षडशीतितमः सर्गः ८६
श्रीवसिष्ठ उवाच ।
दिनान्ते स समाधातुं पुनरेव मनो मुनिः ।
विवेश काञ्चिद्विततां विज्ञातां विन्ध्यकन्दराम् ॥ १ ॥
पुनः समाधिः षड्रात्रं जीवन्मुक्तस्थितिश्चिरम् ।
रागादिभ्योऽञ्जलिर्मुक्तौ समाधिश्चास्य वर्ण्यते ॥ १ ॥
विज्ञातां प्राक्परिचिताम् ॥ १ ॥
तदेवात्मानुसन्धानमत्यजन्सममिन्द्रियैः ।
चेतसा कल्यामास दृष्टलोकपरावरः ॥ २ ॥
दृष्टो लोके परः सारः अवरः असारश्च येन ॥ २ ॥
पूर्वमेवेन्द्रियगणो मया परिहृतः स्फुटम् ।
इदानीं चिन्तया नार्थः पुनर्विततया माम् ॥ ३ ॥
यत्कलयामास तदाह - पूर्वमित्यादिना ॥ ३ ॥
अस्तिनास्तीतिकलनां भङ्क्त्वा मृद्वीं लतामिव ।
शेषं तु बद्धसंस्थानस्तिष्ठाम्यचलशृङ्गवत् ॥ ४ ॥
अस्तिनास्तीति द्विविधां दृश्यकलनाम् । शेषमवशिष्टं
तदुभयसाक्षिचिन्मात्रमवलम्ब्येति शेषः । बद्धसंस्थानः
समकायशिरोग्रीवो दृढासनश्च ॥ ४ ॥
उदितोऽस्तं गत इव स्वस्तं गत इवोदितः ।
समः समरसाभासस्तिष्ठामि स्वच्छतां गतः ॥ ५ ॥
उदितो जीवन्नप्यस्तं गतो मृत इवाज्ञदृशा तत्त्वदृशा तु तद्विपरीतः ।
समरसाभास एकरसचिन्मात्ररूपः ॥ ५ ॥
प्रबुद्धोऽपि सुषुप्तस्थः सुषुप्तस्थः प्रबुद्धवत् ।
तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः ॥ ६ ॥
प्रबुद्धो जाग्रदपि सुषुप्तस्थो द्वैतजालमपश्यन् । एवं सुषुप्तोऽपि
स्वस्वरूपस्फुटानुभवात्प्रबुद्धवत् । तुर्य स्थूलसूक्ष्मकारणनिर्मुक्तं
पदम् ॥ ६ ॥
स्थितः स्थाणुरिवैकान्ते स्वान्तान्ते सर्वतः स्थिते ।
सत्त्वसामान्यसाम्ये हि तिष्ठाम्यपगतामयः ॥ ७ ॥
स्वान्तस्यान्ते पारभूते निर्मनने सर्वतः स्थिते पूर्णे सत्तासामान्यलक्षणे
परमसाम्ये ॥ ७ ॥
इति सञ्चिन्त्य स ध्याने पुनस्तस्थौ दिनानि षट् ।
ततः प्रबोधमापन्नः क्षणसुप्त इवाध्वगः ॥ ८ ॥
ततः सिद्धः स भगवान्वीतहव्यो महातपाः ।
विजहार चिरं कालं जीवन्मुक्ततया तदा ॥ ९ ॥
सिद्धो व्युत्त्थानेऽपि समाहितस्थितिः ॥ ९ ॥
वस्तु नाभिननन्दासौ निनिन्द न कदाचन ।
न जगाम तथोद्वेगं न च हर्षमवाप सः ॥ १० ॥
नाभिननन्द गुणदृशा । न निनिन्द दोषदृशा ॥ १० ॥
गच्छतस्तिष्ठतश्चैव तस्यैवमभवद्धृदि ।
विनोदाय विचित्तस्य कथा स्वमनसा सह ॥ ११ ॥
कथा वक्ष्यमाणविचारलक्षणा । बाधितानुवृत्तस्वमनसा सह ॥ ११ ॥
अव्ययेन्द्रियवर्गेश मनः शमवता त्वया ।
पश्यानन्दसुखं कीदृग्विधमासादितं ततम् ॥ १२ ॥
अव्ययस्य विषयोपभोगप्रयुक्तसामर्थ्यव्ययरहितस्येन्द्रियवर्गस्य ईश स्वामिन्
हे मनः आनन्दयत्याह्लादयति सर्वं जगदित्यानन्दं तथाविधं सुखम् ।
निरतिशयानन्दरूपं सु शोभनं खं आकाशमिति वा ॥ १२ ॥
एषैवाविरतं तस्मान्नीरागैव दशा त्वया ।
अवलम्ब्या परित्याज्यं चापलं चलतां वर ॥ १३ ॥
त्वया अग्रेऽपि एषैव नीरागैव दशा अवलम्ब्या ।
द्वावेकाराववधारणदार्ढ्याय ॥ १३ ॥
भो भो इन्द्रियचौरा हे हताशा हतनामकाः ।
युष्माकं नायमात्मास्ति न भवन्तस्तथात्मनः ॥ १४ ॥
हे हताशा इति आशानां पृथक् सम्बोधनम् । अयं मयानुभूयमान आत्मा
युष्माकं नास्ति ॥ १४ ॥
व्रजतां वो विनाशांशमाशा वो विफलीकृताः ।
न समर्थाः समाक्रान्तौ भवन्तो भङ्गुराश्रयाः ॥ १५ ॥
एवं सदात्मसम्बन्धाभावाद्वः स्वरूपमवशिष्टं विनाशांशं
असत्त्वपक्षं व्रजताम् । समाक्रान्तौ ममेति शेषः ॥ १५ ॥
वयमात्मेति यैषा वो वो भभूव किल वासना ।
तत्त्वविस्मृतिजाता हि दृष्टरज्जुभुजङ्गवत् ॥ १६ ॥
प्राक्तर्ह्यस्माकं त्वत्समाक्रान्तौ कुतः सामर्थ्यमभूदिति
चेदात्मतादात्म्याद्यध्यासबलादित्याह - वयमिति ॥ १६ ॥
अनात्मन्यात्मता सैषा सैषा वस्तुन्यवस्तुता ।
अविचारेण वै जाता विचारेण क्षयं गता ॥ १७ ॥
भवन्तोऽन्ये वयं चान्ये ब्रह्मान्यत्कर्तृता परा ।
अन्यो भोक्तान्य आदत्ते को दोषः कस्य कीदृशः ॥ १८ ॥
एवं विवेकदर्शने कस्यापि भवत्प्रयुक्तदोषसम्बन्धोऽपि नास्त्येवेत्याह -
भवन्त इति । भवन्तः करणभूताः । वयमभिमन्तारः । ब्रह्म अद्वयम् ।
कर्तृता प्राणप्रयुक्तक्रियानिमित्तता । भोक्ता चिदाभासः । आदत्ते मनः ॥ १८ ॥
वनेभ्यो दारु सञ्जातं रज्जवो वेणुचर्मणः ।
वासी चायःफलान्येव तक्षा ग्रासार्थमुद्यतः ॥ १९ ॥
एवं चेत्कथं व्यवहारकार्यनिष्पत्तिरिति चेत्काकतालीयन्यायादिति
गृहदृष्टान्तेनाह - वनेभ्य इत्यादिना । वेणुत्वचा
काष्ठभारबन्धनम् । वासी प्रसिद्धा । चकारात्कुठारटङ्किकादयः । अयसः
फलानि प्रयोजनानि लोककृदुदरभरणप्रयुक्तानीति यावत् । एवं तक्षा
स्वग्रासार्थमुद्यतो न गृहसिद्धये ॥ १९ ॥
इत्थं यथेह सामग्र्या स्वशक्तिस्थपदार्थया ।
सम्पन्ना काकतालीया दृढा वरगृहाकृतिः ॥ २० ॥
एवं च भिन्नप्रयोजनैः क्रियाकारकैरर्थान्निष्पद्यमाना गृहाकृतिः
काकतालीयन्यायादेवेत्यर्थः ॥ २० ॥
सम्पन्नाः काकतालीयात्स्वशक्तिनियतेन्द्रियाः ।
तथैव कलिका लोलं केव कस्यात्र खण्डना ॥ २१ ॥
तथा इहापि कार्यकरणसङ्घाते
दर्शनश्रवणवचनादानादिफलकस्वस्वशक्तिभिर्नियतानि
ज्ञानकर्मेन्द्रियाणि यासां तथाविधाव्यवहारकार्यकलिकाः काकतालीयादेव
लोलं चलं यथा स्यात्तथा सम्पन्नाः । तत्र कस्य केव खण्डना क्षतिरस्ति । न
काचित्कस्यचिदित्यर्थः ॥ २१ ॥
विस्मृतिर्विस्मृता दूरं स्मृतिः स्फुटमनुस्मृता ।
सत्सज्जातमसच्चासत्क्षतं क्षीणं स्थितं स्थितम् ॥ २२ ॥
विस्मृतिरविद्या । स्मृतिरात्मविद्या । तत्फलमाह - सदिति ॥ २२ ॥
एवंविधेन भगवान्विचारेण महातपाः ।
सोऽतिष्ठन्मुनिशार्दूलो बहून्वर्षगणानिह ॥ २३ ॥
अपुनर्भवनायैव यत्र चिन्तान्तमागता ।
मूढता च सुदूरस्था तत्रासाववसत्सदा ॥ २४ ॥
अन्तं नाशमागता । तत्र तस्मिन् पूर्णानन्दस्वप्रकाशपदे ॥ २४ ॥
यथाभूतपदार्थौघदर्शनोत्थमनर्थकम् ।
ध्यानाश्वासनमालम्ब्य सोऽवसत्सुखगः सदा ॥ २५ ॥
यथा स्थिते वस्तुनि कदाचिद्भ्रान्त्या विचित्रपदार्थौघदर्शनादुत्थं
प्रसक्तमनर्थकं व्यर्थमेवानाश्वासं वारयितुं
पुनःपुनर्ध्यानाश्वासनमालम्ब्येत्यर्थः ॥ २५ ॥
हेयादेयसमासङ्गत्यागादानदृशोः क्षये ।
वीतहव्यमुनेरासीदिच्छानिच्छातिगं मनः ॥ २६ ॥
तस्य प्रारब्धशेषक्षये कीदृशं मन आसीत्तदाह - हेयेति ।
हानयोग्यानामादानयोग्यानां च विषयाणां समासङ्गे प्राप्तावपि
हानादानदृशोः क्षये ॥ २६ ॥
विदेहकेवलीभावे सीमन्ते जन्मकर्मणाम् ।
संसारसङ्गसन्त्यागरसासवनवेच्छया ॥ २७ ॥
प्रतिभासमात्रेणापि स्थितस्य देहादिसंसारसङ्गस्य सन्त्यागे परिशिष्यमाणे
ब्रह्मरसमकरन्दे नवेच्छया उत्कण्ठया विवेशेति परेणान्वयः । सन्त्यागे
वाञ्छामापातिशायिनीं इति पाठे तु स्पष्टम् ॥ २७ ॥
विवेश स तयैवान्ते सह्याद्रौ हेमकन्दरम् ।
अपुनःसङ्गमायाशु जगज्जालमवेक्ष्य सः ॥ २८ ॥
तया वाञ्छया ॥ २८ ॥
बद्धपद्मासनः स्थित्वा तत्रोवाचात्मनात्मनि ।
राग नीरागतां गच्छ द्वेष निर्द्वेषतां व्रज ॥ २९ ॥
सहजशत्रुषु रागद्वेषादिष्वपि निर्द्वेषतां मैत्रीं च भावयन् गन्तुकाम इव
हितमुपदिशन् प्रणम्य तानामन्त्रयते - रागेत्यादिना ॥ २९ ॥
भवद्भ्यां सुचिरं कालमिह प्रक्रीडितं मया ।
भोगा नमोस्तु युष्मभ्यां जन्म कोटिशतान्यहम् ॥ ३० ॥
भवद्भिर्लालितो लोके लालकैरिव बालकः ।
इमामपि परां पुण्यां निर्वाणपदवीमहम् ॥ ३१ ॥
येन विस्मारितस्तस्मै सुखायास्तु नमो नमः ।
त्वदुत्तप्तेन हे दुःख मयात्मान्विष्ट आदरात् ॥ ३२ ॥
सुखाय विषयसुखलवाय । त्वया उत्तप्तेन सन्तापितेन मया ॥ ३२ ॥
तस्मात्त्वदुपदिष्टोऽयं मार्गो मम नमोऽस्तु ते ।
त्वत्प्रसादेन लब्धेयं शीतला पदवी मया ॥ ३३ ॥
तस्माद्गुरुणेव त्वया उपदिष्टोऽयं विवेकमार्गः ॥ ३३ ॥
दुःखनाम्ने दुःखतत्त्व सुखदात्मन्नमोस्तु ते ।
कल्याणमस्तु ते मित्र संसारासारजीवित ॥ ३४ ॥
हे दुःखस्य तत्त्वभूत सुखद आत्मन् इदानीं ज्ञानजननोपकारिणं देहं
प्रार्थ्यामन्त्रयति - कल्याणमित्यादिना ॥ ३४ ॥
देह स्थितिरियं यामो वयमात्मीयमास्पदम् ।
प्रयोजनानां जन्तूनामहो नु विषमा गतिः ॥ ३५ ॥
हे देह इयमावयोर्वियुक्तिस्थितिरनादिनियतिस्वभावः । संयोगा विप्रयोगान्ताः इति
न्यायादिति भावः । जन्तूनां प्राणिनां सम्बन्धिनां प्रयोजनानां
स्वार्थानामियं गतिः रीतिर्विषमा । यल्लिप्सया अत्यन्तमित्रस्वजनानपि विहाय
पुरुषा धावन्तीति भावः ॥ ३५ ॥
देहेनापि वियुज्येऽहं भूत्वा जन्मशतान्यपि ।
मित्रकाय मया यत्त्वं त्यज्यसे चिरबान्धवः ॥ ३६ ॥
तदेव स्वस्याप्युपस्थितमित्याह - देहेनापीति ॥ ३६ ॥
त्वयैवात्मन्युपानीता सात्मज्ञानवशात्क्षतिः ।
अधिगम्यात्मविज्ञानमात्मनाशः कृतस्त्वया ॥ ३७ ॥
नायं ममापराधस्त्वया स्वनाशार्थमेव मदुपकारः कृत
इत्यनुशोचन्निवाह - त्वयैवेति ॥ ३७ ॥
देह नान्येन भग्नोऽसि त्वयैवैतदुपासितम् ।
एकाकिन्यापि शुष्यन्त्या प्रशान्ते मयि दीनया ॥ ३८ ॥
एतत्त्वयैवोपासितमनुष्ठितम् । इदानीं तृष्णां [तृष्णीं इति
मुद्रितपुस्तके पाठः] प्रार्थयते - एकाकिन्येति ॥ ३८ ॥
त्वया दुःखं न कर्तव्यं मातस्तृष्णे व्रजाम्यहम् ।
क्षन्तव्याः काम भगवन्विपरीतापराधजाः ॥ ३९ ॥
त्वज्जयार्थं त्वद्विपरीतवैराग्यसेवनाद्यपराधजा मद्दोषाः ॥ ३९ ॥
दिषा उपशमैकान्तं व्रजाम्यादिश मङ्गलम् ।
चिराच्चिराय चेदानीमम्ब तृष्णे किलावयोः ॥ ४० ॥
उपशमैकान्तं आत्यन्तिकोपशमम् । आदिश आशास्व । पुनरावृत्त्या
तृष्णामुखदर्शनप्रसक्तिं वारयन्नाह - चिरादिति । चिरादपि चिराय ।
शाश्वत इति यावत् । इदानीं आरभ्येति शेषः ॥ ४० ॥
वियोगो योगदोषेण प्रणामोऽयं स पश्चिमः ।
नमः सुकृतदेवाय भवतेऽस्तु त्वया पुरा ॥ ४१ ॥
सुकृतं पुण्यं तल्लक्षणाय देवाय ॥ ४१ ॥
नरकेभ्यः समुत्तार्य स्वर्गेऽहमभियोजितः ।
कुकार्यक्षेत्ररूढाय नरकस्कन्धवाहिने ॥ ४२ ॥
कुकार्यं निषिद्धाचरणं तल्लक्षणे क्षेत्रे भूमौ रूढाय ।
नरकलक्षणानां स्कन्धानां बृहच्छाखानां वहनशीलाय ॥ ४२ ॥
शासनापुष्पभाराय नमो दुष्कृतशाखिने ।
येन सार्धं चिरं वह्न्यो भुक्ताः प्राकृतयोनयः ॥ ४३ ॥
शासनाः यातना एव पुष्पभारो यस्य ॥ ४३ ॥
अद्यप्रभृत्यदृश्याय तस्मै मोहात्मने नमः ।
प्रध्वनद्वंशमधुरवचसे पत्रवाससे ॥ ४४ ॥
प्रध्वनद्भिर्वंशैः कीचकैर्मधुरवचसे । शीर्णपत्राण्येव वासांसि
यस्यास्तथाविधायै गुहालक्षणायै तपस्विन्यै ॥ ४४ ॥
नमो हुआतपस्विन्यै वयस्यायै समाधिषु ।
संसाराध्वनि खिन्नस्य त्वं ममाश्वासकारणम् ॥ ४५ ॥
आश्वासकारणमित्यजहल्लिङ्गं गुहाविशेषणम् ॥ ४५ ॥
आसीर्वयस्या सुस्निग्धा सर्वलोभापहारिणी ।
सर्वसङ्कटखिन्नेन दोषेभ्यो द्रवता मया ॥ ४६ ॥
सुस्निग्धा अत्यन्तस्नेहवती वयस्या आसीः अभूः । पूर्णात्मविश्रान्तिदानेन
सर्वलोभापहारिणी । दोषेभ्यः समाधिविघ्नेभ्यः ॥ ४६ ॥
त्वमेका शोकनाशार्थमाश्रिता परमा सखी ।
सङ्कटावटकुञ्जेषु हस्तालम्बनदायिने ॥ ४७ ॥
इदानीं दण्डकाष्ठगुणान्वर्णयंस्तन्नमस्यति - सङ्कटेति । सङ्कटे
श्वसर्पादिभयेषु विषमप्रदेशेषु च । तथा अवटेषु गर्तेषु कुञ्जेषु च
हस्तस्य आलम्बनदायिने ॥ ४७ ॥
वार्धकैकान्तसुहृदे दण्डकाष्ठाय ते नमः ।
अस्थिपञ्जरमात्मीयं तथा रक्तान्त्रतन्तुकम् ॥ ४८ ॥
इदानीं देहभागं सर्वं देहाय निवेदयति - अस्थीति ॥ ४८ ॥
एतावन्मात्रसारैकं गृहीत्वा गच्छ देहक ।
पयःक्षोभप्रकारेभ्यः स्नानेभ्योऽपि नमोऽस्तु ते ॥ ४९ ॥
एतावन्मात्रमेव सारं तत्त्वं यस्य तथाविधमेकं स्वमसाधारणभागं
गृहीत्वा गच्छ स्वाः प्रकृतीः । हे देहक पयसो जलस्य
त्वदीयमलदौर्गन्ध्यस्वेदादिना दूषणाद्ये क्षोभा
अपराधास्तदीयप्रकारभेदरूपेभ्यस्ते स्नानेभ्यः
शुचित्वसम्पादनओपायेभोऽपि नमोऽस्तु ॥ ४९ ॥
नमोस्तु व्यवहारेभ्यः संसृतिभ्यो नमोस्तु ते ।
एते भवन्तः सहजाः प्राक्तनाः सुहृदो मया ॥ ५० ॥
तथा भोजनशयनाभ्यञ्जनालङ्करणादिव्यवहारेभ्यस्तत्सामग्री
सम्पादनायेतस्ततो धावनलक्षणाभ्यस्ते संसृतिभ्यश्च नमोऽस्तु । हे
प्राणाः सहजाः सुहृदः मया अद्य सुहृदां नमस्कारक्रमेण एते
भवन्तोऽपि उत्कृता उत्कृष्टाः कृताः । नमस्क्र्ता इति यावत् ॥ ५० ॥
क्रमेणाद्योत्कृताः प्राणाः स्वस्ति वोऽस्तु व्रजाम्यहम् ।
भवद्भिः सह चित्रासु मया बह्वीषु योनिषु ॥ ५१ ॥
प्राक्तनसुहृत्त्वमेव वर्णयति - भवद्भिरिति ॥ ५१ ॥
विश्रान्तं गिरिकुञ्जेषु श्रान्तं लोकान्तरेषु च ।
क्रीडितं पुरपीठान्तरुषितं पर्वतेषु च ॥ ५२ ॥
पुराणां पीठानां सिद्धक्षेत्राणां चान्तः ॥ ५२ ॥
स्थितं कार्यविलासेषु प्रस्थितं विविधाध्वसु ।
न तदस्ति जगत्कोशे भवद्भिः सह यन्मया ॥ ५३ ॥
न कृतं न हृतं यातं न दत्तं नावलम्बितम् ।
इदानीं स्वां दिशं यान्तु भवन्तो याम्यहं प्रियाः ॥ ५४ ॥
न कृतं न हृतं न दत्तं च हस्ताभ्याम् । न यातं पद्भ्याम् ।
नावलम्बितं मनसा च । भवन्तः स्वां दिशं प्रकृतिं यान्तु । अहं ब्रह्म
यामि । हे प्रियाः ॥ ५४ ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ताः सर्वे संसारवर्त्मनि ॥ ५५ ॥
किमर्थमस्मान्प्रकृतिषु विलापयसि कार्यकरणसङ्घातात्मनैव स्थित्वा
भोग्यनिचयानेव पूर्ववत्कुतो न प्राप्स्यामस्तत्राह - सर्वे इति । हे सर्वे
प्राणादयः ॥ ५५ ॥
अयं चाक्षुष आलोको विशत्वादित्यमण्डलम् ।
विशन्तु वनपुष्पाणि सौगन्ध्यानन्दसंविदः ॥ ५६ ॥
इदानीं प्रत्येकमिन्द्रियादीनां प्राप्तव्याः प्रकृतिर्विभज्य दर्शयति -
अयमित्यादिना । सौगन्ध्यानन्दसंवित्पदेन तत्करणं घ्राणेन्द्रियं लक्ष्यते ।
वनपुष्पपदेन च गन्धमात्रसारा पृथिवी ॥ ५६ ॥
प्राणानिलस्तथा स्पन्दं विशत्वद्य प्रभञ्जनम् ।
विशन्त्वाकाशकुहरं शब्दश्रवणशक्तयः ॥ ५७ ॥
इन्दुमण्डलमायान्तु रसनारसशक्तयः ।
निर्मन्दर इवाम्भोधिर्गतार्क इव वासरः ॥ ५८ ॥
एवमिन्दुमण्डलपदेनापो ग्राह्या इति क्रमेण गताः कलाः पञ्चदश
प्रतिष्ठाम् इति श्रुतिप्रदर्शितदिशा सर्वे स्वां स्वां प्रकृतिं यान्त्वित्यर्थः ।
एवं युष्मासु उपाधिभूतेषु गतेषु
भवत्प्रतिबिम्बितचिदाभासात्माजीवभूतोऽहमपि स्वबिम्बभूते
प्रणवार्धमात्रालक्ष्ये ब्रह्मात्मनि प्रशाम्यामीत्याह - निर्मन्दर
इत्यादिना ॥ ५८ ॥
शरदीव घनः स्वैरं प्राप्तः कल्पान्तसर्गवत् ।
ॐकारान्ते स्वमननं प्रशाम्याम्यात्मनात्मनि ।
दग्धेन्धन इवार्चिष्मान्निःस्नेह इव दीपकः ॥ ५९ ॥
स्वं ईरयति जनयतीति स्वैरं स्वोपादानं विलयेन प्राप्तो घन इव कल्पान्ते
प्रलयकाले सर्गवत्प्रपञ्च इव च । स्वमननं सुष्ठु
अमननमात्यन्तिकमनःशान्तिर्यथा स्यात्तथा ॥ ५९ ॥
व्यपगताखिलकार्यपरम्परः
सकलदृश्यदशातिगतस्थितिः ।
प्रणवशान्त्यनुसंसृतिशान्तधी-
र्विगतमोहमलोऽयमहं स्थितः ॥ ६० ॥
दीर्घोच्चारितस्य प्रणवस्य ब्रह्मरन्ध्रे शान्तिमनुसृत्य शान्ता
ब्रह्माकारतामात्रप्राप्त्या उपरता धीर्यस्य । तत एव
विगतप्रारब्धप्रतिबद्धशिष्टाविद्यालेशमला ॥ ६० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे इन्द्रियवर्गनिराकरणोपदेशो नाम
षडशीतितमः सर्गः ॥ ८६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
इन्द्रियवर्गनिराकरणोपदेशो नाम षडशीतितमः सर्गः ॥ ८६ ॥