९३

त्रिनवतितमः सर्गः ९३

श्रीवसिष्ठ उवाच ।

मनागपि विचारेण चेतसः स्वस्य निग्रहः ।
मनागपि कृतो येन तेनाप्तं जन्मनः फलम् ॥ १ ॥

विचारप्रौढिवैराग्यसद्गुणैर्बोधसंस्थितौ ।
विषयैरप्रधृष्यत्वाद्वर्ण्यतेऽत्र समास्थितिः ॥ १ ॥

तत्रादावल्पतरस्य पि विचारस्य चित्तनिग्रहस्य च रुच्युत्पादनप्रवर्तनद्वारा
क्रमान्मोक्षे पर्यवसानं भवतीत्याह - मनागिति । जन्मनः
फलमित्यनेन विचारशून्यस्य जन्मैव निष्फलमिति ध्वनितम् ॥ १ ॥

विचारकणिका यैषा हृदि स्फुरति पेलवा ।
एषैवाभ्यासयोगेन प्रयाति शतशाखताम् ॥ २ ॥

तस्य तन्मसाफल्योपयोगितामुपपादयति - विचारेत्यादिना ।
विचारकल्पवृक्षस्य कणिका अङ्कुरः ॥ २ ॥

किञ्चित्प्रौढविचारं तु नरं वैराग्यपूर्वकम् ।
सं * *? न्ति गुणाः शुद्धः सरः पूर्णमिवाण्डजः ॥ ३ ॥

गुणाः प्रागुक्तशमदमादयः । अण्डजाः पक्षिणो मत्स्याश्च ॥ ३ ॥

सम्यग्विचारिणं प्राज्ञं यथाभूतावलोकिनम् ।
आसादयन्त्यपि स्फारा नाविद्याविभवा भृशम् ॥ ४ ॥

यथाभूतं यथार्थमात्मतत्त्वमवलोकयितुं शीलमस्य । स्फाराः
प्रचयप्रकर्षाभ्यां ख्याता अपि हैरण्यगर्भपदान्ता अविद्याकार्यभूता
विभवा नासादयन्ति न प्रलोभयन्ति ॥ ४ ॥

किं कुर्वन्तीह विषया मानस्यो वृत्तयस्तथा ।
आधयो व्याधयो वापि सम्यग्दर्शनसन्मतेः ॥ ५ ॥

किं कुर्वन्ति कं विकारं जनयन्ति । निर्विकारात्मभूतत्वात्तस्येति भावः ॥ ५ ॥

क्व [क्वोन्नमत् इति पाठः]
भ्रमत्पवनापूरास्तडित्पटलपाटलाः ।
पुष्करावर्तजलदा गृहीता बालमुष्टिभिः ॥ ६ ॥

तत्प्रलोभनासामर्थ्यमेवान्योक्तिभिर्द्रढयति - क्वेत्यादिना ।
पुष्करावर्ताख्याः प्रलयजलदा बालमुष्टिभिः क्व गृहीताः ॥ ६ ॥

क्व नभोमध्यसंस्थेन्दुर्मुग्धैर्मणिसमुद्गकैः [सुन्दरैः]

मुग्धयाऽङ्गनया बद्धो मुग्धेन्दीवरशङ्कया ॥ ७ ॥

मुग्धैर्विकाशरम्यैरिन्दीवरैः स्वनेत्रशोभापराभवशङ्कया
तद्विकाशहेतुर्नभोमध्यसंस्थेन्दुर्मणिमयैः समुद्गकैः सम्पुटकैः
क्व बद्धः ॥ ७ ॥

क्व कटप्रोच्चलद्भृङ्गमण्डलोत्पलशेखराः ।
मुग्धस्त्रीश्वासमधुरैर्मशकैर्मथिता गजाः ॥ ८ ॥

कटेभ्यो गण्डस्थलेभ्यः प्रोच्चलन्ति
भृङ्गमण्डलान्येवोत्पलसादृश्यादुत्पलानि शेखरेषु येषां तथाविधा
गजा मुग्धस्त्रीश्वासैरपि पराणुद्यमानत्वात्तेष्वपि मधुरैः
सौम्यैर्निर्वीर्यैरिति यावत् । मशकैः क्व मथिता निहताः । मुग्धस्त्रीभिः
श्वासेन गजवधाय प्रेरणाद्वा मधुरैरुत्साहरम्यैः ॥ ८ ॥

क्वेभमुक्ताफलोल्लासलसत्सन्नखपञ्जराः ।
सिंहाः समरसंरब्धा हरिणैः प्रविमर्दिताः ॥ ९ ॥

इभानां स्वविदारितगजानां मुक्ताफलसम्बन्धिभिरुल्लासैः कान्तिभिर्लसन्तो
नखरपञ्जरा येषाम् ॥ ९ ॥

क्व विषोल्लासनिर्यासदग्धोन्नतवनद्रुमाः ।
क्षुधिताजगराः क्षुब्धैर्निगीर्णा बालदर्दुरैः ॥ १० ॥

विषस्योल्लास उपचयस्तत्प्रयुक्तैर्निर्यासप्रायैर्विषबिन्दुभिर्दग्धा उन्नता
वनद्रुमा यैः अथवा सृक्किदेशात्स्वदेहे मुहुः प्रसृतार्धशुष्कविषोल्लासा
एव निर्यासा येषां तथाविधाः श्यामत्वादुत्थितत्वाच्च
दग्धशाखखर्जूरद्रुमप्रायाः । देश विशेषे द्रुमवदुत्थिता
मनुष्यवत्कूजन्तः श्यामा अजगरविशेषा वृक्षभ्रान्त्या
समीपगतान्मनुष्यादीन्परिवृत्तेन व्यात्तेन मुखेन झटिति ग्रसन्तीति प्रसिद्धम्
। बालदर्दुरैः क्षुद्रभेकैः ॥ १० ॥

क्व प्राप्तभूतिको धीरो ज्ञातज्ञेयो विवेकवान् ।
आक्रान्तः किल विक्रान्तो विषयेन्द्रियदस्युभिः ॥ ११ ॥

प्राप्तचतुर्थपञ्चमादिभूमिकः । विक्रान्त उत्तरभूमिकाजये उद्युक्तः ॥ ११ ॥

विचारधियमप्रौढां हरन्ति विषयारयः ।
प्रचण्डपवनामृद्वीं कृत्तवृन्तां लतामिव ॥ १२ ॥

तत्पूर्वभूमिकास्वेवापक्वचित्तानां विघ्नप्रसक्तिर्नोत्तरत्रेत्याह - विचारेति ।
कृत्तवृन्तां छिन्नप्रतानवतीम् [प्रतानवन्धनां इति पाठः] ॥ १२

न विवेकलवं प्रौढं भङ्क्तुं शक्ता दुराशयाः ।
कल्पक्षोभमहाधीरं शैलं मन्दानिला इव ॥ १३ ॥

दुष्टा आशयाः रागादिवृत्तयो भङ्क्तुं विनाशयितुं न शक्ताः । यथा
अवान्तरकल्पक्षोभेषु महाधीरं मेर्वादिशैलं भङ्क्तुं मन्दानिला न
शक्तास्तद्वत् ॥ १३ ॥

अगृहीतमहापीठं [महीपीठं इति पाठश्चिन्त्यः]
विचारकुसुमद्रुमम् ।
चिन्तावात्याविधुन्वन्ति नास्थिरस्थितिसुस्थितम् ॥ १४ ॥

न गृहीतं महत् पीठं मूलबन्धनं येन तम् । विचाराः कादाचित्का
आर्तवकुसुमप्राया एव नतु फलितास्तथाविधद्रुमप्रायम् ॥ १४ ॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
न विचारमयं चेतो यस्यासौ मृत उच्यते ॥ १५ ॥

अत-एव विचारविच्छत्तिकाले प्रमादाद्रागादिमृत्युनाऽसौ ग्रस्यत
इत्याशयेनाह - गच्छत इति । यस्य यदा तदा असौ मृत इति योज्यम् । तथा
चोक्तं लैङ्गे - सा हानिस्तन्महच्छिद्रं सान्धता सा च मूकता ।
यत्क्षणं वा मुहूर्तं वा शिवमेकं न चिन्तयेत् ॥ इति ॥ १५ ॥

किमिदं स्याज्जगत्किं स्याद्देहमित्यनिशं शनैः ।
विचारयाध्यात्मदृशा स्वयं वा सज्जनैः सह ॥ १६ ॥

स्वयमेक एकान्ते वा सज्जनैर्गुरुसतीर्थ्यादिभिः सह वा ॥ १६ ॥

अन्धकारहरेणाशु विचारेण परं पदम् ।
दृश्यते विमलं वस्तु प्रदीपेनेव भास्वता ॥ १७ ॥

विचारस्य फलावश्यम्भावमाह - अन्धकारेति । प्रमादान्धकारहरेण ॥
१७ ॥

ज्ञानेन सर्वदुःखानां विनाश उपजायते ।
कृतालोकविलासेन तमसामिव भानुना ॥ १८ ॥

ज्ञानफले द्वे आह - ज्ञानेनेति द्वाभ्याम् ॥ १८ ॥

ज्ञाने प्रकटतां याते ज्ञेयं व्ययमुदेत्यलम् ।
रवावभ्युदिते भूमावालोक इव निर्मलः ॥ १९ ॥

येन शास्त्रविचारेण ब्रह्मतत्त्वं प्रबुद्ध्यते ।
तद्भानमुच्यते ज्ञेयादभिन्नमिव संस्थितम् ॥ २० ॥

ज्ञानलक्षणमाह - येनेति ।
ज्ञेयब्रह्माकारत्वाद्भेदबाधरूपत्वाच्चाभिन्नमिव संस्थितं
दृढप्रतिष्ठितम् ॥ २० ॥

विचारोत्थात्मविज्ञानं ज्ञानमङ्ग विदुर्बुधाः ।
ज्ञेयं तस्यान्तरेवास्ति माधुर्यं पयसो यथा ॥ २१ ॥

सयग्ज्ञानसमालोकः पुमान्ज्ञेयमयः स्वयम् ।
भवत्यापीतमैरेयः सदा मदमयो यथा ॥ २२ ॥

सदा ज्ञेयमयः अनुभूयमानब्रह्मानन्दप्रचुरः ॥ २२ ॥

समं स्वरूपममलं ज्ञेयं ब्रह्म परं विदुः ।
ज्ञानाभिगममात्रेण तत्स्वयं सम्प्रसीदति ॥ २३ ॥

सम्प्रसीदति निरस्ताविद्यातत्कार्यपङ्कं भवति ॥ २३ ॥

ज्ञानवानुदितानन्दो न क्वचित्परिमज्जति ।
जीवन्मुक्तो गतासङ्गः सम्राडात्मेव तिष्ठति ॥ २४ ॥

सम्राट् राजाधिराजस्तदात्मेव पूर्णमनोरथः ॥ २४ ॥

ज्ञानवान्हृद्यशब्देषु वीणावंशरवादिषु ।
कामिन्याः कान्तगीतेषु सम्भोगमलिनेषु च ॥ २५ ॥

तस्य रागिजनस्पृहणीयेषु भावेष्वनासङ्गं प्रपञ्चयति -
ज्ञानवानित्यादिना । सर्वेषां सप्तम्यन्तानां रतिं न निबध्नातीति
व्यवहितेनान्वयः ॥ २५ ॥

वसन्तमदमत्तानां षट्पदानां स्वनेषु च ।
प्रावृट्प्रसरपुष्पेषु जलदस्तनितेषु च ॥ २६ ॥

प्रावृट्प्रसरप्रयुक्तपुष्पेषु ॥ २६ ॥

उत्ताण्डवशिखण्डेषु केकाकलरवेषु च ।
रणिताम्भोदखण्डेषु सारसक्वणितेषु च ॥ २७ ॥

कर्तर्यादिकरान्तेषु गम्भीरमुरजेषु च ।
ततावनद्धसुषिरचित्रवाद्यस्वनेषु च ॥ २८ ॥

कर्तरीसूचीशलाकासूत्रकण्टककरान्तापायवादनीयेषु वाद्यभेदेषु ।
तन्त्रीभिस्ततं वीणादि । चर्मणा अवनद्धं मुरजादि । सुषिरमन्तश्छिद्रं
वंशादि । चित्रं परिशेषाद्घनं कांस्यतालादि च यद्वाद्यं तत्स्वनेषु च ॥
२८ ॥

केषुचिन्न निबध्नाति रूक्षेषु मधुरेषु च ।
रणितेषु रतिं राम पद्मेष्विव निशाकरः ॥ २९ ॥

ज्ञानवान्बालकदलीस्तम्भपल्लवपालिषु [राजिषु इति पाठः] ।
सुरगन्धर्वकन्याङ्गलतानन्दनकेलिषु ॥ ३० ॥

बालकदलीस्तम्भानां पल्लवपङ्क्तयो यत्र । सुरगन्धर्वकन्यानामिवाङ्गानि
अवयवा यासां तथाविधलताशालिनन्दने केलिषु क्रीडासु ।
तासामङ्गलताभिर्नन्दने केलिषु वा ॥ ३० ॥

केषु क्वचिन्न बध्नाति स्वायत्तेष्वप्यसक्तधीः ।
राम स्पर्शरतिं धीरो हंसो मरुमहीष्विव ॥ ३१ ॥

स्पर्शरतिं भोगेच्छाम् ॥ ३१ ॥

ज्ञानवान्पिण्डखर्जूरकदम्बपनसादिषु ।
मृद्वीकौर्वारुकाक्षोटबिम्बजम्बीरजातिषु ॥ ३२ ॥

पिण्डखर्जूरादयः फलजातिभेदाः ॥ ३२ ॥

मदिरामधुमैरेयमाध्वीकासवभूमिषु ।
दधिक्षीरधृतामिक्षानवनीतौदनादिषु ॥ ३३ ॥

मदिरादयो मद्यजातिभेदाः । तप्ते पयसि दधिसेकात्पिण्डीभूतं
द्रव्यमाभिक्षा ॥ ३३ ॥

षद्रसेषु विचित्रेषु लेह्यपेयविलासिषु ।
फलेष्वन्येषु मूलेषु शाकेष्वप्यामिषेषु च ॥ ३४ ॥

आमिषेषु मांसेषु ॥ ३४ ॥

केषुचिन्नानुबध्नाति तृप्तमूर्तिरसक्तधीः ।
आस्वादनरतिर्विप्रः स्वशरीरलवेष्विव ॥ ३५ ॥

स्वशरीरलवेषु स्वमांसखण्डेष्विव ॥ ३५ ॥

ज्ञानवान्यमचन्द्रेन्द्ररुद्रार्कानिलसद्मसु ।
मेरुमन्दरकैलाससह्यदर्दुरसानुषु ॥ ३६ ॥

दिक्पालपङ्क्तिपाठाद्रुद्र ईशानः ॥ ३६ ॥

कौशेयदलजालेषु चन्द्रबिम्बकलादिषु ।
कल्पपादपकुञ्जेषु देहशोभाविलासिषु ॥ ३७ ॥

कौशेयानीव मृदुस्निग्धानि दलजालानि पल्लवसमूहा येष्विति
प्राक्तनसानुविशेषणम् । देहशोभया दिव्यशरीरसम्पत्त्या विलसनशीलेषु ॥ ३७

रत्नकाञ्चनकुड्येषु मुक्तामणिमयेषु च ।
तिलोत्तमोर्वशीरम्भामेनकाङ्गलतासु च ॥ ३८ ॥

कुड्यपदेन तदवयविनो गृहा लक्ष्यन्ते ॥ ३८ ॥

केषुचिद्दर्शनं श्रीमान्नाभिवाञ्छत्यसक्तधीः ।
परिपूर्णमना मानी मौनी शत्रुषु चाचलः ॥ ३९ ॥

अचलः द्वेषाद्यप्रकम्प्यः ॥ ३९ ॥

ज्ञानवान्कुन्दमन्दारकह्लारकमलादिषु ।
कुमुदोत्पलपुन्नागकेतक्यगुरुजातिषु ॥ ४० ॥

कुन्दादिषु पुष्पजातिषु ॥ ४० ॥

कदम्बचूतजम्ब्वम्रकिंशुकाशोकशाखिषु ।

कदम्बादिवृक्षजातिषु । जपादिगुल्मवल्लीजातिषु ॥ ४१ ॥

चन्दनागुरुकर्पूरलाक्षामृगमदेषु च ।
काश्मीरजलवङ्गैलाकङ्कोलतगरादिषु ॥ ४२ ॥

चन्दनादिष्वङ्गरागभेदेषु । लाक्षा अलक्तकरसः ॥ ४२ ॥

केषुचिन्न निबध्नाति सौगन्ध्यरतिमेकधीः ।
समबुद्धिरविक्षोभो मद्यामोदेष्विव द्विजः ॥ ४३ ॥

द्विजो मद्यामोदेष्विव रतिं न निबध्नाति प्रियाप्रिययोः समबुद्धिः ।
अप्रियेष्वविक्षोभश्च ॥ ४३ ॥

अब्धौ गुडगुडारावे प्रतिश्रुत्खस्वने गिरौ ।
निनादे च मृगेन्द्राणां न क्षुभ्यति मनागपि ॥ ४४ ॥

एवं भयहेतुध्वनिभ्यस्तस्य भयं न जायत इत्याह - अब्धावित्यादिना ।
प्रतिश्रुत्प्रतिध्वनिस्तद्रूपे खस्वने आकाशजशब्दे ॥ ४४ ॥

द्विषद्भेरीनिनादेन पटहारणितेन च ।
कटुकोदण्डघोषेण न बिभेति मनागपि ॥ ४५ ॥

पटह आडम्बराख्यो वाद्यविशेषः ॥ ४५ ॥

मत्तवारणबृंहासु वेतालकलनासु च ।
पिशाचरक्षःक्ष्वेडासु मनागपि न कम्पते ॥ ४६ ॥

मत्तवारणानां बृंहासु गर्जितेषु । बृंहेः गुरोश्च हलः इत्यप्रत्ययः ।
वेतालानां कलनासु कलहादिध्वनिषु । पिशाचरक्षसां क्ष्वेडासु सिंहनादेषु
॥ ४६ ॥

अशनिस्वनघोषेण नगस्फोटरवेण च ।
ऐरावणनिनादेन सम्यग्ध्यानी न कम्पते ॥ ४७ ॥

ऐरावण ऐरावतस्तस्य निनादेन ॥ ४७ ॥

वहत्क्रकचकाषेण सितासिदलनेन च ।
शराशनिनिपातेन कम्पते न स्वरूपतः ॥ ४८ ॥

वहतश्चलतः क्रकचस्य काषेण घर्षणेन । स्वरूपतः
स्वरूपस्थितिलक्षणात्समाधेर्न कम्पते न चलतीत्यर्थः ॥ ४८ ॥

नानन्दमेत्युपवने न खेदमुपगच्छति ।
न खेदमेति मरुषु नानन्दमुपगच्छति ॥ ४९ ॥

पूताङ्गारसमाकल्पसैकतेष्वपि धन्वसु ।
पुष्पप्रकरसञ्छन्नमृदुशाद्वलभूमिषु ॥ ५० ॥

पूतैर्भस्मापसरणेनोज्ज्यलितैरङ्गारैः समानि अकल्पान्यसह्यानि सैकतानि
येषु तथाविधेषु धन्वसु मरुदेशेषु ॥ ५० ॥

क्षुरधारासु तीक्ष्णासु शय्यासु च नवोत्पलैः ।
उन्नताचलदेशेषु कूपकोशतलेषु च ॥ ५१ ॥

कूपकोशस्य कूपोदरस्य तलेष्वधोभूमिषु ॥ ५१ ॥

शिलास्वर्कांशुरूक्षासु मृद्वीषु ललनासु च ।
सम्पत्स्वापत्सु चोग्रासु रमणेषूत्सवेषु च ॥ ५२ ॥

अर्काशुरूक्षासु प्रतप्तासु कठनासु च । रमणेषु क्रीडनेषु ॥ ५२ ॥

विहरन्नपि नोद्वेगी नानन्दमुपगच्छति ।
नतर्मुक्तमना नित्यं कर्मकर्तेव तिष्ठति ॥ ५३ ॥

भारवहनादिकर्मकर्ता श्रान्तः पुरुषो भारोत्तारण इवान्तर्मुखमना
विश्रान्तिसुखमनुभवन्नदासीनस्तिष्ठतीत्यर्थः ॥ ५३ ॥

अयःसङ्कुचिताङ्गासु नरकारण्यभूमिषु ।
परस्परेरितानन्तकुन्ततोमरवृष्टिषु ॥ ५४ ॥

अयोयन्त्रैः सङ्कुचिताङ्गासु माण्डव्यस्येव प्रारब्धशेषोपनीतासु
नरकारण्यभूमिषु ॥ ५४ ॥

न बिभेति न वादत्ते वैवश्यं न च दीनताम् ।
समः स्वस्थमना मौनी धीरस्तिष्ठति शैलवत् ॥ ५५ ॥

वैवश्यं व्याकुलताम् ॥ ५५ ॥

अपवित्रमपथ्यं च विषसिक्तं मलाद्यपि ।
भुक्त्वा जरयति क्षिप्रं क्लिन्नं नष्टं च मृष्टवत् ॥ ५६ ॥

मलादि गोमयाद्यपि । क्लिन्नं सार्द्रीभूतम् । नष्टं गतरसमपि । मृष्टं
परिष्कृतमन्नं तद्वत् ॥ ५६ ॥

बिम्बप्रतिविषाकल्कक्षीरेक्षुसलिलान्धसाम् ।
असक्तबुद्धिस्तत्त्वज्ञो भवत्यास्वादने समः ॥ ५७ ॥

सद्योबुद्धिहरत्वेन प्रसिद्धस्य बिम्बफलस्य प्रतिविषाणां
विषप्रायाणामाकल्कानां सर्वतः कषायाणां क्षीरस्येक्षोः सलिलस्य अन्धस
ओदनस्य च आस्वादने विषयसमस्तुल्यचित्तो भवतीत्यर्थः ॥ ५७ ॥

मैरेयमदिराक्षीररक्तमेदोरसासवैः ।
रूक्षास्थितृणकेशान्तैर्न हृष्यति न कुप्यति ॥ ५८ ॥

रक्षःपिशाचादिष्वपि जीवन्मुक्तानां सम्भवात्तत्साधारण्येनाह -
मैरेयेति ॥ ५८ ॥

जीवितस्यापि हर्तारं दातारं चैकरूपया ।
दृशा प्रसादमाधुर्यशालिन्या परिपश्यति ॥ ५९ ॥

तस्य शत्रुमित्रयोरपि समदृष्टिमाह - जीवितस्येति । जीवितस्य दातारमित्यपि
सम्बन्धः ॥ ५९ ॥

स्थिरास्थिरशरीरेषु रम्यारम्येषु वस्तुषु ।
न हृष्यति ग्लायति वा सदा समतयेद्धया ॥ ६० ॥

स्थिरेषु चिरस्थायिषु देवादिशरीरेष्वस्थिरेषु मर्त्यादिशरीरेषु च । रम्यारम्येषु
तद्भोग्यवस्तुषु च । समतया इद्धया दीप्तया ॥ ६० ॥

मुक्तास्थत्वादनास्थेयरूपत्वाज्जगतः स्थितौ ।
नूनं विदितवेद्यत्वान्नीरागत्वात्स्वचेतसः ॥ ६१ ॥

चेतसो नीरागत्वाद्विदितवेद्यत्वाच्च हेतोर्जगत् स्थितौ मुक्तास्थत्वाद्विषयाणां च
मिथ्यात्वेन आस्थायामयोग्यरूपत्वाच्च अक्षस्य विषयस्थितौ प्रसरं सदा
विचाररससेवनात्कदाचिदपि न ददाति । कस्यचिदपि न ददातीति द्वयोरन्वयः ॥ ६१ ॥

न कस्यचिन्नो कदाचिदक्षस्य विषयस्थितौ ।
ददाति प्रसरं साधुराधिप्रोज्झितया धिया ॥ ६२ ॥

अतत्त्वज्ञमविश्रान्तमलब्धात्मानमस्थितम् [अस्थितिं इति
पाठः] ।
निगिरन्तीन्द्रियाण्याशु हरिणा इव पल्लवम् ॥ ६३ ॥

किं तर्हि इन्द्रियाणि निगिरन्ति तमाह - अतत्त्वज्ञमिति द्वाभ्याम् ॥ ६३ ॥

उह्यमानं भवाम्भोधौ वासनावीचिवेल्लितम् ।
निगिरन्तीन्द्रियग्राहा महाक्रन्दपरायणम् ॥ ६४ ॥

विचारिणं भव्यपदं विश्रान्तिधियमात्मनि ।
न हरन्ति विकल्पौघा जलौघा इव पर्वतम् ॥ ६५ ॥

लोभादिविकल्पा अप्यात्मज्ञं न चालयन्तीत्याह - विचारिणमित्यादिना ॥ ६५ ॥

सर्वसङ्कल्पसीमान्ते विश्रान्ता ये परे पदे ।
तेषां लब्धस्वरूपाणां मेरुरेव तृणायते ॥ ६६ ॥

जगज्जरत्तृणलवो विषं चामृतमेव च ।
क्षणः कल्पसहस्रं च सममाततचेतसाम् ॥ ६७ ॥

आततचेतसां पूर्णात्माकारविस्तृतचित्तानाम् ॥ ६७ ॥

संविन्मात्रं जगदिति मत्वा मुदितबुद्धयः ।
संविन्मयत्वादन्तस्थजगत्का विहरन्त्यमी ॥ ६८ ॥

सर्वस्य जगत आन्तरप्रत्यङ्मात्रत्वदर्शनादन्तस्थजगत्काः ॥ ६८ ॥

संविन्मात्रपरिस्पन्दे जागते वस्तुपञ्जरे ।
किं हेयं किमुपादेयमिह तत्त्वविदां मतम् ॥ ६९ ॥

संविदेवेदमखिलं भ्रान्तिमन्यां त्यजानघ ।
संविन्मयवपुः स्फारं किं जहाति किमीहते ॥ ७० ॥

ईहते इच्छति । उपादत्ते इति यावत् ॥ ७० ॥

यदेतज्जायते [जीयते इति पाठश्चिन्त्यः]
भूमेर्भविष्यत्पल्लवाङ्कुरम् ।
तत्संविदेव प्रथते तथा तत्त्वाङ्कुरस्थितम् ॥ ७१ ॥

अतीते स्पृहाया अदर्शनादज्ञहरिणस्पृहणीयं वर्तमानं भूमेः
सकाशाद्यत्पल्लवाङ्कुरप्रायं विषयजातं जायते यच्च भविष्यत्तत्सर्व
तत्त्वज्ञ दृशा यथा संविदेव प्रथते तथा वियदादितत्त्वाङ्कुरमिव स्थितं
शब्दस्पर्शादिविषयान्तरमपीत्यर्थः ॥ ७१ ॥

आदावन्ते च यन्नास्ति वर्तमानेऽपि तस्य च ।
कञ्चित्काललवं दृष्टा सत्तासौ संविदो भ्रमः ॥ ७२ ॥

उक्तार्थसिद्धौ युक्तिमाह - आदाविति । चकारस्त्वर्थे । तस्य वर्तमाने मध्ये
कञ्चित्काललवं दृष्टा संविदो भ्रम एवेत्यर्थः ॥ ७२ ॥

इति मत्वा धियं त्यक्त्वा भावाभावानुपातिनीम् ।
निःसङ्गसंविद्भारूपो भव भावान्तमागतः ॥ ७३ ॥

इति उक्तमर्थ मत्वा मननेन दृढीकृत्य भावाभावविकल्पानुपातिनीं
धियं त्यक्त्वा ॥ ७३ ॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
कर्म कुर्वन्नकुर्वन्वा निःसङ्गः सन्न लिप्यते ॥ ७४ ॥

केवलैरासङ्गदोषशून्यैः । कुर्वन्व्युत्थानकाले । अकुर्वन्समाधिकाले ॥ ७४ ॥

गतसङ्गेन मनसा कुर्वन्नपि न लिप्यते ।
सुखदुःखैर्महाबाहो मनोरथदशास्विव ॥ ७५ ॥

मनोरथदशासु मनोराज्यविभवेषु नष्टेष्वनष्टेषु वा यथा
सुखदुःखैर्न लिप्यते तद्वत् ॥ ७५ ॥

गतसङ्गां मतिं कुर्वन्कुर्वन्नप्यङ्गयष्टिभिः ।
न लिप्यते सुखैर्दुःखैर्मनोरथदशास्विव ॥ ७६ ॥

अकर्त्रभोक्रात्मदर्शनेन मतिं गतसङ्गां कुर्वन् । अङ्गयष्टिभिः
शरीराद्युपकरणैः कुर्वन्व्यवहरन्नपि ॥ ७६ ॥

गतसङ्गमना दृष्ट्या पश्यन्नपि न पश्यति ।
एतदन्यस्थचित्तत्वाद्वालेनाप्यनुभूयते ॥ ७७ ॥

अन्यस्थचित्तत्वादिति अन्यव्यासक्तचित्तत्वात्पश्यन्नपि न पश्यतीत्येतद्बालेन
अपिशब्दादन्यैश्च सर्वैरनुभूयत इत्यर्थः । अन्यत्रमना अभूवं
नादर्शमन्यत्रमना अभूवं नाश्रौषम् इति श्रुतिरप्यत्र संवादिनीति भावः
॥ ७७ ॥

गतसङ्गमना जन्तुः पश्यन्नेव न पश्यति ।
न शृणोत्यपि शृण्वंश्च न स्पृशत्यपि च स्पृशन् ॥ ७८ ॥

न जिघ्रत्यपि सञ्जिघ्रन्नुन्मिषन्निमिषन्नपि ।
पदार्थे च पतत्येव बलात्पतति नाप्ययम् ॥ ७९ ॥

उन्मिषन्नेत्रे उन्मीलयन्नपि निमिषन्ननुन्मीलयन्नेव । एवं कर्मेन्द्रियगणे च
पदार्थे स्वस्वविषये संस्कारबलात्पतत्यपि सति अयं न पतति ॥ ७९ ॥

देशान्तरस्थचेतोभिरेतदात्मगृहस्थितैः ।
अप्रौढमतिभिः साधु मूर्खैरप्यनुभूयते ॥ ८० ॥

एतत्पश्यतोऽप्यदर्शनादिदेशान्तरस्थचेतोभिरन्यत्र गतमानसैरात्मनः
स्वस्य गृहे स्थितैर्मूर्खैः पामरैरप्रौढमतिभिर्बालपश्वादिभिश्च
साधु सम्यगनुभूयत इति नात्र विवाद इत्यर्थः ॥ ८० ॥

सङ्गः कारणमर्थानां सङ्गः संसारकारणम् ।
सङ्गः कारणमाशानां सङ्गः कारणमापदाम् ॥ ८१ ॥

तथाच संसक्तिपूर्वकं पदार्थदर्शनमेव
बन्धहेतुर्नासंसक्तचित्तस्येत्याशयेनाह - सङ्ग इति ॥ ८१ ॥

सङ्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता ।
सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ ॥ ८२ ॥

मोक्षं वर्तमानदेहादिसम्बन्धनिवृत्तिम् । अजन्मता
भाविदेहादिबन्धनिवारणमिति भेदः ॥ ८२ ॥

श्रीराम उवाच ।

सर्वसंशयनीहारशरन्मारुत हे मुने ।
सङ्गः कुमुच्यते ब्रूहि समासेन मम प्रभो ॥ ८३ ॥

किमिति सामान्ये नपुंसकम् । प्रश्नः स्पष्टः ॥ ८३ ॥

श्रीवसिष्ठ उवाच ।

भावाभावे पदार्थानां हर्षामर्षविकारदा ।
मलिना वासना यैषा सा सङ्ग इति कथ्यते ॥ ८४ ॥

इष्टानिष्टपदार्थानां भावाभावे संयोगे वियोगे च हर्षामर्षविकारदा
रागादिवासनैव सङ्ग इति कथ्यते इत्यर्थः ॥ ८४ ॥

जीवन्मुक्तशरीरणामपुनर्जन्मकारिणी ।
मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना ॥ ८५ ॥

तामसङ्गाभिधां विद्धि यावद्देहं च भाविनी ।
त * * *? त्क्रियते कर्म न तद्बन्धाय वै पुनः ॥ ८६ ॥

यावद्देहं प्रारभशेषक्षयपर्यन्तम् ॥ ८६ ॥

अजीवन्मुक्तरूपाणां दीनानां मूढचेतसाम् ।
युक्ता [युक्तामर्थविषादाभ्यां इति पाठः] हर्षविषादाभ्यां
बन्धनी वासना भवेत् ॥ ८७ ॥

सैवोक्ता सङ्गशब्देन पुनर्जननकारिणी ।
तया यत्क्रियते कर्म तद्बन्धायैव केवलम् ॥ ८८ ॥

एवं रूपं परित्यज्य सङ्गं स्वात्मविकारदम् ।
यदि तिष्ठसि निर्व्यग्रः कुर्वन्नपि न लिप्यसे ॥ ८९ ॥

निर्व्यग्रः स्वस्थः ॥ ८९ ॥

हर्षामर्षविषादाभ्यां यदि गच्छसि नान्यताम् ।
वीतरागभयक्रोधस्तदसङ्गोऽसि राघव ॥ ९० ॥

समाहारद्वन्द्वगर्भेतरेतरयोगद्वन्द्वविवक्षणाद्धर्षामर्षविषादाभ्याम्
इति द्विवचनम् । अन्यतां वैरूप्यम् ॥ ९० ॥

दुःखैर्न ग्लानिमायासि यदि हृष्यसि नो सुखैः ।
आशावैवश्यमुत्सृज्य तदसङ्गोऽसि राघव ॥ ९१ ॥

आशया वैवश्यं पारवश्यम् ॥ ९१ ॥

विहरन्व्यवहारेषु सुखदुःखदशासु च ।
न विमुञ्चसि सत्साम्यं तदसङ्गोऽसि राघव ॥ ९२ ॥

सत्साम्यं ब्रह्मैकरस्यं न विमुञ्चसि यदीत्यनुषङ्गः ॥ ९२ ॥

संवेद्यो यदि चैवात्मा वेदिते लक्ष्यते समः ।
यथाप्राप्तानुवर्ती च तदसङ्गोऽसि राघव ॥ ९३ ॥

आत्मा चित्तस्वभावः ॥ ९३ ॥

असङ्गतामनायासाज्जीवन्मुक्तस्थितिं स्थिराम् ।
अवलम्ब्य समः स्वस्थो वीतरागो भवानघ ॥ ९४ ॥

जीवन्मुक्तमतिर्मौनी निगृहीतेन्द्रियग्रहः ।
अमानमदमात्सर्यमार्यस्तिष्ठति विज्वरम् ॥ ९५ ॥

निगृहीताः इन्द्रियलक्षणा गृह्णन्ती * *? हाः पाशा येन ॥ ९५ ॥

सदा समग्रेऽपि हि वस्तुजाले
समाशयोऽप्यन्तरदीनसत्त्वः ।
व्यापारमात्रात्सहजात्क्रमस्थान्न
किञ्चिदप्यन्यदसौ करोति ॥ ९६ ॥

भोगविक्षेपादिहेतौ वस्तुजाले सदा समग्रे प्रचुरतरे सत्यपि समाशयः ।
अन्तर्बहिरप्यदीनं स्पृहा याञ्चादिदैन्यवर्जितं सत्त्वं यस्य
स्ववर्णाश्रमोचितसहजक्रमस्थाद्व्यापारमात्रादन्यत्किञ्चिदप्यसौ न करोति ॥
९६ ॥

यदेव किञ्चित्प्रकृतं क्रमस्थं
कर्तव्यमात्मीयमसौ तदेव ।
संसर्गसम्बन्धविहीनयैव
कुर्वन्न खेदं रमते धियान्तः ॥ ९७ ॥

संसर्गः क्रियाभिनिवेशः सम्बन्धः फलाभिलाषस्तद्विहीनयैव धिया अन्तः
स्वात्मनि रमते ॥ ९७ ॥

अथापदं प्राप्य सुसम्पदं वा
महामतिः स्वप्रकृतं स्वभावम् ।
जहाति नो मन्दरवेल्लितोऽपि
शौक्ल्यं यथा क्षीरमयाम्बुराशिः ॥ ९८ ॥

स्वं स्वीयं प्रकृतं पूर्वसिद्धं
शान्तिदान्तिप्रसादसमदर्शनादिस्वभावं नो जहाति । यथा मन्दरेण वेल्लितो
मथितोऽपि क्षीरमयाम्बुराशिः सहजं शौक्ल्यं न जहाति तद्वत् ॥ ९८ ॥

सम्प्राप्य साम्राज्यमथापदं वा
सरीसृपत्वं सुरनाथतां वा ।
तिष्ठत्यखेदोदयमस्तहर्षं
क्षयोदयेष्विन्दुरिवैकरूपः ॥ ९९ ॥

आपदं दारिद्र्यादि । सरीसृपत्वं डुण्डुभादियोनिम् । अखेदोदयं अस्तहर्षं
चेति स्थितिक्रियाविशेषणे । क्षयोदयेषु कलानामुपचयापचयकालेषु
उदयास्तमयकालेषु वा ॥ ९९ ॥

निरस्तसंरम्भमपास्तभेदं
प्रशान्तनानाफलवल्गुवेषम् ।
विचारयात्मानमदीनसत्त्वो
यथा भवस्युत्तमकार्यनिष्ठः ॥ १०० ॥

दर्शितलक्षणजीवन्मुक्तिसुखप्राप्तौ रागद्वेषभेदवासनाक्षयाभ्याससहित
आत्मविचार एवोपाय इति तमेव रामायोपदिशन्नुपसंहरति - निरस्तेति ।
संरम्भः क्रोधः । त्रीण्यपि क्रियाविशेषणानि । यथा येन विचारेण
उत्तमकार्यमवश्यसम्पाद्यं चरमपुरुषार्थस्तन्निष्ठो भवसि तथा
विचारयेत्यर्थः ॥ १०० ॥

तयोदितप्रसरविलासशुद्धया
गतज्वरं पदमवलम्बयामलम् ।
धियेद्धया पुनरिह जन्मबन्धनै-
र्न बध्यसे समधिगतात्मदृश्यया ॥ १०१ ॥

तया विचारणया उदितप्रसरस्य समाधेर्विलासेन सर्ववासनाक्षयाच्छुद्धया
समधिगतमात्मरूपं दृश्यमवश्यद्रष्टव्यं वस्तु यया तथाविधया
अत-एव अविद्यातत्कार्यदाहक्षमतया इद्धया दीप्तया धिया गतज्वरं
निर्दुःखनिरतिशयानन्दरूपं परमपदमवलम्बय अध्यास्व । तदवलम्बने
पुरावृत्तिशङ्कावारणायाह - पुनरिहेति ।
तस्मात्तत्त्वसाक्षात्कारेणैवाविद्यातत्कार्यसर्वानर्थोपशमनान्नित्यनिरतिशया
नन्दस्वरूपे प्रतिष्ठेति सिद्धम् ॥ १०१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते
द्वात्रिंशत्साहस्र्यां संहितायां मोक्षोपायेषु उपशमप्रकरणे
समदर्शनं नाम त्रिनवतितमः सर्गः ॥ ९३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
समदर्शनं नाम त्रिनवतितमः सर्गः ॥ ९३ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमत्सर्वज्ञसरस्वती##-
श्रीमदानन्दबोधेन्द्रसरस्वत्याख्यभिक्षुणा विरचिते
श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणं
सम्पूर्णम् ॥

॥ समाप्तमिदं उपशमप्रकरणम् ॥