अष्टाशीतितमः सर्गः ८८
श्रीवसिष्ठ उवाच ।
प्राप्य संसृतिसीमान्तं दुःखाब्धेः पारमागतः ।
वीतहव्यः शशामैवमपुनर्मनने मुनिः ॥ १ ॥
वीतहव्ये विमुक्ते तत्प्राणानां हृदि सल्लयः ।
वर्ण्यते देहसंशोषः कलानां कारणे लयः ॥ १ ॥
एवमुक्तरीत्या अपुनर्मनने आत्यन्तिकमनोनाशे सति ॥ १ ॥
तस्मिंस्तथोपशान्ते हि परां निर्वृतिमागते ।
पयःकण इवाम्भोधौ स्वे पदे परिणामिनि ॥ २ ॥
परिणामिनि परिनिष्ठिते सति । अपरिणामिनीति वा छेदः ॥ २ ॥
तथैव तिष्ठन्निःस्पन्दः स कायो म्लानिमाययौ ।
अन्तर्विरसतां प्राप्य मार्गशीर्षान्तपद्मवत् ॥ ३ ॥
मार्गशीर्षस्यान्ते हेमन्ते पद्मवत् ॥ ३ ॥
तस्य देहद्रुमान्तःस्थं त्यक्त्वा हृन्नीडमाययुः ।
प्रोड्डीय विहगायन्तो यन्त्रोन्मुक्ता इवासवः ॥ ४ ॥
सर्वदेहव्यापिनां प्राणानां हृद्युपसंहारमाह - तस्येति । तस्य
असवः प्राणा देहद्रुमस्यान्तःस्थं हृन्नीडं त्यक्त्वा बहिराययुरिति तु न
व्याख्येयम् । न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्
ब्रह्माप्येति इत्यादिश्रुतिविरोधापत्तेः सर्वकर्मवासनानाशेनोत्क्रमणे
बीजप्रयोजनयोरभावाच्चेति । विहगायन्तो विहगवदाचरन्तः । लोहितादित्वात्क्यम् ।
यन्त्रेभ्य उन्मुक्ताः शिला इव ॥ ४ ॥
भूतेष्वेव प्रतिष्ठानि भूतानि सकलान्यलम् ।
मांसास्थियन्त्रदेहस्तु वनावनितलेऽवसत् ॥ ५ ॥
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति तद्यथा पेशस्करी पेशसो
मात्रामुपादाय इत्यादिश्रुत्या तदनन्तरप्रतिपत्तौ रंहति परिष्वक्तः
प्रश्ननिरूपणाभ्याम् इति वादरायणोक्तन्यायाच्च
पूर्वजन्मानुष्ठिताग्निहोत्रादिकर्मसमवाय्यपूशब्दवाच्यसोमाज्यपयः##-
आकाशादिक्रमेण पृथिव्यां व्रीहियवपुरुषयोषिदनुप्रवेशेन
पुरुस्।आकारताप्राप्त्यवगमात्तासां भूतमात्राणां कारणानुप्रवेशमाह
- भूतेष्वेवेति । सकलानि प्राणादिनामान्तषोडशकलासहितानि । यस्तु
पितृमातृमलजः स्थूलतरांशः स तत्रैव स्थित इत्याह - मांसेति ॥ ५ ॥
चिदर्णवप्रतिष्ठा चिद्धातवो धातुषु स्थिताः ।
स्वे स्वरूपे स्थितं सर्वं मुनावुपशमं गते ॥ ६ ॥
चित् लिङ्गे बिम्बिता जीवचित्स्वबिम्बभुते चिदर्णवे प्रविष्टेव ।
धातवस्त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राणि । धातुषु स्वोपादानेषु ॥ ६ ॥
एषा ते कथिता राम विचारशतशालिनी ।
विश्रान्तिर्वीतहव्यस्य प्रज्ञयैनां विवेचय ॥ ७ ॥
उपसंहरति - एषेति ॥ ७ ॥
एवम्प्रकारया चार्व्या स्वविचारणयेद्धया ।
तत्त्वमालोक्य तत्सारमातिष्ठोत्तिष्ठ राघव ॥ ८ ॥
चार्व्या रमणीयया । वोतो गुणवचनात् इति ङीष् ॥ ८ ॥
यदेतदखिलं राम भवते वर्णितं मया ।
यदिदं वर्णयाम्यद्य वर्णयिष्यामि यच्च वा ॥ ९ ॥
इदानीं भगवान्वसिष्ठः कृपातिशयेनोक्तोच्यमानवक्ष्यमाणग्रन्थस्य
चिरायुर्भिः सर्वदर्शिभिरस्मदादिभिः सर्वप्रकारैरसकृत्कृतानां
विचाराणां लोकशास्त्रश्रुतिभिरन्वयव्यतिरेकाभ्यां च परीक्ष्य भूयोभूयो
दर्शनस्य च ऐकात्म्यदृष्टिमवलम्ब्य ज्ञानप्रतिष्ठाप्राप्तिरेव फलं
नातः परं पुरुषैः सम्पाद्यमस्तीति निर्णीतमिति विश्वासदार्ढ्यायाह -
यदेतदित्यादिना ॥ ९ ॥
त्रिकालदर्शिना नित्यं चिरं च किल जीवता ।
विचारितं च दृष्टं च मया तदखिलं स्वयम् ॥ १० ॥
तदेताममलां दृष्टिमवलम्ब्य महामते ।
ज्ञानमासादय परं ज्ञानान्मुक्तिर्हि लभ्यते ॥ ११ ॥
ज्ञानान्निर्दुःखतामेति ज्ञानादज्ञानसङ्क्षयः ।
ज्ञानादेव परा सिद्धिर्नान्यस्माद्राम वस्तुतः ॥ १२ ॥
ज्ञानेन सकलामाशां विनिकृत्य समन्ततः ।
शातिताशेषचित्ताद्रिर्वीतहव्यो मुनीश्वरः ॥ १३ ॥
शातितः खण्डितः अशेषः संस्कारशेषेणाप्यनवशेषितश्चित्ताद्रिर्येन
तथाविधोऽभूरिति शेषः ॥ १३ ॥
वीतहव्यात्मिका संवित्सङ्कल्पजगतीति सा ।
अनुभूतवती दृश्यमिदमेव च तज्जगत् ॥ १४ ॥
ननु वीतहव्येन स्वहृदि सङ्कल्पमयं जगत्तत्र गुणत्वं
चानुभूतमित्युक्तं तज्जगदन्तर्गतं सूर्यं प्रविश्य तत्रत्र्यपिङ्गलद्वारा
एतज्जगद्भूप्रतिष्ठस्वदेहोद्धारः कथं कृतः । नहि
स्वाप्नकुद्दालैर्जाग्रन्निधिखननं दृष्टमिति रामाशङ्कां
लिङ्गैरालक्ष्याह - वीतहव्येति । सा वीतहव्यात्मिका संवित्
[सन्तानसंवित् इति पाठः] स्वहृदयोपलक्षिते ब्रह्मणि
इदमस्मदादिसाधारणमेव दृश्यं स्वसङ्कल्पजगती इत्यनुभूतवती
नापूर्वमित्यर्थः ॥ १४ ॥
वीतहव्यो मनोमात्रं मनोहन्त्वमिवैन्द्रियः ।
मनो जगदिदं कृत्स्नमन्यतानन्यते तु के ॥ १५ ॥
इतश्चेदमेव तज्जगदित्याह - वीतहव्य इति । ऐन्द्रियः
अस्मदादिचक्षुरादिदृश्यो वीतहव्योऽस्मदीयमनोमात्रम् । यतोऽस्मन्मन
एवाहमिव त्वमिव भासते । मन एवेदं कृत्स्नं जगत्तत्रान्यतानन्यते के ।
नहि वन्ध्याभेदेन तत्पुत्रा भिद्यन्ते न भिद्यन्ते एवेत्यर्थः ॥ १५ ॥
अधिगतपरमार्थः क्षीणरागादिदोषः
सकलमलविकारोपाधिसङ्गाद्यपेतः ।
चिरमनुसृतमन्तः स्वं स्वभावं विवेकी
पदममलमनन्तं प्राप्तवान्शान्तशोकः ॥ १६ ॥
एवं रामं समाधाय प्रकृतमेवार्थमाह - अधिगतेति ।
सकलेभ्योऽविद्याकामकर्मादिमलेभ्यस्तत्प्रयुक्तेन्द्रियविकारेभ्यो
देहत्रयोपाधिभ्यस्तत्प्रयुक्तप्रियसङ्गादिभ्यश्चापेतो विवेकी स
वीतहव्यश्चिरं चित्तशुद्ध्युपायानुष्ठानैः
श्रवणमनननिदिध्यासनसाक्षात्कारसमाधिभूमिकाभ्यासैरन्तः
स्वहृद्यनुभूतमनुसरणेनाभिमुखीकृतं
स्वस्वभावभूतममलमनन्तं मोक्षपदं प्राप्तवानित्यर्थः ॥ १६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे वीतहव्यविश्रान्तिर्नामाष्टाशीतितमः
सर्गः ॥ ८८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
वीतहव्यविश्रान्तिर्नामाष्टाशीतितमः सर्गः ॥ ८८ ॥