एकोननवतितमः सर्गः ८९
श्रीवसिष्ठ उवाच ।
वीतहव्यवदात्मानं नीत्वा विदितवेद्यताम् ।
वीतरागभयोद्वेगस्तिष्ठ राघव सर्वदा ॥ १ ॥
अनिच्छाशान्तमोहानां नभोगत्यादिसिद्धिषु ।
श्वापदाद्यैरधृष्यत्वं तत्तनोश्चात्र कीर्त्यते ॥ १ ॥
आत्मानं स्वम् । नीवह्योर्हरतेश्च इति कात्यायनवचनाद्द्विकर्मता ॥ १ ॥
त्रिंशद्वर्षसहस्राणि विजहार यथासुखम् ।
वीतहव्यो वीतशोकस्तथा विहर राघव ॥ २ ॥
अन्ये च राजन्मुनयो ज्ञातज्ञेया महाधियः ।
यथावसन्स्वराष्ट्रे त्वं तथैवास्व महामते ॥ ३ ॥
सुखदुःखक्रमैरात्मा न कदाचन गृह्यते ।
सर्वगोऽपि महाबाहो किं मुधा परिशोचसि ॥ ४ ॥
बहवो विदितात्मानो विहरन्तीह भूतले ।
न केचन वशं यान्ति दुःखस्याङ्ग भवानिव ॥ ५ ॥
अङ्गेति सम्बोधनम् ॥ ५ ॥
स्वस्थो भव भवोदारः समो भव सुखी भव ।
सर्वगस्त्वं त्वमात्मैव तव नास्ति पुनर्भवः ॥ ६ ॥
उदारः अन्तः सर्वत्यागशीलः ॥ ६ ॥
हर्षामर्षविकाराणां जीवन्मुक्ता भवादृशाः ।
न केचन वशं यान्ति मृगेन्द्राः शिखिनामिव ॥ ७ ॥
शिखिनां मयूराणाम् ॥ ७ ॥
श्रीराम उवाच ।
अनेनैव प्रसङ्गेण संशयोऽयं ममोदितः ।
शरत्काल इवाम्भोदं तं मे त्वं तनुतां नय ॥ ८ ॥
जीवन्मुक्तशरीराणां कथमात्मविदां वर ।
शक्तयो नेह दृश्यन्ते आकाशगमनादिकाः ॥ ९ ॥
शरीराणामित्युक्तेः सति प्रारब्धे वीतहव्यस्य विद्याधरादिभोग इव मानस्यः
सिद्धयः सम्भवन्त्येवेत्याशयः ॥ ९ ॥
श्रीवसिष्ठ उवाच ।
आकाशगमनादीनि यान्येतानि रघूद्वह ।
प्रमाणिताः पदार्थानां सहजाः खलु शक्तयः ॥ १० ॥
प्रमाणिताः प्रमाणैरुपलब्धाः । ता अग्नेरूर्ध्वज्वलनमिव देवयोनीनां
स्वभावसिद्धाः ॥ १० ॥
यद्विचित्रं क्रियाजालं दृश्यते गम्यते पुनः ।
राम वस्तुस्वभावोऽसौ न तदात्मविदां मतम् ॥ ११ ॥
नभोगमनादिक्रियाजालं वस्तुस्वभावस्तत्तद्योनिदेहस्वभावः
मशकादीनामपि नभोगति शक्तिदर्शनादिति भावः । मतं वाञ्छितम् ॥ ११ ॥
अनात्मविदमुक्तोऽपि नभोविहरणादिकम् ।
द्रव्यकर्मक्रियाकालशक्त्या [व्याख्यानुसारेण मन्त्रक्रियेति पाठो
युक्त इत्यवगम्यते] प्राप्नोति राघव ॥ १२ ॥
तर्हि मनुष्याणां योगसिद्ध्या नभोगमनादिप्राप्तिः कथं तत्राह -
अनात्मविदिति । मण्यौषधादिद्रव्यशक्त्या मन्त्रशक्त्या
योगाभ्यासादिक्रियाशक्त्या तत्परिपाककालशक्त्या च कदाचिदेव प्राप्नोति ।
दृष्टान्तार्थं वा कालग्रहणम् । यथा पिपीलिका ग्रीष्मान्तकालशक्त्या
पक्षोद्गमान्नभोगतिं प्राप्नोति तद्वत् ॥ १२ ॥
नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्मवान्स्वयम् ।
आत्मनात्मनि सन्तृप्तो नाविद्यामनुधावति ॥ १३ ॥
एष नभोगत्यादिर्न विषयोऽभिलाषयोग्यस्तुच्छत्वात् । आत्मवान् लब्धात्मा ।
अविद्यामाविद्यकं तुच्छफलम् ॥ १३ ॥
ये केचन जगद्भावास्तानविद्यामयान्विदुः ।
कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो निमज्जति ॥ १४ ॥
अविद्यामपि ये युक्त्या साधयन्ति सुखात्मिकाम् ।
ते ह्यविद्यामया एव नत्वात्मज्ञास्तथाक्रमाः ॥ १५ ॥
युक्त्या योगाभ्यासादिश्रमसहस्रेण । तथाक्रमास्तथाविधाः ॥ १५ ॥
तत्त्वज्ञोऽवाप्यतत्त्वज्ञो यः कालद्रव्यकर्मभिः ।
यथाक्रमं प्रयतते तस्योर्ध्वत्वादि सिद्ध्यति ॥ १६ ॥
तर्हि किं तत्त्वज्ञानां तत्सम्पादनशक्तिर्नास्त्येव नेत्याह - तत्त्वज्ञ इति ।
कालेन चिरकालप्रयत्नेन द्रव्यकर्मभिर्यथाशास्त्रोक्तक्रमं य एव प्रयतते
तस्य ऊर्ध्वत्वं नभोगतिस्तदादि सिद्ध्यति ॥ १६ ॥
आत्मवानिह सर्वस्मादतीतो विगतैषणः ।
आत्मन्येव हि सन्तुष्टो न करोति न चेहते ॥ १७ ॥
न तस्यार्थो नभोगत्या न सिद्ध्या न च भोगकैः ।
न प्रभावेण नो मानैर्नाशामरणजीवितैः ॥ १८ ॥
प्रभावेण सर्वाधिपत्यनिग्रहानुग्रहसामर्थ्येन । मानैः
स्वोत्कर्षख्यापनगर्वैः ॥ १८ ॥
नित्यतृप्तः प्रशान्तात्मा वीतरागो विवासनः ।
आकाशसदृशाकारस्तज्ज्ञ आत्मनि तिष्ठति ॥ १९ ॥
अशङ्क्तोपयातेन दुःखेन च सुखेन च ।
तृप्यत्यपगतासङ्गो जीवेन मरणेन च ॥ २० ॥
तृप्यति स्वाभाविकीं तृप्तिं न जहाति । जीवेन जीवनेन ॥ २० ॥
समुद्रः सरितेवान्तः क्रमसम्प्राप्तवस्तुना ।
समेन विषमेणापि तिष्ठत्यात्मानमर्चयन् ॥ २१ ॥
समेन स्वानुकूलेन विषमेण प्रतिकूलेनापि
प्रारब्धक्रमसम्प्राप्तभोग्यवस्तुना । समुद्रपक्षे
ओघतृणकाष्ठादिवस्तुना । अर्चयन् अखण्डाकारवृत्तिपुष्पैः पूजयन् ॥ २१ ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ २२ ॥
अर्थव्यपाश्रयः प्रयोजनोपजीवनम् ॥ २२ ॥
यस्तु वाऽभावितात्मापि सिद्धिजालानि वाञ्छति ।
स सिद्धिसाधकैर्द्रव्यैस्तानि साधयति क्रमात् ॥ २३ ॥
अभावितात्मा आत्मज्ञानलेशशून्योऽपि ॥ २३ ॥
सिद्ध्यतीत्थमिदं युक्त्यैवेत्ययं नियतेः क्रमः ।
त्र्यक्षादिभिः सुरवरैर्व्यर्थीकर्तुं न शक्यते ॥ २४ ॥
मणिमन्त्रादियुक्त्यैव आकाशगमनादि इत्थं सिद्ध्यतीति तत्तच्छास्त्रप्रसिद्धो
नियतेः क्रमः तत्तन्नियतिकर्तृभिस्त्र्यक्षादिभिरपि व्यर्थीकर्तुं न शक्यते ॥ २४
॥
स्वभाव एष वस्तूनां स्वतःसिद्धिर्हि नान्यतः ।
नियतिं न जहात्येव शशाङ्क इव शीतताम् ॥ २५ ॥
या तु देवादीनां स्वतः खेचरत्वादिसिद्धिरेष वस्तुस्वभावः अत-एव सा
उत्पत्तिमारभ्य यावज्जीवं स्थायिनीत्याह - न जहात्येवेति ॥ २५ ॥
सर्वज्ञोऽपि बहुज्ञोऽपि माधवोऽपि हरोऽपि च ।
अन्यथा नियतिं कर्तुं न शक्तः कश्चिदेव हि ॥ २६ ॥
द्रव्यकालक्रियामन्त्रप्रयोगाणां स्वभावजाः ।
एतास्ताः शक्तयो राम यद्व्योमगमनादिकम् ॥ २७ ॥
यथा विषाणि निघ्नन्ति मदयन्ति मधूनि च ।
वमयन्ति च शुक्तानि मदनानि फलानि च ॥ २८ ॥
विषघ्नौषधादिद्रव्यशक्तिवदेव मणिमन्त्रादिशक्तिरपि
स्वस्वकार्यसमर्थेव्याह - यथेति । विषघ्नद्रव्यमणिमन्त्रादिशक्तयो
यथा विषाणि निघ्नन्ति । मधूनि यथा मदयन्ति । यथा शुक्तानि
माक्षिकमधूनि मदनफलानि वा खादितानि वमयन्ति उद्गिरणं कारयन्ति ॥ २८
॥
तथा स्वभाववशतो द्रव्यकालक्रियाक्रमाः ।
नियतं साधयन्त्याशु प्रयोगं युक्तियोजिताः [युक्तयोजिताः इति
टीकानुगुणः पाठः] ॥ २९ ॥
प्रयुज्यत इति प्रयोगं सिद्धिजातं नियतमवश्यं साधयन्ति ।
युक्तैर्योगादिकुशलैः पुरुषैर्योजिताः प्रयुक्ताः ॥ २९ ॥
एतस्मात्समतीतस्य त्यक्ताविद्यस्य राघव ।
आत्मज्ञानस्य नास्त्यत्र कर्तृताकर्तृतानघ ॥ ३० ॥
एतस्माद्द्रव्यकालक्रियाक्रमलक्षणादविद्याविषयात्समतीतस्य त्यक्ताविद्यस्य
बाधिताज्ञानस्य आत्मज्ञानस्य अत्र नभोगमनादिसिद्धिजाले कर्तृता
कारणता अकर्तृता विरोधिता वा नास्तीत्यर्थः ॥ ३० ॥
द्रव्यदेशक्रियाकालयुक्तयः साधुसंविदः ।
परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥ ३१ ॥
यथा आत्मज्ञानस्य क्रियाफले अनुपयोगस्तथा ज्ञानफले
द्रव्यदेशक्रियादेरप्यनुपयोग इत्याह - द्रव्येति ।
साधुसंविदस्तत्त्वज्ञानस्य ॥ ३१ ॥
यस्येच्छा विद्यते काचित्स सिद्धिं साधयत्यलम् ।
आत्मज्ञस्य तु पूर्णस्य नेच्छा सम्भवति क्वचित् ॥ ३२ ॥
सर्वेच्छाजालसंशान्तावात्मलाभोदयो हि यः ।
तद्विरुद्धा कथं कस्मादिच्छा सञ्जायतेऽनघ ॥ ३३ ॥
कुतो न सम्भवति तत्राह - सर्वेति ॥ ३३ ॥
यथोदेति च यस्येच्छा स तया यतते तथा ।
यथाकालं तदाप्नोति ज्ञो वाप्यज्ञतरोऽपि वा ॥ ३४ ॥
निरिच्छोऽपि तत्त्ववित्कौतुकाद्यतते चेत्तस्य भवन्त्येव सिद्धय इत्याशयेनाह -
यथेति ॥ ३४ ॥
वीतहव्येन यतितं नो ज्ञानेच्छेन किञ्चन ।
ज्ञानेच्छेनाशु यतितं प्रोत्थितोऽसौ यथा वने ॥ ३५ ॥
वीतहव्यस्य तर्हि सिद्धयः कुतो न जातास्तत्राह - वीतहव्येनेति । सिद्धीच्छया
नो यतितम् । तत्कुतस्तत्राह - ज्ञानेच्छेनेति । ज्ञानेच्छया
इतरेच्छाप्रतिबन्धादित्यर्थः । ज्ञानेच्छया तु तेन यतितमेव । यथा असौ वने
ज्ञानाभ्यासाय प्रोत्थित उद्युक्त इति प्राग्वर्णितमेवेत्यर्थः ॥ ३५ ॥
एवं कालक्रियाकर्मद्रव्ययुक्तिस्वभावजाः ।
यथेच्छमेव सिद्ध्यन्ति सिद्धयः स्वाः क्रमार्जिताः ॥ ३६ ॥
याः फलावलयो येन सम्प्राप्ताः सिद्धिनामिकाः ।
तास्तेनाधिगता राम निजात्प्रयतनद्रुमात् ॥ ३७ ॥
सिद्धिविषये ज्ञानविषये वा अनुपरतस्य प्रयत्नस्यावश्यफलवत्ता
मुमुक्षुव्यवहारप्रकरणे विस्तरेण प्रपञ्चितेत्याह - याः फलेति ।
यच्छब्दो वीप्सितो द्रष्टव्यः । सम्प्राप्ताः दृश्यन्त इति शेषः ॥ ३७ ॥
महतां नित्यतृप्तानां तज्ज्ञानां भावितात्मनाम् ।
ईहितं सम्प्रयातानां नोपकुर्वन्ति सिद्धयः ॥ ३८ ॥
ईहितं सर्वाभिलषितं परमप्रेमास्पदमात्मसुखमिति यावत् ॥ ३८ ॥
श्रीराम उवाच ।
अयं मे संशयो ब्रह्मन्वीतहव्यस्य सा तनुः ।
क्रव्यादैर्न कथं भुक्ता कथं क्लिन्ना न भूतले ॥ ३९ ॥
क्लिन्ना पङ्कादिक्लेदान्न विशीर्णेत्यर्थः ॥ ३९ ॥
तदैव वीतहव्योऽसौ कथं वनगतः प्रभो ।
विदेहमुक्ततां शीघ्रं यथावदिति मे वद ॥ ४० ॥
तदा भूप्रवेशकाले एव । इति एतत्प्रश्नद्वयोत्तरं यथावद्वद ॥ ४० ॥
श्रीवसिष्ठ उवाच ।
या संविद्वलिता साधो वासनामलतन्तुना ।
सुखदुःखदशादाहभागिनी भवतीह सा ॥ ४१ ॥
तत्र प्रथमप्रश्नस्योत्तरं वक्तुं भूमिकां रचयति - येति । या
अज्ञसंविद्देहाहम्भाववासनारूपेण रागादिमलदूषितेन तन्तुना वलिता
दृढं वेष्टिता भवति सैव
देहच्छेदभेदादिप्रयुक्तसुखदुःखदशालक्षणदाहभागिनीत्यर्थः ॥ ४१ ॥
निर्मुक्तवासना शुद्धसंविन्मात्रमयी तु सा ।
तनुस्तिष्ठति तच्छेदे शक्ता नेह हि केचन ॥ ४२ ॥
सा जिवान्मुक्ततनुर्बाधितत्वादधिष्ठानशुद्धसंविन्मात्रमयी तिष्ठति । तस्य
संविन्मात्रस्य च्छेदे कऽपि क्रव्यादादयो न शक्ताः ।
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च इति भगवद्वचनादिति भावः ॥ ४२ ॥
शृणु युक्त्या कया योगी तनुच्छेदादिविभ्रमैः ।
नाक्रम्यते महाबाहो बहुवर्षशतैरपि ॥ ४३ ॥
उपपत्त्यन्तरं वक्तुं प्रतिजानीते - शृण्विति ॥ ४३ ॥
चेतः पदार्थे पतति यस्मिन्यसिन्यदा यदा ।
तन्मयं तद्भवत्याशु तस्मिंस्तस्मिंस्तदा तदा ॥ ४४ ॥
तथा दृष्टारि हि मनो विकारमुपगच्छति ।
दृष्टमित्रं सुहृद्यत्वं स्वयमित्यनुभूयते ॥ ४५ ॥
तथा हीति सम्बन्धः । दृष्टः अरिर्द्वेष्टा येन तथाविधं मनः
अरिद्वेषप्रतिबिममिव द्वेषादिविकारमुपगच्छति । दृष्टमित्रं तु
मनस्तदीयहृदयप्रीतिप्रतिबिम्बमिव सुष्ठु हृद्यत्वमुपगच्छति ।
इत्ययमर्थः सर्वैः स्वयं प्रत्यक्षमनुभूयत इत्यर्थः ॥ ४५ ॥
रागद्वेषविहीने तु पथिके पादपे गिरौ ।
भवत्यरागद्वेषं च स्वयमित्यनुभूयते ॥ ४६ ॥
अत-एव एकस्य रागद्वेषशून्यत्वे अन्यस्यापि न दृश्यत इत्याह - रागेति
। पथिके उदासीनपुरुषे पादपे गिरौ च विषये मनः अरागद्वेषं भवतीत्यर्थः
॥ ४६ ॥
मृष्टे लौल्यमुपादत्ते दुर्भोज्ये याति निःस्पृहम् ।
वैरस्यं याति कटुनि स्वयमित्यनुभूयते ॥ ४७ ॥
एवमचेतनेषु भोज्यादिष्वपि प्रीत्यप्रीत्यौदासीन्यानि
तद्गतगुणदोषतदुभयाभावप्रतिबिमनादेव मनसि प्रसिद्धावित्याशयेनाह
- मृष्टे इति । दुर्भोज्ये नीरसे निःस्पृहं स्पृहाभावम् ।
अर्थाभावेऽव्ययीभावे ह्रस्वः । वैरस्याभावस्याप्युपलक्षणमेतत् ॥ ४७ ॥
समसंविद्विलासाढ्ये यद्यदा यतिदेहके ।
हिंस्रचेतः पतत्याशु समतामेति तत्तदा ॥ ४८ ॥
अस्त्वेवं प्रकृते किं ततस्तत्राह - समेति । समो रागद्वेषवैषम्यशून्यो
यः संविद्विलासस्तेन आढ्ये सम्पन्नतमे यतिदेहके योगिशरीरे यत् हिंस्राणां
क्रव्यादानां चेतो यदा पतति तत् तदा आशु तत्कालमेव
योगिसंवित्समताप्रतिबिम्बनादिव समतामेति । अतो न
तत्कृतहिंसाप्रसक्तिरित्यर्थः । तथाचाहिंसाप्रतिष्ठां प्रस्तुत्य
प्तञ्जलिनोक्तं तत्सन्निधौ वैरत्यागः इति ॥ ४८ ॥
समसङ्गविमुक्तत्वाच्छेदादौ न प्रवर्तते ।
पान्थो व्यर्थं पथि ग्रामे यथा ग्रामीणकर्मणि ॥ ४९ ॥
हिंस्रोऽपि समस्य समदर्शिनो यतेः सङ्गेन द्वेषादिभ्यो विमुक्तत्वात्कस्यापि
च्छेदनादौ न प्रवर्तते । यथा ग्रामीणकर्मणि
ग्रामसन्निहितवनलताच्छेदादौ पान्थो न प्रवर्तते तद्वत् ॥ ४९ ॥
योगिदेहसमीपात्तु गत्वा प्राप्नोति हिंस्रताम् ।
यद्यद्भवति तत्राशु तथारूपेम्अ न संशयः ॥ ५० ॥
योगिदेहसमीपादन्यत्र गत्वा तत्र दोषादियुक्तं यद्यज्जन्तुजातं भवति
तत्तदनुरूपां हिंस्रतां प्राप्नोति ॥ ५० ॥
इति हिंस्रैर्मृगव्याघ्रसिंहकीटसरीसृपैः ।
न च्छिन्ना वीतहव्यस्य तनुर्भूतलशालिनी ॥ ५१ ॥
इति एतस्मात्कारणद्वयात् ॥ ५१ ॥
सर्वत्र विद्यते संवित्काष्ठलोष्टोपलादिके ।
सत्तासामान्यरूपेण संस्थिता मूकबालवत् ॥ ५२ ॥
कथं क्लिन्ना न भूतले इति प्रश्नस्योत्तरमाह - सर्वत्रेत्यादिना ॥ ५२ ॥
पोप्ल्यमाना तरला केवलं परिदृश्यते ।
तन्वी पुर्यष्टकेष्वेव प्रतिबिम्बजलेष्विव ॥ ५३ ॥
तर्हि पुर्यष्टकेष्वेव कथं तदुपलभस्तत्राह - पोप्लूयमानेति ।
प्लवमानेव तरला परिणामसहस्रविस्ऽमा तन्वी परिच्छिन्ना च सा परिदृश्यते ।
असमाहितचित्तैरिति शेषः ॥ ५३ ॥
तेन भूजलवाय्वग्निसंवित्त्या समरूपया ।
निर्विकारं तनुर्नीता वीतहव्यस्य राघव ॥ ५४ ॥
तेन वीतहव्यस्य पुर्यष्टकेन तत्त्वबोधसमाधिभ्यां समरूपया
अविषमस्वभावं नीतया भूजलादिसंवित्त्या तनुर्निर्विकारं
सर्वविकारशून्यब्रह्मभावं नीता अतो न विकारं गतेत्यर्थः ॥ ५४ ॥
अन्यच्च शृणु मे राम स्पन्दो नाशस्य कारणम् ।
विकारः स च चित्तोत्थो वातजो वा जगत्स्थितौ ॥ ५५ ॥
अन्यद्युक्त्यन्तरमपि शृणु । तदेवाह - स्पन्द इत्यादिना । जगत्स्थितौ
लोकव्यवहारे प्रसिद्ध इत्यर्थः ॥ ५५ ॥
प्राणानां प्राणनं स्पन्दस्तच्छान्तौ ते दृषत्समाः ।
यतः स्थिता धारणया तेनानष्टास्य सा तनुः ॥ ५६ ॥
ते प्राणा देहे दृषत्समा दृढीभूता यतो हेतोः स्थितास्तेन हेतुना ॥ ५६ ॥
सबाह्याभ्यन्तरं स्पन्दश्चित्तजो वातजोऽथवा ।
न यस्य विद्यते तस्य दूरस्थौ प्रकृतिक्षयौ ॥ ५७ ॥
बाह्यो हस्तपादादिराभ्यन्तरः प्राणादिस्तत्सहिते देहे । प्रकृतिर्वृद्ध्यादिः
क्षयः अपक्षयादिश्च ॥ ५७ ॥
सबाह्याभ्यन्तरे शान्ते स्पन्दे तत्त्वविदां वर ।
धातवः संस्थितिं देहे न त्यजन्ति कदाचन ॥ ५८ ॥
धातवस्त्वगादयः । संस्थितिं पूर्वावस्थाम् ॥ ५८ ॥
संशान्ते देहप्रस्पन्दे चित्तवातमये तथा ।
धातवो मैरवं स्थैर्यं यान्ति संस्तम्भितात्मकाः ॥ ५९ ॥
मैरवं मेरुसम्बन्धि । मेरुतुल्यमिति यावत् ॥ ५९ ॥
तथा च दृश्यते लोके स्पन्दशान्तौ दृढा स्थितिः ।
दारुणामिव धीराणां शवाङ्गानामचोपता ॥ ६० ॥
स्पन्दयतीति स्पन्दः प्राणस्तच्छान्तौ । शवाङ्गानां च अचोपता अकम्पता ।
चुप मन्दायां गतौ भावे घञ् ॥ ६० ॥
इति वर्षसहस्राणि देहा जगति योगिनाम् ।
न क्लिद्यन्ते न भिद्यन्ते मग्नवज्जलदा इव ॥ ६१ ॥
इति अनया युक्त्या । जलदा इव न क्लिद्यन्ते भूमग्नशिलावन्न भिद्यन्ते इति
व्युत्क्रमेणान्वयः ॥ ६१ ॥
तदैव वीतहव्योऽसौ शृणु किं नोपशान्तवान् ।
देहमुत्सृज्य तत्त्वज्ञो ज्ञातज्ञेयवतां वरः ॥ ६२ ॥
चरमप्रश्नमनूद्योत्तरमाह - तदैवेत्यादिना । ज्ञातं ज्ञेयं ब्रह्म
यैरुपायैस्तद्वतां परिज्ञातात्मवतां वा ॥ ६२ ॥
ये हि विज्ञातविज्ञेया वीतरागा महाधियः ।
विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रास्तनौ स्थिताः ॥ ६३ ॥
स्वतन्त्रा अपराधीनाः । तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां स
भवति इति श्रुतेः ॥ ६३ ॥
दैवं वापि च कर्माणि प्राक्तनान्यैहिकानि च ।
वासना वा न तेषां तच्चेतो नियमयन्त्यलम् ॥ ६४ ॥
स्वातन्त्र्यमेवोपपादयति - दैवमिति । प्राक्तनकर्मफलप्रदानोन्मुख
ईश्वरो दैवं कर्मप्राधान्यवादे कर्मणि च तेषां प्रारब्धशेषभोगाय
प्रवृत्तं चेतो न नियमयन्ति नान्यथा प्रवर्तयितुमीशते ॥ ६४ ॥
तेन तत्त्वविदां तात काकतालीयवन्मनः ।
यद्यद्भावयति क्षिप्रं तत्तदाशु करोत्यलम् ॥ ६५ ॥
काकतालीयवदाकस्मिकं प्रारब्धोपनीतं यद्यज्जीवनं मरणं वा ॥ ६५ ॥
काकतालीययोगेन वीतहव्यस्य संविदा ।
साम्प्रतं जीवितं बुद्धं तदेवाशु स्थिरीकृतम् ॥ ६६ ॥
यदा तु तस्य प्रतिभा विदेहोन्मुक्ततां गता ।
तदा विदेहमुक्तोऽभूदसौ स्वातन्त्र्यसंस्थितिः ॥ ६७ ॥
यदा तु प्रारब्धसमाप्तौ प्रतिभा संविद्गता भावितवती ॥ ६७ ॥
विगतवासनमाशु विपाशता-
मुपगतं मन आत्मतयोदितम् ।
यदभिवाञ्छति तद्भवति क्षणा-
त्सकलशक्तिमयो हि महेश्वरः ॥ ६८ ॥
उक्तमेव सङ्क्षिप्योपसंहरति - विगतेति । विपाशतामुपगतमत-एव
वास्तवात्मस्वभावेनोदितं मनस्तदुपाधिर्जीव एव । हि यस्मात्सकलशक्तिमयो
महेश्वरः शिव एव स्वयं जात इत्यर्थः । तथाचाहुः तुषेण बद्धो व्रीहिः
स्यात्तुषाभावे तु तण्डुलः । पाशबद्धः सदा जीवः पाशमुक्तः सदाशिवः ॥
इति ॥ ६८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे सद्विलासविचारयोगोपदेशो
नामैकोननवतितमः सर्गः ॥ ८९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
सद्विलासविचारयोगोपदेशो नामैकोननवतितमः सर्गः ॥ ८९ ॥