चतुर्थः सर्गः ४
श्रीवसिष्ठ उवाच ।
मनो बुद्धिरहङ्कार इन्द्रियादि तथानघ ।
अचेत्यचिन्मयं सर्वं क्व ते जीवादयः स्थिताः ॥ १ ॥
निरस्यान्याः पराग्दृष्टीर्वसिष्ठेनेह राघवः ।
प्रत्यग्दृष्टौ स्थिरीकृत्य पृष्टः संशयशान्तये ॥
रामस्य प्रत्यग्दृष्टिमुद्धाटयिष्यन्वसिष्ठः प्रथममाध्यात्मिकेषु मन##-
एकेनैवात्मना दत्ता नानातेयं महात्मना ।
यथैकेनैव चन्द्रेण तिमिराप्पात्रदर्पणैः [तिमिरं नेत्ररोगविशेषः ।]
॥ २ ॥
तत्रोपपत्तिमाह-एकेनेति । दत्ता स्वसत्तासंसर्गाध्यासेन प्रापिता ॥ २ ॥
भोगतृष्णाविषावेशो यदैवोपशमं गतः ।
तदैवमस्तमज्ञानमान्ध्यं ध्वान्तक्षयादिव ॥ ३ ॥
मन-आद्यनुगतप्रत्यक्तत्त्वदर्शनादेव तत्र विश्रान्तस्य
बाह्यार्थभोगतृष्णाक्षये बाह्यसर्ववस्त्वनुगतसन्मात्रस्यापि प्रत्यगभेदेन स्वत
एव भानाद्बाह्याध्यासनिमित्तमप्यज्ञानं क्षीयत इत्याशयेनाह-भागेति ।
एवमुक्तरीत्या प्रत्यक्तत्त्वदर्शनेन भोगतृष्णाविषावेशो यदैवोपशमं
गतस्तदैवाज्ञानमस्तं निरस्तमित्यर्थः । आन्ध्यं चक्षुषो
विषयप्रथनासामर्थ्यम् ॥ ३ ॥
अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका ।
क्षीयते भावितेनान्तः शरदा मिहिका यथा ॥ ४ ॥
अन्तर्भावितेन सम्यग्विचारितेन ॥ ४ ॥
मौर्ख्ये क्षीणे क्षतं विद्धि चित्तं राम सबान्धवम् ।
विलीनाम्बुधरे व्योम्नि जाड्यं शाम्यत्यविघ्नतः ॥ ५ ॥
मौर्ख्यमज्ञानम् । जाड्यं शैत्यम् ॥ ५ ॥
अचित्तत्वं गते चित्ते क्षीयते वासनाभ्रमः ।
हारमुक्तासमावेशश्छिन्ने तन्ताविवानघ ॥ ६ ॥
रघुनाथ विघाताय शास्त्रार्थं भावयन्ति ये ।
कृमिकीटत्वयोग्याय चेतसा सम्मिलन्ति ते ॥ ७ ॥
एवं सर्ववेदान्तशास्त्ररहस्यभूतां प्रत्यग्दृष्टिं सम्यगुद्धाट्य
तद्विपरीतदर्शनं शास्त्रार्थविघातकं निन्दति-रघुनाथेति । दर्शितं
शास्त्रार्थं शास्त्ररहस्यं उपेक्ष्येति शेषः । ये तद्विघातायान्यथा भावयन्ति ते
कृमिकीटत्वयोग्याय पापाय चेतसा रागादिहेतुदुर्बुद्ध्या मिलन्ति ॥ ७ ॥
नवतामरसाकारकान्तलोचनलोलता ।
शान्ते मौर्ख्येऽक्षता वाते चलता सरसो यथा ॥ ८ ॥
तां दुर्बुद्धिं व्यवहितसर्गे प्रपञ्चयिष्यमाणां प्रतीकेनोदाहरन्
मौर्ख्यक्षयात्तत्क्षयं दर्शयति-नवेति । स्त्र्यादिपिण्डेषु दुर्बुद्धिकल्पितेति शेषः
॥ ८ ॥
स्थिरतामुपयातोऽसि भावाभावविवर्जितः ।
पदे परमविस्तारे नभसीव प्रभञ्जनः ॥ ९ ॥
इदानीं रामस्य दर्शितप्रत्यग्दृष्टौ स्थिरीभावं लिङ्गैरुपलक्ष्याह##-
मन्ये मद्वचनैर्बोधमागतोऽसि रघूद्वह ।
विगताज्ञाननिद्रोऽन्तर्नृपतिः पटहैरिव ॥ १० ॥
पटहैर्वैतालिकानां प्रबोधनवाद्यभेदैः ॥ १० ॥
सामान्ये च लगन्त्येव जने कुलगुरोर्गिरः ।
अत्युदारमतौ राम न लगन्ति कथं त्वयि ॥ ११ ॥
इदानीं स्वकृतस्योपदेशस्य साफल्यदर्शनाद्रामं स्वं च प्रशंसन्नाह##-
यत्रोपादेयवाक्यत्वं भावितं स्वेन चेतसा ।
मद्वचोऽन्तर्विशत्युच्चैस्तप्ते क्षेत्रे यथा पयः ॥ १२ ॥
यत्र मयि त्वया उपादेयवाक्यत्वमाप्ततमत्वं भावितं चिन्तितमतो
मद्वचस्तवान्तर्हृदि विशति ॥ १२ ॥
वयमिह हि महानुभाव नित्यं कुलगुरवो भवतां रघूद्वहानाम् ।
मदुदितमिदमाशु धार्यमार्य शुभवचनं हृदि हारवत्त्वयेति ॥ १३ ॥
इदानीं फलपर्यवसितस्वोपदिष्टार्थस्यापि स्मरणेन धारणं स्वस्य
कुलपूज्यत्वान्माननीयशासनत्वख्यापनेन विधत्ते-वयमिति । भवतां
सर्वेषामिक्ष्वाकूणां विशेषतश्च रघूद्वहानां वयं कुलगुरव इति हेतोस्त्वया
मदुदितमिदं शुभं वचनं धार्यं पुनःपुनश्चिन्तनेन दृढीकृत्येत्यर्थः
॥ १३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु निर्वाणप्रकरणे पू०
चित्ताभावप्रतिपादनं नाम चतुर्थः सर्गः ॥ ४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
चित्ताभावप्रतिपादनं नाम चतुर्थः सर्गः ॥ ४ ॥