प्रथमः सर्गः १
श्रीवाल्मीकिरुवाच ।
उपशमप्रकरणादनन्तरमिदं शृणु ।
त्वं निर्वाणप्रकरणं ज्ञातं निर्वाणदायि यत् ॥ १ ॥
शिवमभयमनाद्यनन्तमध्यं परमसुखाद्वयबोधमात्रसारम् ।
उपरतसकलभ्रं विशुद्धं निजमहसा स्फुरदात्मतत्त्वमीडे ॥ १ ॥
उत्पत्तिस्थित्युपशमाख्यैस्त्रिभिः प्रकरणैर्जगज्जन्मस्थितिलयबोधकानां अथात
आदेशो नेतिनेति इत्यादिसर्वप्रपञ्चनिषेधकानां च
वेदान्तवाक्यानामध्यारोपापवादन्यायेनात्मतत्त्वव्युत्पादकतया
वासनाक्षयमनोनाशपर्यन्तज्ञानेन परमपुरुषार्थे तात्पर्यपर्यवसानं
दर्शितम् । अथेदानीं यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा यो
वै भूमा तत्सुखम् यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो
विद्वान्न विमेति कुतश्चन तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा
ब्रह्म सर्वानुभूः निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य
परं सेतुं दग्धेन्धनमिवानलम् इत्यादिश्रुतितात्पर्यसिद्धं
प्रागुक्तसर्वसाधनसाध्यसाक्षात्कारज्ञानफलं निर्वाणं व्युत्पादयितुं
निर्वाणाख्यमिदं प्रकरणं श्रावयितुं भगवान् श्रीवाल्मीकिरुवाच##-
मुनिवाक्यादिहोत्थानं श्रोतृणामाह्निकी क्रिया ।
श्रुतार्थचिन्तानिद्राभ्यां रात्रियापनमीर्यते ॥ १ ॥
तत्रादौ पूर्वोत्तरप्रकरणयोर्हेतुतासङ्गतिं सूचयन् वक्तव्यं प्रतिजानीते##-
मृल्लोहविस्फुलिङ्गादिदृष्टान्तैः वाचारम्भणं विकारो नामधेयं त्रीणि
रूपाणीत्येव सत्यम् इति श्रुतिप्रदर्शितन्यायेनैव अन्नेन सोम्य
शुङ्गेनापोमूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य
शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः
सत्प्रतिष्ठाः स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा इति
श्रुतितात्पर्यविषये ऐकात्म्ये पर्यवसानव्युत्पादनपरप्रकरणत्रयानन्तरं
तत्फलीभूतस्य सत्यं ज्ञानमनन्तं ब्रह्म नित्यं विज्ञानमानन्दं ब्रह्म
आनन्दो ब्रह्मेति व्यजानात् इत्यादिश्रुतिदर्शितस्वरूपलक्षणस्य तत्त्वमसि श्वेतकेतो
अयमात्मा ब्रह्म सर्वानुभूः इत्यादिमहावाक्यार्थस्य [तद्बोधकफल इति
पाठः ।] तद्बोधफलनिर्वाणस्वरूपस्य च व्युत्पादकत्वान्निर्वाणाख्यं
प्रकरणं शृण्वित्यर्थः ॥ १ ॥
कथयत्येवमुद्दामवचने मुनिनायके ।
श्रवणैकरसे मौनस्थिते राजकुमारके ॥ २ ॥
प्रतिज्ञातमर्थं प्रस्तुतकथामेवावलम्ब्य
वर्णयिष्यन्नुपशमप्रकरणोपदेशान्ते दशरथसभायां यद्वृत्तं तदाह##-
षोडशस्थेनान्वयः । मुनिनायके वसिष्ठे । राजकुमारके रामे ॥ २ ॥
मुनिवागर्थनिक्षिप्तमनस्यस्ततपःक्रिये ।
राजलोके गतस्पन्दे चित्रार्पित एव स्थिते ॥ ३ ॥
अस्ता त्यक्ता तपो मानसं बाह्यार्थालोचनं क्रिया शरीरचेष्टा च येन । तदेवाह##-
वसिष्ठवचसामर्थं विचारयति सादरम् ।
लसदङ्गुलिभङ्गेन मुनिसार्थं स्फुरद्भ्रुवि ॥ ४ ॥
अङ्गुलिभङ्गेन उत्क्षिप्ततर्जनीचेष्टाभिनयेन । स्फुरद्भ्रुवि । सभ्रूभङ्गमिति यावत्
॥ ४ ॥
विस्मयालोकनोल्लासप्रोत्फुल्लनयनालिनि ।
पुरन्ध्रिवर्गे गम्भीरतरुमञ्जरितां गते ॥ ५ ॥
विस्मयः परमाश्चर्यरूपः प्रत्यगात्मा तदालोकनोल्लासेन गम्भीरा
मकरन्दत्वादनासक्तभ्रमरैर्निष्कम्पशब्दा या तरुमञ्जरी तद्भावमिव गते ॥ ५ ॥
खे वासरचतुर्भागदेशे दिनकरे स्थिते ।
किञ्चिज्ज्ञानोदयात्सौम्ये किञ्चिच्छममुपेयुषि ॥ ६ ॥
यत्र वासरस्य चतुर्थभागमात्रावशेषो लक्ष्यते तस्मिन्देशे प्रदेशे श्रवणायेव
स्थिते । अतएव किञ्चिज्ज्ञानोदयादिव सौम्ये दृष्टिप्रिये
किञ्चित्तापोपशममुपेयुषीवेत्युत्तरादनुकृष्यान्वयः ॥ ६ ॥
श्रवणयिव संशान्ते वितानस्पन्दमालिते ।
मौनं मरुति मन्दारमधुरामोददायिनि ॥ ७ ॥
श्रवणायेव संशान्ते इत्येतद्देहलीदीपन्यायेन मरुतीत्यत्रापि सम्बध्यते ।
कुसुमवितानस्पन्देन मालिते स्रग्विणि । अतएव मन्दारमधुरामोददायिनि ॥ ७ ॥
पुष्पदामसुषुप्तासु महाभ्रमरपङ्क्तिषु ।
ज्ञातज्ञेयतया नूनं सम्यग्ध्यानवतीष्विव ॥ ८ ॥
मुक्ताजालकलापान्तर्गतास्वन्तरभूमिषु ।
कचत्यपगतस्पन्दं तोये श्रोतुमिवास्थिते ॥ ९ ॥
मुक्तामयानां जालकलापानां जालाकारवापीवरणानां [वरणं
वृतिराच्छादनं वा।] अन्तर्गतासु अन्तरभूमिषु मध्यस्थवापीप्रदेशेषु
श्रोतुमास्थिते सोत्कण्ठ इव अपगतस्पन्दं निश्चलं कचति
मुक्तादिप्रभाभिर्दीप्यमाने सति ॥ ९ ॥
गृहान्तरं प्रविष्टेषु गवाक्षे दूरमंशुषु ।
विश्रामार्थमिवादीर्घं नभःपान्थेषु शीतलम् ॥ १० ॥
अंशुषु रविरश्मिषु शीतलं गृहान्तरं श्रवणशालामध्यं विश्रामार्थमिव
प्रविष्टेषु । देशतः कालतश्च आदीर्वं नभसि पान्थेषु । चिरदूरप्रचारश्रान्तेष्विति
यावत् ॥ १० ॥
मुक्ताजालप्रभाजालभस्मनोद्धूलितात्मनि ।
शंसतीव शमं शाम्यद्दिनदेहे दिवातपे ॥ ११ ॥
शाम्यतो दिनस्य देहभूते मुक्ताजालकानां प्रभाजाललक्षणेन भस्मना
उद्धूलितात्मनि तदन्तःप्रविष्टे दिवातपे तपस्विलक्षणे स्वात्मनि शमं शान्तिगुणं
शंसति सूचयतीव सति ॥ ११ ॥
करे लीलासरोजेषु शेखरेषु च भूभृताम् ।
श्रुत्वा सुरसमामोदादवृत्तिषु मनस्स्विव ॥ १२ ॥
भूभृतां राज्ञां करे पाणौ शेखरेषु शिरस्सु च स्थितेषु लीलासरोजेषु शोभना
रसा यस्मिंस्तत्सुरसं वसिष्ठोपदेशं श्रुत्वा आमोदादानन्दाविर्भावात्तेषां
मनस्स्विव अवृत्तिषु निमीलनोन्मुखेषु सत्सु ॥ १२ ॥
बालकेष्वज्ञलोकेषु लीलापक्षिषु सादरम् ।
भोजनार्थं वधूलोकमुपरुन्धत्स्वनारतम् ॥ १३ ॥
लीलापक्षिषु पञ्जरस्थशुकादिषु उपरुन्धत्सु । त्वरयत्स्विति यावत् ॥ १३ ॥
भ्रमद्भ्रमरपक्षोत्थवातधूतरजस्यलम् ।
कौमुदे परिविश्रान्ते चामरेष्वक्षिपक्ष्मसू ॥ १४ ॥
कौमुदे ईषद्विकासोन्मुखकुमुदसम्बन्धिनि भ्रमद्भ्रमराणां
पक्षोत्थैर्वातैरुद्धूते रजसि चामरेष्वक्षिपक्ष्मसु च परितो विश्रान्ते सति ॥ १४ ॥
रश्मिष्वगगुहोन्मुक्तच्छायाजालभयादिव ।
गवाक्षादिष्विवोड्डीय प्रविष्टेषु गृहान्तरम् ॥ १५ ॥
सूर्यरश्मिषु अगानां मेर्वादिपर्वतानां गुहाभ्य
उन्मुक्ताच्छायासमूहात्मकात्तमसो भयादिव उड्डीय पलाय्य गवाक्षादिषु द्वारेषु
निलयनाय गृहान्तरं गृहमध्यं प्रविष्टेष्विव ॥ १५ ॥
आसीद्दिनचतुर्भागसत्तावेदनतत्परः ।
भेरीपठहशङ्खानां दिङ्मुखापूरको ध्वनिः ॥ १६ ॥
दिनचतुर्थभागस्य सत्ता परिशेषस्तस्यावेदने तत्परः ॥ १६ ॥
तेन तत्तारमप्याशु वचोऽन्तर्धानमाययौ ।
मौनं जलदनादेन मायूर इव निखनः ॥ १७ ॥
तेन ध्वनिता तत्तारमपि मुनेरिदं मौनं वासिष्ठं वचः अन्तर्धानमाययौ ॥ १७ ॥
आक्षुब्धा क्षुब्धपक्षालिः पञ्जरस्था खगावली ।
भूकम्पे तरसाऽऽतालीपल्लवेव वनावली ॥ १८ ॥
तरसा जवेन [बलेन इति पाठः] आक्षुब्धा सञ्चलिता जातेत्यर्थः । आतालीपल्लवा
आकम्पिततालीदला वनावलीव ॥ १८ ॥
आययुर्भयवित्रस्ता बाला धात्रीकुचान्तरम् ।
सारवं प्रावृषीवाब्धाः प्रोन्नतं शृङ्गकोटरम् ॥ १९ ॥
सारवं रोदनशब्दसहितं यथा स्यात्तथा शृङ्गकोटरं
शृङ्गद्वयमध्यमिव ॥ १९ ॥
उत्तस्थुरवतंसेभ्यो भूभृतां भ्रमरस्रजः ।
ईषत्करालवाहाभ्यः सरिद्भ्योऽम्बुकणा इव ॥ २० ॥
ईषत्करालः क्षुब्धो वाहः प्रवाहो यासां ताभ्यः । भ्रमराणां
रजोगौरत्वद्योतनायाम्बुकणदृष्टान्तः ॥ २० ॥
एवं प्रक्षुभिते तस्मिन्गृहे दाशरथे तदा ।
प्राप्ते वासरवृद्धत्वे शान्तशङ्खस्वने शनैः ॥ २१ ॥
वासरस्य वृद्धत्वे चतुर्थे वयसि प्राप्ते सति ॥ २१ ॥
संहरन्प्रस्तुतं वस्तु वचो मधुरवृत्तिमत् ।
उवाच मुनिशार्दूलः सभामध्ये रघूद्वहम् ॥ २२ ॥
प्रस्तुतं वस्तु वक्तव्यार्थं संहरन्नुपसंहरन् ॥ २२ ॥
राघवानघ वाग्जालं मयैतत्प्रविसारितम् ।
तेन चित्तखगं बद्ध्वा क्रोडीकृत्यात्मतां नय ॥ २३ ॥
क्रोडीकृत्य हृदि रुद्ध्वेति यावत् ॥ २३ ॥
कच्चिद्गृहीतो भवता मद्गिरामर्थ ईदृशः ।
त्यक्त्वा दुर्बोधमक्षीणो हंसेनेवाम्भसः पयः ॥ २४ ॥
अक्षीणः अक्षयो मद्गिरामर्थः । हंसेन अम्भसः । अम्भः परित्यज्येति ल्यब्लोपे
पञ्चमी ॥ २४ ॥
विचार्यैतदशेषेण स्वधियैवं पुनः पुनः ।
अनेनैव पथा साधो गन्तव्यं भवताधुना ॥ २५ ॥
अनेन वासनाक्षयमनोनाशप्राणसंरोधज्ञानाभ्यासपथा ॥ २५ ॥
अनयैव धिया राम विहरन्नैव बध्यसे ।
अन्यथाधः पतस्याशु विन्ध्यखाते यथा गजः ॥ २६ ॥
सुगृहीतं धिया राम मद्वचो न करोषि चेत् ।
तत्पतस्यवटे त्यक्तदीपो वान्धो निशास्विव ॥ २७ ॥
यथा अन्धस्त्यक्तदीपो वा पुरुषोऽवटे गर्ते पतति तद्वत् ॥ २७ ॥
असङ्गेन यथाप्राप्तो व्यवहारोऽस्य सिद्धये ।
इत्येव शास्त्रसिद्धान्तमादायोदारवान्भव ॥ २८ ॥
असामदुक्तार्थस्य सिद्धये यथाप्राप्तो व्यवहारः असङ्गेन कार्य इत्येवं
सर्वशास्त्रपरमतात्पर्यविषयं सिद्धान्तमादाय मनसिकृत्य उदारवान्
अपरिच्छिन्नात्मबोधवान्भवेत्यर्थः ॥ २८ ॥
हे सभ्या हे महाराज रामलक्ष्मणभूमिपाः ।
सर्व एव भवन्तोऽद्य तावद्व्यापारमाह्निकम् ॥ २९ ॥
कुर्वन्त्वयं हि दिवसः प्रायः परिणताकृतिः ।
शेषं विचारयिष्यामो विचार्यं प्रातरागताः ॥ ३० ॥
प्रातः श्वः समायामागताः सन्तः । धातुराम्बन्धे प्रत्ययाः इति भविष्यति क्तः ॥
३० ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्ता मुनिना तेन सा सर्वैव तदा सभा ।
प्रोत्तस्थौ पद्मवदना सविकासेव पद्मिनी ॥ ३१ ॥
इति उक्ता आज्ञप्ता । पद्मानीव पद्मान्येव च वदनानि यस्याः ॥ ३१ ॥
राजानः स्तुतराजानः कृतराघववन्दनाः ।
परिष्टुते वसिष्ठे ते जग्मुरात्मनिवेशनम् ॥ ३२ ॥
स्तुतो राजा दशरथो यैस्ते स्तुतराजानः । वसिष्ठे परिष्ठुते सर्वैः प्रणम्य
प्रशंसिते सति ॥ ३२ ॥
विश्वामित्रेण सहितो वसिष्ठो मन्तुमाश्रमम् ।
उत्तस्थावासनाच्छ्रीमान्नमस्कृतनभश्चरः ॥ ३३ ॥
नमस्कृता नभश्चरा देवा येन ॥ ३३ ॥
दशरथप्रभृतयो राजानो गुनयस्तथा ।
यथानुरूपं वक्तारमनुगम्य मुनिं चिरम् ॥ ३४ ॥
वक्तारमुपदेष्टारम् । चिरमाश्रमान्तमनुगम्य ॥ ३४ ॥
आपृच्छ्य केचिद्गगनं ययुः केचिद्वनान्तरम् ।
केचिद्राजगृहं सन्तो भृङ्गाः पद्मोत्थिता इव ॥ ३५ ॥
वक्तारमुपदेष्टारम् । चिरमाश्रमान्तमनुगम्य ॥ ३५ ॥
वसिष्ठपादयोस्त्यक्त्वा पुष्पाञ्जलिमनाविलम् ।
दारैरनुगतो राजा प्रविवेश गृहान्तरम् ॥ ३६ ॥
अनाविलं निर्मलम् ॥ ३६ ॥
रामलक्ष्मणशत्रुघ्नाः प्राप्तस्य स्वाश्रमं गुरोः ।
अभ्यर्च्य चरणौ भक्त्या त्वाजग्मुर्नृपमन्दिरम् ॥ ३७ ॥
अनाविलं निर्मलम् ॥ ३७ ॥
सदनानि समासाद्य श्रोतारः सर्व एव ते ।
समुरानर्चुरभ्येयुर्देवान्विप्रान्पितॄंस्तथा ॥ ३८ ॥
देवान्पितॄंश्च आनर्चुः । विप्रान् अतिथीन् अभ्येयुः अभिमुखं आ ईयुः ।
अभिगमनादिना पूजनाय खीचकुरित्यर्थः । अभ्येतुः इति पाठे तु अभ्येतुरतिथिवर्गस्य
मध्ये विप्रानानर्चुरित्येवं योज्यम् ॥ ३८ ॥
यथाक्रमं स्वभृत्यान्तैर्विप्राद्यैश्च परिच्छदैः ।
समं बुभुजिरे भोज्यं वर्णधर्मक्रमोदितम् ॥ ३९ ॥
परिच्छदैः परिवारैः राह ॥ ३९ ॥
अस्तं गते दिनकरे समं दिवसकर्मभिः ।
अभ्यागते रात्रिकरे समं रजनिकर्मभिः ॥ ४० ॥
स्थित्वा तल्पेषु कौशेयशयनेष्वासनेषु च ।
भूचरा मुनिराजानो राजपुत्रा महर्षयः ॥ ४१ ॥
संसारोत्तरणोपायं वसिष्ठवदनेरितम् ।
यथावदेकाग्रधियश्चिन्तयामासुरादृताः ॥ ४२ ॥
ततः प्रहरमात्रेण निद्रामामुद्रिताननाः ।
उत्स्वप्नसुन्दरीमीयुः पद्मा इव दिनार्थिनः ॥ ४३ ॥
भाविशुभसूचकत्वादुत्कृष्टस्वप्नैः सुन्दरीं रमणीयाम् । तथा च श्रुतिः अथ
यत्र देव इव राजेव अहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः इति
स्वाप्नसार्वात्म्यदर्शनस्य भाविमोक्षफलसूचकतां दर्शयति । दिनार्थिनो
राज्यतिक्रमणक्रामा इति यावत् ॥ ४३ ॥
रामलक्ष्मणशत्रुघ्नाः प्रहरत्रयमेव तत् ।
वासिष्ठमुपदेशं ते चिन्तयामासुरक्षतम् ॥ ४४ ॥
प्रहरस्यार्धमात्रं ते तत आमुद्रितेक्षणाः ।
उत्स्वप्नमाययुर्निद्रां क्षणाद्विद्रावितश्रमाम् ॥ ४५ ॥
इति शुभमनसां विवेकभाजामधिगतसारतयोदिताशयानाम् ।
अभजत विरतिं तदा वियामा मलिननिशाकरवक्त्रतां जगाम ॥ ४६ ॥
अधिगतसारतया आत्मतत्त्वप्रबोधेन उदितः सविकास आशयो येषां रामादीनाम् ।
त्रियामा रात्रिः । विरतिमुपरमं अभजत प्राप । अतएवारुणकिरणव्याप्त्या मलिनो
निशाकर एव वक्त्रं यस्यास्तद्भावं जगाम ॥ ४६ ॥
इत्यर्षि श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु
निर्वाणप्रकरणे पूर्वार्धे दिनसव्यवहारवर्णनं नाम प्रथमः सर्गः ॥ १ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे पूर्वार्धे
दिवसव्यवहारवर्णनं नाम प्रथमः सर्गः ॥ १ ॥