द्वितीयः सर्गः २
श्रीवाल्मीकिरुवाच ।
ततः क्लिन्नेन्दुवदना पर्याकुलतमःपदा ।
क्षीयमाणा बभौ श्यामा विवेक इव वासना ॥ १ ॥
इह रामादिभिः प्रातर्वसिष्ठस्य सभानयः ।
उक्तार्थस्मरणात्तत्त्वे विश्रामश्चोपवर्ण्यते ॥
क्लिन्नो म्लान इन्दुरेव वदनं यस्याः । क्षीयमाणा मरणोन्मुखी ॥ १ ॥
पूर्वे ध्वस्ततयालोकं दृश्यमाने परेऽचले ।
शवालीकावतंलाभं तापको निकरो दधौ ॥ २ ॥
ततो निकरो निर्गच्छत्किरणस्तापकः सूर्यः प्राङ्मुखैर्जनैर्दृश्यमाने पूर्वे
पूर्वदिक्स्थे अचले शृङ्गभेदैर्ध्वस्ततया प्रतिबद्धतया
तत्तदन्तरालनिर्गतमालोकं शयाः प्रसारितहस्तास्तदाभं तु अलीको मिथ्याकल्पितो
अवतंसः किरीटादिशिरोभूषणं तदाभमालोकं दधाविति द्वन्द्वे विभज्यान्वयः ॥
२ ॥
अवश्यायकणाकर्षी परामृष्टेन्दुमण्डलः ।
ज्योत्स्नाकवलनालोको बभौ पाभातिकोऽनिलः ॥ ३ ॥
ज्योत्स्नानां कवलनाय आलोकश्चक्षुःप्रसार इव सौरालोको यस्येति सूर्यस्य
तदीयचक्षुष्ट्वारोपादियमुक्तिः । अनेन क्षुत्तृषार्त इवेत्युत्प्रेक्षा गम्यते ॥ ३ ॥
रामलक्ष्मणशत्रुघ्ना उत्थायानुचरैः सह ।
ययुर्वन्दितसन्ध्यास्ते पुण्यं वासिष्ठमाश्रमम् ॥ ४ ॥
अस्नातानां श्रवणानधिकारात्स्नात्वा वन्दितसन्ध्याः । एवमग्रेऽपि ॥ ४ ॥
तत्र वन्दितसन्ध्यस्य निर्गतस्यापि सद्मतः ।
मुनेर्ववन्दिरे पादौ पदोर्दत्वार्घ्यसन्ततिम् ॥ ५ ॥
निर्गतस्य निर्गमिष्यतः ॥ ५ ॥
क्षणात्तत्सदनं मौनं मुनिब्राह्मणराजभिः ।
हस्त्यश्वरथयानैश्च शनैर्नीरन्ध्रतां ययौ ॥ ६ ॥
नीरन्ध्रतां निरवकाशताम् ॥ ६ ॥
अथासौ मुनिशार्दूलस्तयैव सह सेनया ।
गृहं दाशरथं काले रामाद्यनुगतो ययौ ॥ ७ ॥
तत्रैनं पूर्वसम्बन्धः कृतसन्ध्यो महीपतिः ।
दूरमार्गं विनिर्गत्य पूजयामास सादरम् ॥ ८ ॥
गृहप्रवेशात्पूर्वमेव सम्बध्नाति मेलयतीति पूर्वसम्बन्धस्त्वरोत्साहो यस्य
तथाविधो महीपतिर्दशरथः ॥ ८ ॥
पुष्पमुक्तामणिव्रातैर्भूयोऽत्यधिकभूषिताम् ।
सभां प्रविश्य ते सर्वे विविशुर्विष्टरालिषु ॥ ९ ॥
विष्टरालिषु आसनपङ्क्तिषु । वृक्षासनयोर्विष्टरः इति षत्वम् ॥ ९ ॥
अथ तस्मिन्नवसरे ह्यस्तनाः सर्व एव ते ।
श्रोतारः समुपाजग्मुर्नभश्चरमहीचराः ॥ १० ॥
ह्यस्तनाः पूर्वेद्युर्भवाः ॥ १० ॥
विवेश सा सभा सौम्या कृतान्योन्याभिवन्दना [अभिवादना इति पाठः ।
] ।
बभौ राजसमाभोगा शान्तवातेव पद्मिनी ॥ ११ ॥
राज्ञा सम आभोगः संस्थानस्थितिर्यस्याः । राजानं यतवाक्कायचेष्टं दृष्ट्वा
सर्वेऽपि तथा आसन्निति भावः ॥ ११ ॥
यथाप्रदेशमेवाशु निविष्टेषु यथासुखम् ।
तेषु तद्देशयोगेषु विप्रर्षिमुनिराजसु ॥ १२ ॥
तद्देशयोगेषु सभाप्रदेशप्रविष्टेषु विप्रादिषु यथाप्रदेशं
प्रात्यहिककॢप्तप्रदेशानुक्रमेण निविष्टेषूपविष्टेषु सत्सु ॥ १२ ॥
मृदुनि स्वागतरवे शनैः शममुपागते ।
सभाकोणोपविष्टेषु शान्तशब्देषु बन्दिषु ॥ १३ ॥
मृदुनि परस्परस्वागतप्रश्नरवे ॥ १३ ॥
तरसैवोदितेष्वाशु श्रोतुमभ्यागतेष्विव ।
गवाक्षादिव जालेषु प्रविष्टेष्वर्करश्मिषु ॥ १४ ॥
उदितेष्वर्करश्मिषु श्रोतुमिव तरसैवाभ्यागतेषु गवाक्षाद्गवाक्षं प्राप्येव
तज्जालच्छिद्रेषु प्रविष्टेषु सत्सु ॥ १४ ॥
सत्वरप्रविशच्छ्रोतृहस्तस्पर्शघटोद्भवे ।
मुक्ताजालझणत्कारे निद्रायामिव शाम्यति ॥ १५ ॥
सत्वं सभां प्रविशतां श्रोतॄणां हस्तस्पर्शैरङ्गघट्टनैश्चोद्भवो यस्य
तथाविधे मुक्ताजालकभूषणादिझणत्कारे निद्रायामिव निस्पन्दभावाच्छाम्यति सति
॥ १५ ॥
कुमारः शङ्करस्येव कचो देवगुरोरिव ।
प्रह्राद इव शुक्रस्य सुपर्ण इव शार्ङ्गिणः ॥ १६ ॥
दृष्ठेर्भक्तिगौरवोत्कण्ठाद्यतिशयद्योतनाय बहून्युपमानानि ॥ १६ ॥
वसिष्ठस्यानने रामः शनैर्दृष्टिं न्यवेशयत् ।
भ्रमन्तीमम्बरोपान्ते फुल्लपद्म इवालिनीम् ॥ १७ ॥
अम्बरे भ्रमन्तीमलिनीं भ्रमरीं फुल्ले पद्मे उदयादिकालो निवेशयति तद्वत् ॥ १७ ॥
मुनिस्त्वनुज्झितेनाथ तेनैव रघुनन्दनम् ।
क्रमेणोवाच वाक्यज्ञो वाक्यं वाक्यार्थकोविदम् ॥ १८ ॥
तेन प्रागनुक्रान्तेनैव क्रमेण ॥ १८ ॥
श्रीवसिष्ठ उवाच ।
कच्चित्स्मरसि यत्प्रोक्तं ह्यो मया रघुनन्दन ।
वाक्यमत्यन्तगुर्वर्थं परमार्थावबोधनम् ॥ १९ ॥
ह्यः पूर्वेद्युः ॥ १९ ॥
इदानीमवबोधार्थमन्यच्च रिपुमर्दन ।
उच्यमानं मयेदं च शृणु शाश्वतसिद्धये ॥ २० ॥
वैराग्याभ्यासवशतस्तथा तत्त्वावबोधनात् ।
संसारस्तीर्यते [संसारात्तीर्यत इति पाठः ।] तेन तेष्वेवाभ्यासमाहर ॥
२१ ॥
प्रागुक्तक्रममेवानुक्रम्य दर्शयति-वैराग्येत्यादिना ॥ २१ ॥
सम्यक्तत्त्वावबोधेन [सम्यक्कृतावबोधेन इति पाठः ।] कुर्बोधे
क्षयमागते ।
गलिते वासनावेशे विशोकं प्राप्यते पदम् ॥ २२ ॥
दिक्कालाद्यनवच्छिन्नमदृष्टोभयकोटिकम् ।
एकं ब्रह्मैव हि जगत्स्थितं द्वित्वमुपागतम् ॥ २३ ॥
दिक्कालाद्यनवच्छिन्नं त्रिविधपरिच्छेदशून्यम् । तस्यैव विवरणं अदृष्टेति । न
दृष्टे देशतः कालतो वा उभे कोटी पूर्वापरावधी द्वैतं च यस्य । उभशब्दस्य
समासे द्विवचनलुकि उभयोऽन्यत्र इत्ययच् ॥ २३ ॥
सर्वभावानवच्छिन्नं यन्न ब्रह्मैव विद्यते ।
शान्तं समसमाभासं तत्रान्यत्वं कथं भवेत् ॥ २४ ॥
समेषु साधारणेषु गोत्वादिष्वप्यनुगतत्वात्समसमाभासता [समसमासत्ता
तत्प इति पाठः ।] तत्परिशेषेण प्रथमानम् ॥ २४ ॥
इति मत्वाहमित्यन्तर्मुक्त्वा मुक्तवपुर्महान् ।
एकरूपः प्रशान्तात्मा साक्षात्स्वात्मसुखो भव ॥ २५ ॥
इति उक्तब्रह्मस्वभावं मत्वानिश्चित्य अहमित्यभिमानं मुक्त्वा स्वात्मैव सु
शोभनं खमाकाशमानन्दो वा यस्य तथाविधो भव ॥ २५ ॥
नास्ति चित्तं न चाविद्या न मनो नच जीवकः ।
एताः स्वकलना राम कृता ब्रह्मण एव ताः ॥ २६ ॥
स्वाः कलनाः कल्पनाः ॥ २६ ॥
याः सम्पदो याश्च दृशो याश्चितो यास्तदेषणाः ।
ब्रह्मैव तदनाद्यन्तमब्धिवत्प्रविजृम्भते ॥ २७ ॥
सम्पदो भोग्याः । दृशस्तद्भोगवृत्तयः । चितस्तत्प्रतिफलितचिदाभासाः स्मृतयो
वा । तेषां भोगानामेषणाः स्पृहाः ॥ २७ ॥
पाताले भूतले स्वर्गे तृणे प्राण्यम्बरेऽपि च ।
दृश्यते तत्परं ब्रह्म चिद्रूपं नान्यदस्ति हि ॥ २८ ॥
पातालादिदेशभेदे तृणादिवस्तुभेदे चकाराद्भूतादिकालभेदे च तदेव
सर्वदृश्यात्मना दृश्यते नान्यदित्यर्थः ॥ २८ ॥
उपेक्ष्यहेयोपादेयबन्धवो विभवा वपुः ।
ब्रह्मैव विगताद्यन्तमब्धिवत्प्रविजृम्भते ॥ २९ ॥
उपेक्ष्याः हेया उपादेया इति सामान्यतः । तत्राप्युत्तरोत्तरमुपादेयतमा बन्धवो
विभवाः वपुरित्येवम्प्रकारेणेत्यर्थः ॥ २९ ॥
यावदज्ञानकलना यावदब्रह्मभावना ।
यावदास्था जगज्जाले तावच्चित्तादिकल्पना ॥ ३० ॥
किं सदैव तथा विजृम्भते नेत्याह-यावदित्यादिना ॥ ३० ॥
देहे यावदहम्भावो [अत्रैको यावच्छब्दोऽवधारणार्थः साकल्यार्थो वा
सकले दृश्ये इति ममैवेदमिति वान्वयः ।] दृश्येऽस्मिन्यावदात्मना ।
यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः ॥ ३१ ॥
आत्मना स्वेन ममेदमित्यास्था । क्रियत इति शेषः ॥ ३१ ॥
यावन्नोदितमुच्चैस्त्वं सज्जनासङ्गसङ्गतः ।
यावन्मौर्ख्यं न सङ्क्षीणं तावच्चित्तादिनिम्नता ॥ ३२ ॥
उच्चैस्त्वं पूर्णता । चित्तादिप्रयुक्ता निम्नता नीचता ॥ ३२ ॥
यावच्छिथिलतां यातं नेदं भुवनभावनम् ।
सम्यग्दर्शनशक्त्यान्तस्तावच्चित्तादयः स्फुटाः ॥ ३३ ॥
यावदज्ञत्वमन्धत्वं वैवश्यं विषयाशया ।
मौर्ख्यान्मोहसमुच्छ्रायस्तावच्चित्तादिकल्पना ॥ ३४ ॥
अज्ञत्वरूपमन्धत्वम् ॥ ३४ ॥
यावदाशाविषामोदः परिस्फुरति हृद्वने ।
प्रविचारचकोरोऽन्तर्न तावत्प्रविशत्यलम् ॥ ३५ ॥
आशालक्षणो विषगन्धः । तावत् प्रकृष्टात्मविचारलक्षणश्चकोरोऽन्तर्न प्रविशति ॥
३५ ॥
भोगेष्वनास्थमनसः शीतलामलनिर्वृतेः ।
छिन्नाशापाशजालस्य क्षीयते चित्तविभ्रमः ॥ ३६ ॥
तृष्णामोहपरित्यागान्नित्यशीतलसंविदः ।
पुंसः प्रशान्तचित्तस्य प्रबुद्धा त्यक्तचित्तभूः ॥ ३७ ॥
अनास्थया त्यक्ता चित्तभूः प्रबुद्धा प्रबोधफलवती भवति नात्यक्तेत्यर्थः ॥ ३७ ॥
असंस्तुतमिवानास्थमवस्तु परिपश्यतः ।
दूरस्थमिव देहं स्वमसन्तं चित्तभूः कुतः ॥ ३८ ॥
चित्तानुदय एव तत्त्याग इत्याशयेनाह-असंस्तुतमिति । असंस्तुतमनुपयुक्तं
दूरस्थमवस्तु अतएवासन्तमभ्रपुरुषाकारमिव स्वं देहमनास्थं
परिपश्यतश्चित्तस्य भवनन्न् चित्तभूः कुतः ॥ ३८ ॥
भावितानन्तचित्तत्त्वरूपरूपान्तरात्मनः ।
स्वान्तावलीनजगतः शान्तो जीवादिविभ्रमः ॥ ३९ ॥
भावितं श्रवणमनननिदिध्यासनसाक्षात्कारैः [त्कारैरुपरकृत ।]
परिष्कृतमनन्तचिन्मात्ररूपं संसारप्रसिद्धरूपाद्रूपान्तरमात्मा च यस्य ।
स्वान्ते मनसि अवलीनं जगद्यस्य ॥ ३९ ॥
असम्यग्दर्शने शान्ते मिथ्याभ्रमकरात्मनि ।
उदिते परमादित्ये परमार्थैकदर्शने ॥ ४० ॥
असम्यग्दर्शने सम्यग्दर्शनविरोधिनि अज्ञाने मिथ्याभ्रमान्करोति
तथाविधस्वभावे नष्टे सति ॥ ४० ॥
अपुनर्दर्शनायैव दग्धसंशुष्कपर्णवत् ।
चित्तं विगलितं विद्धि वह्नौ घृतलवं यथा ॥ ४१ ॥
जीवन्मुक्ता महात्मानो ये परावरदर्शिनः ।
तेषां या चित्तपदवी सा सत्त्वमिति कथ्यते ॥ ४२ ॥
चित्ताभावे कथं व्यवहारस्तत्राह-जीवन्मुक्ता इत्यादिना । चित्तपदवी जले शुष्के
सिकतासु जलरेखेव चित्तप्रचाररेखा ॥ ४२ ॥
जीवन्मुक्तशरीरेषु वासना व्यवहारिणी ।
न चित्तनाम्नी भवति सा हि सत्त्वपदं गता ॥ ४३ ॥
निश्चेतसो हि तत्त्वज्ञा नित्यं समपदे स्थिताः ।
लीलया प्रभ्रमन्तीह सत्त्वसंस्थितिहेलया ॥ ४४ ॥
प्रभ्रमन्ति व्यवहरन्ति । सत्त्वसंस्थितिप्रयुक्तया हेलया अनास्थया ॥ ४४ ॥
शान्ता व्यवहरन्तोऽपि सत्त्वस्थाः संयतेन्द्रियाः ।
नित्यं पश्यन्ति तज्ज्योतिर्न द्वैतैक्येन वासना ॥ ४५ ॥
तर्हि किं तेषां वासनया व्यवहारपरमार्थोभयदर्शनाद्द्वैतैक्येनेत्याह##-
सम्भवतीत्यर्थः ॥ ४५ ॥
अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् ।
जुह्वतोऽन्तर्निवर्तन्ते मुनेश्चित्तादिविभ्रमाः ॥ ४६ ॥
तदेव स्पष्टमाह-अन्तर्मुखतयेति ॥ ४६ ॥
विवेकविशदं चेतः सत्त्वमित्यभिधीयते ।
भूयः फलति नो मोहं दग्धबीजमिवाङ्कुरम् ॥ ४७ ॥
अतएवाज्ञचित्तात्सत्त्वस्य वैलक्षण्यमित्याशयेनाह-विवेकेति ॥ ४७ ॥
यावत्सत्त्वं विमूढान्तः पुनर्जननधर्मिणी ।
चित्तशब्दाभिधानोक्ता विपर्यस्यति बोधतः ॥ ४८ ॥
विमूढानां जनानामन्तश्चित्तशब्दाभिधानोक्ता सा भवति तावदेव
पुनर्जननधर्मिणी । बोधतस्तु सा सत्त्वं सती विपर्यस्यति । जन्मनिवृत्तिलक्षणं
विपरीतकार्यं करोतीत्यर्थः ॥ ४८ ॥
प्राप्तप्राप्यो भवान्नाम सत्त्वभावमुपागतम् ।
चित्तं ज्ञानाग्निना दग्धं न भूयः परिरोहति ॥ ४९ ॥
चित्तं तवेति शेषः ॥ ४९ ॥
संरोहतीषणाविद्धं यथा परशुनाग्निना ।
न तु ज्ञानाग्निनिर्दग्धं प्रबोधविशदं मनः ॥ ५० ॥
कीदृशं तर्हि भूयः संरोहति तदाह-संरोहतीति । ईषणा एषणा
वित्तपुत्रलोकविषयास्ताभिराविद्धं खचितम् । यथा परशुना च्छिन्नमग्निना
दग्धमपि तृणादि अन्तर्बीजशक्त्या विद्धं भूयः प्ररोहति तद्वत् । निर्दग्धं
निर्दग्धैषणाबीजशक्तिकम् ॥ ५० ॥
ब्रह्मबृंहैव हि जगज्जगच्च ब्रह्मबृंहणम् ।
विद्यते नानयोर्भेदश्चिद्धनब्रह्मणोरिव ॥ ५१ ॥
ज्ञानाग्निना कुतो जगद्बीजशक्तिदाहस्तत्राह-ब्रह्मेति । हि यस्माज्जगद्ब्रह्मण एव
मोहाद्बृंहा आरोपितरूपेण वृद्धिः । यस्माच्च ज्ञानाज्जगदपि
वास्तवब्रह्मस्वभावाभिवृद्धिकं यतश्च अनयोर्ब्रह्मजगतोरज्ञानमात्रकृतो
भेदस्तन्नाशे न विद्यते अतो न प्ररोहतीत्यर्थः ॥ ५१ ॥
चिदन्तरस्ति त्रिजगन्मरिचे तीक्ष्णता यथा ।
नातश्चिज्जगती भिन्ने तस्मात्सदसती मुधा ॥ ५२ ॥
त्रिजगच्चिदन्तश्चिद्रूपेणैवास्ति यथा तीक्ष्णतैकरसे मरिचे तीक्ष्णता तद्वत् ।
अतस्तत्त्वदृशा चिज्जगती न भिन्ने । तस्मात्सदसती वस्तुप्ररोहप्रलयौ मुधा
मायाप्रयुक्तभ्रान्तिरेवेत्यर्थः ॥ ५२ ॥
शब्दशब्दार्थसङ्केतवासनेह न संविदा ।
चिद्व्योमत्वादुभे भातस्त्यजातः सदसन्मती ॥ ५३ ॥
तर्हि असद्वा इदमग्र आसीत्ततो वै सदजायत इत्यादिश्रौताः घटोऽस्ति घटो
नास्तीत्यादिलौकिकाश्च सदसच्छब्दाः किं निरर्थकाः नेत्याह-शब्देति । इह
श्रौतलौकिकव्यवहारे परस्परव्यावृत्ताः शब्दा व्यावृत्तेष्वर्थेषु सङ्केतिता इति
वक्तृश्रोतृवासनैव व्यावृत्त्याकारेण भासते । [सदसच्छब्दकृता इति
पाठः ।] तदंशशब्दकृता संविदा प्रमा न । अवस्तुभूताया व्यावृत्तेः
शब्दार्थत्वाभावात् । एवं व्यावृत्त्यपगमे उभे सदसच्छब्दवाच्ये
अव्यावृत्ताननुगतचिद्व्योमत्वादेव परमार्थतो भात इति तदेव
परमार्थवस्तुशब्दार्थ इत्यर्थः ॥ ५३ ॥
अचिन्मयत्वान्नासि त्वं स्वात्मा किमिव रोदिषि ।
अचिन्मयत्वे जगतामभावे कल्पनं कुतः ॥ ५४ ॥
एवं सदसद्विकल्पत्यागेन चिन्मात्रदर्शने
देहाद्यात्मताभ्रमप्रयुक्तजननमरणाद्यनर्थप्राप्तिप्रयुक्तरोदनस्यापि न
प्रसक्तिरित्याह-अचिन्मयत्वादिति । त्वं त्वमिति व्यवहियमाणं रामाभिधं
सदसत्स्वभावं शरीरमात्मा स्वयं नासि अचिन्मयत्वात् । सर्वस्य जगतः अचिन्मयत्वे
अभावे चावगते देहादिकल्पनैव तव कुत इत्यर्थः ॥ ५४ ॥
चिन्मयं चेत्सदा सर्वं तच्चित्त्वं प्रविचारय ।
शुद्धं सत्त्वमनाद्यन्तं तत्राङ्ग कलना [कल्पना इत्यपि पाठः ।]
कुतः ॥ ५५ ॥
यदि तु चिद्व्यावृत्तिलक्षणजाड्यमात्रपरित्यागच्चिन्मयमेव जगदिति मन्यसे तदा
चित्त्वं चित्स्वभावं प्रविचारय । तच्च सम्यग्विचार्यमाणं शुद्धं
त्रिविधपरिच्छेदशून्यमेकरसम् । तत्र देहाद्यनथकलना कुत इत्यर्थः ॥ ५५ ॥
चिदात्मासि निरंशोऽसि पारावारविवर्जिताः ।
रूपं स्मर निजं स्फारं माऽस्मृत्या सम्मितो भव ॥ ५६ ॥
अस्मृत्या चित्स्वरूपविस्मरणेन सम्मिराः परिच्छिन्नः ॥ ५६ ॥
तां स्वसत्तां गतः सर्वमसर्वं भावयोदयी ।
तादृग्रूपोऽसि शान्तोऽसि चिदसि ब्रह्मरूप्यसि ॥ ५७ ॥
तां सत्तां पूर्णचित्स्वभावस्थितिं गतः सन् उदयी निरतिशयानन्दलाभाद्युदयवान्
भूत्वा असर्वं परिच्छिन्नं जगत्सर्वं पूर्णस्वभावं भावय सम्पादय ॥ ५७ ॥
चिच्छिलोदरमेवासि नासि नानास्यथाप्यसि ।
योसि सोसि न सोसीव सदस्यसदसि स्वभाः ॥ ५८ ॥
नानासि नानाभावेन आस्ते तच्छीलः नासि अथापि तद्बाधावधित्वादसि परिशिष्यसे । तत्र
सर्ववाङ्मनसप्रवृत्तिनिमित्तापगमाद्योसि सोसि । तर्हि किमत्यन्तपरोक्षो नेत्याह##-
यः पदार्थविशेषोऽन्तर्न त्वं न ह्येव सोऽस्ति ते ।तदस्यतदसि
स्वस्थश्चिद्धनात्मन्नमोऽस्तु ते ॥ ५९ ॥
सदस्यसदसीत्यंशं विवृणोति-य इति । यः सर्वपदार्थानां विशेषो
व्यावृत्तिलक्षणोऽन्तःपरिच्छेदः स एव अलीकत्वादसच्छब्दार्थः । स त्वं न भवसीति
सदसीत्यस्यार्थः । स एव तद्व्यावृत्तसद्धर्मत्वेन कल्प्यमानो व्यावहारिकैः सत्तेति
व्यपदिश्यते स ते नास्त्येवेत्यसदसीत्यस्यार्थः इत्याशयेन सदस्यसदसीत्युक्त इत्यर्थः ॥
५९ ॥
आद्यन्तवर्जितविशालशिलान्तरालसम्पीडचिद्धनवपुर्गगनामलस्त्वम्
[सम्पीनत्विद्धन इति मूले टीकायां च पाठः ।] ।
स्वस्थो भवाजठरपल्लवकोशलेखा लीलास्थिताखिलजगज्जय ते नमस्ते ॥ ६० ॥
आद्यन्तवर्जितं विशालं स्फटिकशिलान्तरालमिव सम्पीडं [कल्पना इत्यपि
पाठः ।] निबिडं यच्चिद्धनं तद्वपुस्तत्स्वभावस्त्वं न
दुःखादिविक्रियाभागिति मत्वा स्वस्थो भव । आसमन्ताद्विस्तीर्णे त्वदीयचिच्छिलाजठरे
प्रतिबिम्बितपल्लवकोश इव कल्पिताया मायाया रेखासदृशवासनाभेदेषु मनोलीलया
स्थितान्यखिलानि जगन्ति यस्मिंस्तथाविध हे राम ते तादृशाय नम इत्यर्थः ॥ ६० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
विश्रान्तिसुदृढीकरणं नाम द्वितीयः सर्गः ॥ २ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे
पू० विश्रान्तिसुदृढीकरणं नाम द्वितीयः सर्गः ॥ २ ॥