९१

एकनवतितमः सर्गः ९१

श्रीराम उवाच ।

परमाकाशकोशाद्रिरूढलोकान्तरद्रुमम् ।
तारकापुष्पशबलं देवसुरविहङ्गमम् ॥ १ ॥

संसृतिव्रततेर्बीजं शरीरं तस्य मानसम् ।
प्राणस्पदो वासना च तद्बीजे इति वर्ण्यते ॥ १ ॥

ब्रह्मण्यध्यस्ते चतुर्दशभुवनाकारे जगति प्रसृताया जीवसंसरणलताया
बीजपरम्परावधि मूलोच्छेदोपायजिज्ञासया प्रष्टुकामो रामः प्रथमं
जगद्वनत्वेन वर्णयति - परमेत्यादिना । परमाकाशकोशस्य
निर्विशेषब्रह्मणोऽद्रिवदवरोधकत्वादद्रौ अव्याकृते रूढानि लोकान्तराणि
विचित्रभुवनब्रह्माण्डभेदा एव द्रुमा वृक्षा यस्मिन् । एवं
तारकापुष्पशबलमित्यादिविशेषणान्यपि वनरूपकोपपादकानि ॥ १ ॥

विद्युन्मञ्जरितोपान्तनीलनीरदपल्लवम् ।
सर्वर्तुरम्यचन्द्रार्कगणरम्यकदन्तुरम् ॥ २ ॥

विद्युद्भर्मञ्जरितेषु सञ्जातमञ्जरीकेषु दिक्शाखाग्रेषु नीलादिवर्णा नीरदा
मेघा एव पल्लवास्ताम्रहरितादिवर्णपर्णानि यस्मिन् ।
चन्द्रार्कग्रहगणलक्षणै रम्यकैर्विकासरमणीयैः
पुष्पैर्दन्तुरमुन्नतदन्तं प्रहसदिव स्थितम् ॥ २ ॥

सप्ताब्धिवापीवलितं सरिच्छतमनोहरम् ।
चतुर्दशविधानन्तभूतजातोपजीवितम् ॥ ३ ॥

लोकभेदाच्चतुर्दशविधैः प्रत्येकमनन्तैर्भूतजातैरुपजीवितम् ॥ ३ ॥

जगत्काननमाक्रम्य स्थितायाः कृतजालकम् ।
ब्रह्मन्संसृतिमृद्वीकालताया वितताकृतेः ॥ ४ ॥

ईदृशं जगत्काननमाक्रम्य वासनाप्रतानैः सर्वतः संवेष्ट्य
कृतजालकं यथा स्यात्तथा स्थितायाः संसृतिर्जीवसंसरणं तल्लक्षणाया
मृद्वीका द्राक्स्।आ तल्लतायाः ॥ ४ ॥

जरामरणपर्वायाः सुखदुःखफलावलेः ।
आरूढमूलमालाया [प्ररूढेति पाठः] मोहसेकजलाञ्जलेः ॥ ५ ॥

जरामरणान्येव पर्वाणि काण्डग्रन्थयो यस्याः । पर्वशब्दः अकारान्तोऽपि
क्वचिदस्ति । मोहा एव सेकजलाञ्जलयो यस्याः ॥ ५ ॥

किं बीजमथ बीजस्य तस्य किं बीजमुच्यते ।
अथ तस्यापि किं बीजं बीजं तस्यापि किं भवेत् ॥ ६ ॥

बीजपरम्पराचतुष्टयप्रश्नः ॥ ६ ॥

सर्वमेतत्समासेन पुनर्बोधविवृद्धये ।
सिद्धये ज्ञानसारस्य वद मे वदतांवर ॥ ७ ॥

श्रीवसिष्ठ उवाच ।

अन्तर्लीनघनारम्भशुभाशुभमहाङ्कुरम् ।
संसृतिव्रततेर्बीजं शरीरं विद्धि राघव ॥ ८ ॥

अन्तर्लिङ्गदेहे लीनानि प्रच्छन्नानि घनारम्भाणि विचित्रानन्तकार्यारम्भकाणि
शुभाशुभकर्माण्येव महान्तोऽङ्कुरा यस्मिन् ॥ ८ ॥

शाखाप्रतानगहना फलपल्लवशालिनी ।
तेनेयं भवति स्फीता शरदीव वसुन्धरा ॥ ९ ॥

इयं संसृतिव्रततिस्तेन तादृशशरीरेण स्फीता अभिवृद्धा भवति ।
वसुन्धरा सस्यसम्पदेति शेषः ॥ ९ ॥

भावाभावदशाकोशं दुःखरत्नसमुद्गकम् ।
बीजमस्य शरीरस्य चित्तमाशावशानुगम् ॥ १० ॥

तस्य किं बीजमुच्यते इति द्वितीयप्रश्नस्योत्तरमाह - भावेति । भावो
विभवोपचयः । अभावस्तदपक्षयः । आशायाः वशं सदनुगं
भृत्यभूतम् ॥ १० ॥

चित्तादिदमुदेत्युच्चैः सदसच्चाङ्गजालकम् ।
तथा चैतत्स्वयं स्वप्नसम्भ्रमेष्वनुभूयते ॥ ११ ॥

सद्वर्तमानमसदतीतानागतं च अङ्गजालकं शरीरजातम् ।
चित्ताच्छरीरोद्भवे स्वाप्नानुभवं प्रमाणयति - तथा चैतदिति ॥ ११ ॥

यथा गन्धर्वसङ्कल्पात्पुरमेवं हि चेतसः ।
सवातायनमाकारभासुरं जायते वपुः ॥ १२ ॥

यथा गन्धर्वाणां मुमूर्षोरुत्पादितप्रदर्शनसङ्कल्पाच्चेतसः
सकाशादेव पुरं जायते तद्वद्वपुः शरीरमित्यर्थः ॥ १२ ॥

यदिदं किञ्चिदाभोगि जागतं दृश्यतां गतम् ।
रूपं तच्चेतसः स्फारं घटादित्वं मृदो यथा ॥ १३ ॥

किञ्च नात्रासम्भावना युक्ता सर्वस्य जगतो
हैरण्यगर्भमनोविकारमात्रत्वस्य सर्वश्रुतिपुराणप्रसिद्धत्वादित्याह -
यदिदमिति ॥ १३ ॥

द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः ।
एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥ १४ ॥

अथ तस्यापि किं बीजमिति तृतीयप्रश्नस्योत्तरमाह - द्वे इति । दृढा
भावना वासना ॥ १४ ॥

यदा प्रस्पन्दते प्राणो नाडीसंस्पर्श्नोद्यतः ।
तदा संवेदनमयं चित्तमाशु प्रजायते ॥ १५ ॥

आद्यमुपपादयति - यदेति । संवेदनमयं चिद्विकारप्रायम् ॥ १५ ॥

यदा न स्पन्दते प्राणः शिरासरणिकोटरे ।
असंवित्तिवशात्तेन चित्तमन्तर्न जायते ॥ १६ ॥

शिरासरणयो द्वासप्ततिसहस्रनाडीमार्गास्तेषां कोटरे छिद्रे ।
असंवित्तिर्बाह्यसंवेदनसंस्कारानुद्बोधस्तद्वशात् ॥ १६ ॥

प्राणस्पन्दनमेवेदं चित्तद्वारेण दृश्यते ।
जगन्नामागतं व्योम्नि नीलत्वादिवदीदृशम् ॥ १७ ॥

हैरण्यगर्भचितो जगदाकारभावोऽपि समष्टिप्राणस्पन्दनप्रयुक्त एवेति
स्वचित्तस्पन्ददृष्टान्तेन लक्ष्यत इत्याह - प्राणेति । दृश्यते लक्ष्यते ॥ १७ ॥

प्राणस्पन्दनसुप्ता च तच्छान्तिः शान्तिरुच्यते ।
प्राणसंस्पन्दनासंविद्याति वीटेव चोदिता ॥ १८ ॥

एवं समष्टिप्राणस्पन्दनविषये सुप्ता उपरता तस्याश्चितः शान्तिर्निष्क्रियतैव
शान्तिर्जगत्प्रलयो मोक्षो वा उच्यत इत्यर्थः । वीटा कन्दुकः । चोदिता कराभिहता
॥ १८ ॥

संव्त्स्फुरति देहेषु प्राणस्पन्दप्रबोधिता ।
चक्रावर्तैरङ्गणेषु वीटेव करताडिता ॥ १९ ॥

सती सर्वगता संवित्प्राणस्पन्देन बोध्यते ।
सूक्ष्मात्सूक्ष्मतराकारा गन्धलेखेव वायुना ॥ २० ॥

संवित्संरोधने श्रेयः परमं विद्धि राघव ।
कारणाक्रमणं यत्र क्षोभस्तत्र न विद्यते ॥ २१ ॥

संविदः संरोधनमविक्षिप्तता । श्रेयो मोक्षः क्षोभकारऽनस्य
प्राणस्पन्दस्य आक्रमणं प्राणायामाभ्यासेन नाशः ॥ २१ ॥

संवित्समुदितैवाशु याति संवेद्यमादरात् ।
संवेदनादनन्तानि ततो दुःखानि चेतसः ॥ २२ ॥

किमर्थ संरोधः संविदश्चित्ताकारेण समुद्भवे को दोषस्तत्राह -
संविदिति । संवेद्यं बाह्यविषयं प्रति आदराद्रागाद्याति । ततश्च
तदुपभोगसंवेदनादनन्तानि दुःखानीत्यर्थः ॥ २२ ॥

संसुप्तान्तरबोधाय संवित्सन्तिष्ठते यदा ।
लब्धं भवति लब्धव्यं तदा तदमलं पदम् ॥ २३ ॥

यदा तु बाह्यविषये संसुप्तप्राया सती आन्तरस्यात्मनो बोधाय सन्तिष्ठते
उद्युक्ता भवति तदेत्यर्थः ॥ २३ ॥

तस्मात्प्राणपरिस्पन्दैर्वासनाचोदनैस्तथा ।
नो चेत्संविदमुच्छूनां करोषि तदजो भवान् ॥ २४ ॥

प्राप्तपरिस्पन्दैर्वासनानां चोदनै रागातिशयेनोद्भावनैश्च
संविदमुच्छूनां मूढा यथा कुर्वन्ति तथा न करोषि चेत् । अथवा परिरत्र
वर्जने । प्राणानां परिस्पन्दैः स्पन्दवर्जनैर्वासनानां
चोदनैरपनोदनैश्च संविदं
नोच्छूनामुच्छूनताप्रयुक्तमनस्त्वापत्तिशून्यां करोषि चेत्तत्तर्हि भवानजो
जन्मादिसर्वविक्रियाशून्यो मुक्त एवासीत्यर्थः ॥ २४ ॥

संविदुच्छूनतां चित्तं विद्धि तेनेदमाततम् ।
अनर्थजालमालूनविशीर्णजनजीवकम् ॥ २५ ॥

आलूनाः खण्डिता विशीर्णा झर्झरिताश्च जनजीवका येन ॥ २५ ॥

योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् ।
प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः ॥ २६ ॥

योगशास्त्रोक्तैः
सद्गुरुसम्प्रदायादिसिद्धयुक्तिकल्पितैस्तदुपायाभ्यासप्रयोगैः ॥ २६ ॥

चित्तोपशान्तिफलदं परमं साम्यकारणम् ।
सुभगं संविदः स्वास्थ्यं प्राणसंरोधनं विदुः ॥ २७ ॥

प्राणसंरोधनमेव फलामेदरूपेण प्रशंसति - चित्तेति ॥ २७ ॥

ज्ञानवद्भिः प्रकटितामनुभूतां च राघव ।
चित्तस्योत्पत्तिमपरां वासनाजीवितां शृणु ॥ २८ ॥

चित्तस्य बीजान्तरं वर्णयितुं प्रतिजानीते - ज्ञानवद्भिरिति । प्रकटितां
सम्यगुपदिष्टां स्वयं चानुभूताम् । वासनाभिराजीवितामुज्जीविताम् ॥ २८ ॥

दृढभावनया त्यक्तपूर्वापरविचारणम् ।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ २९ ॥

तत्रादौ वासनास्वरूपमाह - दृढेति । प्राक्तन्या दृढभावनया
देहादिपदार्थानामहम्ममेत्यादिरूपसंस्कारात्मना यदादानं
तच्चेत्त्यक्तपूर्वापरविचारणं भवति तदा सा वासयति देहादिभावेनात्मानं
भावयतीति व्युत्पत्त्या वासना प्रकीर्तितेत्यर्थः । तथाच पूर्वापरविचारवतां
जीवन्मुक्तानां देहादिसंस्कारो न वासनाविरोधिविचारास्कन्दितत्वेन् तेषां
देहादिभावेन वासयितुमशक्यत्वादिति भावः ॥ २९ ॥

भावितस्तीव्रसंवेगादात्मना यत्तदेव सः ।
भवत्याशु महाबाहो विगतेतरसंस्मृतिः ॥ ३० ॥

अज्ञात्मनस्तु विरोधाभावात्तीव्रसंवेगभावनादार्ढ्येन [वेग इति पदं
क्वचिन्न पठ्यते] देहादिभावे वासयितुं शक्नोत्येवेत्याशयेनाह -
भावित इति ॥ ३० ॥

तादृग्रूपः स पुरुषो वासनाविवशीकृतः ।
यत्पश्यति तदेतत्तत्सद्वस्त्विति विमुह्यति ॥ ३१ ॥

सा देहादावात्मतामिव बाह्यार्थे सत्तामपि दर्शयतीत्याह - तादृगिति ।
वसतीति वस्तु । तदात्मसत्तया वासयतीति वासनेति व्युत्पत्तेस्तत्रापि सम्भवादिति
भावः ॥ ३१ ॥

वासनावेगवैवश्यात्स्वरूपं प्रजहाति तत् ।
भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव ॥ ३२ ॥

तत् वासनोपस्थापितं जगद्रूपं सर्वम् ॥ ३२ ॥

असम्यग्ज्ञानवानेव भवत्याधिपरिप्लुतः ।
अन्तस्थया वासनया विषेणेव वशीकृतः ॥ ३३ ॥

त्यक्तपूर्वापरविचारणमित्यस्य व्यावर्त्यमाह - असम्यगित्यादिना ॥ ३३ ॥

असम्यग्दर्शनं यस्मादनात्मन्यात्मभावनम् ।
यदवस्तुनि वस्तुत्वं तच्चित्तं विद्धि राघव ॥ ३४ ॥

सैव चितश्चित्तभावेन [चितः इति मुद्रितपुस्तके न लभ्यते]
वासनाप्रयुक्ता उत्पत्तिरित्याशयेनाह - असम्यगिति ॥ ३४ ॥

दृढाभ्यासपदार्थैकवासनादतिचञ्चलम् ।
चित्तं सञ्जायते जन्मजरामरणकारणम् ॥ ३५ ॥

यदा न वास्यते किञ्चिद्धेयोपादेयरूपि यत् ।
स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥ ३६ ॥

अत-एव वासनानाशाच्चितः स्वास्थ्यलक्षणा मुक्तिरित्याह - यदेति । न
वास्यते न सत्तां प्राप्यते ॥ ३६ ॥

अवासनत्वात्सततं यदा न मनुते मनः ।
अमनस्ता तदोदेति परमोपशमप्रदा ॥ ३७ ॥

यदा किञ्चिन्न संवित्तौ स्फुरत्यभ्रमिवाम्बरे ।
तदा पद्म इवाकाशे चित्तमन्तर्न जायते ॥ ३८ ॥

आकाशे पद्ममिव अन्तः चिति चित्तं न जायते ॥ ३८ ॥

यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि ।
तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते ॥ ३९ ॥

एतावन्मात्रकं मन्ये रूपं चित्तस्य राघव ।
यद्भावनं वस्तुनोऽन्तर्वस्तुत्वेन रसेन च ॥ ४० ॥

रसेन रागेण ॥ ४० ॥

न किञ्चित्कल्पनायोग्यं दृश्यं भावयतस्ततः ।
आकाशकोशस्वच्छस्य कुतश्चित्तोदयो भवेत् ॥ ४१ ॥

कल्पनाया युक्तिभिः समर्थनाया अयोग्यम् ॥ ४१ ॥

यदभावनमास्थाय यदभावस्य भावनम् ।
यद्यथावस्तुदर्शित्वं तदचित्तत्वमुच्यते ॥ ४२ ॥

इदानीमचित्ततां लक्षयति - यदिति । अभावनं बाह्यार्थास्मरणं
निरोधयोगमस्थाय सर्वदृश्यमार्जनलक्षणस्य अभावस्य यत्सम्पादकं
परमार्थात्मदर्शनाविर्भूतस्वरूपं तदित्यर्थः ॥ ४२ ॥

सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत् ।
वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् ॥ ४३ ॥

तर्हि जीवन्मुक्तानां सवृत्तिके चित्ते सति कथमचित्तत्वं तत्राह - सर्वमिति ।
नहि दग्धपटाभासेन सपटत्वं वक्तुं शक्यमिति भावः ॥ ४३ ॥

वासनाया रसाध्यानाद्रागो यस्य न विद्यते ।
तस्य चित्तमचित्तत्वं गतं सत्त्वं तदुच्यते ॥ ४४ ॥

विषयरसानामाध्यानप्रयुक्तो रागो रञ्जना । पटभस्मेव
परिशिष्टमधिष्ठानं सत्त्वं तदुच्यत इत्यर्थः ॥ ४४ ॥

घना न वासना यस्य पुनर्जननकारिणी ।
जीवन्मुक्तः स सत्त्वस्थश्चक्रभ्रमवदास्थितः ॥ ४५ ॥

तर्हि जीवन्मुक्तः कथं व्यवहारमास्थित इति
चेत्कृतकार्यकुलालचक्रभ्रमवदित्याह - घनेति ॥ ४५ ॥

भृष्टबीजोपमा येषां पुनर्जननवर्जिता ।
वासनारसनिर्हीना जीवन्मुक्ता हि ते स्थिताः ॥ ४६ ॥

सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः ।
अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः ॥ ४७ ॥

देहान्ते प्रारब्धक्षये । तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये इति
श्रुतेरिति भावः ॥ ४७ ॥

द्वे बीजे राम चित्तस्य प्राणस्पन्दनवासने ।
एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥ ४८ ॥

ननु वासनाबीजनाशेपि बीजान्तराच्चित्तोदयः किं न स्यात्तत्राह - द्वे इति ॥ ४८ ॥

मिथः कारणमेते हि बीजे जन्मनि चेतसः ।
जलाङ्गीकरणे राम जलाशयघटाविव ॥ ४९ ॥

चेतसो जन्मनि एते मिथो मिलिते कारणं नैकैकमित्यर्थः । यथा घटाकाशेन
जलाङ्गीकरणे जलाशयो घटश्च मिलितौ कारणं नैकैकं तद्वत् ॥ ४९ ॥

घना न वासना यस्य पुनर्जननकारिणी ।
बीजाङ्कुरवदेते हि संस्थिते तिलतैलवत् ॥ ५० ॥

घना वासना एकैव आयस्य बलात्कृत्य पुनर्जननकारिणी नेत्यर्थः । बीजं
तस्यापि किं भवेदिति चतुर्थप्रश्नस्याप्युत्तरमनवस्थां परिहरन्नाह -
बीजाङ्कुरवदिति । एते प्राणस्पन्दनवासने तिलेषु तैलवत्परस्परान्त स्थे तथा
बीजाङ्कुरन्यायेन कालाकाङ्क्षिक्रमे परस्परस्य कारणे इति परेणान्वयः ॥ ५०

अविनाभाविनी नित्यं कालाकाङ्क्षिक्रमे तथा ।
सर्वमुत्पादयत्येतच्चित्तकः संविदात्मकः ॥ ५१ ॥

एवं चित्तस्यापि तदुभय प्रति इन्द्रियसुखदुःखादिकं च प्रति कारणनास्तीत्याह

  • सर्वमिति ॥ ५१ ॥

यथाप्राणेन्द्रियानन्दमानन्दपवनावुभौ ।
चित्तस्योत्पादिके सार्धं यदैते वासने तदा ॥ ५२ ॥

यथाक्रमं प्रथमं प्राणं तत इन्द्रियाणि ततस्तत्प्रयुक्तमानन्दमिति
सर्वमित्यर्थः । एवं पूर्वोपभुक्तस्य विषयानन्दस्य तात्कालिकजीवनलक्षणस्य
पवनस्पन्दस्य च वासनात्मनापि चित्तोत्पादकत्वमस्तीत्याह -
आनन्दपवनाविति । यदा आनन्दपवनावुभौ वासने सम्पन्ने तदा सार्ध
मिलित्वा चित्तस्योत्पादिके इत्यन्वयः ॥ ५२ ॥

आमोदपुष्पवत्तैलतिलवच्च व्यवस्थिते ।
वासनावशतः प्राणस्पन्दस्तेन च वासना ॥ ५३ ॥

अतः परस्पराश्रयत्वं परस्परहेतुत्वं चानयोरुपपन्नमिति
नानवस्थादोषप्रसक्तिरित्याशयेनोक्तमेव पुनराह - आमोदेत्यादि ॥ ५३ ॥

जायते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ।
वाअनोत्प्लवमानत्वात्संवित्प्रक्षोभकर्मणा ॥ ५४ ॥

बीजाङ्कुरक्रमो जायते । उपपन्न इति यावत् । उभयोश्चित्तोत्पादकत्वप्रकारं
दर्शयति - वासनेति ॥ ५४ ॥

प्राणस्पन्दं बोधयति तेन चित्तं प्रजायते ।
प्राणः स्पन्दनधर्मित्वात्स्पन्दते स्पृष्टहृद्गुणः ॥ ५५ ॥

स्पृष्टा नुन्ना हृद्गुणा रागादिवासना येन ॥ ५५ ॥

संविदं बोधयंस्तेन चित्तबालः प्रजायते ।
एवं हि वासनाप्राणस्पन्दौ द्वौ तस्य कारणम् ॥ ५६ ॥

तयोरेकक्षये नाशो द्वयोश्चित्तस्य राघव ।
सुखदुःखमनःस्पन्दं शारीरकबृहत्फलम् ॥ ५७ ॥

अत-एव एकस्मिंश्च तयोः क्षीणे इति प्रागुक्तमुपपन्नमित्याह - तयोरिति ।
द्वयोस्तत्कार्यचित्तस्य च नाश इत्यर्थः । चित्तमेव वृक्षत्वेन वर्णयंस्तस्य
वासनाक्षयादुन्मूलनमाह - सुखेत्यादिना । सुखदुःखाकुलं मननं
मनस्तदेव स्पन्दो यस्य । शरीरमेव शारीरकम् ॥ ५७ ॥

कार्यपल्लविताकारं कृतिव्रततिवेष्टितम् ।
तृष्णाकृष्णाहिवलितं रागरोगब्कालयम् ॥ ५८ ॥

अज्ञानमूलं सुदृढं लीनेन्द्रियविहङ्गमम् ।
वासना क्षयमानीता चित्तवृक्षं क्षणेन हि ॥ ५९ ॥

क्षयमानीता वासना ईदृशं चित्तवृक्षं क्षणेन प्रपातयतीति
परेणान्वयः ॥ ५९ ॥

प्रपातयति वातौघः कालपक्वफलं यथा ।
पाण्डुरीकृतसर्वाशं स्थगिताखिलदर्शनम् ॥ ६० ॥

तदेव चित्तं वात्यारजःपुञ्जत्वेन रूपयंस्तस्य पवननिरोधादिव
प्राणस्पन्दनिरोधात्प्रविलयं दर्शयति - पाण्डुरीकृतेत्यादिना ।
पाण्डुरीकृतेत्यादिविशेषणानि श्लेषादिना उभयत्र योज्यानि । आशा दिशः
उपचारा तृष्णावन्तश्च । स्थगितमाच्छादितमखिलदर्शनं पूर्णचिद्रूपं
सर्वजननेत्रं च येन ॥ ६० ॥

विलोलजलदाकारमज्ञानावकरोत्थितम् ।
तृष्णातृणलवव्याप्तं स्तम्भाकृति शरीरकम् ॥ ६१ ॥

अवकर उत्करः । स्तम्भप्रायं शरीरकं प्रसिद्धं वात्यासंस्थानं च यस्य
॥ ६१ ॥

स्फुरत्तनु तनुक्षुभ्दं सुखमुत्प्लवनं प्रति ।
अन्तःस्थितमहालोकमपश्यत्प्रविलीयते ॥ ६२ ॥

स्फुरद्भिस्तनुतनुभिरल्पाल्पैर्वृत्तिभेदैर्वात्यापोतैश्च क्षुब्धम् । सर्वदिक्षु
उत्प्लवनं प्रति सुखं अनायासदक्षम् । अन्तः स्थितं महालोकं ब्रह्म
सौरालोकं च अपश्यत् द्रष्टुमक्षमम् । ईदृशं चित्तवात्यारजः
पवनस्पन्दरोधात् क्षणात्प्रविलीयत इत्यन्वयः ॥ ६२ ॥

पवनस्पन्दरोधाच्च राम चित्तरजः क्षणात् ।
वासनाप्राणपवनस्पन्दयोरनयोर्द्वयोः ॥ ६३ ॥

बीजान्तरमप्याह - वासनेति ॥ ६३ ॥

संवेद्यं बीजमित्युक्तं स्फुरतस्तौ यतस्ततः ।
हृदि संवेद्यमाप्यैव प्राणस्पन्दोऽथ वासना ॥ ६४ ॥

संवेद्यं प्रियाप्रियं शब्दादि । आप्य स्मृत्वा ॥ ६४ ॥

उदेति तस्मात्संवेद्यं कथितं बीजमेतयोः ।
संवेद्यसम्परित्यागात्प्राणस्पन्दनवासने ॥ ६५ ॥

समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः ।
संविदं विद्धि संवेद्यं बीजं धीरतया विना ॥ ६६ ॥

संविदभेदभावनमेव संवेद्यपरित्याग इत्याह - संविदमिति ।
तदेवोपपादयति - बीजमित्यादिना । संविदेव स्वीयां धीरतां परित्यज्य
संवेद्यमिव सम्पन्नं सत् चित्तबीजम् ॥ ६६ ॥

न सम्भवति संवेद्यं तैलहीनस्तिलो यथा ।
न बहिर्नान्तरे किञ्चित्संवेद्यं विद्यते पृथक् ॥ ६७ ॥

नहि संविदं विना संवेद्यं सम्भवति । प्रसिद्ध्यतीत्यर्थः ॥ ६७ ॥

संवित्स्फुरन्ती सङ्कल्पात्संवेद्यं पश्यति स्वतः ।
स्वप्ने यथात्ममरणं तथा देशान्तरस्थितिः ॥ ६८ ॥

चार्थे तथाशब्दः । यथा स्वप्ने आत्मनो मरणं देशान्तरस्थितिश्च
स्वचमत्कारयोगेनैव । जाग्रत्संवेद्यमपि संविदस्तथेत्युत्तरत्रान्वयः ॥ ६८ ॥

स्वचमत्कारयोगेन संवेद्यं संविदस्तथा ।
स्ववेदनं स्वसङ्कल्पात्संविदो यत्र वर्तते ॥ ६९ ॥

यत्र यस्यां विवेकदशायां स्वतत्त्ववेदनं वर्तते तत् स्वसंवेदनमपि
स्वसङ्कल्पादिजन्यं तथा स्वप्नवदेव । नह्यद्वये स्वसंवेदनं
विवेकविचारादयो वा परमार्थतः सम्भवन्तीति ॥ ६९ ॥

जगज्जालमतो भाति तदिदं रघुनन्दन ।
यथा बालस्य वेतालः स्वसङ्कल्पोद्भवाद्भवेत् [ससङ्कल्पोद्भवात् इति
पाठः] ॥ ७० ॥

स्वसङ्कल्पोद्भवाद्भ्रमात् ॥ ७० ॥

पुरुषत्वं यथा स्थाणोः संवेद्यं संविदस्तथा ।
यथा चन्द्रार्करश्मीनां दण्डता रेणुता तथा ॥ ७१ ॥

चन्द्रार्करश्मीनां वातायनप्रविष्टानां दण्डाकारता तदन्तरे
भ्रमत्त्रसरेण्वाकारता च भवेत्तथा ॥ ७१ ॥

यथा नौस्थाचलस्पन्दः संवेद्यं संविदस्तथा ।
एतन्मिथ्या हि दुर्ज्ञानं सम्यग्ज्ञानाद्विलीयते ॥ ७२ ॥

दुर्ज्ञानं भ्रान्तिज्ञानम् । विलीयते बाध्यते ॥ ७२ ॥

रज्ज्वामिव भुजङ्गत्वं द्वीन्दुत्वं स्वीक्षितादिव ।
शुद्धैव संवित्त्रिजगत्संवेद्यं नान्यदस्त्यलम् ॥ ७३ ॥

स्वीक्षितान्निर्दोषदर्शनादिव । सम्यग्ज्ञानं तर्हि कीदृशं तदाह -
शुद्धैवेति ॥ ७३ ॥

इत्यन्तर्निश्चयो रूढः सम्यग्ज्ञानं विदुर्बुधाः ।
पूर्वं दृष्टमदृष्टं वा यदस्याः प्रतिभासते ॥ ७४ ॥

तेन सम्मार्जनीयं यत्तद्दर्शयति - पूर्वमिति ॥ ७४ ॥

संविदस्तत्प्रयत्नेन मार्जनीयं विजानता ।
तदमार्जनमात्रं हि महासंसारसङ्गतम् ॥ ७५ ॥

महता संसारेण सङ्गतं सम्बन्ध आत्मनः ॥ ७५ ॥

तत्प्रमार्जनमात्रं तु मोक्ष इत्यनुभूयते ।
संवेदनमनन्ताय दुःखाय जननात्मने ॥ ७६ ॥

संवेदनं वेद्यदर्शनम् । जननात्मने जन्मादिरूपाय दुःखाय ॥ ७६ ॥

असंवित्तिरजाड्यस्था सुखायाजननात्मने ।
अजडो गलितानन्दस्त्यक्तसंवेदनो भव ।
असंवेद्यप्रबुद्धात्मा यस्तु स त्वं रघूद्वह ॥ ७७ ॥

असंवित्तिर्वेद्यादर्शनं अजाड्ये चिदेकरसस्वभावे प्रतिष्ठिता अजननात्मने
नित्यात्मस्वरूपाय यतो भवति अतस्त्वमपि त्यक्तसंवेदनः सन् अजडः गलित
एकरसीभूतः पूर्णानन्दो भवेत्यर्थः । यः असंवेद्योऽपि स्वतः प्रबुद्ध
आत्मा स एव त्वं भवसि नान्यः ॥ ७७ ॥

श्रीराम उवाच ।

अजडश्चाप्यसंवित्तिः कीड्र्शो भवति प्रभो ।
असंवित्तौ च जाड्यं तत्कथं वा विनिवर्तते ॥ ७८ ॥

जाड्यत्यागे संवेदनपरिशेषः संवेदनत्यागे जाड्यपरिशेषो वा
अवश्यम्भावीत्यजडः असंवित्तिश्चेति विरुद्धस्वभाव एकः कथं भवतीति
प्रश्नः । विरोधमेव स्फुटीकृत्य दर्शयति - असंवित्ताविति ॥ ७८ ॥

श्रीवसिष्ठ उवाच ।

यः सर्वत्रानवस्थास्थो विश्रान्तास्थो न कुत्रचित् ।
जीवो न विन्दते किञ्चिदसंविदजडो हि सः ॥ ७९ ॥

सं सत्यतया बाह्यार्थवेदनं संविदिति
व्युत्पत्तेर्बाधिताअर्थाभासैर्व्यवहाराभासं दर्शयन्नपि जीवन्मुक्तजीवः
सर्वत्र वर्तमानविषये अनवस्थितास्थः कुत्रचित् अतीतानागतविषये च
वासनाक्षयान्न विश्रान्तास्थ इति न किञ्चिद्वेद्यं विन्दत इति तदंशे
काष्ठलोष्टवदसंविदित्युच्यते । स्वतस्तु
स्वप्रकाशचिदेकरसपूर्णत्वादजडश्चेत्यर्थः ॥ ७९ ॥

संविद्वस्तुदृशालम्बः स यस्येह न विद्यते ।
सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि ॥ ८० ॥

संविच्छब्दस्य उक्तां व्युत्पत्तिं दर्शयन्नुक्तमेव समर्थयति - संविदिति
। वस्तुदृशा सत्यत्वबुद्ध्या चितो बाह्यार्थालम्बनमेव संविदित्युच्यत
इत्यर्थः । एतेन सर्वत्रानवस्थास्थ इति पदस्य तात्पर्यमुद्घाटितम् ॥ ८० ॥

संवेद्येन हृदाकाशो मनागपि न लिप्यते ।
यस्यासावजडा संविज्जीवन्मुक्तश्च कथ्यते ॥ ८१ ॥

विश्रान्तास्थो न कुत्रचिदित्यस्याप्यतीतविषये तात्पर्यमुद्घाटयंस्तदेवाह ##-

यदा न भाव्यते किञ्चिन्निर्वासनतयात्मनि ।
बालमूकादिविज्ञानमिव च स्थीयते स्थिरम् ॥ ८२ ॥

अनागतविषयेऽपि तस्य तमुद्घाटयति - यदेति द्वाभ्याम् ॥ ८२ ॥

तदा जाड्यविनिर्मुक्तमच्छवेदनमाततम् ।
आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते ॥ ८३ ॥

समस्तवासनात्यागी निर्विकल्पसमाधितः ।
नीलत्वमिव खात्स्फार आनन्दः सम्प्रवर्तते ॥ ८४ ॥

शङ्कां समाधाय प्रकृतं समर्थयन्नाह - समस्तेति ॥ ८४ ॥

योगिनस्तत्र तिष्ठन्ति संवेदनमसंविदः ।
तन्मयत्वादनाद्यन्तं तदप्यन्तर्विलीयते ॥ ८५ ॥

नन्वन्याकारसंवेदनाभावेपि ब्रह्माकारवृत्तिरूपं संवेदनं
समाधावपि दुर्वारमिति कथमसंवित्त्वं तत्राह - तन्मयत्वादिति ।
अनाद्यन्तमपरिच्छिन्नब्रह्माकारं तत्संवेदनमपि स्वेद्धेन ब्रह्मज्योतिषा
बाध्यमानं तदन्तरेव विलीयत इत्यर्थः ॥ ८५ ॥

गच्छंस्तिष्ठन्स्पृशञ्जिघ्रन्नपि तेन स उच्यते ।
अजडो गलितानन्दस्त्यक्तसंवेदनः सुखी ॥ ८६ ॥

एतां दृष्टिमवष्टभ्य कष्टया यत्नचेष्टया ।
तर दुःखाम्बुधेः पारमपारगुणसागर ॥ ८७ ॥

कष्टया प्राणायामादिश्रमसाध्यया ॥ ८७ ॥

यथा बीजाद्बृहद्वृक्षो व्योम व्याप्नोति कालतः ।
तथैवेदं स्वसङ्कल्पात्संवेद्यमसदुत्थितम् ॥ ८८ ॥

चिदात्मा स्वात्मनः स्वयमेव मिथ्याभूतं बन्धं मोक्षं कल्पयतीत्याह

  • यथेत्यादिना ॥ ८८ ॥

यदा सङ्कल्प्य सङ्कल्प्य संवित्स्वं विन्दते वपुः ।
तदास्य जन्मजालस्य सैव गच्छति बीजताम् ॥ ८९ ॥

कदा कथमुत्थितं तदाह - यदेति । सङ्कल्प्य सङ्कल्प्य पुनःपुनः
सङ्कल्पं कृत्वा स्वं साङ्कल्पिकं वपुः स्वरूपं यदा विन्दते तदा ॥ ८९ ॥

जनयित्वात्मनात्मानं मोहयित्वा पुनःपुनः ।
स्वयं मोक्षं नयत्यन्तः संवित्स्वं विद्धि राघव ॥ ९० ॥

अन्तः हृदिस्थं आत्मतत्त्वं वेत्तीति वित् पश्यत्सत् स्वयं क्वं मोक्षं नयति ।
हीति विद्वदनुभवप्रसिद्धौ ॥ ९० ॥

यदेव भावयत्येषा तदेव भवति क्षणात् ।
न भवद्भूमिकामुक्ता समायाति चिराद्वपुः ॥ ९१ ॥

तर्हि इदानीमेव सर्वेषां संवित् स्वात्मभावनया स्वस्वरूपं स्वैरं कुतो
नायाति तत्राह - नेति । भवन्तीति भवन्तो रागादयस्तद्भूमिकाभ्यः अमुक्ता
सती चिरादपि स्वं वपुर्नायाति ॥ ९१ ॥

देवो नासौ सुरो रक्षो यक्षः किं किन्नरो जनः ।
आत्मैवाद्यविलासिन्या जगन्नाट्यं प्रनृत्यति ॥ ९२ ॥

अत-एवास्य देवगन्धर्वादयः कल्पितवेषा न वास्तवा इत्याह - देव इति ।
आद्यया आदिसिद्धया विलासिन्या स्वमायया ॥ ९२ ॥

बद्ध्वात्मानं रुदित्वा च कोशकारकृमिर्यथा ।
चिरात्केवलतामेति स्वयं संवित्स्वभावतः ॥ ९३ ॥

यथा मायावी नटः आत्मानं बध्नन्निव मोचयन्निव दर्शयति तद्वदित्याह

  • बद्ध्वेति ॥ ९३ ॥

जगज्जलधिजालानां संविज्जलमलं गता ।
एषैवापूर्वदिक्चक्रं स्फुरत्यद्र्यादितां गता ॥ ९४ ॥

अलं पर्याप्तिं गता संविदेव जगज्जलधिजालानां जलम् । अपूर्वं दिक्चक्रं
दिङ्माण्डलमप्येषैव । अद्र्यादितां पर्वतादिभावमेषैव गता ॥ ९४ ॥

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
इत्यस्या वीचयः प्रोक्ताः संवित्सलिलसन्ततेः ॥ ९५ ॥

संविन्मात्रं जगत्सर्वं द्वितीया नास्ति कल्पना ।
इत्येव सम्यग्ज्ञानेन संविद्गच्छति नान्यताम् ॥ ९६ ॥

नान्यतामनन्यतामद्वयतामित्यर्थः ॥ ९६ ॥

यदा न विन्दते किञ्चित्स्पन्दते न न वेपते ।
स्वात्मन्येव स्थितिं याति संविन्नो लिप्यते तदा ॥ ९७ ॥

कदास्याः सम्यग्ज्ञानं भवति तत्राह - यदेति । किञ्चिच्चलनं स्पन्दः
सम्यक्कम्पनं वेपनमिति भेदः ॥ ९७ ॥

अथास्याः संविदो राम सन्मात्रं बीजमुच्यते ।
संविन्मात्रादुदेत्येषा प्राकाश्यमिव तेजसः ॥ ९८ ॥

एवं परिशोध्य परिशेषिता संविदन्तःकरणप्रतिबिम्बसंविदेवेति
श्रोतॄणां भ्रान्तिं वारयन्नग्निविस्फुलिङ्गन्यायेन तद्बीजभूतां
सन्मात्ररूपां ब्रह्मसंविदं दर्शयति - अथेति । एषा प्रतिबिम्बसंवित्
बिम्बभूतात्संविन्मात्ररूपाद्ब्रह्मणः सकाशादुदेति । यथा सूर्यादितेजसः
सकाशात्प्रकाश एव प्राकाश्यं प्रभा उदेति तद्वत् ॥ ९८ ॥

द्वे रूपे तत्र सत्ताया एकं नानाकृति स्थितम् ।
द्वितीयमेकरूपं तु विभागोऽयं तयोः शृणु ॥ ९९ ॥

सन्मात्रमित्युक्ते अर्थक्रियासामर्थ्यलक्षणं घटपटादिनिष्ठं
व्यावहारिकसत्त्वमेव तद्बीजं दर्शितमिति भ्रान्तिर्मा भूदिति तद्विलक्षणं
दर्शयितुं सत्ताद्वैविध्यमाह - द्वे रूपे इत्यादिना ॥ ९९ ॥

घटता पटता चैव त्वत्ता मत्तेति कथ्यते ।
सत्तारूपविभागेन यत्तन्नानाकृति स्थितम् ॥ १०० ॥

घटत्वपटत्वादयस्त्वत्तामत्ताद्युपाधयश्चार्थक्रियाभेदेषु
स्वरूपयोग्यतालक्षणा व्यावहारिकसत्ताविशेषा एवेत्याशयः ॥ १०० ॥

विभागं तु परित्यज्य सत्तैकात्मतया ततम् ।
सामान्येनैव सत्ताया रूपमेकमुदाहृतम् ॥ १०१ ॥

सामान्येन सर्वजगदधिष्ठानतालक्षणेन साधारणस्वभावेनैव ॥ १०१ ॥

विशेषं सम्परित्यज्य सन्मात्रं यदलेपकम् ।
एकरूपं महारूपं सत्तायास्तत्पदं विदुः ॥ १०२ ॥

पदं वस्तुतत्त्वम् ॥ १०२ ॥

रूपं नानाकृतित्वेन सत्ताया न कदाचन ।
असंवेद्यं सम्भवति तस्मादेतदवस्तुकम् ॥ १०३ ॥

व्यावहारिकसत्त्वं तु न वास्तवमित्याह - रूपमिति । यतस्तद्घटत्वादिरूपं
कपालचूर्णधूल्याद्यवस्थास्वसंवेद्यं नानुवर्तमानतया दृश्यते अतः
सत्यं न सम्भवतीत्यर्थः ॥ १०३ ॥

एकरूपं तु यद्रूपं सत्ताया विमलात्मकम् ।
न कदाचन तद्याति नाशं नापि च विस्मृतिम् ॥ १०४ ॥

सर्वावस्थानुगतं तु सद्रूपं न तथेत्याह - एकरूपमिति । नापि च
विस्मृतिमित्यनेन तस्य सदा स्फुरद्रूपतया नित्यचिदेकरसता दर्शिता ॥ १०४ ॥

कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि ।
विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव ॥ १०५ ॥

अतीतानागतेष्वस्तीति व्यवहारादर्शनाद्वर्तमानकाल एव सर्ववस्तूनां सत्तेति
केचित् । अवयवानामेव पुञ्जीभूयावयव्याकारेण स्फुरणात्कला अवयवा एव
परमाणुरूपा जगत्सत्तेत्यपरे । अवयविष्वप्यनुगता सत्ता जातिरन्यास्तीत्यपरे ।
एवमन्येऽप्यन्यथान्यथा स्वस्वबुद्ध्यनुसारेण कल्पयन्ति तत्कल्पितां
विभागकलनामित्यर्थः ॥ १०५ ॥

कालसत्ता स्वसत्ता च प्रोन्मुक्तकलना सती ।
यद्यप्युत्तमसद्रूपा तथाप्येषा न वास्तवी ॥ १०६ ॥

यद्यपि सर्वं जगदिव कालादिसत्ताप्यध्यस्तभेदकलनात्यागे
सन्मात्रपरिशेषादुत्तमसत्तैव तथापि विभक्तरूपेण बाधार्हत्वान्न
वास्तवीत्यर्थः ॥ १०६ ॥

विभागकलना यत्र विभिन्नपददायिनी ।
नानाताकारणं दृष्ट्वा तत्कथं पावनं भवेत् ॥ १०७ ॥

सत्तासामान्यमेवैकं भावयत्सकलं वपुः ।
परिपूर्णपरानन्दी तिष्ठाभरितदिग्भरः ॥ १०८ ॥

आ समन्ताद्भरिताः पूरिता दिग्भरा दिशस्तदाधेयसर्वपदार्थाश्च येन
सत्तासामान्यरूपेण तथाविधः सन् ॥ १०८ ॥

सत्ता सामान्यमात्रस्य या कोटिः कोविदेश्वर ।
सैवास्य बीजतां याता तत एव प्रवर्तते ॥ १०९ ॥

सामान्यमात्रस्य कोटिः परमावधिभूता या सत्ता सैव अस्य जगतः
प्रतिबिम्बचितश्च बीजतां याता ॥ १०९ ॥

सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम् ।
पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते ॥ ११० ॥

सत्तासामान्यस्य सर्वसत्तानां पर्यन्ते परावधौ ॥ ११० ॥

सत्ता लयं याति यत्र निर्विकारं च तिष्ठति ।
भूयो नावर्तते दुःखे तत्र लब्धपदः पुमान् ॥ १११ ॥

सत्ता सद्धर्मतापि यत्र धर्मधर्मिविभागविलयाल्लयं याति तत्र लब्धपदो यो
भवति स एव पुरुषार्थसाधनसमर्थत्वात्पुमान् । अन्यस्तु स्त्रीप्राय इति भावः ॥
१११ ॥

तद्धेतुः सर्वहेतूनां तस्य हेतुर्न विद्यते ।
संसारः सर्वसाराणां तस्मात्सारं न विद्यते ॥ ११२ ॥

तदेव परमपुरुषार्थतां दर्शयितुं प्रशंसति - तदित्यादिना ॥ ११२ ॥

तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः ।
इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥ ११३ ॥

सर्वे भावा इमे तत्र स्वदन्ते साधुवारिधेः [अत्र स्वादुवारिधेः इति
टीकाकृदभिमतः पाठः स एव समीचीनः] ।
षड्रसा इव जिह्वायाः प्रकटत्वं प्रयान्ति च ॥ ११४ ॥

तत्र तस्मिन्प्रत्यग्रूपे अध्यस्तत्वात्स्वदन्ते इन्द्रियप्रीतिं जनयन्ति ।
स्वादुवारिधेरानन्दसमुद्रात्तस्मादेव । प्रकटत्वं सत्तां स्फुर्तिं च ॥ ११४ ॥

तस्मादच्छतरस्यापि चिदाकाशस्य वै पदम् ।
सर्वेषां स्वादुजातीनामलमास्वादनं च तत् ॥ ११५ ॥

यस्मादस्वादुभूता अपि विषयास्तद्योगात्स्वदन्ते तस्मात्कारणात्तच्चिदाकाशस्य
पदं स्वरूपं सर्वेषां स्वादुजातीनामानन्दानां प्रियाणां च मध्ये
अलमत्यन्तमास्वादनमानन्दरूपं प्रियतमं चेत्यर्थः ॥ ११५ ॥

जायते वर्तते चैव वर्धते स्पृश्यतेऽथ वा ।
तिष्ठन्ति च गलन्तीह तत्राङ्ग जगतां गणाः ॥ ११६ ॥

तस्मिन्नेव आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति ।
आनन्दं प्रयन्त्यभिसंविशन्तीति
श्रुत्युक्तजगज्जन्मादिकारणत्वलक्षणसमन्वयं दर्शयति - जायते इति ।
वर्तते अस्ति स्पृश्यते विपरिणामेन । तिष्ठन्त्यपक्षयोन्मुखाः । श्रुतौ
जन्मादित्रयग्रहणं षड्भावविकारोपलक्षणमित्याशयः ॥ ११६ ॥

तत्तद्गुरु गरिष्ठानां तत्तल्लघु लघीयसाम् ।
तत्तत्स्थूलं स्थविष्ठानामणीयस्तदणीयसाम् ॥ ११७ ॥

गुरुलध्वादिवैचित्र्यस्यापि तदेव निर्वाहकमित्याशयेनाह - तत्तदिति ।
द्वितीयास्तच्छब्दाः प्रसिद्धिपराः ॥ ११७ ॥

दवीयसां दविष्ठं तदन्तिकानां तदन्तिकम् ।
कनीयसां कनीयस्तत्तज्ज्येष्ठं ज्यायसामपि ॥ ११८ ॥

दवीयसां दूरतराणां दविष्ठं दूरतमम् । दूरशब्दादिष्ठेयसुनोः
स्थूलदूर - इत्यादिना यणादिपरलोपः पूर्वस्य गुणश्च । एवं युवाल्पयोः
कन् प्रशस्यवृद्धयोर्ज्यादेशः ॥ ११८ ॥

तेजसामपि तत्तेजस्तमसामपि तत्तमः ।
वस्तूनामपि तद्वस्तु दिशामप्यङ्ग दिक्परा ॥ ११९ ॥

तन्न किञ्चिच्च किञ्चिच्च तत्तदस्तीव नास्ति च ।
तत्तदृश्यमदृश्यं च तत्तदस्मि न चास्मि च ॥ १२० ॥

न किञ्चिल्लोकप्रसिद्धम् । किञ्चिदल्पतरमपि प्रसिद्धं तदेव । अस्तीव
भावात्मकम् । नास्त्यभावात्मकम् । अस्मि प्रत्यक्तया । न चास्मि अहन्तया ।
द्वितीयश्चकारो मम न ममेति चानुक्तसमुच्चयार्थः ॥ १२० ॥

राम सर्वप्रयत्नेन तस्मिन्परमपावने ।
पदे स्थितिमुपायासि यथा कुरु तथानघ ॥ १२१ ॥

यथा उपायासि । वर्तमानसामीप्ये भविष्यति लट् । तथा कुरु ॥ १२१ ॥

तदमलमजरं तदात्मतत्त्वं
तदवगतावुपशान्तिमेति चेतः ।
अवगतविततैकतत्स्वरूपो
भवभयमुक्तपदोऽसि तच्चिराय ॥ १२२ ॥

आत्मनस्तत्त्वं पारमार्थिकरूपं तदेव । तस्य अवगतौ साक्षादनुभवे सति च
तत उपशान्तिं भाधमेति । अतस्त्वं यदा अवगतविततैकतत्स्वरूपो भवसि
तत्तदैव चिराय अपुनरावृत्तये भवभयमुक्तपरमपदस्वरूप
एवासीत्यर्थः ॥ १२२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे संसृतिबीजविचारयोगोपदेशो
नामैकनवतितमः सर्गः ॥ ९१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
संसृतिबीजविचारयोगोपदेशो नामैकनवतितमः सर्गः ॥ ९१ ॥