सप्ताशीतितमः सर्गः ८७
श्रीवसिष्ठ उवाच ।
एवं कलितवानन्तः प्रशान्तमननैषणः ।
शनैरुच्चारयंस्तारं प्रणवं प्राप्तभूमिकः ॥ १ ॥
येन क्रमेण सम्प्राप्तो वीतगव्यो विदेहताम् ।
प्रणवान्तं समालम्ब्य स क्रमोऽत्र निरूप्यते ॥ १ ॥
एवं वक्ष्यमाणक्रमेण तारमत्युच्चैःस्वरं प्रणवं
शनैर्दैर्घ्यावादनेनोच्चारयन्सन् मननैषणाप्रशान्तिक्रमेण
प्राप्तषष्ठसप्तमभूमिको भूत्वा अन्तः स्वहृदि ब्रह्म कलितवान्प्राप्तवान् ॥
१ ॥
मात्रादिपादभेदेन प्रणवं संस्मरन्यतिः ।
अधयरोपापवादेन स्वरूपं शुद्धमव्ययम् ॥ २ ॥
यतिः सन्न्यासी वीतहव्यः । ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं
भूतं भवद्भविष्यदिति सर्वम्ॐकार एव यच्चान्यत्त्रिकालातीतं तदप्य्ॐकार
एव इति माण्डुक्यश्रुतिदर्शितक्रमेण
अकारोकारमकाराख्यमात्राभिरर्धमात्रया च कल्पितेन
स्थूलसूक्ष्माव्याकृततुरीयलक्षणपादभेदेन प्रणवं संस्मरन्सन्
पञ्चीकरणोक्तेन विराठिरण्यगर्भाव्याकृतलक्षणानां पादानां तुर्ये
प्रथमं जागरितस्थानो बहिःप्रज्ञः इत्यादिश्रुत्युक्तदिशा अध्यारोपेण
नान्तः प्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं
न प्रज्ञानधनम् इत्याद्यपवादेन च स्थूलसूक्ष्मकारणरूपानपि
सबाह्याभ्यन्तरान्भागांस्त्यक्त्वा शुद्धमव्ययं स्वरूपं दृष्ट्वा
प्रपञ्चोपशमं शिवं शान्तमद्वैतं चतुर्थं मन्यन्ते स आत्मा स
विज्ञेयः इति श्रुत्युक्ते तुर्त्ये तत्रात्मनि तिष्ठन्सन् प्रणवपर्यन्तं
दीर्घनिःस्वनतन्तुना सह इन्द्रियतन्मात्रजालं जहाविति षष्ठेन सम्बन्धः ॥ २
॥
सबाह्याभ्यन्तरान्भागान्स्थूलान्सूक्ष्मतरानपि ।
त्रैलोक्यसम्भवांस्त्यक्त्वा सङ्कल्पाकल्पकल्पितान् ॥ ३ ॥
तिष्ठन्नक्षुभिताकारश्चैन्तामणिरिवात्मनि ।
सम्पूर्ण इव शीतांशुर्विश्रान्त इव मन्दरः ॥ ४ ॥
कुम्भकारगृहे चक्रे संरोधित इव भ्रमात् ।
अम्भोधिरिव सम्पूर्णस्तिमितस्फारनिर्मलः ॥ ५ ॥
भ्रमाद्भ्रमणात्संरोधिते सति कुम्भकारगृहे चक्रमिवाक्षुभिताकारः ॥ ५
॥
शान्ततेजस्तमःपुञ्जं विगतार्केन्दुतारकम् ।
अधूमाभ्ररजःस्वच्छामनन्तं शरदीव खम् ॥ ६ ॥
तेजस्तमसोर्युगपच्छान्त्यप्रसिद्धेरभूतोपमेयम् ॥ ६ ॥
सहप्रणवपर्यन्तदीर्घनिःस्वनतन्तुना ।
जहाविन्द्रियतन्मात्रजालं गन्धमिवानिलः ॥ ७ ॥
प्रणवस्य पर्यन्तोऽग्रभागस्तल्लक्षणेन दीर्घनिःस्वनतन्तुना सह
जहाचित्यादिसर्वः स्थूलसूक्ष्मेतरानपि त्यक्त्वेत्यस्यैव प्रपञ्चः ॥ ७ ॥
ततो जहौ तमोमात्रं प्रतिभातमिवाम्बरे ।
उत्तिष्ठत्प्रस्फुरद्रूपं प्राज्ञः कोपलवं यथा ॥ ८ ॥
तत उत्तुष्ठत् साक्षिणा प्रस्फुरद्रूपं तमोमात्रम् ॥ ८ ॥
प्रतिभातं ततस्तेजो निमेषार्धं विचार्य सः ।
जहौ बभूव च तदा न तमो न प्रकाशकम् ॥ ९ ॥
तामवस्थामथासाद्य मनसा तन्मनस्तृणम् ।
मनागपि प्रस्फुरितं निमिषार्धादशातयत् ॥ १० ॥
तां तमःप्रकाशशून्यामवस्थामासाद्य तत्कल्पनाहेतुं मनस्तृणं
अशातयत् छिन्नवान् ॥ १० ॥
ततोऽङ्ग संविदं स्वस्थां प्रतिभासमुपागताम् ।
सद्यो जातशिशुज्ञानसमानकलनामलम् ॥ ११ ॥
अङ्गेति सम्बोधने । प्रतिभासं निवातदीपवत्स्फुटप्रकाशतामालम्ब्य तामपि
कलनां तत्प्ररोहात्प्रागेव निमेषार्धार्धभागेन कालेन जहौ । स एव
चितश्चेत्यदशात्याग इत्यर्थः ॥ ११ ॥
निमेषार्धार्धभागेन कालेन कलनां प्रभुः ।
जहौ चितश्चेत्यदशां स्पन्दशक्तिमिवानिलः ॥ १२ ॥
पश्यन्तीपदमासाद्य सत्तामात्रात्मकं ततः ।
प्रसुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः ॥ १३ ॥
अनया रीत्या साक्षिमात्रपरिशेषलक्षणं पश्यन्तीपदमासाद्य तदेव
वियदादिबाधपरिशिष्टसत्तामात्रात्मकं कारणतत्त्वमिति
तद्भावस्थितिलक्षणं सुषुप्तपदमालम्ब्येत्यर्थः ॥ १३ ॥
ततः सुषुप्तसंस्थानं स्थित्वा स्थित्वा विभुर्मनाक् ।
सुषुप्ते स्थैर्यमासाद्य तुर्यरूपमुपाययौ ॥ १४ ॥
एते एव षष्ठसप्तमभूमिके सदेहावस्थे । ततः साक्षिसदैकरस्ये
निरतिशयाखण्डानन्दाविर्भावात्प्रारब्धशेषेण सहात्यन्तिकप्रतिभासनाशे
विदेहकैवल्यावाप्तिं दर्शयति - तुर्यरूपमिति ॥ १४ ॥
निरानन्दोऽपि सानन्दः सच्चासच्चपि तत्र सः ।
आसीन्न किञ्चित्किञ्चित्तत्प्रकाशस्तिमिरं यथा ॥ १५ ॥
ततः किमासीदिति चतुर्थप्रश्नस्योत्तरमाह - निरानन्द इत्यादिना ।
विषयानन्दशून्योऽपि स्वरूपेणैव सानन्दः । स्वातिरिक्तसत्ताशून्योऽपि सद्रूप
इत्येवं सर्व योज्यम् । यथा नक्तं दृशां तिमिरमेव प्रकाशस्तद्वत् ॥ १५ ॥
अचिन्मयं चिन्मयं च नेति नेति यदुच्यते ।
ततस्तत्सम्बभूवासौ यद्गिरामप्यगोचरः ॥ १६ ॥
चेत्याभावादचिन्मयं स्वतश्चिदेव चिन्मयम् ॥ १६ ॥
तदसौ सुसमं स्फारं पदं परमपावनम् ।
सर्वभावान्तरगतमभूत्सर्वविवर्जितम् ॥ १७ ॥
यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां वरम् ।
विज्ञानमात्रं विज्ञानविदां यदमलं पदम् ॥ १८ ॥
सर्ववादिभिर्नानाविकल्पैः स्वस्वसिद्धान्ततया विकल्पितमपि तदेवेत्याह -
यदित्यादिना ॥ १८ ॥
पुरुषः साङ्ख्यदृष्टीनामीश्वरो योगवादिनाम् ।
शिवः शशिकलाङ्कानां कालः कालैकवादिनाम् ॥ १९ ॥
शशिकलाङ्कानां शैवानाम् । शिवमतस्थानाम् इति पाठेऽपि स एवार्थः ॥ १९ ॥
आत्मात्मनस्तद्विदुषां नैरात्म्यं तादृशात्मनाम् ।
मध्यं माध्यमिकानां च सर्वं सुसमचेतसाम् ॥ २० ॥
तत् आत्मनो विदुषामात्मा । न लोकेति निषेधविषये षष्ठी छान्दसी । नैरात्म्यं
क्षणिकविज्ञानसन्तानः । स हि स्थायित्वेन भासमानो नास्त्येवेति नैरात्म्यम् ।
तादृशात्मनां सौत्रान्तिकवैभाषिकाणाम् । माध्यमिकानां
चिदचिन्मध्यमशून्यमात्रं तत्त्वमिति वादिनाम् । सुसमचेतसां
जीवन्मुक्तानां सर्व निरवशेषपूर्णम् । शून्यवादिभिरुपक्रम्य
सर्ववादिभिरुपसंहारस्तयोः परिच्छेदापरिच्छेदवादे परमावधिता
इतरेषां तु आन्तरालिकमतानामुभयमिश्रणं तारतम्यवैचित्र्येणोत्थानमिति
द्योतनायेति बोध्यम् ॥ २० ॥
यत्सर्वशास्त्रसिद्धान्तो यत्सर्वहृदयानुगम् ।
यत्सर्वं सर्वगं सार्वं यत्तत्तत्सदसौ स्थितः ॥ २१ ॥
सर्वस्य तत्त्वं सार्वं ईदृशं यत्सत् असौ तत्सत् तद्भूत्वा स्थित इत्यर्थः ॥ २१ ॥
यदनुत्तमनिःस्पन्दं दीप्यते तेजसामपि ।
स्वानुभूत्यैकमात्रं यद्यत्तत्तत्सदसुअ स्थितः ॥ २२ ॥
यत् अनुत्तमनिःस्पन्दमत्यन्तनिष्क्रियम् । व्योम्न्यपि जन्मादिक्रियासत्त्वात्ततोऽपि
कूटस्थमित्यर्थः । तेजसामपि भासकतयेति शेषः । यत्स्वानुभूत्यैकमात्रं
यत्तत्प्रसिद्धं सत् तदसाविति प्राग्वत् ॥ २२ ॥
यदेकं चाप्यनेकं च साञ्जनं च निरञ्जनम् ।
यत्सर्वं चाप्यसर्वं च यत्तत्तत्सदसौ स्थितः ॥ २३ ॥
अजमजरमनाद्यनेकमेकं
पदममलं सकलं च निष्कलं च ।
स्थित इति स तदा नभःस्वरूपा-
दपि विमलस्थितिरीश्वरः क्षणेन ॥ २४ ॥
स वीतहव्य इति उक्तक्रमेण मुक्तदृशा नभःस्वरूपादपि निर्मलस्थितिः
सन्नजमजरमनाद्येकममलं निष्कलं पदं भूत्वा स्थितः । बद्धदृशा
तु क्षणेन ईश्वरः सन् स्वकार्यभेदैरनेकं सकलं च भूत्वा स्थित इत्यर्थः ॥
२४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे
वीतहव्यनिर्वाणो नाम सप्ताशीतितमः सर्गः ॥ ८७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
वीतहव्यनिर्वाणो नाम सप्ताशीतितमः सर्गः ॥ ८७ ॥