५२ ॥

अज्ञानात्प्रसृता यस्माज्जगत्पर्णपरम्पराः ।
यस्मिंस्तिष्ठन्ति राजन्ते विशन्ति विलसन्ति च ॥ ५३ ॥

इदानीं तादृशकल्पवृक्षकोटिव्याप्तं संसारवनखण्डं वर्णयति##-

विचित्ररचनोपेता भूरिभोगिविहङ्गमाः ।
यत्र जन्मानि पर्णानि कर्मजालं च कोरकम् ॥ ५४ ॥

पर्णानि पल्लवाः । कोरकं कलिका । छान्दसी क्लीबता ॥ ५४ ॥

फलानि पुण्यपापानि मञ्जर्यो विभवश्रियः ।
अज्ञानेन्दूदये नैता योषिदोषधयः स्फुटम् ॥ ५५ ॥

योषिल्लक्षणा ओषधयो लता अस्मिन्वर्णितलक्षणे संसारवनखण्डे । परां
शोभामुपागताः ॥ ५५ ॥

संसारवनखण्डेऽस्मिन्परां शोभामुपागताः ।
जन्मजालकलापूर्णस्तमःकालकृतोदयः ॥ ५६ ॥

अज्ञानस्येन्दुत्वमुक्तमुपपादयति-जन्मेति । तमःकाले विवेकसूर्यास्तमयकाले ।
शून्ये निष्प्रपञ्चे ब्रह्मणि नभसि च उदितात्मा प्रकाशमानः । दोषाया
रत्रेर्दोषाणां चेशः ॥ ५६ ॥

शून्योदितात्मा दोषेशो जयत्यज्ञानचन्द्रमाः ।
अज्ञानेन्दोः प्रसादेन वासनामृतशालिना ॥ ५७ ॥

तर्पिताशाचकोरेण चित्तरत्नरसैषिणा ।
राजहंसविलासिन्यः प्रालेयशिशिराङ्गिकाः ॥ ५८ ॥

तर्पिताः पोषिता आशालक्षणाश्चकोरा येन । चित्तलक्षणं यद्रत्नं द्युमणिस्तदीयो रसो
विषयास्वादनामृतं तदेषिणा । सूर्यमण्डलान्तर्गतेनैवामृतेन शुक्लपक्षे
चन्द्रपूर्तेरिति भावः ॥ ५८ ॥

भान्ति कान्ताकुमुद्वत्यो लोललोचनषट्पदाः ।
धम्मिल्लतिमिरोल्लासा लसत्पाण्डुपयोधराः ॥ ५९ ॥

रामारजन्यो राजन्ते तन्मौर्ख्येण विजृम्भितम् ॥ ६० ॥

रामालक्षणारजन्यो रात्रयो यद्राजन्ते तद्द्रष्टॄणां मौर्ख्येणैव विजृम्भितम् ।
तच्छोभाकारेण परिणतं न तत्र शोभनं किञ्चिद्वस्तुतोऽस्तीति भावः ॥ ६० ॥

आपातमात्रमधुरत्वमनर्थसत्त्वमाद्यन्तवत्त्वमखिलस्थितिभङ्गुरत्वम् ।
अज्ञानशाखिन इति प्रसृतानि राम नानाकृतीनि विपुलानि फलानि तानि ॥ ६१ ॥

अज्ञानमेव सर्वानर्थहेतुरिति दर्शयन्नुपसंहरति-आपातेति । हे राम
यद्विषयेषु प्रसिद्धमापातमात्रमधुरत्वमनर्थपर्यवसानत्वमाद्यन्तवत्त्वं
देशतः परिच्छिन्नत्वमखिलस्थितिषु भङ्गुरत्वं नश्वरत्वं च
तत्सर्वमज्ञानलक्षणस्य शाखिनो वृक्षस्य इति एवंविधानि नानाकृतीनि फलानि
बीजाङ्कुरपरम्परया जगदाकारेण प्रसृतानि । तस्मादज्ञानमेव
तन्मूलमुच्छेद्यमिति भावः ॥ ६१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु
निर्वाणप्रकरणे पू० मोहमाहात्म्यं नाम षष्ठः सर्गः ॥ ६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
मोहमाहात्म्यं नाम षष्ठः सर्गः ॥ ६ ॥