८२

द्व्यशीतितमः सर्गः ८२

श्रीवसिष्ठ उवाच ।

विचार एवं विदुषा संवर्तेन कृतः पुरा ।
कथितो मम विन्ध्याद्रौ तेनैव विदितात्मना ॥ १ ॥

इहेन्द्रियाणि च मनो व्यर्थचेष्टादिहेतुभिः ।
वीतहव्येन बोध्यन्ते आत्मैकाग्र्यप्रसिद्धये ॥ १ ॥

कृतस्य विचारस्य साम्प्रदायिकत्वं दर्शयति - विचार इति । संवर्तेन
बृहस्पतिभ्रात्रा ॥ १ ॥

एतां दृष्टिमवष्टभ्य विचारपरया धिया ।
संसारसागरादस्मात्तारतम्येन सन्तर ॥ २ ॥

तारतम्येन उत्तरोत्तरचित्तविश्रान्तिप्रकर्स्ऽपरिपाकप्रयुक्तभूमिकारोहणक्रमेण
॥ २ ॥

अथेमामपरां राम शृणु दृष्टिं पदप्रदाम् ।
मुनिना वीतहव्येन ययाऽस्थितमशङ्कितम् ॥ ३ ॥

अपरां इन्द्रियमनःप्रबोधनरूपां यया दृष्ट्या वीतहव्येन मुनिना
अशङ्कितं निःशङ्कं पदमास्थितमधिरूढमित्यर्थः । यथा इति पाठे
येन प्रकारेण ॥ ३ ॥

वीतहव्यो महातेजा विबभ्राम वने पुरा ।
विन्ध्यशैलदरीर्दीर्घा रविर्मेरुदरीरिव ॥ ४ ॥

विन्ध्यशैलदरीः समाध्यनुकूला अन्वेषमाणो विबभ्राम् ॥ ४ ॥

अस्मात्क्रियाक्रमाद्घोरात्संसारभ्रमदायिनः ।
आधिव्याधिमयाकारात्कालेनोद्वेगमाययौ ॥ ५ ॥

कुतस्तस्य समाधीच्छाभूत्तत्राह - अस्मादिति ॥ ५ ॥

निर्विकल्पसमाध्यंशलभ्योदारपरेच्छया ।
स जहार जगज्जीर्णां स्वव्यापारपरम्पराम् ॥ ६ ॥

जहार उपसञ्जहार । सन्न्यस्तवानिति यावत् ॥ ६ ॥

विवेश रम्भारचितं निजं पर्णोटजान्तरम् ।
कृतगौरं सुसौगन्ध्यमलिनीलमिवोत्पलम् ॥ ७ ॥

रम्भारचितं कदलीदलनिर्मितम् । कृता गौराः श्वेताः पीताश्च कर्पूराः
परागाश्च येन अत-एव सुसौगन्ध्यम् ॥ ७ ॥

तत्रासने समे शुद्धे स्वास्तीर्णहरिणाजिने ।
विशश्रामाचले शान्ते वीतवर्ष इवाम्बुदः ॥ ८ ॥

शान्ते निस्तापे । अचलेशस्य हिमवतोऽन्ते प्रान्ते वा ॥ ८ ॥

बद्धपद्मासनस्तस्थौ पार्ष्ण्योरधिकराङ्गुलिः ।
शृङ्गवच्छान्तचलनमतिष्ठत्स्पष्टकन्धरम् ॥ ९ ॥

पार्ष्ण्योः पादतलमूलयोरधि उपरि कराङ्गुलयो यस्य तथाविधः सन् ।
असमर्थसमासश्छान्दसः । स्पष्टकन्धरं ऊर्द्व्हीकृतग्रीवं यथा
स्यात्तथा ॥ ९ ॥

स जहारालमालोकाद्दिग्विकीर्णं मनः शनैः ।
विशन्मेरुदरीं सायं भानुर्भास इवोत्करम् ॥ १० ॥

दिक्षु इन्द्रियालोकान्निमित्ताद्विकीर्णं मनस्तन्निग्रहोपायेन जहार
हृद्युपसञ्जहार । शनैर्वक्ष्यमाणप्रबोधनक्रामदित्यर्थः ॥ १० ॥

बाह्यानाभ्यन्तरांश्चैव स्पर्शान्परिजहत्क्रमात् ।
इदमाकलयामास मनसा विगतैनसा ॥ ११ ॥

बाह्यानैन्द्रियकानाभ्यन्तरान्मानसांश्च विषयस्पर्शान्परिजहत्यजन्सन् ।
नाभ्यस्ताच्छतुः इति नुम्निषधः । इदं वक्ष्यमाणमाकलयामास
विचारयामास ॥ ११ ॥

अहो नु चञ्चलमिदं प्रत्याहृतमपि क्षणात् ।
न मनः स्थैर्यमायाति तरङ्गप्रौढपर्णवत् ॥ १२ ॥

तरङ्गैः प्रौढेन प्रवाहितेन पर्णेन तुल्यं तरङ्गप्रौढपर्णवत् ॥ १२ ॥

चक्षुरादिभिरुद्दामै रूपैराहितसम्भ्रमैः ।
अजस्रमुत्पतत्येव वीटेव तलताडिता ॥ १३ ॥

चक्षुरादिभिराहितसम्भ्रमैर्नानाविषयरूपैर्निमित्तैः उत्पतति नृत्यति ।
वीष्टेव कन्दुक इव ॥ १३ ॥

त्यजदेवानुगृह्णाति वृत्तीरिन्द्रियवर्धिताः ।
यस्मान्निवार्यते तस्मिन्प्रोन्मत्त इव धावति ॥ १४ ॥

पूर्वपूर्ववृत्तीस्त्यजदेव तत्तदनुसारिणीरुत्तरोत्तरवृत्तिर्गृह्णाति ॥ १४ ॥

घटात्पटमुपायाति पटाच्छकटमुत्कटम् ।
चित्तमर्थेषु चरति पादपेष्विव मर्कटः ॥ १५ ॥

पञ्चद्वाराणि मनसश्चक्षुरादीन्यमून्यलम् ।
दग्धेन्द्रियाभिधानानि तावदालोकयाम्यहम् ॥ १६ ॥

एवं चित्तदोषानालोच्य तन्निर्गमद्वाराण्यालोचितवानित्याह - पञ्चेति ।
दग्धशब्दो निन्दार्थः । छान्दसत्वात् कुत्सितानि कुत्सनैः इति समासो नाश्रितः ॥
१६ ॥

हे हे हतेन्द्रियगणाः किं मे बोधाय नेह वः ।
वेला विलुलिताम्बूनामब्धीनामिव चञ्चलाः ॥ १७ ॥

इदानीमिन्द्रियाण्येव निर्भर्त्स्य बोधयति - हे हे इति । हे चञ्चलाः
हतेन्द्रियगणाः मे मम बोधाय समाधिना चिरमात्मदर्शनाय वः वेला
अवसरो नास्ति किम् ॥ १७ ॥

मा कुरुध्वमनर्थाय चापलं चपलाशयाः ।
स्मरतातीतवृत्तीनि दुःखजालानि भूरिशः ॥ १८ ॥

रूपाणि मनसो यूयं जडा एव किलाधमाः ।
जडे तूत्सिक्तता व्यर्थं मृगतृष्णेव वल्गति ॥ १९ ॥

यूयं मनस एव द्वारभेदेन कल्पितानि स्वरूपाणि । जडे रलयोरभेदाज्जले च
उत्सिक्तता तरङ्गोत्सेकवत्तेव व्यर्थं वल्गति ॥ १९ ॥

असारात्मस्वरूपाणामनालोकवती सदा ।
अन्धानामुद्धतिर्येयं सा दृश्यायैव जायते ॥ २० ॥

असारात्म अनृतं स्वरूपं येषां तथाविधानां भवतामनालोकवती
[अनालोकवतामात्मज्ञानशून्यानां इति मूले टीकायां च पाठः]
आत्मज्ञानशून्या या समुद्धतिर्दुर्विनयादमार्गे प्रवृत्तिः सेयमन्धानां
सादृश्याय उपमार्थमेव जायते । अमार्गे धावतामन्धानां कूपे
पातस्योपमा जायत इत्यर्थः ॥ २० ॥

चिदात्मा भगवान्सरं साक्षित्वेन करोम्यहम् ।
हतेन्द्रियगणा यूयं किं निरर्थकमाकुलाः ॥ २१ ॥

यदि वयं जडाः कस्तर्हि दर्शनादिना सर्वव्यवहारं करोति तत्राह -
चिदात्मेति ॥ २१ ॥

मिथ्यैव मे विवल्गन्ति नीरूपा नयनादयः ।
अलातचक्रप्रतिमाः सर्परज्जुभ्रमोपमाः ॥ २२ ॥

नीरूपाः सत्यस्वरूपशून्याः ॥ २२ ॥

तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः ।
मनागपि न सम्बन्धो द्युपातालतलाद्रिवत् ॥ २३ ॥

येन साक्षिणा बहुज्ञेन सर्वावभासकेन नयनादयः परिज्ञातास्तेन सह
एषां मनागपि सम्बन्धो नास्ति । यथा द्युपातालतलयोः पातालाद्रिभ्यां दिवो
वा पातालतलाद्रिभिस्तद्वदित्यर्थः ॥ २३ ॥

भीतः पान्थ इवाहिभ्यः पुक्कसेभ्य इव द्विजः ।
दूरे तिष्ठति चिन्मात्रमिन्द्रियेभ्यस्त्वनामयम् ॥ २४ ॥

चिन्मात्रं चिदेकरसः प्रत्यगात्मा परग्भ्य इन्द्रियेभ्यो दूरं तिष्ठति ।
पराञ्चि खानि व्यतृणत्स्वयम्भूः इति श्रुतेरिति भावः ॥ २४ ॥

चित्सत्तामात्रकेणालं सङ्क्षोभो भवतां मिथः ।
तिष्ठति स्वैरमादित्ये दिनकार्यवतामिव ॥ २५ ॥

तर्हि कथमिन्द्रियव्यापारे आत्मनो निमित्तताप्रसिद्धिस्तत्राह - चित्सत्तेति ।
दिनकार्याणि श्राद्धकृष्यादीनि तद्वताम् ॥ २५ ॥

चित्त चारण चार्वाक चतुर्दिक्कुक्षिभिक्षुक ।
श्वेव व्यर्थमनर्थाय मैवं विहर हे जगत् ॥ २६ ॥

इदानीं चित्तं सम्बोध्य बोधयति - चित्तेत्यादिना । इन्द्रियाणां
बहिर्मुखताप्रचारहेतुत्वाच्चारण । देहात्माभिमानित्वाच्चार्वाक । चतसृषु
दिक्षु कुक्षिभरणाय भिक्षुक ॥ २६ ॥

अहं चिद्वदिति व्यर्थमसत्या तव वासना ।
अत्यन्तभिन्नयोरैक्यं नास्ति चिन्मनसोः शठ ॥ २७ ॥

चिद्वत् चेतनमिति वासनाभ्रान्तिः ॥ २७ ॥

जीवाम्येवाहमित्येषा तवाहङ्कारदुर्मतिः ।
मिथ्यैव जाता दुःखाय न सत्या सत्यवर्जिता ॥ २८ ॥

न सत्येति । नह्यहङ्काराधीनजीवनं सत्यम् । असत्यपि तस्मिन् सुषुप्तौ
जीवनदर्शनात् । इतोऽपि मिथैव सा यतः सत्येन परमात्मना वर्जिता । न प्राणेन
नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ इति
श्रुतेरित्यर्थः ॥ २८ ॥

अहङ्कारोदये सोऽस्मीत्येतां संरब्धतां त्यज ।
न किञ्चिदपि मूर्ख त्वं किं व्यर्थं तरलायसे ॥ २९ ॥

अहङ्कारस्य अभिमानाख्यपरिणामस्य उदये जाते स
कार्यकारणसङ्घातात्मास्मीत्येतां संरब्धतामभिमानम् ॥ २९ ॥

संविच्चित्त्वमनाद्यन्तं संविदोऽन्यन्न विद्यते ।
देहेस्मिंस्तन्महामूर्ख किं त्वं स्याश्चित्तनामकम् ॥ ३० ॥

तवैव स्वरूपं दुर्लभं त्वया अभिमानेनान्यरक्षणं तु
दूरनिरस्तमित्याशयेनाह - संविदिति ॥ ३० ॥

विषपर्यवसानेयं रसायनवदुत्थिता ।
भोक्तृताकर्तृताशङ्का बत चित्त मुधैव हि ॥ ३१ ॥

परिणामे विषपर्यवसाना । भोगकाले रसायनवदुत्थिता ॥ ३१ ॥

मोपहासपदं गच्छ मूर्खेन्द्रियगणाश्रयम् ।
न कर्ता त्वं न भोक्ता त्वं जडोऽस्यन्येन बोध्यसे ॥ ३२ ॥

इन्द्रियगणानामाश्रयणमाश्रयं कृत्वेति शेषः । अन्येन साक्षिणा ॥ ३२ ॥

कस्त्वं भवसि भोगानां के वा भोगा भवन्ति ते ।
जडस्यात्मैव ते नास्ति बन्धुमित्रादि तत्कुतः ॥ ३३ ॥

भोगानुभवशक्तिशून्यस्य जडस्य मिथ्याभूतस्य च तव भोगाशा
व्यर्थेत्याह - कस्त्वमिति ॥ ३३ ॥

यज्जडं तद्धि नस्त्येव सदेवासत्तयान्वितम् ।
ज्ञत्वकर्तृत्वभोक्तृत्वमन्यत्वानामसम्भवात् ॥ ३४ ॥

आत्मैव ते नास्तीत्येतदुपपादयति - यदिति । सत् परसत्तावशाद्विद्यमानतया
भासमानमेव स्फटिके लौहित्यमिव स्वतः असत्तयान्वितम् । ज्ञत्वं च
कर्तृत्वं च भोक्तृत्वं च मन्यते पूर्वापरमनुसन्धत्ते इति मन्यस्तत्त्वं
च तेषां चैतन्यमन्तरेणासम्भवात् ॥ ३४ ॥

प्रत्यक्चेतनरूपश्चेत्त्वं तदात्मैव ते वपुः ।
भावाभावमयी चित्तसत्ता ते केव दुःखदा ॥ ३५ ॥

तर्ह्यहं प्रत्यक्चैतन्यरूपमेव किं न स्यामिति चेत्तर्हि तव सदा निर्विकल्पैव
स्थिर्युक्ता नतु दुःखदा कर्तृत्वभोक्तृत्वभावाभावविकल्पमयीत्याह -
प्रत्यगिति । नच सर्वविकल्पत्यागे चित्तता तवास्तीति भावः ॥ ३५ ॥

यथा कर्तृत्वभोक्तृत्वे मिथ्यैवाधिगते त्वया ।
मया ते हि प्रमार्ज्येते शृणु युक्त्या कथं शनैः ॥ ३६ ॥

अचेतनत्वे तु अयत्नेनैव कर्तृत्वादिकं प्रमार्जितुं शक्यमित्याह - यथेति ॥
३६ ॥

स्वयं तावद्भवानेष जडो नास्त्यत्र संशयः ।
जडस्य कीदृक्कर्तृत्वं नृत्यन्तीह कथं शिलाः ॥ ३७ ॥

शिलाः शिलापुत्रिकाः ॥ ३७ ॥

उपजीव चिरं तस्माच्छुद्धं तद्भागमैश्वरम् ।
जीवसीच्छसि हंसि त्वं वृथा यासि विवल्गसि ॥ ३८ ॥

यदि ब्रुषे काष्ठप्रतिमा चेतनव्यापारमुपजीव्य नृत्यन्ती दृष्टेति तर्हि
त्वमपि तदैश्वरं चिदाभासभागमुपजीव । तथाच प्रतिमानृत्यफलभोक्ता
यथा चेतन एव न प्रतिमा तथा त्वत्कृतजीवनादिफलभोक्ता चिदात्मैवेति त्वं
वृथा जीवनाद्यर्थं धावसीत्यर्थः ॥ ३८ ॥

क्रियते यत्तु यच्छक्त्या तत्तेनैव कृतं भवेत् ।
लुनाति दात्रं पुंशक्त्या लावकः प्रोच्यते पुमान् ॥ ३९ ॥

दात्रं शङ्कुला ॥ ३९ ॥

हन्यते यस्तु यच्छक्त्या स तेनैव हतो भवेत् ।
निहन्ति खड्गः पुंशक्त्या हन्तैव प्रोच्यते पुमान् ॥ ४० ॥

पुमानेव हन्ता प्रोच्यत इत्यन्वयः ॥ ४० ॥

पीयते यस्तु यच्छक्त्या पीतं तेनैव तद्भवेत् ।
पात्रेण पीयते पानं पाता यस्तूच्यते नरः ॥ ४१ ॥

यस्तु नरः स एव पाता उच्यते न पात्रम् ॥ ४१ ॥

प्रकृत्येवासि सुजडः समस्तज्ञेन बोध्यसे ।
तेनात्मैवात्मनात्मानं चिनोतीदं हि नो भवत् ॥ ४२ ॥

चिनोति भोक्तृभोग्यकरणोपकरणादिभावेन स्वप्न इव सञ्चिनोति ।
भवच्छब्दस्य सर्वनाम्नो नपुंसके भवदिति रूपम् ॥ ४२ ॥

अनारतं बोधयति त्वामात्मा परमेश्वरः ।
बोधनीया बुधैर्मूढाः किलावृत्तिशतैरपि ॥ ४३ ॥

बोधयति चिदाभासव्याप्त्या स्फोरयति । युक्तं चैतदित्याह - बोधनीया इति ॥
४३ ॥

आत्मसत्तैव बोधैकरूपिणी स्फुरतीह हि ।
तयैव चित्तशब्दार्थावङ्गीकृत्य त्वया स्थितम् ॥ ४४ ॥

अत-एव बोधसत्ताधीनस्तव नामरूपाभ्यामात्मलाभ इत्याह - आत्मेति ॥
४४ ॥

एवं चित्त त्वमज्ञानादात्मशक्तेरुपागतम् ।
ज्ञाने त्वया विगलितं तीव्रे हिममिवातपे ॥ ४५ ॥

तथाचात्मैव स्वाज्ञानात्त्वमिव सम्पन्नः स्वज्ञानात्त्वद्भावान्मुच्यत
इत्याह - एवमिति । विगलितं भावे क्तः ॥ ४५ ॥

तस्मान्मृतं त्वं मूढं त्वं नासि त्वं परमार्थतः ।
तदेवाहमिति व्यर्थमतो मास्त्वसुखाय ते ॥ ४६ ॥

तदात्मैवाहमिति तादात्म्याध्यासो मास्तु । असुखाय जन्मादिदुःखाय ॥ ४६ ॥

असत्या चित्तकलना इन्द्रजाललता इव ।
विज्ञानमात्रमेवेह ब्राह्ममङ्गं विजृम्भितम् ॥ ४७ ॥

ब्राह्मं अङ्गं स्वरूपम् ॥ ४७ ॥

नरामरजगद्रूपैर्ब्राह्मी शक्तिरुदेत्यलम् ।
सामुद्रकणकल्लोलजालैर्वेलेव वल्गति ॥ ४८ ॥

शक्तिश्चिच्छक्तिसंवलिता माया । अत-एव वेलेव ॥ ४८ ॥

चिन्मयश्चेद्भवेर्मूढ तत्तस्मात्परमात्पदात् ।
नित्यमव्यतिरिक्तं त्वं [व्यतिरिक्तस्त्वमित्येव पाठो युक्तः]
किमन्यत्परिशोचसि ॥ ४९ ॥

हे मूढ त्वं आत्मत्वबोधाच्चिन्मयश्चेद्भवेस्तत्तर्हि चितो
भेदकारणाभावात्परमात्पदान्नित्यमव्यतिरिक्त एव ॥ ४९ ॥

सर्वगं सर्वभावस्थं सर्वरूपं हि तत्पदम् ।
तत्प्राप्तौ सर्वमेवाज्ञ प्राप्तं भवति सर्वदा ॥ ५० ॥

तदा अप्राप्तविषयाभावादनुशोको निर्विषयो न सम्भाव्य इत्याशयेनाह -
सर्वगमिति । सर्वेष्वतीतानागतभावेष्वपि स्थितम् ।
कालकृतपरिच्छेदशून्यमिति यावत् ॥ ५० ॥

न त्वमस्ति न देहोस्ति ब्रह्मास्तीह महत्स्फुरत् ।
अहन्त्वमिति निःस्पन्दे स्फुरत्यार्तिर्हि कस्य का ॥ ५१ ॥

तदा त्वं पृथङ्नास्ति । छान्दसः पुरुषव्यत्ययः । अहन्त्वमित्याभासो
निःस्पन्दे आत्मनि स्फुरति अतः कस्य का वा आर्तिः ॥ ५१ ॥

आत्मा चेत्त्वं तदात्मैव सर्वगोऽस्तीह नेतरः ।
आत्मनोऽन्यज्जडत्वं चेत्तत्त्वं नास्त्यस्ति तद्वपुः ॥ ५२ ॥

उक्तकल्पद्वयं पुनः स्पष्टमाह - आत्मेति ॥ ५२ ॥

आत्मैव सर्वं त्रिजगत्तदन्यत्तु न किञ्चन ।
तत्त्वं किञ्चित्त्वमात्मान्यद्यदि तत्त्वं न किञ्चन् ॥ ५३ ॥

तत्तस्माद्यदि त्वं किञ्चिदात्मान्यद्यदि भवसि तदा किञ्चन तत्त्वं
परमार्थरूपं नेत्यर्थः ॥ ५३ ॥

अहं त्विदमहं तन्म इति व्यर्थं किमीहसे ।
असद्वपुः किं स्फुरति शशशृङ्गेण को हतः ॥ ५४ ॥

अहं तु इदं बालशरीरम् । अहं तद्वृद्धशरीरम् । तद्बालशरीरसम्बन्धि
क्रीडोपकरणादि वृद्धशरीरसम्बन्धिपुत्रपौत्रादि च मे मम इति व्यर्थ
किमीहसे । नह्यात्मभूतस्य शरीरता वास्तवीत्यसद्वपुः किं स्फुरतीत्यर्थः ॥ ५४

तृतीया कलना नास्ति चिज्जडांशेतरा शठ ।
छायातपनयोर्मध्ये तृतीयेवानुरञ्जना ॥ ५५ ॥

तर्हि चिदचिद्व्यतिरिक्तं तृतीयं स्वरूपमहं किं न स्यां तत्राह -
तृतीयेति । यथा जगति च्छायातपान्यतरानुरञ्जना सर्ववस्तुष्वस्त्येव तृतीया
विधा नास्ति तद्वदित्यर्थः ॥ ५५ ॥

सत्यावलोकनाज्जाते चित्तजाड्यदृशोः क्षये ।
सम्पद्यते यत्तु तज्जं स्वसंवेदनमात्रकम् ॥ ५६ ॥

तर्ह्ययं तत्त्वतः किंस्वरूपमिति चेच्चरमसाक्षात्कारवृत्त्या अविद्यया सह
त्वदीयजाड्यस्य त्वदन्तर्गतचिदाभासस्य च क्षये
चरमसाक्षात्कारवृत्त्याविर्भूतं यत्स्वप्रकाशपूर्णात्मरूपं तदेव
त्वमित्याह - सत्येति । तज्जं तस्मात्सत्यावलोकमादाविर्भूतम् ॥ ५६ ॥

तेन मूढ न कर्तृत्वं न भोक्तृत्वं तवापि हि ।
तदेवासि परं ब्रह्म त्यज मौर्ख्यं भवात्मवान् ॥ ५७ ॥

केवलं ज्ञत्वविषयमुपदेशार्थसिद्धये ।
त्वया करणभूतेन करोत्यात्मेति कथ्यते ॥ ५८ ॥

यद्यहमात्मैव तर्हि मनसैवानुद्रष्टव्यं मनसैवेदमाप्तव्यं नेह
नानास्ति किञ्चन इत्यादिश्रुतिषु मम आत्मोपकरणत्वं कथमुक्तं तत्राह ##-
तत्त्वमसीत्याद्युपदेशानां प्रयोजनसिद्धये करणत्वेन कल्पितेन त्वया
केवलं शुद्धं स्वतत्त्वं ज्ञत्वं चरमसाक्षात्कारस्तद्विषयं करोति ।
यथा स्वमुखतत्त्वं दिदृक्षुर्दर्पणोपाध्यधिरूढेन स्वमुखेनैव
करणेन मुखं पश्यति तद्वदिति भावः ॥ ५८ ॥

असत्स्वरूपं करणं जडं निरवलम्बनम् ।
निःस्पन्दनं न स्पन्देत कर्तृसम्बोधनं विना ॥ ५९ ॥

यदि त्वं करणस्वभावमेव स्वं मन्यसे तर्हि तव चलनेऽपि स्वतः सामर्थ्य
नास्तीति कर्तृत्वाभिमानस्तव वृथैवेत्येतदुपपादयति -
असत्स्वरूपमित्यादिना । निःस्पन्दनं स्वतः स्पन्दनशक्तिरहितम् ।
कर्तृसम्बोधनं चैतन्यकृतं कर्तव्यार्थप्रकाशम् ॥ ५९ ॥

अकर्तुः करणस्यास्य शक्तिः काचिन्न विद्यते ।
दात्रस्य लावकाभावे कर्तुं किमिव शक्तता ॥ ६० ॥

अकर्तुं कर्त्रनधिष्ठितस्य ॥ ६० ॥

खड्गप्रहारविच्छेदक्रियायां पुंसि शक्तता ।
न खड्गे सुजडे चित्त सर्वाङ्गेष्वपि शक्तता ॥ ६१ ॥

सर्वाङ्गेषु आमूलाग्रं सर्वावयवेषु सर्वेष्वङ्गेषु उपकरणेषु सत्स्वपीति वा
॥ ६१ ॥

तस्मान्नासि सखे कर्तृ मा व्यर्थं दुःखभाग्भव ।
परार्थं क्लेशिता मूर्ख प्राकृतेषु न शोभते ॥ ६२ ॥

प्राकृतेषु पामरतुल्येषु प्रकृतिकार्येषु । आत्मनस्तु शोभत एव ॥ ६२ ॥

ईश्वरो नेदृशः शोच्यो यस्त्वया सदृशो भवेत् ।
नच तस्य कृतेनार्थो नाकृतेनेह कश्चन ॥ ६३ ॥

नन्वीश्वर एव मोहाज्जीवतां प्राप्तः अशनायादिना पीड्यमानः कथं
मयोपेक्षणीय इति तदर्थ सर्वप्रयत्नैर्घटमानमहं तमनुशौचामीति
चेत्तत्राह - ईश्वर इति । यस्त्वया सदृशः स एव त्वया शोचयः । ईश्वरस्तु
नेदृश इत्यर्थः ॥ ६३ ॥

गर्वात्तुपकरोम्येनमिति केवलमल्पधीः ।
क्लिश्यते वसतां त्वर्थो न किञ्चिदुपयुज्यते ॥ ६४ ॥

गर्वात्कार्यकारणसङ्घाताभिमानादेनमात्मानमुपकरोमीति भ्रान्त्या त्वया
अल्पा परिच्छिन्ना धीर्बुद्धिः क्लिश्यते पीड्यते । सङ्घाते वसतां
पञ्चप्राणमनोबुद्धिदशेन्द्रियाणां सर्वेषामचेतनत्वाद्भोगैर्नार्थ इति न
किञ्चित्कस्यचिदुपयुज्यत इत्यर्थः ॥ ६४ ॥

कर्तुर्भोगेश्वरस्यैवमर्थे चेदनुवर्तसे ।
तदस्य काचिन्नेच्छेह तृप्तत्वात्सर्वदैव हि ॥ ६५ ॥

अतः परिशेषादीश्वरस्यार्थे त्वत्प्रवृत्तिर्वाच्या तत्र तूक्तमेवोत्तरमित्याह ##-

अकृत्रिमावभासेन सर्वगेन चिदात्मना ।
एकेनैवेदमापूर्णं कल्पनैवास्ति नेतरा ॥ ६६ ॥

कुतस्तस्य नेच्छेति चेत्पूर्णत्वादद्वयत्वाच्चेत्याह - अकृत्रिमेति ॥ ६६ ॥

एकानेकावभासेन समस्तेन तदात्मना ।
आत्मन्येवान्तरात्मान्तः क्रियते किं किमिष्यते ॥ ६७ ॥

सर्वस्य जगतः स्वात्मनि तेनैव कल्पितत्वेनाप्राप्तत्वाभावादपि तत्र तस्य
नेच्छेत्याह - एकेति । आत्मना आत्मन्येवाविद्यकेन एकानेकावभासेन
तज्जगद्रूपं क्रियते तत्र किं किमलभ्यं यदिष्यते ॥ ६७ ॥

त्वादृशस्य तु दृष्ट्यैव क्षुब्धता जायते मुधा ।
आलोक्य राजमहिषीं यूनो मदमयीं तथा ॥ ६८ ॥

यदि सर्वमीश्वरस्वं तर्हि तत्र कथं ममेच्छा तत्राह - त्वादृशस्येति ।
मूर्खस्येत्यर्थः ॥ ६८ ॥

आत्मना सह सम्बद्धं चेतः कर्त्रसि सुन्दर ।
किन्तु नास्यासि सम्बन्धि कुसुमस्य यथा फलम् ॥ ६९ ॥

तर्हि तेनेश्वरेणैव सम्बध्य तदनुग्रहाद्भोगान् लप्स्यामि तत्राह -
आत्मनेति । आत्मसम्बन्धेच्छाया रमणीयत्वात्सुन्दरेति । अस्यात्मनः सम्बन्धि
सम्बन्धयोग्यं नासि । यथा कुसुमादुत्पन्नमपि फलं
कुसुमबहिर्मुखत्वात्तत्सौगन्धाद्युपभोगसम्बन्धयोग्यं न भवति
तदभिवृद्धौ कुसुमस्यैव तिरोभावात्तद्वत्त्वमपीत्यर्थः ॥ ६९ ॥

द्वितीयेन समं यैषा तत्तावद्भवनैकता ।
सा सम्बन्धगतिः प्रोक्ता प्राग्द्वित्वादधुनैकता ॥ ७० ॥

सम्बन्धयोग्यतामुपपादयितुं मुख्यसम्बन्धलक्षणमाह - द्वितीयेनेति
। एकस्य द्वितीयेन समं एकतरक्रियया उभयक्रियया च मिलनात्तस्य पूर्वस्य
तावद्भवनमपरान्तर्भावस्तेन एकता वा सा सम्बन्धगतिः सम्बन्धस्य
फलतो लक्षणमित्यर्थः । तदेव सङ्क्षिप्याह - प्रागिति ॥ ७० ॥

नानाप्रकाररचना नानारूपक्रियोन्मुखी ।
सुखदुःखदशाऽहेतुर्भवान्नैकविधास्मृता ॥ ७१ ॥

तादृशे च मिख्ये सम्बन्धे भवान् अहेतुः । यतस्तव स्वतो नैकविधा
कार्त्यतश्च नानाप्रकाररचना नानारूपविहितनिषिद्धक्रियोन्मुखी
सुखदुःखदशा आ समन्तात्स्मृता प्रसिद्धेत्यर्थः ॥ ७१ ॥

सम्बन्धः समयोर्दृष्टस्तथार्धसमयोरपि ।
न विलक्षणयोश्चान्यस्तस्मिन्सति जगत्त्रये ॥ ७२ ॥

समयोः क्षीरयोः । अर्धसमयोः क्षीरनीरयोः ।
विलक्षणयोर्वारिवह्न्योरिवात्यन्तविरुद्धयोः यतस्तस्मिन्विरुद्धसन्निपाते सति
अन्य एकतरस्य नाश एव दृष्टो न सम्बन्धावस्थानमित्यर्थः ॥ ७२ ॥

द्रव्यान्तरगुणा द्रव्याण्याश्रयन्ति बहून्यलम् ।
संविदश्च्यवनं दुःखं संविदो मा च्युतो भव ॥ ७३ ॥

ननु शब्दस्पर्शरूपादिविरुद्धगुणवतामपि सूक्ष्मभूतानां
पञ्चीकरणेन सम्बन्धवन्मम आत्मसम्बन्धः किं न स्यात्तत्राह -
द्रव्यान्तरेति । तत्र न परस्परविरुद्धता यतो द्रव्यान्तरगुणा अपि परस्परमेलने
पञ्चीकृतद्रव्याण्याश्रयन्ति । तथा चाहुः शब्दैकगुणमाकाशं
शब्दस्पर्शगुणो मरुत् । शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज उच्यते ।
शब्दस्पर्शरूपरसगुणैरापश्चतुर्गुणाः । शब्दस्पर्शरूपरसगन्धैः
पञ्चगुणा मही ॥ इति । इह तु संविज्जाड्ययोर्विरोधाज्जडात्त्वत्तः
संविदश्च्यवनं चेत्साधकाभावाज्जडांशो न सिद्ध्यत्येवेति
त्वदसिद्धिप्रसङ्गदुःखम् । संविदः सकाशात्तव च्यवनं चेत्त्वया
स्वनाशार्थमेवात्मसम्बन्धोऽपेक्षितः स्यात् । अत आत्मसम्बन्धमपेक्षमाण
उभयथापि त्वं संविदः सकाशान्मा च्युतो भवेत्यर्थः ॥ ७३ ॥

एतावतैकध्यानेन नित्यध्यानोऽथवात्मदृक् ।
अभावे दुःखदस्यान्तर्दृशा दृश्यस्य वस्तुनः ॥ ७४ ॥

अथवा अन्तर्दृशा संविदा दुःखदस्य दृश्यस्य त्वदादेर्वस्तुनः अभावे
नाशे सति निर्दुःखनिरतिशयानन्दात्ममात्रपरिशेषः । एतावता चेत्सन्तुष्यसि
तदा एकाग्रेण ध्यानेन नित्यध्यानश्चिरमविच्छिन्नसमाधिः सन्
आत्मदृगात्मदर्शी भवेत्यर्थः ॥ ७४ ॥

सङ्कल्पोन्मुखतां विद्धि दुःखदां संविदश्च्युतिम् ।
जडेषूपलभूतेषु मनोदेहेन्द्रियादिषु ॥ ७५ ॥

समाधावेव तव सुखं नतु सङ्कल्पोन्मुखत्वे । यतः सङ्कल्पैर्निर्झरोदकं
शिलासु च्युतमिव देहादिषु च्युता संविदिन्द्रियद्वारैर्बहुधा विभज्यमाना
विशीर्यत इवेति तदेव दुःखमित्याह - सङ्कल्पेति ॥ ७५ ॥

कीदृशी कर्तृता चित्त पुष्पं व्योम्नि कथं भवेत् ।
निरस्तकलना पङ्के मननध्वंसरूपिणि ॥ ७६ ॥

ननु नाहं सङ्कल्पयामि किन्त्वात्मैव कर्तृतास्वभावात्सङ्कल्पयतीति
चेन्नैतदित्याह - कीदृशीत्यादिना ॥ ७६ ॥

नचैवात्मनि कर्तृत्वं सम्भवत्यम्बराङ्गवत् ।
अयं केवलमात्मैव नानानानातयात्मनि ॥ ७७ ॥

त्वत्कल्पितया नानानानातया आत्मा केवलं स्फुरत्येव न कल्पयतीत्यर्थः ॥ ७७ ॥

स्फुरत्यब्धिरिवाम्भोभिः फेनबुद्बुदवीचिभिः ।
आभासमात्रे सर्वस्मिन्स्फुरत्यस्मिंश्चिदात्मनि ॥ ७८ ॥

द्वितीया नास्ति कलना तप्ताङ्गार इवाम्बुधौ ।
कलनारहिते देवे देहे मनसि वा जडे ॥ ७९ ॥

यथा अम्बुधौ तप्ताङ्गारो नास्ति तद्वत् । एवमात्मदेवे कलनारहिते सति देहे
मनसि च जडे सति विवेकदृशा इदमन्यदिदमशुभमिदं नान्यदिदं
शुभमित्याद्यसत्कल्पना कल्पकाभावादेव नास्तीति संवेद्यरहिता संविदेव सा
नेतरदिति सिद्धमिति परेणान्वयः ॥ ७९ ॥

संवित्संवेद्यनिर्मुक्ता सारं सुन्दर नेतरत् ।
इदमन्यदिदं नान्यच्छुभं वाऽशुभमेव च ॥ ८० ॥

इत्यसत्कल्पना नास्ति यथा नभसि काननम् ।
संवेद्यरहितं संविन्मात्रमेवेदमाततम् ।
तत्रायमहमन्योऽयमित्यसत्कलना कथम् ॥ ८१ ॥

तदेव स्पष्टमाह - संवेद्येति ॥ ८१ ॥

अनादिमति नीरूपे सर्वगे विततात्मनि ।
आरोपयेत्कः कलनामृग्वेदं व्योम्नि को लिखेत् ॥ ८२ ॥

ऋग्वेदग्रहणं लेख्यमात्रोपलक्षणम् ॥ ८२ ॥

नित्योदिते सकलवस्तुपदार्थसारे
संवित्स्थिते भरितनिर्भरभूरिदिक्कम् ।
आत्मन्यसत्यमिव साधु गतेऽमलत्वात्
क्षीणौ सुखासुखलवौ मम वै स मोहः ॥ ८३ ॥

हे चित्त त्वया अमलत्वात्स्वनैर्मल्यात्सकलेषु वस्तुत्वेन प्रसिद्धेषु पदेष्वर्थेषु
च सारभूते संविन्मात्रस्वभावस्थिते आत्मनि भरितानिर्भरभूरिदिक्कं यथा
स्यात्तथा साधु असन्दिग्धापरोक्षतया गते अवगते सति मम सुखासुखलवौ
असत्यमिव मृगतृष्णोदकरज्जुसर्पशुक्तिरजतादिकमिव क्षीणौ यतः वै इति
निश्चयेन स प्राक्तनसुखदुःखप्रत्ययो मोहो भ्रान्तिरेव न यथार्थ इत्यर्थः
॥ ८३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे इन्द्रियानुशासनयोगोपदेशो नाम
द्व्यशीतितमः सर्गः ॥ ८२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
इन्द्रियानुशासनयोगोपदेशो नाम द्व्यशीतितमः सर्गः ॥ ८२ ॥