त्र्यशीतितमः सर्गः ८३
श्रीवसिष्ठ उवाच ।
भूयो मुनिवरो धीरो धिया धवलमेधया ।
स्वमिन्द्रियगणं गुप्तो बोधयामास साध्विदम् ॥ १ ॥
समस्तदोषानर्थाप्तिश्चित्तेन्द्रियगणे सति ।
समस्तगुणसौख्याप्तिस्तदसत्त्वेऽत्र कीर्त्यते ॥ १ ॥
धवला शुद्धा मेधा धारणा यस्यास्तथाविधया धिया । गुप्तो रहःस्थः ॥ १
॥
तच्चेन्द्रियगणस्यार्थे शृणु वक्ष्यामि ते स्फुटम् ।
श्रुत्वा तद्भावनामेत्य परां निर्दुःखतां व्रज ॥ २ ॥
इन्द्रियगणस्यार्थे तत्तेन कृतं रहसि प्रबोधनं ते स्फुटं वक्ष्यामि ॥ २ ॥
भवतामात्मसत्तैषा दुःखायैवान्तदायिनी ।
असत्यामात्मनः सत्तां तद्भवन्तस्त्यजन्त्विति ॥ ३ ॥
हे इन्द्रियादिगणाः भवतामेषा अविचारदृशा प्रसिद्धा आत्मसत्ता स्वीया
विद्यमानता जीवनकाले बहुतरानर्थदुःखायैव तदूर्ध्वं चान्तदायिनी
पुनःपुनर्मृत्युनरकादिदायिनी तत्तस्मादिति प्राग्दर्शितविचारेण तामात्मनः
असत्यां सत्तां त्यजन्तु ॥ ३ ॥
मदीयेनोपदेशेन सत्तैषा भवतां क्षयम् ।
गतैवेति स्फुटं मन्ये यूयं ह्यज्ञानसम्भवाः ॥ ४ ॥
मदीयेन प्राक्कृतेनात्मतत्त्वोपदेशेन । हि यतो यूयमज्ञानसम्भवाः ।
उपदेशेनाज्ञाने नष्टे न सत्तां लप्स्यथेत्यर्थः ॥ ४ ॥
स्वसत्ता स्फुटतां याति दुःखाय तव चित्तक ।
तप्तकाञ्चनरुल्लासो दाहायैव स्वपार्श्वयोः ॥ ५ ॥
इदानीं चित्तं प्रत्यपि तथैवाह - स्वसत्तेति । तप्तकाञ्चनमिव ज्वलन् रौति
ध्वनतीति तप्तकाञ्चनरुत् अग्निस्तस्मिन् लासः क्रीडा बालानां पक्षिणां वा
पार्श्वयोर्दाहायैव ॥ ५ ॥
पश्य त्वयि सति भ्रान्तजलकल्लोलसङ्कुलाः ।
विशन्ति कालजलधिं संसाअसरितां गणाः ॥ ६ ॥
चित्तेन्द्रियगणसत्ताप्रयुक्तामनर्थपरम्परां दर्शयति - पश्येत्यादिना ।
लडयोरभेदाज्जडानां मूर्खाणां रागद्वेषादिकल्लोलैः सङ्कुलाः ॥ ६ ॥
पतन्त्यहमहमिकाविहितान्योन्यचिन्तिताः ।
कुतोऽपि दुःखावलयो धारा आसारगा इव ॥ ७ ॥
अहमहमिकाः
परस्पराहङ्कारास्ताभिर्विहितान्यन्योन्यवधपराजयपीडनादिचिन्तनानि यासु
ताः ॥ ७ ॥
परिस्फुरत्यपर्यन्ता हृदयोन्मूलनोद्यता ।
आक्रन्दकारिणी क्रूरा भावाभावविषूचिका ॥ ८ ॥
भावाभावौ सम्पद्विपदौ ॥ ८ ॥
कासश्वासरणद्भृङ्गा कलेवरजरद्द्रुमे ।
विकसत्यमलोद्योता जरामरणमञ्जरी ॥ ९ ॥
कल्लोलव्यालवलिते शरीरश्वभ्रकोटते ।
घननीहारखे स्वान्तश्चिन्ताचपलमर्कटी ॥ १० ॥
कल्लोलैर्मनोरथतरङ्गैर्व्यालैर्वलिते शरीरश्वभ्रकोटरे हृदये ।
घननीहाराणि निबिडजाड्यानि खानीन्द्रियच्छिद्रद्वाराणि यस्य । चिन्तालक्षणा
चपला जालरचनव्यग्रा मर्कटी ऊर्णनाभिकीटिका भ्रमतीति शेषः ॥ १० ॥
लोभनाट्यारटत्पक्षी तीक्ष्णया द्वन्द्वतुण्डया ।
कायजीर्णद्रुमादस्माद्गुणखण्डं निकृन्तति ॥ ११ ॥
लोभलक्षणैर्नाट्यैः स्वविलासैरारटन् कूजन् पक्षी तीक्ष्णया
सुखदुःखादिद्वन्द्वलक्षणया तुण्डया चञ्च्वा गुणखण्डं
शान्तिदान्तिधर्मादिफलपुष्पलक्षणं गुणसमूहं निकृन्तति ॥ ११ ॥
हृदयावकरं कीर्णमितश्चेतश्च कर्कशः ।
अपवित्रो दुराचारः कुरुते कामकुक्कुटः ॥ १२ ॥
कामलक्षणः कुक्कुटो रागादिवासनाकीर्णं हृदयं मनस्तल्लक्षणं
अवकरं उत्करं कुरुते पुनःपुनः पादाभ्यां विकिरतीत्यर्थः ॥ १२ ॥
महत्यां मोहयामिन्यामुल्बणोऽज्ञानकौशिकः ।
श्मशान इव वेतालः परिवल्गति हृद्द्रुमे ॥ १३ ॥
अज्ञानं भ्रान्तिज्ञानं तल्लक्षणः कौशिक उलूकः ॥ १३ ॥
एताश्चान्याश्च बह्व्योऽपि त्वयिन्द्रियगणे सति ।
पिशाच्य इव शर्वर्यां प्रवल्गन्त्यशुभश्रियः ॥ १४ ॥
त्वयि त्वसति हे साधो सर्वा एव शुभश्रियः ।
प्रभात इव पद्मिन्यः सालोकं विलसन्त्यलम् ॥ १५ ॥
इदानीं चित्तेन्द्रियगणासत्त्वे सर्वगुणसम्पत्तिं दर्शयति - त्वयीत्यादिना ।
असत्त्वे साधुरेवेति तथा सम्बोधनम् । शुभश्रियो वक्ष्यमाणगुणश्रियः
सालोकं विवेकालोकसहितं यथा स्यात्तथा । प्रभातपक्षेऽपि यथायोगं योज्यम् ।
एवमग्रेऽपि ॥ १५ ॥
प्रशान्तमोहमिहिकं राजते हृदयाम्बरम् ।
निर्मलालोकवलितं नीरजस्कतरान्तरम् ॥ १६ ॥
हृदयाम्बरं हार्दं ब्रह्म नीरजस्कतरमत्यन्तापगतरजोगुणमान्तरं
मनो यस्मिन् ॥ १६ ॥
अशङ्कितनभःकोशपतिताकुलपूरवत् ।
नापतन्ति विकल्पौघाश्चिरं वैकल्यकारिणः ॥ १७ ॥
अशङ्कितं निःशङ्कमेव नभःकोशे पतिता निर्गता वाय्वादिना आकुलाश्च ये
आसारपूरास्तद्वत् वैकल्यकारिणो विक्षेपहेतवो विकल्पौघा नापतन्ति ॥ १७ ॥
सर्वस्याह्लादनी शान्ता मैत्री परमपावनी ।
अभ्युदेति हृदो हृद्या सुतरोरिव मञ्जरी ॥ १८ ॥
अन्तश्छिद्रवती जाड्ययुक्तायुक्तगुणा स्वयम् ।
चिन्ता शोषमुपायाति हिमदग्धेव पद्मिनी ॥ १९ ॥
अन्तश्छिद्रमपूर्णता । जाड्ययुक्तेषु मूर्खेष्वेव आयुक्ता उपयोजिता
विद्याकौशलादिगुणा यया । पद्मिनीपक्षे स्पष्टम् ॥ १९ ॥
आलोकः स्फुटतामन्तरायात्यज्ञानसङ्क्षये ।
प्रशाम्यत्यम्बुदे व्योम्नि शरदीवार्कमण्डलम् ॥ २० ॥
अन्तः आलोकः स्वीयज्ञानप्रकाशः । स्फुटतां प्रकटताम् ॥ २० ॥
प्रसन्नं स्फारगाम्भीर्यमक्षुब्धमपराहतम् ।
हृदयं समतामेति शान्तवात इवार्णवः ॥ २१ ॥
अपराहतं वैषम्यहेतुभिरपरिभूतं हृदयं मनः ॥ २१ ॥
अमृतापूरपूर्णेन नित्यानन्दमयेन च ।
स्थीयते पुरुषेणान्तः शीतेन शशिना यथा ॥ २२ ॥
संविदः स्फुटतामन्तरायान्त्यज्ञानसङ्क्षये ।
संविदंसैकविश्रान्तं समग्रं सचराचरम् ॥ २३ ॥
संविद आत्माकारवृत्तयः स्फुटतां पूर्णत्वापादकं विकासं यान्ति । तेन
च सचाराचरं समग्रं जगद्बाधितं सत् संविदंशैकविश्रान्तं भवतीति
शेषः ॥ २३ ॥
भाव्यते भरिताकारं वपुरानन्दमन्थरम् ।
न भवत्यसुसङ्गानामाशापाशविधायिनाम् ॥ २४ ॥
वपुः आत्मस्वरूपं भरिताकारं पूर्णं भाव्यतेऽनुभूयते नतु
आशापाशविधायिनां असुसङ्गानां प्राणसम्बद्धानां देहादीनां पक्षे
भवतीत्यर्थः । अथवा वपुः शरीरमानन्दाविर्भावमन्थरं
सदमृतप्राशनेनेव भरिताकारं भाव्यते
नत्वन्नपानाद्याशापाशविधायिनामसुसङ्गानां
प्राणाद्यासङ्गपाप्मनां पक्षे भवतीत्यर्थः ॥ २४ ॥
दग्धानामिव पर्णानां रसानां पुनरागतिः ।
पुंसां क्षपितसंसारजराजन्ममहाध्वनाम् ॥ २५ ॥
यथा तरोर्दावदग्धानां पर्णानां पुनर्वर्षासु पल्लवोदयेन आगमो भवति
तद्वत् ज्ञानाग्निक्षपितसंसारजराजन्मोपल्क्षितमहाध्वनामपि पुंसां
रसानामारोग्यतुष्टिपुष्टिकान्त्यादिगुणानां पुनरागमो भवतीत्यर्थः ॥ २५ ॥
अपुनर्भ्रमणायात्मद्रुमे विश्रम्यते चिरम् ।
एवम्प्रायास्तथान्याश्च भवन्ति गुणसम्पदः ॥ २६ ॥
निरतिशयानन्दात्मनि पुनरावृत्तिरहिता विश्रान्तिरेव सर्वगुणसीमा
तदानुषङ्गिका अन्ये गुणास्त्वनन्ता न वर्णयितुं शक्या इत्याशयेनोपसंहरति
- अपुनरिति ॥ २६ ॥
असति त्वयि सर्वाशिन्सर्वाशाक्षयसङ्क्षये ।
पक्षयोरेतयोश्चित्तसत्तासत्तास्वरूपयोः ॥ २७ ॥
एतयोरत्यन्तात्मभावेन स्थितिरात्यन्तिकनैरात्म्यस्वीकारो वेत्येतयोः
पक्षयोर्मध्ये ॥ २७ ॥
येनैव पश्यसि श्रेयस्तमेवाङ्गीकुरु क्षणम् ।
स्वात्मभावस्तव सुखं मन्ये मानवतां वर ॥ २८ ॥
तत्र प्रथमपक्षो वरीयानित्याह - स्वात्मेति ॥ २८ ॥
तमेव भावयाभावं सुखत्यागो हि मूढता ।
यदि त्वस्ति भवेत्सत्यमन्तर्भावितचेतनम् ॥ २९ ॥
अभावं भावान्तरशून्यम् । ननु
किमर्थमन्तर्भावितचेतनपूर्वसिद्धमनोरूपेणैव जीवनं मम नेच्छसि
किमर्थं वा ममात्यन्तमभावमिवेच्छसि तत्राह - यदीत्यादिना । हे चित्त
तव अन्तर्भावितचेतनं यत्प्रसिद्धं रूपमस्ति तद्यदि सत्यं भवेत्तत्तर्हि तेन
रूपेण जीवतस्तवाभावं क इच्छति । किन्तु त्वं तेन रूपेण नास्त्यसि असदसि ।
अहं सत्येन श्रुतिशास्त्रानुभवादिना विचार्य वदामि नापातदर्शनेनेत्यर्थः
॥ २९ ॥
जीवतस्तत्तवात्यन्तमभावं क इवेच्छति ।
किन्तु नास्त्यसि सत्येन वदामि तव सुन्दर ॥ ३० ॥
तेन मिथ्यैव जीवामीत्याशया मा सुखी भव ।
पूर्वमेवासि नास्त्येव यावद्भ्रान्त्या त्वदस्तिता ॥ ३१ ॥
एतदत्यन्तात्मभावेनावस्थानं तवापि हितमित्याह - तेनेति । पूर्वं
प्राथमकल्पिकमेवासि यावत् यतः ॥ ३१ ॥
सैवेदानीं विचारेण भृशं क्षयमुपागता ।
एतावदेव ते रूपं साधो यदविचारणम् ॥ ३२ ॥
सैव भ्रान्तिः ॥ ३२ ॥
विचारे विहिते सम्यक्समरूपं समं स्थितम् ।
अविचारात्प्रजातं त्वमनालोकात्तमो यथा ॥ ३३ ॥
समरूपं सन्मात्ररूपं समं विक्षेपवैषम्यशून्यं स्थितम् ।
अनालोकात्प्रकाशाभावात् ॥ ३३ ॥
विचारेणोपशान्तं त्वमालोकेनतमो यथा ।
एतावन्तं सखे कालं बभूवाल्पविवेकिता ॥ ३४ ॥
तवानेनाभिपीनत्वमभूद्दुःखैककारणम् ।
मोहसङ्कल्पमात्रेण बालबेतालवद्भवेत् ॥ ३५ ॥
अनेन अल्पविवेकत्वेन हेतुना । नन्वसतः पीनत्वं कथं भवेत्तत्राह -
मोहेति ॥ ३५ ॥
द्वन्द्वं चाद्यन्तसङ्कल्पक्षीणं क्षयि भव स्थितम् ।
इदानीमुदितं नित्यं स्वप्राग्रूपे क्षयं गते ॥ ३६ ॥
पीनत्वं तत्प्रयुक्तं सुखदुःखादिद्वन्द्वं च अभूदिति पूर्वेणान्वयः । यतः
स्रष्टुराद्यन्तसङ्कल्पेन सङ्कल्पकाल एव क्षीणमतः क्षयीति
द्वन्द्वविशेषणम् । यस्य विवेकस्य प्रसादेन इदानीं ज्ञानोदयकाले आविद्यके
स्वप्राग्रूपे क्षयं गते सति नित्यमनाद्यन्तमात्मरूपमुदितं तस्मै विवेकाय
नमो नम इति परेणान्वयः ॥ ३६ ॥
विवेकस्य प्रसादेन विवेकाय नमो नमः ।
बहुधापि प्रबुद्धस्त्वं चित्तकाप्यनुबोधितः ॥ ३७ ॥
हे चित्तक त्वं स्वतोऽपि बहुधा प्रबुद्धः शास्त्रेणाप्यनुबोधितः ॥ ३७ ॥
चित्ततायां प्रनष्टायां स्थितस्त्वं परमेश्वरः ।
प्राक्स्वरूपविलासस्ते श्रेयसे स्थितिमागतः ॥ ३८ ॥
प्रागपि त्वं परमेश्वरः स्थितः सम्प्रत्यपि प्रबोधतस्ते स्वरूपविलासः
स्थितिमागत इति महेश्वर एवेति परेणान्वयः ॥ ३८ ॥
समस्तवासनोन्मुक्तः सम्प्रत्यसि महेश्वरः ।
यस्याविवेकादुत्पत्तिः स विवेकाद्विनश्यति ॥ ३९ ॥
प्रकाशेन प्रयात्यन्तमनालोकोऽभवत्तमः ।
अनिच्छतोऽपि ते साधो विचारे स्थितिमागते ॥ ४० ॥
सर्वतोऽयमुपायातो विनाशः सुखसिद्धये ।
तस्मान्नास्त्यसि निर्णीतमिति सिद्धान्तयुक्तिभिः ॥ ४१ ॥
चित्तेन्द्रियेश्वर स्वस्ति भवते त्वन्तमागतः ।
नित्यं पूर्वमभूताय नास्तिरूपाय सम्प्रति ॥ ४२ ॥
वित्त्वेति पाठे हे इन्द्रियेश्वर सिद्धान्तयुक्तिभिः इति वित्त्वा स्वरूपं लब्ध्वा
अन्तं संसारपारमागतो भव । ते तुभ्यं स्वस्ति अस्तु । मनसः
कालत्रयेऽप्यसत्त्वमाह - नित्यमिति ॥ ४२ ॥
भविष्यते च नोदर्कं स्वमनः स्वस्ति तेऽस्त्विति ।
परिनिर्वामि शान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः ॥ ४३ ॥
चित्तासत्तयैव परमपुरुषार्थसिद्धिं दर्शयति - परिनिर्वामीत्यादिना ॥ ४३ ॥
स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदे स्थितः ।
अतो नास्त्येव नास्त्येव संसारे चित्तमस्थिति ॥ ४४ ॥
आत्मा त्वस्त्वेव चास्त्वेव यस्मादन्यत्र विद्यते ।
अयमात्माहमेवासौ नास्त्यन्यन्मदृते क्वचित् ॥ ४५ ॥
स्फुरच्चिदेव बोधात्मा सर्वत्राहं स्थितः सदा ।
अयमात्मेति कलना मन्ये नो निर्मलान्तरे ॥ ४६ ॥
शुद्धचिदेकरसे अयमात्मेति कलनापि यत्र दुर्लभा तत्र
दूरेऽन्यकलनेत्याशयेनाह - अयमिति ॥ ४६ ॥
प्रतियोगिव्यवच्छेदकलनैकस्य वै कुतः ।
अहं तेनायमात्मेति कलनामनुदाहरन् ।
मौनी स्वात्मनि तिष्ठामि तरङ्ग इव वारिणि ॥ ४७ ॥
अत-एव तद्वाचामविषय इत्याह - अहमिति । अनुदाहरन् अनभिलपन् ॥ ४७ ॥
संशान्ताअसनमनाश्रितचेतनांश-
मप्राणसञ्चरणमस्तमितांशदोषम् ।
संवेद्यवर्जितमुपेत्य सुसंविदंशं
शाम्यामि मौनमहमेव निरीहमन्तः ॥ ४८ ॥
अहं अन्तः स्वहृदि संवेद्येन जडांशेन वर्जितम् । तत्कारणाविद्याया अपि
बाधात्संशान्तवासनम् । चिदाभासस्यापि
पृथगनवस्थानादनाश्रितचेतनांशम् ।
तदधीनक्रियाशक्तेरप्युपरमादप्राणसञ्चरणम् । भेदकाभावादेव
अस्तगितांशभेदम् । सममेकरसम् । चिदंशं चिन्मात्रलक्षणम् ।
जगद्बाधपरिशिष्टांशम् । उपेत्य निरीहं निर्मनश्चेष्टं मौनं
निर्वाग्व्यापारं च शाम्यामि । विश्रान्तोऽस्मीत्यर्थः ॥ ४८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे चित्तासत्ताविचारयोगोपदेशो नाम
त्र्यशीतितमः सर्गः ॥ ८३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
चित्तासत्तविचारयोगोपदेशो नाम त्र्यशीतितमः सर्गः ॥ ८३ ॥