९०

नवतितमः सर्गः ९०

श्रीवसिष्ठ उवाच ।

यदा ह्यस्तङ्गतप्रायं जातं चित्तं विचारतः ।
तदा हि वीतहव्यस्य जाता मैत्र्यादयो गुणाः ॥ १ ॥

मैत्र्यादिगुणसम्पन्नस्तथा निष्कलतां गतः ।
द्विविधश्चित्तनाशोऽत्र विस्तरेणोपवर्ण्यते ॥ १ ॥

अस्तङ्गतप्रायं भर्जितबीजवदङ्कुरशक्त्या अस्तं गतम् प्रतिभासतस्तु नास्तं
गतमित्यर्थः ॥ १ ॥

श्रीराम उवाच ।

विचाराभ्युदयाच्चित्तस्वरूपेऽन्तर्हिते मुने ।
मैत्र्यादयो गुणा जाता इत्युक्तं किं त्वया प्रभो ॥ २ ॥

इति त्वया किं किमभिप्रायमुक्तम् ॥ २ ॥

ब्रह्मण्यस्तं गते चित्ते कस्य मैत्र्यादयो गुणाः ।
क्व वा परिस्फुरन्तीति वद मे वदतां वर ॥ ३ ॥

अस्तं गते बाधिते सति । कस्य किं बाधितस्य उत अधिष्ठानस्य क्व वा
किञ्चिदाभासे उत बिम्बचिति स्फुरन्ति । नहि बाधिताया मृगतृष्णानद्या
मरुभूमेर्वा शैत्यमाधुर्यपावनत्वादयो गुणाः सम्भवन्ति न वा
तद्भासकं किञ्चिदस्तीति भावः ॥ ३ ॥

श्रीवसिष्ठ उवाच ।

द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च ।
जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिजः ॥ ४ ॥

सरूपः स्फटिकभित्तिगतस्वप्रतिबिम्बे
पुरुषान्तरभ्रमाभासवत्प्रतिभासमानतद्रूपसहितस्तद्रहितश्च ॥ ४ ॥

चित्तसतेह दुःखाय चित्तनाशः सुखाय तु ।
चित्तसत्तं क्षयं नीत्वा चित्तं नाशमुपानयेत् ॥ ५ ॥

तामसैर्वासनाजालैर्व्याप्तं यज्जन्मकारणम् ।
विद्यमानं मनो विद्धि तद्दुःखायैव केवलम् ॥ ६ ॥

चित्तस्य सत्ता तर्हि कीदृशी तामाह - तामसैरिति । तामसैः
अबाधिताज्ञानप्रभवैः ॥ ६ ॥

प्राक्तनं गुणसम्भारं ममेति बहु मन्यते ।
यत्तु चित्तमतत्त्वज्ञं दुःखितं जीव उच्यते ॥ ७ ॥

प्राक्तनमनाद्यध्याससिद्धं देहेन्द्रिय विषयादेर्गुणसम्भारं
धर्मजातमात्मसंसर्गाध्यासान्ममेत्यभिमन्यते ॥ ७ ॥

विद्यमानं मनो यावत्तावद्दुःखक्षयः कुतः ।
मनस्यस्तं गते जन्तोः संसारोऽस्तमुपागतः ॥ ८ ॥

दुःखमूलमवष्टब्धमस्मिन्नेव विनिश्चलम् ।
विद्यमानं मनो विद्धि दुःखवृक्षवनाङ्कुरम् ॥ ९ ॥

अस्मिन्नज्ञजन्तावेव वासनाप्ररोहजालेरवष्टब्धं दृढप्रतिष्ठितं
विद्यमानं मनो दुःखतरोर्मूलं विद्धि । दुःखवृक्षवनस्य अङ्कुराः
प्ररोहा यस्मात्तथाविधम् ॥ ९ ॥

श्रीराम उवाच ।

नष्टं कस्य मनो ब्रह्मन्नष्टं वा कीदृशं भवेत् ।
कीदृशश्चास्य नाशः स्यात्सत्ता नाशस्य कीदृशी ॥ १० ॥

नाशस्य अभावतां गतस्य सत्ता विद्यमानता व्यवहारक्षमता कीदृशी
किंलक्षणा ॥ १० ॥

श्रीवसिष्ठ उवाच ।

चेतसः कथिता सत्ता मया रघुकुलोद्वह ।
अस्य नाशमिदानीं त्वं शृणु प्रश्नविदां वर ॥ ११ ॥

कथिता तामसैर्वासनाजालैः इत्यादिग्रन्थेन ॥ ११ ॥

सुखदुःखदशा धीरं साम्यान्न प्रोद्धरन्ति यम् ।
निःश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः ॥ १२ ॥

यं धीरं बाह्या आभ्यन्तरा वा सुखदशाः साम्यात्
समस्वभावपूर्णानन्दैकरसस्वात्मप्रतिष्ठायाः सकाशान्न प्रोद्धरन्ति न
चालयन्ति तस्य चित्तं मृतं नष्टं विदुः ॥ १२ ॥

अयं सोहमयं नाहमिति चिन्ता नरोत्तमम् ।
खर्वीकरोति यं नान्तर्नष्टं तस्य मनो विदुः ॥ १३ ॥

अयं सप्तवितस्तिमितो देहः स प्रसिद्धोऽहम् । अयं तदतिरिक्तः सर्वो नाहम् । इति
चिन्ता भावना यं न खर्वीकरोति । न परिच्छिनत्तीति यावत् ॥ १३ ॥

आपत्कार्पण्यमुत्साहो मदो मान्द्यं महोत्सवः ।
यं नयन्ति न वैरूप्यं तस्य नष्टं विदुर्मनः ॥ १४ ॥

वैरूप्यं मुखवैवर्ण्यम् ॥ १४ ॥

एष साधो मनोनाशो नष्टं चेह मनो भवेत् ।
चित्तनाशदशा चैषा जीवन्मुक्तस्य विद्यते ॥ १५ ॥

लक्षणोक्तिमुपसंहरति - एष इति ॥ १५ ॥

मनस्तां मूढतां विद्धि यदा नश्यति सानघ ।
चित्तनाशाभिधानं हि तदा सत्त्वमुदेत्यलम् ॥ १६ ॥

मनस्तां परमार्थताभ्रान्त्या दृश्यमननयोग्यताम् । सत्त्वं
शुद्धसत्स्वभावत्वम् ॥ १६ ॥

तस्य सत्त्वविलासस्य चित्तनाशस्य राघव ।
जीवन्मुक्तस्वभावस्य कैश्चिच्चित्ताभिधा कृता ॥ १७ ॥

कैश्चित्तद्व्यवहाराभासदर्शिभिः ॥ १७ ॥

मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् ।
भूयो जन्मविनिर्मुक्तं जीवन्मुक्तमनोऽनघ ॥ १८ ॥

तदेव सत्त्वं जीवन्मुक्तमनोमैत्र्यादिभिर्गुणैर्युक्तं भवति ॥ १८ ॥

व्याप्तं वासनया यत्स्याद्भूयो जननमुक्तया ।
जीवन्मुक्तमनाःसत्ता राम तत्सत्त्वमुच्यते ॥ १९ ॥

वासनया ब्रह्माकारवासनया । सत्त्वनाम्ना व्यवह्रियते ॥ १९ ॥

सम्प्रत्येवानुभूतत्वात्सत्त्वाप्त्या तन्वसंयुतः ।
सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते ॥ २० ॥

सम्प्रति व्युत्थानकाले । प्रतिभासतोऽनुभूतत्वात्सरूपः साकार इव सत्त्वस्य
सन्मात्रस्वभावस्याप्त्या प्राप्त्या च तन्वसंयुतो
देहादिपरिच्छेदमस्पृशन्मननीयाभावान्मनोनाशश्चासावित्यर्थः । अनेन
सत्ता नाशस्य कीदृशीति प्रश्नांशः समाहितः ॥ २० ॥

मैत्र्यादयोऽथ मुदिताः शशाङ्क इव दीप्तयः ।
जीवन्मुक्तमनोनाशे सर्वदा सर्वथा स्थिताः ॥ २१ ॥

अत-एव मैत्र्यादिगुणा अपि प्रतिभासतस्तत्रोपपन्ना इत्याह - मैत्र्यादय
इति । मुदिताः प्रसन्नाः ॥ २१ ॥

जीवन्मुक्तमनोनाशे सत्त्वनाम्नि हिमालये ।
वसन्त इव मञ्जर्यः स्फुरन्ति गुणसम्पदः ॥ २२ ॥

हिमस्य सन्तोषशैत्यस्य आलये ॥ २२ ॥

अरूपस्तु मनोनाशो यो मयोक्तो रघुद्वह ।
विदेहमुक्त एवासौ विद्यते निष्कलात्मकः ॥ २३ ॥

द्वितीयं मनोनाशं दर्शयति - अरूपस्त्विति ॥ २३ ॥

समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते ।
विदेहमुक्ते विमले पदे परमपावने ॥ २४ ॥

सत्त्वं प्रातिभासिकं मनः ॥ २४ ॥

विदेहमुक्तविषये तस्मिन्सत्त्वक्षयात्मके ।
चित्तनाशे विरूपाख्ये न किञ्चिदपि विद्यते ॥ २५ ॥

न किञ्चिदपि दृश्यम् । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स
भूमा इति श्रुतेरित्यर्थः ॥ २५ ॥

न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्न लोलता ।
न चोदयो नास्तमयो न हर्षामर्षसंविदः ॥ २६ ॥

उक्तमेव प्रपञ्चयति - न गुणा इत्यादिना ॥ २६ ॥

न तेजो न तमः किञ्चिन्न सन्ध्या दिनरात्रयः ।
न दिशो न च वाकाशो नाधो नानर्थरूपता ॥ २७ ॥

न वासना न रचना नेहानीहे न रञ्जना ।
न सत्ता नापि वाऽसत्ता नच साध्यं हि तत्पदम् ॥ २८ ॥

सत्ता भावः । असत्ता अभावः ॥ २८ ॥

अतमस्तेजसा व्योम्ना वितारेन्द्वर्कवायुना ।
तत्समं शरदच्छेन निःसन्ध्येनारजस्त्विषा ॥ २९ ॥

रजोभिस्त्विषा सूर्यज्योतिषा च रहितेन ॥ २९ ॥

ये हि पारं गता बुद्धेः संसाराचरणस्य [संसाराडम्बरस्य च इति
पाठः] च ।
तेषां तदास्पदं स्फारं पवनानामिवाम्बरम् ॥ ३० ॥

आस्पदं प्रतिष्ठा ॥ ३० ॥

संशान्तदुःखमजडात्मकमेव सुप्त-
मानन्दमन्थरमपेतरजस्तमो यत् ।
आकाशकोशतनवोऽतनवा महान्त-
स्तस्मिन्पदे गलितचित्तलवा वसन्ति ॥ ३१ ॥

अजडात्मकमेव सत् सुप्तमिवोन्मेषादिक्रियारहितम् । अतनवो विदेहमुक्ताः ।
तस्मिन्पद गलितः प्रातिभासिकचित्तलवओऽपि येषां तथाविधाः सन्तस्तस्मिन्पदे
वसन्ति । अपुनरावृत्त्या स्थिरीभवन्तीत्यर्थः ॥ ३१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे चितोपदेशविचारयोगोपदेशो नाम
नवतितमः सर्गः ॥ ९० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
चित्तोपदेशविचारयोगोपदेशो नाम नवतितमः सर्गः ॥ ९० ॥