००३

तृतीयः सर्गः ३

श्रीवसिष्ठ उवाच ।

भाविभूरितरङ्गाणां पयोवृन्दमिवाम्बुधौ ।
या चिद्वहत्यनन्तानि जगन्त्यनघ सो भवान् ॥ १ ॥

ब्रह्मजीवमनोदेहजगतामैक्यदर्शनात् ।
सर्वद्वैतभ्रमे शान्ते पूर्णैकस्थितिरुच्यते ॥

तत्रादौ सर्वकल्पनाप्रतिभासनिमित्तं चित्स्वरूपमात्मेति परिचाययति-भावीति ।
अम्बुधौ भाविनां जायमानानां भूरितरङ्गभेदकल्पनानामास्पदं
पयोवृन्दं जलसामान्यमिव या चित् अनन्तानि जगन्ति वहति सा । उ इति सम्भावनायाम् ।
सैवात्मेति सम्भावयेत्यर्थः ॥ १ ॥

भव भावनया मुक्तो भावाभावविवर्जितः ।
चिदात्मन्संस्थिताः क्वेव वद ते वासनादयः ॥ २ ॥

तत्सम्भावनोत्तरं द्वैतभावनात्यागमात्रेण निष्प्रपञ्चं निर्वासनं च
तत्स्वरूपमनुभावयति-भवेति ॥ २ ॥

जीवोऽयं वासनादीदमिति चित्कचति स्वतः ।
इतरोक्त्यर्थयोरत्र कः प्रसङ्गोऽङ्ग कथ्यताम् ॥ ३ ॥

तत्स्वरूपे परिचिते जीववासनाजगद्विभागाश्चित् एव कचनभेदकल्पना न
पृथक्सन्तीत्यनुभवितुं शक्यत इत्याह-जीव इति । इतरोक्तेरचिदर्थकशब्दस्य
तदर्थस्य च । अत्र एवंरूपे चिद्वस्तुनि ॥ ३ ॥

महातरङ्गगम्भीरभासुरात्मचिदर्णवः ।
रामाभिधोर्मिस्तिमितः सम सौम्योऽसि व्योमवत् ॥ ४ ॥

रमन्ते योगिनो यस्मिन्नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥
इति व्युत्पादितान्वर्थरामाभिधानः ॥ ४ ॥

यथा न भिन्नमनलादौष्ण्यं सौगन्ध्यमम्बुजात् ।
कार्ष्ण्यं कज्जलतः शौक्ल्यं हिमान्माधुर्यमिक्षुतः ॥ ५ ॥

तत्र दृश्यस्य दृगव्यतिरेकं दृग्धर्मत्वोपपादकदृष्टान्तैः साधयति##-

आलोकश्च प्रकाशाङ्गादनुभूतिस्तथा चितेः ।
जलाद्वीचिर्यथाऽभिन्ना चित्स्वभावात्तथा जगत् ॥ ६ ॥

प्रकाशाङ्गात्तेजसः । अनुभूतिर्वृत्तिप्रतिबिम्बचैतन्यम् । तथाशब्दः
पूर्वदृष्टान्तसमुच्चये । यथा अभिन्नेति च्छेदः ॥ ६ ॥

चितो न भिन्नोऽनुभवो भिन्नो नानुभवादहम् ।
न मत्तो भिद्यते जीवो न जीवाद्भिद्यते मनः ॥ ७ ॥

उक्तमेवार्थमध्यासक्रमोद्घाटनेन स्फुटं दर्शयति-चित इत्यादिना । चितो
मूलाधिष्ठानब्रह्मचितः । अनुभवो मायावृत्त्या रूढचिदाभासः । अहं
व्यष्टिसमष्ट्यहङ्कारः । एवमग्रेऽपि शरीरान्ते बोध्यम् ॥ ७ ॥

मनसो नेन्द्रियं भिन्नं पृथग्देहश्च नेन्द्रियात् ।
न शरीराज्जगद्भिन्नं जगतो नान्यदस्ति हि ॥ ८ ॥

न शरीरादिति । समष्टिशरीरे जगतोऽन्तर्भावादित्याशयः ॥ ८ ॥

एवं प्रवर्तितमिदं महच्चक्रमिदं चिरम् ।
नच प्रवर्तितं किञ्चिन्न च शीघ्रं च नो चिरम् ॥ ९ ॥

इदं प्रस्तुतमिदं दृश्यमानं जगच्चक्रं चितैव
स्वरूपमोहादध्यासपरम्परया प्रवर्तितमित्यर्थः । परमार्थदृशा तु न
किञ्चिदपि प्रवर्तितम् ॥ ९ ॥

स्ववेदनमनन्तं च सर्वमेवमखण्डितम् ।
विद्यते व्योमनि व्योम न कस्मिंश्चिन्न किञ्चन ॥ १० ॥

शून्यं शून्ये समुच्छूनं ब्रह्म ब्रह्मणि बृंहितम् ।
सत्यं विजृम्भते सत्ये पूर्णे पूर्णमिव स्थितम् ॥ ११ ॥

तस्य निरतिशयपूर्णतामेव भङ्गिभेदैर्वर्णयति-शून्यमिति ॥ ११ ॥

रूपालोकमनस्कारान्कुर्वन्नपि न किञ्चन ।
ज्ञः करोत्यनुपादेयान्न ज्ञस्यैव हि कर्तृता ॥ १२ ॥

ज्ञस्य कर्तृता नैव ॥ १२ ॥

यदुपादेयबुद्ध्या च तदूःखाय सुखाय ते ।
भावाभावेन नादेयमकर्तृ सुखदुःखयोः ॥ १३ ॥

यत् उपादेयबुद्ध्या विषयजातमादीयते तदेव ते दुःखाय सुखाय च भवति । भाव
उपादेयताबुद्धिस्तदभावेन तु न किञ्चिदादेयं नाम भवति । अनात्तं च
सुखदुःखयोरकर्तृ प्रसिद्धमिति न दुःखादिप्रसक्तिरित्यर्थः । अथवा भावानां
दृश्यानामभावेन असत्त्वेन नादेयं किञ्चिदस्तीति तत् सुखदुःखयोरकर्त्रित्वर्थः ॥
१३ ॥

यथा नानाप्यनानैव खं खे खानीति वाग्गणः ।
सार्थकोऽप्यतिशून्यात्मा तथात्मजगतोः क्रमः ॥ १४ ॥

नानात्वेन प्रतीयमानानां भावानां कथमभावस्तत्राह-यथेति ॥ १४ ॥

अन्तर्व्योमामलो बाह्ये सम्यगाचारचञ्चुरः ।
हर्षामर्षविकारेषु काष्ठलोष्टसमस्थितिः ॥ १५ ॥

काष्ठलोष्टसमस्थितिर्भवेति शेषः ॥ १५ ॥

य एवातितरां शत्रुः सत्वरं मारणोद्यतः ।
तमेवाकृत्रिमं मित्रं यः पश्यति स पश्यति ॥ १६ ॥

शत्रुशरीरेऽपि स्वस्यैवात्मत्वात्स्वशरीर इव तत्राप्यकृत्रिमप्रीतिरात्मदर्शिनो
भवतीत्याह-य एवेति । मित्रं प्रियतमम् ॥ १६ ॥

समूलकाषं कषति नदीतट इव द्रुमम् ।
यः सौहृदं मत्सरं च स हर्षामर्षदोषहा ॥ १७ ॥

तत एव हर्षामर्षदोषनिवृत्तिरित्याह-समूलेति । यो नदी स्वतटे विद्यमानं
द्रुममिव सौहृदं मत्सरं च समूलकाषं कषति समूलमुन्मूलयति स एव
हर्षामर्षदोषाणां हन्ता भवतीत्यर्थः । समूलोपपदात्कषेर्णमुलि कषादिषु
यथाविध्यनुप्रयोगः ॥ १७ ॥

रागद्वेषविकाराणां स्वरूपं चेन्न भाव्यते ।
ततः सन्तोऽप्यसद्रूपाः सेविता अप्यसेविताः ॥ १८ ॥

रागद्वेषयोस्तत्कार्यविकाराणां च स्वरूपं तत्त्वं चेन्न भाव्यते न विचार्यते
ततस्तर्हि सन्तः अरागद्वेषत्वेन प्रसिद्धा अपि जना असद्रूपाः ।
रागद्वेषतत्त्वापरिज्ञाने तन्मूलोच्छेदासम्भवेन पुनस्तेषां
रागद्वेषप्ररोहापरिहारात् । अतस्ते सेविता अपि वृथेत्यर्थः ॥ १८ ॥

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमाṁल्लोकान्न हन्ति न निबध्यते ॥ १९ ॥

किं तर्हि तत्त्वं तयोरिति चेदहङ्कार एव । अतस्तत्परित्यागे
आत्यन्तिकरागद्वेषनिवृत्तिरित्याशयेन गीतावाक्यमुदाहरति-यस्येति ॥ १९ ॥

यन्नास्ति तस्य सद्भावप्रतिपत्तिरुदाहृता ।
मायेति सा परिज्ञानादेव नश्यत्यसंशयम् ॥ २० ॥

अहङ्कारस्य तु तत्त्वमज्ञानमेव तन्निवृत्तिस्तु स्वात्मपरिज्ञानादित्याशयेन तत्र
मायाशब्दार्थप्रसिद्धिं दर्शयन्नाह-यदिति ॥ २० ॥

निःस्नेहदीपवच्छान्तो यस्यान्तर्वासनाभरः ।
तेन चित्रकृतेनेव जितं ज्ञेनाविकारिणा ॥ २१ ॥

यस्य वासनाभरः शान्तस्तेन जितम् । स किं जयः सत्यः नेत्याह-चित्रकृतेनेति ।
यथा चित्रकृतेन राज्ञा चित्रलिखितशत्रुशिरश्छिन्दता जितमिव तथा
नित्यनिरस्तसंसारनिरासबोधान्नित्यसिद्धाद्वितीयपूर्णात्मना जितमित्यर्थः ॥ २१ ॥

यस्यानुपादेयमिदं समस्तं पदार्थजातं सदसद्दशासु ।
न दुःखदाहाय सुखाय नैव विमुक्त एवेह सजीव एव ॥ २२ ॥

यस्य पुरुषधोरेयस्य इदं समस्तं भोग्यपदार्थजातं सदसद्दशासु
आविर्भावतिरोभावावस्थासु वैभवदारिद्र्यदशासु आरोपापवाददशासु वा
मिथ्यात्वात्तत्त्वत आत्मतया नित्यलब्धत्वाद्वा अनुपादेयं
सत्तद्वियोगसंयोगप्रयुक्ताय दुःखदाहाय सुखाय च न भवति किन्तु इह सजीवो
जीवन्नपि मुक्त एवेत्यर्थः ॥ २२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु
निर्वाणप्रकरणे पू० ब्रह्मैक्यप्रतिपादनं नाम तृतीयः सर्गः ॥ ३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
ब्रह्मैक्यप्रतिपादनं नाम तृतीयः सर्गः ॥ ३ ॥