८५

पञ्चाशीतितमः सर्गः ८५

श्रीराम उवाच ।

अथ किं वीतहव्यः स्वं स्थितं तस्मिन्धरोदरे ।
कथमुद्धृतवान्देहं स सम्पन्नश्च किं कथम् ॥ १ ॥

मुनेः पिङलमाविश्य समुद्धारस्तनोरिह ।
जीवन्मुक्तस्थितिश्चान्त्यः समाधिश्चोपवर्ण्यते ॥ १ ॥

समुद्धारस्य तत्प्रकारस्य तदुत्तरचर्याया विदेहमुक्तपरिशिष्टतद्रूपस्य च
चतुर्भिः किंवृत्तैः क्रमात्प्रश्नः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

अनन्तरमनन्तात्म वीतहव्याभिधं मनः ।
स्वमेवात्मचमत्कारमात्रं समवबुद्धवान् ॥ २ ॥

अनन्तात्म अपरिच्छिन्नब्रह्माकारं समवबुद्धवान् । समाधावित्यर्थः ॥ २ ॥

शार्वस्यास्य गणस्याभूत्प्राग्ज्योतिःस्मरणे स्वयम् ।
इच्छा कदाचित्सकलप्राग्जन्मालोकनोन्मुखी ॥ ३ ॥

प्राक्तनं ज्योतिश्चिदात्मा तस्य स्मरणे ध्यानकाले ॥ ३ ॥

अशेषान्स ददर्शाथ नष्टानष्टान्स्वदेहकान् ।
अनष्टानां ततो मध्यात्तत्तत्कोटरसंस्थितम् ॥ ४ ॥

नष्टानष्टान् कांश्चिन्नष्टान् कांश्चिदनष्टान् ।
तत्तदनष्टदेहहृदयकोटरे जीवटोपाख्यानवक्ष्यमाणन्यायेन
स्वकल्पनयैव संस्थितं वीतहव्यदेहमित्यर्थः ॥ ४ ॥

यदृच्छयैव प्रोद्धर्तुं देहं तस्याभवन्मतिः ।
अपश्यत्तत्तथा तत्र पङ्के कीटमिव स्थितम् ॥ ५ ॥

शरीरं वीतहव्याख्यं धराकोटरपीडितम् ।
प्रावृडोघोपनीतं तत्पृष्ठस्थपङ्कमण्डलम् ॥ ६ ॥

प्रावृष ओघेन पूरेण उपनीतं किञ्चिद्दूरं प्रवाहितम् । पृष्ठस्थेत्युक्त्या
अधोमुखतया पातितमित्यपि गम्यते ॥ ६ ॥

तृणजालावकीर्णत्वग्देहपृष्ठमृदं तथा ।
एतद्दृष्ट्वा महातेजा धराविवरयन्त्रितम् ॥ ७ ॥

तृणानां काशादीनां जालैरवकीर्णा निबद्धास्त्वग्देहपृष्ठमृदा
[१] यस्य । देहपदेन तदवयवा लक्ष्यन्ते ॥ ७ ॥

भूयोऽपि चिन्तयामास धिया परमबोधया ।
सर्वसम्पीडिताङ्गत्वात्कायो मे प्राणवायुभिः ॥ ८ ॥

प्राणवायुभिः । तत्सञ्चारैरिति यावत् ॥ ८ ॥

मुक्तश्चलितुमाकर्तुं शक्नोति न मनागपि ।
तज्ज्ञात्वा प्रविशाम्याशु देहमेवं विवस्वतः ॥ ९ ॥

आकर्तुमीषदपि कर्तुम् । क्रियामनाक्त्वात्तच्छक्तिमनाक्त्वमिति न पौनरुक्त्यम् ।
तत्तस्मात्तदुद्धारार्थमुपायं ज्ञात्वा । एवं परकायप्रवेशयोगप्रकारेण
॥ ९ ॥

तदीयः पिङ्गलो देहमुद्धरिष्यति मे ततः ।
अथवा किं ममैतेन शाम्याम्यहमविघ्नतः ॥ १० ॥

तदीयस्तत्सेवकः । पिङ्गलाख्यो गणस्तदाज्ञया उद्धरिष्यति । तस्य
चिन्तान्तरमाह - अथवेति । एतेन देहेन शाम्यामि विदेहमुक्त्येत्यर्थः ॥ १० ॥

निर्वामि स्वं पदं यामि कोऽर्थो मे देहलीलया ।
इति सञ्चिन्त्य मनसा वीतहव्यो महामते ॥ ११ ॥

तूष्णीं स्थित्वा क्षणं भूयश्चिन्तयामास भूतले ।
उपादेयो हि देहस्य न मे त्यागो न संश्रयः ॥ १२ ॥

त्यागः संश्रयो वा नोपादेयो नापेक्षणीयो विशेषाभावात् ॥ १२ ॥

यादृशो देहसन्त्यागस्तादृशो देहसंश्रयः ।
तद्यावदस्ति देहोऽयं न यावदणुतां गतः ॥ १३ ॥

तदेवाह - यादृश इति । अणुतां धूलीभावम् ॥ १३ ॥

तावदेनमुपारुह्य किञ्चित्प्रविहराम्यहम् ।
पिङ्गलेन शरीरं स्वमुद्धर्तुं तापनं वपुः ॥ १४ ॥

पिङ्गलेन पिङ्गलद्वारा उद्धर्तुम् । तापनं सौरं वपुः प्रविशामि ॥ १४ ॥

प्रविशामि नभःसंस्थं मुकुरं प्रतिबिम्बवत् ।
इत्यसौ मुनिरादित्यं विवेशानिलरूपधृक् ॥ १५ ॥

अनिलरूपधृक् सूक्ष्मीभूत इति यावत् ॥ १५ ॥

पुर्यष्टकवपुर्भूत्वा भस्त्राखमिव चानलः ।
भगवान्मुनिरप्येनं हृद्गतं मुनिनायकम् ॥ १६ ॥

पुर्यष्टकं प्राग्व्याख्यातं लिङ्गशरीरं तद्वपुः । भस्त्राखं
चर्मपेश्याकाशम् । मुनिर्मननशीलो भगवान् सूर्यो हृद्गतं हृदि
प्रविष्टं तं मुनिनायकं दृष्ट्वा तस्य कार्यं तत्पौर्वापर्यं च
दृष्ट्वा विन्ध्यभूधरकोशगतं गतसंविदं मृतप्रायं मुनिकलेवरं
ददर्शेति व्यवहितेनान्वयः ॥ १६ ॥

दृष्ट्वासौ चिन्तयन्कार्यं पौर्वापर्यमुदारधीः ।
विन्ध्यभुधरभूकोशमन्तर्मुनिकलेवरम् ॥ १७ ॥

तृणोपलपरिच्छन्नं ददर्श गतसंविदम् ।
ऋषेश्चिकीर्षितं ज्ञात्वा भानुर्गगनमध्यगः ॥ १८ ॥

ततो रविः किं चकार तदाह - ऋषेरिति ॥ १८ ॥

धरातो मुनिमुद्धर्तुमादिदेशाग्रगं गणम् ।
वीतहव्वमुनेः संवित्सा पुर्यष्टकरूपिणी ॥ १९ ॥

मुनिं मुनिशरीरम् । गणं पिङ्गलाख्यम् । सूर्यहृत्प्रविष्टा मुनेः
संवित्किं चकार तदाह - वीतहव्येति ॥ १९ ॥

रविं वातमयी पूज्यं प्रणनामाशु चेतसा ।
भानुनाप्यभ्यनुज्ञातो मानपूर्वकमग्रगम् ॥ २० ॥

स मुनिर्भानुना हृद्येव बहुमानपूर्वकमभ्यनुज्ञातः सन्
स्वकार्यार्थं प्रस्थितं पिङ्गलस्य आकारं शरीरं विवेश ॥ २० ॥

विवेश पिङ्गलाकारं विन्ध्यकन्दरगामिनम् ।
पिङ्गलोऽसौ नभस्त्यक्त्वा कुञ्जकुञ्जरसुन्दरम् ॥ २१ ॥

कुञ्जैर्लतागृहैः कुञ्जरैश्च सुन्दरम् ॥ २१ ॥

प्राप विन्ध्यवनं प्रावृण्मत्ताभ्राम्बरभासुरम् ।
उद्दधार धराकोशान्नखनिष्कृष्टभूतलः ॥ २२ ॥

प्रावृषि मत्तान्यभ्राणि यस्मिंस्तथाविधमम्बरमिव । तत्पक्षे कुञ्जैः
कुञ्जरैरिव च सुन्दरमिति योज्यम् । नखैर्निष्कृष्टं खातं भूतलं येन
तथाविधः पिङ्गलः ॥ २२ ॥

कलेवरं मुनेः पङ्कान्मृणालमिव सारसः ।
मौनं पुर्यष्टकमथ स्वं विवेश कलेवरम् ॥ २३ ॥

मुनेः सम्बन्धि मौनं पुर्यष्टकं पिङ्गलदेहात्स्वं कलेवरं विवेश ॥ २३

नभस्तलपरिभ्रान्तो विहङ्गम इवालवम् ।
प्रणेमतुर्मिथो मूर्तवीतहव्यनभश्चरौ ॥ २४ ॥

आलयं स्वनीडम् । मूर्तः प्राप्तमूर्तिर्वीतहव्यश्च नभश्चरपिङ्गलश्च
मिथः अन्योन्यं प्रणेमतुः ॥ २४ ॥

बभूवतुः स्वकार्यैकतत्परौ तेजसां निधी ।
जगाम पिङ्गलो व्योम मुनिश्च विमलं सरः ॥ २५ ॥

सरः स्नानार्थम् ॥ २५ ॥

तारकाकारकुमुदं सूर्यांशुकवदाकृति ।
वीतहव्यो ममज्जाशु सरस्युद्भिन्नपङ्कजे ॥ २६ ॥

सूर्येण अंशुकवती पीतरक्ताम्बरालङ्कृतेव आकृतिर्यस्य ।
बालार्करागरञ्जितोदकमिति यावत् ॥ २६ ॥

पङ्कपल्वललीलान्ते वने कलभको यथा ।
तत्र स्नात्वा जपं कृत्वा पूजयित्वा दिवाकरम् ।
मनोभूषितया तन्वा पूर्ववत्पुनराबभौ ॥ २७ ॥

पङ्कयुक्तेषु पल्वलेषु लीलाया अन्ते अवसाने । मनोभूषितया
मननादिव्यवहारवत्या ॥ २७ ॥

मैत्र्या तया समतया परया च शान्त्या
सत्प्रज्ञया मुदितया कृपया श्रिया च ।
युक्तो मुनिः सकलसङ्गविमुक्तचेता
विन्ध्ये सरित्तटगतो दिनमेव रेमे ॥ २८ ॥

दिनं दिनमात्रमेव रेमे न चिरम् । समाधिप्रच्युतस्तस्थावित्यर्थः ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे वीतहव्यसमाधियोगोपदेशो नाम
पञ्चाशीतितमः सर्गः ॥ ८५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
वीतहव्यसमाधियोगोपदेशो नाम पञ्चाशीतितमः सर्गः ॥ ८५ ॥