द्विनवतितमः सर्गः ९२
श्रीराम उवाच ।
एतानि तानि प्रोक्तानि त्वया बीजानि मानद ।
कतमस्य प्रयोगेण शीघ्रं तत्प्राप्यते पदम् ॥ १ ॥
इहोक्तस्थितिभेदेषु यत्नगौरवलाघवम् ।
वासनादिक्षयज्ञानसहाभ्यास उदीर्यते ॥ १ ॥
एतानि तानि पूर्वोक्तानि संसृतिव्रततेर्देहादीनि बीजानि त्वयोक्तानि तेषां
कतमस्योपायस्य प्रयोगेण निवृत्त्या परमं पदं प्राप्यते इत्यर्थः । अथवा
एतानि सन्निहितानि अथास्याः संविदो राम सन्मात्रं बीजमुच्यते इत्यादिना यानि
भूमिकाभेदरूपाणि मोक्षबीजानि त्वयोक्तानि तेषु कतमस्य प्रयोगेण
आश्रयणेन ॥ १ ॥
श्रीवसिष्ठ उवाच ।
एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् ।
तस्य तस्य प्रयोगेण शीघ्रमासाद्यते पदम् ॥ २ ॥
तत्र प्रथमव्याख्यानुसारेणोत्तरमाह - एतेषामिति ॥ २ ॥
सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि ।
पौरुषेण प्रयत्नेन बलात्सन्त्यज्य वासनाम् ॥ ३ ॥
द्वितीयानुसारेणाप्याह - सत्तेत्यादिना । सत्तासामान्यं
शोधिततत्पदार्थस्तस्य कोटिः पराकाष्ठा तत्स्थे
चिद्रूपशोधितत्वम्पदार्थैक्येनाखण्डैकरसे पदे स्थितिं निश्चलतां चित्तस्य
बध्नासि चेदिति परेणान्व्यः ॥ ३ ॥
स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् ।
क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम् ॥ ४ ॥
किं भावनयैव नेत्याह - तत्त्वज्ञेति । तत्त्वतः साक्षात्कृत्येति यावत् ॥ ४ ॥
सत्तासामान्यरूपे वा करोषि स्थितिमङ्ग चेत् ।
तत्किञ्चिदधिकेनेह यत्नेनाप्नोषि तत्पदम् ॥ ५ ॥
तत्राशक्तावप्याह - सत्तेति । शोधिते जगत्कारणतत्त्वे इत्यर्थः । किञ्चिदिति ।
अखण्डैक्यबोधे यत्नापेक्षणादिति भावः ॥ ५ ॥
संवित्तत्त्वे कृतध्यानो यदि तिष्ठसि चानघ ।
तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम् ॥ ६ ॥
संवित्तत्त्वे शोधितत्वम्पदार्थे । समानं पूर्वेण ॥ ६ ॥
संवेद्ये केवले ध्यानं न सम्भवति राघव ।
सर्वत्र सम्भवादस्याः संवित्तेरेव सर्वदा ॥ ७ ॥
ननु शोधनेन संविदंशस्य हाने संवेद्यांशस्यैव ध्यानमप्युपायः
किं न स्यादिति चेदशक्यत्वादित्याह - संवेद्ये इति । संवेद्येभ्यः पुरः
स्फुरन्त्याः संविदः पिधातुमशक्यत्वात्तत्पिधाने
संवेद्यस्फूर्तेरेवाभावेन तद्ध्यानायोगाच्चेति भावः ॥ ७ ॥
यच्चिन्तयसि यद्यासि यत्तिष्ठसि करोषि च ।
तत्र तत्र स्थिता संवित्संविदेव तदेव सा ॥ ८ ॥
चिन्तनचिन्तनीयादीनां संविदधीनसिद्धिकत्वं दर्शयति - यदिति ।
यच्चिन्तयसि तत्संविदेव । या चिन्ता सापि संविदेव ।
संवित्तत्त्वकत्वात्सर्वस्येत्यर्थः ॥ ८ ॥
वासनासम्परित्यागे यदि यत्नं करोषि च ।
तत्ते शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात् ॥ ९ ॥
उपायान्तरमाह - वासनेति । चकारान्मनोनाशे च । तत्तर्हि ॥ ९ ॥
पूर्वेभ्यस्तु [पूर्वोक्तेभ्यः प्रयत्नेभ्यो इति टीकाकुत्सम्मतः
पाठः] प्रयत्नेभ्यो विषमोऽयं हि संस्मृतः ।
दुःसाध्यो वासनात्यागः सुमेरून्मूलनादपि ॥ १० ॥
किमसौ पूर्वोक्तेभ्यः सुगमो नेत्याह - पूर्वोक्तेभ्य इति ॥ १० ॥
यावद्विलीनं न मनो न तावद्वासनाक्षयः ।
न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति ॥ ११ ॥
असुकरत्वमुपपादयितुं परस्पराधीनतामाह - यावदिति ॥ ११ ॥
यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः ।
यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् ॥ १२ ॥
एवं तत्त्वज्ञानेनापि सह परस्पराश्रयता अनयोरस्तीत्याह - यावदिति ॥ १२ ॥
यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः ।
यावन्न तत्त्वसम्प्राप्तिर्न तावद्वासनाक्षयः ॥ १३ ॥
तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च ।
मिथः कारणतां गत्वा दुःसाध्यानि स्थितान्यतः ॥ १४ ॥
तस्माद्राघव यत्नेन पौरुषेण विवेकिना ।
भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाश्रयेत् ॥ १५ ॥
कस्तर्हि तत्सिद्धावुपाय इति चेद्वैराग्यपूर्वकं सहैव त्रयाणामभ्यास इत्याह
- तस्मादिति ॥ १५ ॥
सर्वथा [सर्व एते इति पाठः] ते समं यावन्न स्वभ्यस्ता
मुहुर्मुहुः ।
तावन्न पदसम्प्राप्तिर्भवत्यपि समाशतैः ॥ १६ ॥
समं युगपत् । समाशतैर्वर्षशतैः ॥ १६ ॥
वासनाक्षयविज्ञानमनोनाशा महामते ।
समकालं चिराभ्यस्ता भवन्ति फलदा मुने ॥ १७ ॥
एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् ।
तन्न सिद्धिं प्रयच्छन्ति मन्त्राः सङ्कीलिता इव ॥ १८ ॥
सङ्कीलिता मूर्च्छामरणादिमन्त्रशास्त्रोक्तदोषैः प्रतिबद्धाः ॥ १८ ॥
चिरकालोपरचिता अप्येते सुधियापि च ।
एकशः परमभ्येतुं न शक्ताः सैनिका इव ॥ १९ ॥
उपरचिताः सेवादिना वशीकृत्य स्वकार्ये उद्योजिताः । परं शत्रुं
परमात्मानं च अभिमुखतया एतुं गन्तुम् । सैनिकाः सेनाभटा इव ॥ १९ ॥
सममुद्योगमानीताः सन्त एते हि धीमता ।
संसाराब्धिं निकृन्तन्ति जलान्यद्रितटानिव ॥ २० ॥
जलानि पूरात्मना मिलितानि ॥ २० ॥
वासनाक्षयविज्ञानमनोनाशाः प्रयत्नतः ।
समं सेव्यास्तव चिरं तेन तात न लिप्यसे ॥ २१ ॥
न लिप्यसे अलेपके स्वभावे स्थास्यसि ॥ २१ ॥
त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः ।
निःशेषमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव ॥ २२ ॥
हृदयग्रन्थयः अन्तःकरणतद्धर्मतादात्म्यसंसर्गाध्यासाः त्रुट्यन्ति
च्छिद्यन्ते । गुणास्तन्तव इव ॥ २२ ॥
जन्मान्तरशताभ्यस्ता राम संसारसंस्थितिः ।
सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥ २३ ॥
ननु त्रयाणामपि चिराभ्यासः किमर्थं तत्राह - जन्मान्तरेति । शतशब्द
आनन्त्ये । संसारसन्ततिर्द्वैतवासना ॥ २३ ॥
गच्छन्शृण्वन्स्पृशञ्जिघ्रंस्तिष्ठञ्जाग्रत्स्वपंस्तथा ।
श्रेयसे परमायास्य त्रयस्याभ्यासवान्भव ॥ २४ ॥
वासनासम्परित्यागसमं प्राणनिरोधनम् ।
विदुस्तत्त्वविदस्तस्मात्तदाप्येवं समाहरेत् ॥ २५ ॥
त्रिभिः सह चतुर्थः प्राणायामोऽप्यभ्यसनीय इत्याह - वासनेति ।
समाहरेदभ्यसेत् ॥ २५ ॥
वासनासम्परित्यागाच्चित्तं गच्छत्यचित्तताम् ।
प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ॥ २६ ॥
प्राणायामचिराभ्यासैर्युक्त्या च गुरुदत्तया ।
आसनाशनयोगेन प्राणस्पन्दो निरुद्ध्यते ॥ २७ ॥
योगाभ्यासकुशलगुरूपदिष्टयुक्त्या स्वस्तिकाद्यासनजयेन
हितमितमेध्याशनैर्यमनियमादियोगेन चेत्यर्थः ॥ २७ ॥
यथाभूतार्थदर्शित्वाद्वासना न प्रवर्तते ।
आदावन्ते च वस्तूनामविसंवादि यत्स्थितम् ॥ २८ ॥
सर्ववस्तूनामादावन्ते चकारान्मध्ये च अविसंवादि अविप्रलम्भि
यत्सन्मात्ररूपं स्थितं स एव यथाभूतार्थस्तद्दर्शित्वादित्यर्थः ॥ २८ ॥
रूपं तद्दर्शनं ज्ञानं क्षीयते तेन वासना ।
निःसङ्गव्यवहारित्वाद्भवभावनवर्जनात् ॥ २९ ॥
निःसङ्गं बहिर्मुखजनसङ्गरहितं निःसङ्कल्पं च यथा
प्राप्तव्यवहारशीलत्वात् । भवभावनानि सांसारिकमनोरथास्तेषां वर्जनात् ॥
२९ ॥
शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ।
वासनाविभवे नष्टे न चित्तं सम्प्रवर्तते ॥ ३० ॥
वासनालक्षणे विभवे धनसञ्चये नष्टे सति लज्जयेव न प्रवर्तते ॥ ३० ॥
संशान्ते पवनस्पन्दे यथा पांसुर्नभस्तले ।
यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि ॥ ३१ ॥
पांसोरिव चित्तस्यापि पवनाधीनस्पन्दत्वादिति भावः ॥ ३१ ॥
तस्माज्जगति जायन्ते पांसवोऽवकारादिव ।
प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः ॥ ३२ ॥
अवकरात्पांसुराशेरिव ॥ ३२ ॥
उपविश्योपविश्यैकचित्तकेन मुहुर्मुहुः ।
अथवैनं क्रमं त्यक्त्वा चित्ताक्रमणमेव चेत् ॥ ३३ ॥
हठयोगाभ्यासाशक्तौ राजयोगोऽभ्यसनीय इत्याह - अथवेति ॥ ३३ ॥
रोचते तत्तदाप्नोषि कालेन बहुना पदम् ।
न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ॥ ३४ ॥
बहुनेति । दुर्दान्तस्य चित्तस्याल्पकालाभ्यासेन वशीकर्तुमशक्यत्वादिति भावः ।
युक्तिं अध्यात्मविद्यासाधुसङ्गसहितं दर्शितं द्विविधं योगं विना ॥ ३४ ॥
अङ्कुशेन विना मत्तं यथा दुष्टं मतङ्गजम् ।
अध्यात्मविद्याधिगमः साधुसङ्गम एव च ॥ ३५ ॥
तदेवाह - अध्यात्मेति ॥ ३५ ॥
वासनासम्परित्यागः प्राणस्पन्दनिरोधनम् ।
एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥ ३६ ॥
याभिस्तज्जीयते क्षिप्रं धाराभिरिव भूरजः ।
सतीषु युक्तिष्वेतासु हठान्नियमयन्ति ये ॥ ३७ ॥
यद्यपि प्राणसंरोधनं दुर्दान्तदमनोपायत्वाद्धठ एव तथापि
सच्छास्त्रगुरूपदिष्टमार्गरहितोऽन्ये
चोपवेशनशयनकायशोषणमन्त्रयन्त्रश्मशानसाधनादिसाहसरूपा
हटा अत्र निवार्यन्त इति बोध्यम् ॥ ३७ ॥
चेतस्ते दीपमुत्सृज्य विनिघ्नन्ति तमोऽञ्जनैः ।
विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् ॥ ३८ ॥
ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ।
चित्तं चित्तस्य वाऽदूरं संस्थितं स्वशरीरकम् ॥ ३९ ॥
उक्तलक्षणां चतुर्विधां युक्तिं समुत्सृज्य उपायान्तरेण चित्तं
चित्तसन्निहितं शरीरं ये साधयन्ति स्थिरीकर्तु यतन्ते तान्पुरुषान् हठान्
वृथाश्रमान्विदुः साम्प्रदायिका इत्यर्थः ॥ ३९ ॥
साधयन्ति समुत्सृज्य युक्तिं ये तान्हठान्विदुः ।
भयाद्भयमुपायान्ति क्लेशात्क्लेशं व्रजन्ति ते ॥ ४० ॥
किञ्च तेषां सच्छास्त्रमार्गविभ्रंशादनर्थपरम्परैव फलति न
चित्तादिजय इत्याह - भयादिति ॥ ४० ॥
निर्धृतिं नाधिगच्छन्ति दुर्भगा इव जन्तवः ।
भ्रमन्ति गिरिकूटेषु फलपल्लवभोजनाः ॥ ४१ ॥
निर्धृतिं सम्यग्धैर्यविश्रान्तिम् । दुर्भगाः पापिनो जन्तव इव ॥ ४१ ॥
मुग्धमुग्धधियो भीता वराका हरिणा इव ।
मतिरालूनशीर्णाङ्गी तदीया पेलवाङ्गिका ॥ ४२ ॥
न क्वचिद्याति विश्वासं मृगी ग्रामगता यथा ।
कल्लोलकलितं चेतस्तेषां जल इवाऽहिते ॥ ४३ ॥
आऽहिते भयस्थाने । अहिते इति वा च्छेदः ॥ ४३ ॥
प्रोह्यते प्रपतद्दूरं तृणं गिरिनदीष्विव ।
कालं यज्ञतपोदानतीर्थदेवार्चनभ्रमैः ॥ ४४ ॥
प्रोह्यते रागादिना बलान्नीयते दूरम् । प्रपत्तद्विषयानुपातिस्वभावम् ।
निश्चितमोक्षफलकधर्ममेघाख्यसमाध्यभ्यासं विहाय
बहुक्लेशाल्पफलकसन्दिग्धमोक्षफलकयज्ञदानाद्यनुष्ठानमपि
क्लेशमात्रमिति प्रकृतप्रशंसार्थमाह - कालमित्यादिना । कालं चिरं
क्षपयन्तीति सम्बन्धः ॥ ४४ ॥
चिरमाधिशतोपेताः क्षपयन्ति मृगा इव ।
आत्मतत्त्वं विधिवशात्कदाचित्केचिदेव ते ॥ ४५ ॥
दुःखदोषशतादग्धा विदन्ति न विदन्ति वा ।
आगमापायिनोऽनित्या नरकस्वर्गमानुषैः ॥ ४६ ॥
यतः दुःखानां रागादिदोषाणां च शतैरादग्धाः अतो न विदन्ति विदन्ति वा ।
अनित्या एकत्रास्थिराः । नरकस्वर्गमानुषैर्भोगभेदैर्निमित्तैः पातोत्पातकरा
आकारा देहभेदा येषां तथाविधा भूत्वा क्षीयन्ते मरणादिना पीड्यन्ते ॥ ४६ ॥
पातोत्पातकराकाराः क्षीयन्ते कन्दुका इव ।
इतो गच्छन्ति नरकं ततः स्वर्गमिहैव च ॥ ४७ ॥
इहैव दंशमशकादिजन्मावृत्तिभिर्निवर्तन्ते परिवर्तन्ते ॥ ४७ ॥
आवृत्तिभिर्निवर्तन्ते सरसीव तरङ्गकाः ।
तस्माच्चैतां परित्यज्य दुर्दृष्टिं रघुनन्दन ॥ ४८ ॥
एतां वर्णितहटादिलक्षणाम् ॥ ४८ ॥
शुद्धां संविदमाश्रित्य वीतरागः स्थिरो भव ।
ज्ञानवानेव सुखवान्ज्ञानवानेव जीवति ।
ज्ञानवानेव बलवांस्तस्माज्ज्ञानमयो भव ॥ ४९ ॥
आश्रित्य ज्ञात्वा ॥ ४९ ॥
संवेद्यवर्जितमनुत्तममाद्यमेकं
संवित्पदं विकलनं कलयन्महात्मन् ।
हृद्येव तिष्ठ कलनारहितः क्रियां तु
कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः ॥ ५० ॥
विकलनं निर्विकल्पं निर्वासनं निर्विकारं च कलना चेतसो बाह्योन्मुखता
तद्रहितस्तन्निरोधशीलः सन् हृदि हार्दे ब्रह्मण्येव तिष्ठ । व्युत्थानकाले तु
यथोचितां क्रियां कुर्वन्नपि असङ्गशमेन उदिता श्रीः
प्रागुक्तजीवन्मुक्तगुणसम्पद्यस्य तथाविधः सन् अकर्तृपदमेत्य
तिष्ठेत्यर्थः ॥ ५० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे संसृतिनिराकरणक्रमयोगोपदेशो
नामद्विनवतितमः सर्गः ॥ ९२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
संसृतिनिराकरणक्रमयोगोपदेशो नाम द्विनवतितमः सर्गः ॥ ९२ ॥