८४

चतुरशीतितमः सर्गः ८४

श्रीवसिष्ठ उवाच ।

इति निर्णीय स मुनिर्वीतहव्यो विवासनः ।
आसीत्समाधावचलो विन्ध्यकन्दरकोटरे ॥ १ ॥

समाधिर्वीतहव्यस्य धराविवरसंस्थितिः ।
हृदि विद्याधरेन्द्रत्वगणत्वाद्युपवर्ण्यते ॥ १ ॥

इति उक्तप्रकारेण निर्णीय निश्चित्य ॥ १ ॥

अपरिस्पन्दिताशेषसंविदानन्दसुन्दरः ।
बभावस्तङ्गतमनाः स्तिमिताम्भोधिशोभनः ॥ २ ॥

अपरिस्पन्दितो यः अशेषः पूर्णः स्वप्रकाशसंविद्रूप आनन्दस्तद्रूपः सन्
सुन्दरः ॥ २ ॥

अन्तरेव शशामास्य क्रमेण प्राणसन्ततिः ।
ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः [अनले इति पाठः] ॥ ३ ॥

अनन्तर्निष्ठतां याते बाह्यार्थे चाप्यसंस्थिते ।
शेषेऽन्तर्लब्धसंस्थाने तस्यास्फुरितपक्ष्मणी ॥ ४ ॥

तस्यार्धोन्मीलिते अक्षिणी वर्णयति - अनन्तरिति द्वाभ्याम् ।
नात्यन्तमन्तर्निष्ठतां निमीलनं याते । शेषे उन्मीलितांशातिरिक्तांशे ॥ ४ ॥

घ्राणप्रान्तगताल्पाल्पसमालोके इवेक्षणे ।
अर्धकुड्मलितैः पद्मैः श्रियमाययतुः समाम् ॥ ५ ॥

घ्राणप्रान्तो नासाग्रं तत्र गतः प्रसृतः अल्पादल्पः सम उभयतस्तुल्य
आलोकः प्रकाशो ययोस्ते इव लक्ष्यमाणे ईक्षणे चक्षुषी ॥ ५ ॥

समकायशिरोग्रीवस्थानकः स महामतिः ।
आसीच्छैलादिवोत्कीर्णश्चित्रार्पित इवाथवा ॥ ६ ॥

तथाभितिष्ठतस्तस्य [तथापि तिष्ठतः इति पाठः]
संवत्सरशतत्रयम् ।
कोटरे विन्ध्यकच्छस्य ययावर्धमुहूर्तवत् ॥ ७ ॥

कच्छस्य निर्झरसन्निहितदेशस्य ॥ ७ ॥

एतावन्तमसौ कालं नाबुद्ध्यत किलात्मवान् ।
जीवन्मुक्ततया ध्यानी न च तत्याज तां तनुम् ॥ ८ ॥

तावत्कालं स सुभगो न प्राबुध्यत योगवित् ।
उदारैरम्बुदारावैरासारभरघर्घरैः ॥ ९ ॥

आसारभराणां वर्षनिर्झरधारासम्पातानां घर्घरैः स्वनैरपि ॥ ९ ॥

पर्यन्तमण्डलाधीशमृगयानतबृंहितैः [आगत इत्युभयत्र
पाठः] ।
पक्षिवानरनिर्ह्रादैर्मातङ्गास्फोटनिःस्वनैः ॥ १० ॥

पर्यन्तवासिनां मण्डलाधीशानां सामन्तानां मृगयासु
आनतानामागतानां [आगत इत्युभयत्र पाठः] गजानां
बृंहितैर्गर्जितैः । सर्वत्र अपिशब्दो योज्यः ॥ १० ॥

सिंहसंरम्भरटितैर्निर्झरारावसीत्कृतैः ।
विषमाशनिसम्पातैर्जनकोलाहलैर्घनैः ॥ ११ ॥

सिंहानां संरम्भरटितैः सक्रोधगर्जनैः ॥ ११ ॥

प्रमत्तशरभास्फोटैर्भूकम्पतटघट्टनैः ।
वनदाहधमध्वानैर्जलौघाहतिवल्गनैः ॥ १२ ॥

भूकम्पेन विशीर्णानां तटानां गिरिवप्राणां घट्टनैरास्फालनैः ।
वनदाहेषु धमैरग्निसंयोगैस्तत्प्रयुक्तध्वानैश्च । जलस्य ओघैराहतय
आस्फालनानि वल्गनानि वहनानि च तैरपि ॥ १२ ॥

महोपलतटाघातैर्धरणीतलमृज्जलैः ।
जलौघान्दोलनायातैस्तापैरनलकर्कशैः ॥ १३ ॥

धरणीतलात्प्रसृतैर्मृत्पङ्किलजलैः ।
अनलवत्कर्कशैस्तापैर्ग्रीष्मादितापैरपि न प्राबुध्यतेति सर्वत्र योज्यम् ॥ १३ ॥

केवलं वहति स्वैरं काले गलितकारणम् ।
परियान्तीषु वर्षासु लहरीष्विव वारिणी ॥ १४ ॥

गलितकारणं निष्प्रयोजनं काले वहति सति असौ प्रावृडोघविनुन्नेन
पङ्केन उपर्युपरि प्रचीयमानेन अल्पेनैव कालेन उर्वीतले धरणीविवरे
भूगर्भे कृतः प्रवेशित इति द्वयोरन्वयः ॥ १४ ॥

स्वल्पेनैव हि कालेन तस्मिन्पर्वतकन्दरे ।
प्रावृडोघविनुन्नेन पङ्केनोर्वीतले कृतः ॥ १५ ॥

तत्रासाववसद्भूमौ कोटरे सङ्कटोदरे ।
पङ्कसम्पीडितस्कन्धः पर्वतेषु शिला यथा ॥ १६ ॥

सम्पीडितः संश्लिष्टः स्कन्धो यस्येत्यर्थः । नहि तस्य समाध्सुखनिमग्नस्य
पीडास्ति ॥ १६ ॥

शतत्रये स वर्षाणामथ याते स्वयम्प्रभुः ।
व्यबुध्यतात्मरूपात्मा धराकोटरपीडितः ॥ १७ ॥

संविदेवास्य तं देहं जग्राहोर्वीनिपीडितम् ।
तनुः प्राणमयस्पन्दः प्राणसंसरणं विना ॥ १८ ॥

एवं सङ्कटस्थस्य कथं जीवनमभूत्तत्राह - संविदेवेति ।
जीवनादृष्टलिङ्गदेहप्रतिबिम्बिता संविदेवास्य तं देहं जग्राह उपादाय
पालितवती । प्राणमयः प्राणवृत्तिरूपः स्पन्दस्तु न जग्राह । यतस्तनुः
सूक्ष्मः । प्राणसंसरणाभावादित्यर्थः ॥ १८ ॥

उत्पत्तिप्रौढिमासाद्य कलना हृदयान्तरे ।
स्वमनोरूपिणी तस्य हृद्येवानुबभूव सा ॥ १९ ॥

वर्षशतत्रयानन्तरं तस्य यद्वृत्तं तदाह - उत्पत्तीति । अथ तस्य कलना
जीवसंवित् प्रारब्धशेषभोगाय हृदयान्तर उत्पत्त्या उन्मेषक्रमेण
प्रौढिं स्थौल्यमासाद्य स्वमनोरूपिणी भूत्वा वक्ष्यमाणं सर्व कल्पनया
हृद्येव अनुबभूव अनुभूतवतीत्यर्थः ॥ १९ ॥

कैलासकानने कान्ते कदम्बस्य तरोस्तले ।
मुनित्वं शतमब्दानां जीवन्मुक्तात्मनिर्मलम् ॥ २० ॥

यदनुबभूव तदेवाह - कैलासेत्यादिना ॥ २० ॥

विद्याधरत्वं वर्षाणां शतमाधिविवर्जितम् ।
युगपञ्चकमिन्द्रत्वं प्रणतं सुरचारणैः ॥ २१ ॥

इन्द्रत्वं देवराजत्वम् ॥ २१ ॥

श्रीराम उवाच ।

शक्रत्वादिषु तेष्वस्य प्रतिभासेषु भो मुने ।
नियमोऽनियमश्चैव दिक्कालनियतेः कथम् ॥ २२ ॥

कैलासकानने इत्यादिर्दिङ्नियमः युगपञ्चकमित्यादिः कालनियमः अल्पकाल
एव हृदयप्रदेश एव तदनुभवादनियमश्च कथमुपपद्यते ।
दिक्कालनियतेरन्यथाकर्तुमशक्यत्वादिति प्रश्नार्थः ॥ २२ ॥

श्रीवसिष्ठ उवाच ।

सर्वात्मिकैषा चिच्छक्तिर्यत्रोदेति यथा यथा ।
तथा तत्राशु भवति तथात्मैकस्वभावतः ॥ २३ ॥

असार्वात्म्येन ज्ञातायां चिति अल्पयोरपि
देशकालयोर्विस्तृतदेशकालान्तरकल्पनासामर्थ्ये भवत्येव नियतिविरोधो नतु
सर्वात्मिकायां सर्वशक्तिसम्पन्नायां परिज्ञातायामित्याशयेन परिहरति ##-

यथा यत्र यदा बुद्धौ नियमः स तदा स्थितः ।
देशकालादिनियमक्रमाणां तन्मयात्मता ॥ २४ ॥

स्वबुद्ध्या अनुभूयमानयोरेव देशकालयोः सङ्कोचवैपुल्यनियमानियमौ
विरुद्धौ नाननुभूयमानेन सह अनुभूयमानस्य तौ ।
अल्पतरनाडीकुहरेष्वल्पकाले
विस्तृतदेशकालस्वप्नानुभवदर्"अनादित्याशयेनाह - यथेति । यत्र यदा
बुद्धौ यथा अनुभवस्तदा तथा नियमः स्थित इत्यर्थः । तन्मयात्मता
बुद्धिमयात्मन्यध्यस्तता यत इत्यर्थः । तन्मयात्मनाम् इति पाःए हेतुगर्भ
विशेषणम् ॥ २४ ॥

तेन नानाविधान्येष जगन्ति परिदृष्टवान् ।
हृदि संवेदनाकाशे वीतहव्यो विवासनः ॥ २५ ॥

तेनोक्तहेतुद्वयेन ॥ २५ ॥

सम्यग्बोधवतामेषा वासनैव न वासना ।
ज्ञानाग्निदग्धाऽदग्धस्य कैव बीजस्य बीजता ॥ २६ ॥

बीजशक्तिनाशाद्दग्धस्य उपलभ्यमानत्वाददग्धस्य । भर्जितस्येति यावत् ॥ २६ ॥

कल्पमेकं गणत्वं स चन्द्रमौलेश्चकार ह ।
समस्तविद्यानिपुणं त्रिकालामलदर्शनम् ॥ २७ ॥

शङ्कां समाधाय प्रस्तुतमेव वर्णयति - कल्पमित्यादिना । गणत्वं
गाणपत्यम् ॥ २७ ॥

यो यादृग्दृढसंस्कारः स तं पश्यति तादृशम् ।
जीवन्मुक्ततयैवैतद्वीतहव्योऽनुभूतवान् ॥ २८ ॥

जीवन्मुक्तस्यापि तस्य भोजकप्रारब्धकर्मोद्बोधितदृढसंस्कार एव
देहभोगादिवैचित्र्यप्रतिभासे हेतुरित्याह - य इति ॥ २८ ॥

श्रीराम उवाच ।

एवं स्थिते मुनिश्रेष्ऽथ जीवन्मुक्तमतेरपि ।
बन्धमोक्षदृशः सन्ति वीतहव्यात्मनो यथा ॥ २९ ॥

रामशङ्का स्पष्टा ॥ २९ ॥

श्रीवसिष्ठ उवाच ।

यथास्थितमिदं विश्वं शान्तमाकाशनिर्मलम् ।
ब्रह्मैव जीवन्मुक्तानां बन्धमोक्षदृशः कुतः ॥ ३० ॥

दग्धपटन्यायेनासतः प्रारब्धशेषेण प्रतिभासो बाधितानुवृत्तिमात्रं न
बन्ध इत्याशयेन परिहरति - यथास्थितमित्यादिना ॥ ३० ॥

एतत्संविन्नभो भाति यत्र यत्र यथा यथा ।
तत्र तत्र तथा तावत्तावत्तद्विन्दते ततम् ॥ ३१ ॥

विदन्ते लभत इव ॥ ३१ ॥

तेनानुभूतानि बहून्यनुभूयन्त एव च ।
जगन्ति सर्वात्मतया ब्रह्मरूपेण राघव ॥ ३२ ॥

ईश्वरस्यास्मदीयजगत्प्रतिभासवद्वा तस्य विनैव बन्धं तत्प्रतिभास
इत्याशयेनाह - तेनेति ॥ ३२ ॥

धराकोटरनिर्मग्नवीतहव्यचिदात्मसु ।
जगत्सु तेष्वसङ्ख्येषु नीरूपेषु महात्मसु ॥ ३३ ॥

वीतहव्यहृदुपलक्षितचैतन्यस्यैवास्मदादिसर्वात्मत्वात्सर्वजन्तूनां
जगदनुभवोऽपि तस्यैवेत्यपि सुवचमित्याशयेनाह - धरेत्यादिना । नीरूपेषु
निःस्वरूपेषु प्रतिभासतो महात्मसु विशालतमेषु जगत्सु भुवनेषु यः
शक्रोऽभूत् सोऽद्य दीनेसु देशविशेषेषु । दिनानां निवासो जनपद इत्यर्थे जातस्य
तद्धितस्य जनपदे लुप् इति लुपि युक्तवद्भावाद्बहुवचनम् ॥ ३३ ॥

यः शक्रोऽनवबुद्धात्मा सोऽद्य दीनेषु पार्थिवः ।
कर्तुं प्रवृत्तो मृगयां क्षणेऽस्मिन्नपि कानने ॥ ३४ ॥

यो हंसोऽनवबुद्धात्मा पाद्मे पैतामहेऽभवत् ।
स्थितः स एव दाशेन्द्रः कैलासवनकुञ्जके ॥ ३५ ॥

पैतामहे पाद्मे कल्पे वीतहव्यस्य गाणपत्यकाले कैलासवनकुञ्जके
तत्क्रीडाहंसो योऽभवत् स एव इदानीं दाशेन्द्रो निषादराजो भूत्वा
स्थितोऽस्तीत्यन्वयः । एवमग्रेऽपि ॥ ३५ ॥

यो राजानवबुद्धात्मा भूमेः सौराष्ट्रमण्डले ।
स एषोऽद्य स्थितोऽन्ध्राणां ग्रामे बहुलपादपे ॥ ३६ ॥

श्रीराम उवाच ।

मानसः किल सर्गोऽसौ वीतहव्यस्य तत्र ये ।
देहिनो भ्रान्तिपात्रं [भ्रान्तिमात्रं इति पाठः]
चेत्तद्देहाकारिणः कथम् ॥ ३७ ॥

गुरूक्तेः सर्वात्मताभिप्रायमप्रतिपद्यमानान् जनांस्तच्छङ्कोद्घाटकेन
गुरुमुखेन बोधयिष्यन् रामः पृच्छति - मानस इति । तद्देहाकारिणः
शक्रहंसादिदेहाकारिणः सचेतनाः कथमित्यर्थः ॥ ३७ ॥

श्रीवसिष्थ उवाच ।

यदि भ्रान्त्येकमात्रात्म वीतहव्यस्य तज्जगत् ।
तदिदं नाम ते राम किं भूयः परिभासते ॥ ३८ ॥

सर्वस्यापि जगतो मनःकार्यत्वस्य भ्रान्तिमात्रत्वस्य च बहुश उक्तत्वात्तुल्यत्वे
यदिदं नाम ते प्रसिद्धं जगत्किं कथं सचेतनैर्युक्तं प्रतिभासत
इत्यर्थः ॥ ३८ ॥

इदमप्यङ्ग चिन्मात्रं मनोमात्रभ्रमोपमम् ।
तदपि व्योम चिन्मात्रं मनोमात्रं भ्रमोपमम् ॥ ३९ ॥

द्वयोः साम्यमेव दर्शयति - इदमिति ॥ ३९ ॥

वस्तुतस्तु न तद्राम जगन्नैव न चेतरत् ।
तवापि न जगत्सत्ता ब्रह्मेदं भाति केवलम् ॥ ४० ॥

एवमेतज्जगत्सदृशं न । इतरदेतद्विलक्षणं च न ।
सालक्षण्यवैलक्षण्ययोः प्रतियोगिसिद्धिमन्तरेणायोगादिति भावः ॥ ४० ॥

भावि भूतं भविष्यच्च यथेदं च तथेतरत् ।
जगत्सर्वमिदं दृश्यं संविन्मात्रमनोमयम् ॥ ४१ ॥

संविन्मात्रत्वेनावशिष्टं यन्मनस्तदेव तन्मयम् ॥ ४१ ॥

एवंरूपमिदं यावन्न परिज्ञातमीदृशम् ।
वज्रसारदृढं तावज्ज्ञातं सत्परमाम्बरम् ॥ ४२ ॥

अज्ञानान्मन एवेदमित्थं सम्प्रविजृम्भते ।
प्रत्युल्लासविलासाभ्यां जलमम्बुनिधाविव ॥ ४३ ॥

प्रत्युल्लास उत्पत्तिर्विलासोवृद्ध्यादिपरिणामस्ताभ्याम् ॥ ४३ ॥

यथास्थितेनैव चिदम्बरेण
स्वचित्तमेवैति मनोभिधानम् ।
स्फारं कृतं तेन जगच्च दृश्य-
मेवं ततं नैव ततं च किञ्चित् ॥ ४४ ॥

उक्तमर्थं सङ्क्षिप्याह - यथास्थितेनेति । अविकृतेनैव
चिदाकाशस्वभावेन मायया किञ्चिच्चेतयदिवात्मानं कल्पयच्चित्तं सत्तस्यैव
पुनःपुनर्मननान्मनोभिधानमेति तेन च स्फारं जगत्सम्पन्नमिति एवं
दृश्यं जगत्ततम् । परमार्थतस्तु किञ्चिदपि नैव ततमित्यर्थः ॥ ४४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे वीतहव्यमनोजगद्वर्णनं नाम
चतुरशीतितमः सर्गः ॥ ८४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
वीतहव्यमनोजगद्वर्णनं नाम चतुरशीतितमः सर्गः ॥ ८४ ॥