पञ्चमः सर्गः ५
श्रीराम उवाच ।
अहो अहं गतश्चित्त्वं भवद्वाक्यार्थभावनात् ।
शान्तं जगज्जालमिदमग्रस्थमपि नाथ मे ॥ १ ॥
इह प्रबुद्धः श्रीरामो विश्रान्तः परमे सुखे ।
गुरोः पुरः स्वानुभवं वर्णयामास विस्तरात् ॥
चित्त्वं चिद्रेकरसपूर्णात्मभावम् ॥ १ ॥
परामन्तः प्रयातोऽस्मि परमात्मनि निर्वृतिम् ।
दीर्घावग्रहसन्तप्तं वृष्ट्येव वसुधातलम् ॥ २ ॥
दीर्घेण चिरकाला नुवृत्तेनावग्रहेण वृष्टिप्रतिबन्धेन सन्तप्तम् ॥ २ ॥
शाम्यामि शीतलाकारः सुखं तिष्ठामि केवलम् ।
प्रसादमनुयातोऽहं [यातोऽस्मि इति पाठः ।] सरो निर्वारणं यथा ॥ ३ ॥
निर्वारणं निर्गतगजम् । निर्विक्षोभनिमित्तमिति यावत् ॥ ३ ॥
सम्यक्प्रसन्नमखिलं दिङ्मण्डलमिदं मुने ।
यथाभूतं प्रपश्यामि निर्नीहारमिवाधुना ॥ ४ ॥
यथाभूतं यथार्थभूतसन्मात्रस्वभावम् ॥ ४ ॥
जातोऽस्मि गतसन्देहः शान्ताशामृगतृष्णिकः ।
रागनीरागनिर्मुक्तो [रागनीहार इति पाठः ।] मृष्टजङ्गलशीतलः ॥ ५
॥
रागैर्विषयरञ्जनैर्नीरागैस्तद्विरोधिवैराग्यादिवृत्तिभिश्च निर्मुक्तः । मृष्टं
निर्मृष्टनीहाररजस्कं शरत्कालजङ्गलमिव शीतलः ॥ ५ ॥
आत्मनैवान्तरानन्दं तत्प्राप्तोऽस्म्यन्तवर्जितम् ।
रसायनरसास्वादो यत्र नाथ तृणायते ॥ ६ ॥
रसायनममृतं तद्रसास्वादोऽपि यत्र यस्मिन्नानन्दे तृणायते
तृणवन्नीरसीभवति उपेक्ष्यो भवति वा ॥ ६ ॥
अद्याहं प्रकृतिस्थोऽस्मि स्वस्थोऽस्मि मुदितोऽस्मि च ।
लोकारामोऽस्मि रामोऽस्मि नमो मह्यं नमोस्तु ते ॥ ७ ॥
प्रकृतिः पारमार्थिकस्वभावस्तत्स्थः । लोका आरमन्ते विश्राम्यन्ति यस्मिन्सुखे
तदहमस्मि । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः । अतएव
रमन्ते योगिनो यत्रेति प्राग्दर्शितव्युत्पत्त्या रामोऽस्मि । स्वनामसार्थक्यं ममाद्य
सम्पन्नमित्यर्थः । तादृशाय मह्यं तत्प्रदर्शकाय ते तुभ्यं च नमः ॥ ७ ॥
ते संशयास्ताः कलनाः सर्वमस्तं गतं मम ।
रात्रिवेतालसंसारः प्रभात इव भास्करे ॥ ८ ॥
कलना भ्रमाः । रात्रौ बालभ्रान्तिकल्पितो वेतालस्य संसारः सञ्चारः कुटुम्बं वा
॥ ८ ॥
निर्मले हृदि विस्तीर्णे सम्पन्ने हिमशीतले ।
मनो निर्वृतिमायातं सरसी शरदीव मे ॥ ९ ॥
मनः शरदि सरसी महासर इव निर्वृतिं निर्विक्षेपविश्रान्तिमायातं प्राप्तम् ॥ ९ ॥
कलङ्क आत्मनः कस्मात्कथं चेत्यादिसंशयः ।
नूनं निर्मूलतां यातो मृगाङ्काग्रे यथा तमः ॥ १० ॥
चिदेकरसस्यात्मनः अज्ञानादिकलङ्कः कस्मान्निमित्तादागतः कथं स्वप्रकाशे
तिष्ठति सः असङ्गमपरिच्छिन्नं च तं कथमाच्छादयति कथं च कूटस्थस्य
सांसारिकविकारानुभव इत्यादिसंशयः
सर्वसंशयमूलभूताज्ञानापगमान्निर्मूलतां यातः ॥ १० ॥
सर्वमात्मैव सर्वत्र सर्वदा भाविताकृतिः ।
इदमन्यदिदं चान्यदित्यसत्कलना कुतः ॥ ११ ॥
भाविताकृतिः स्फुरदाकारः ॥ ११ ॥
कोऽभवं प्रागहं तादृक्तृष्णानिगडयन्नितः ।
अन्तरात्मानमेवेति विहसामि विकासवान् ॥ १२ ॥
अहं साम्प्रतं विकासवान्सन्ननुभूयमानमशनायाद्यतीतमात्मानमन्तरा
विनैव प्राक्तृष्णानिगडयन्त्रितः कः अभवमिति विहसामि ॥ १२ ॥
आ इदानीं स्मृतं सम्यग्यथैष सकलोऽस्म्यसौ ।
यस्त्वद्वागमृतापूरस्नातेनायमहं स्थितः ॥ १३ ॥
आ इति स्मरणद्योतको निपातः । निपात एकाजनाङ् इति प्रगृह्यत्वादसन्धिः ।
त्वद्वागमृतापूरस्नातेन मया अयमहं यो यथा परमार्थतः स्थित एष
सकलश्चास्मि तथा इदानीं स्मृतमित्यन्वयः ॥ १३ ॥
अहो नु विततां भूमिमधिरूढोऽस्मि पावनीम् ।
इहस्थ एव यत्रार्को न पातालमिव स्थितः ॥ १४ ॥
अहमिहस्थ एव सन् काञ्चिद्विततामपरिच्छिन्नां ब्रह्मलोकभूमिमधिरूढोऽस्मि । यत्र
यस्यां भूमावर्कः सूर्यः पातालमास्थित इवात्यन्तमधोदेशस्थितोऽपि न भवति ।
कार्यब्रह्मलोकाद्धि सोऽधःस्थितो न परब्रह्मलोकात् । न तत्र सूर्यो भाति न
चन्द्रतारकम् इत्यादिश्रुतेरिति भावः ॥ १४ ॥
मह्यं सत्तामुपेताय भावाभावभवार्णवात् ।
नमो नित्यं नमस्याय जयाम्यात्मात्मनात्मनि ॥ १५ ॥
भावाभावभवार्णवात् । ल्यब्लोपे पञ्चमी । भावाभावलक्षणं भवार्णवं
निस्तीर्य तत्पारभूतां तदधिष्ठानसन्मात्रतामुपेतायेत्यर्थः । यतोऽहमात्मना
आत्मनि स्वे महिम्नि जयामि सर्वोत्कर्षेण वर्ते अतः सर्वैर्नित्यं सर्वदा नमस्याय ।
नमस्कर्तुमर्हायेत्यर्थः ॥ १५ ॥
अनुभववशतो हृदब्जकोशे स्फुटमलितां समुपागतेन नाथ ।
तव वरवचसेह वीतशोकां चिरमुदितां च दशामुपागतोऽस्मि ॥ १६ ॥
हे नाथ अहं हृदब्जकोशे स्फुटमलितां भ्रमरवत्स्थिरतामुपागतेन तव
वरवचसा इह अस्मिन्देशे काले च स्वानुभववशतो वीतशोकां चिरं सदैवोदितां
मुदितां वा जीवन्मुक्तदशामुपागतोऽस्मीत्यर्थः ॥ १६ ॥
इत्यार्षे श्रीवासिष्ठमहारायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे
पू० राघवविश्रान्तिवर्णनं नाम पञ्चमः सर्गः ॥ ५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशेनिर्वाणप्रकरणे पू०
राघवविश्रान्तिवर्णनं नाम पञ्चमः सर्गः ॥ ५ ॥