एकाशीतितमः सर्गः ८१
श्रीवसिष्ठ उवाच ।
एवं विचार्य बुद्ध्वान्तः पुनरित्थं विचार्यते ।
तत्त्वविद्भिर्महाबाहो ज्ञेय आत्मा महात्मभिः ॥ १ ॥
यत्नैः प्राक्चित्तवेतालो देहगेहाद्विवासितः ।
इहानुभवयुक्तिभ्यां चित्तासत्तोपपाद्यते ॥ १ ॥
आत्मा ज्ञेयः अवश्यं ज्ञातव्य इति विचारतत्त्वविद्भिः पुनरित्थं
वक्ष्यमाणप्रकारेण विचार्यते चित्तमिति शेषः ॥ १ ॥
आत्मैवेदं जगदिति सत्यं चित्तेन मार्जितम् ।
उत्थितं स्यात्कुतश्चित्तमहो चित्तमवस्तु यत् ॥ २ ॥
येन चित्तेन आत्मैवेदमिति बोधेन जगन्मार्जितन्तच्चितं कुत उत्थितं स्यात्
यज्जगदन्तःपातेन स्वयमप्यवस्तु । अहो इत्याश्चर्ये ॥ २ ॥
अविद्यत्वादचित्तत्त्वान्मायात्वाच्चासदेव हि ।
ध्रुवं नास्त्येव वा चित्तं भ्रमादन्यत्खवृक्षवत् ॥ ३ ॥
अवस्तुत्वमेव साधयति - अविद्यत्वादिति ।
जडत्वाच्चित्तान्तरशून्यत्वान्मायाकार्यत्वाच्च ध्रुवं निश्चयेन चित्तं
नास्त्येवेत्यसदेव । अथवा खवृक्षवद्भ्रमादेवान्यद्वस्तुतस्तु शुद्धं
खगिवात्मैव तदित्यर्थः ॥ ३ ॥
सिद्धः स्थाणुपरिस्पन्दो नौगतस्य यथा शिशोः ।
अबुद्धस्य न बुद्धस्य तथा चित्तमसन्मयम् ॥ ४ ॥
यथा नैकागतस्य शिशोर्बालस्य स्थाणुपरिस्पन्दो
भ्रान्तिमात्रसिद्धस्तद्वदबुद्धस्य चित्तं सिद्धमपि बुद्धस्यात्मविदो न
सिद्धं किन्त्वसन्मयमेवेत्यर्थः ॥ ४ ॥
मौर्ख्यमोहभ्रमे शान्ते चित्तं नोपलभामहे ।
चक्रारोहभ्रमस्यान्ते पर्वतस्पन्दनं यथा ॥ ५ ॥
तैलेक्ष्वादियन्त्रचक्रारोहणप्रयुक्तभ्रमस्यान्ते तदवरोहणोत्तरमित्यर्थः ॥ ५
॥
एवं हि चित्तं नास्त्येव ब्रह्मैवास्ति तथात्मकम् ।
पदार्थभावनाश्चित्तात्तेनासत्या मयोज्झिताः ॥ ६ ॥
यतो बाह्याभ्यन्तरपदार्थभावना असतश्चित्तात्प्रसृतास्तेन हेतुना असत्या इति
मया उज्झितास्त्यक्ताः ॥ ६ ॥
जातोऽस्मि शान्तसन्देहः स्थितोऽस्मि विगतज्वरः ।
तथा तिष्ठामि तिष्ठामि तथैव विगतैषणम् ॥ ७ ॥
यथा येन पारमार्थिकस्वभावेन तिष्ठामि तथैवेदानीं स्वानुभवेनापि
तिष्ठामि नान्यथाभूत इत्यर्थः ॥ ७ ॥
चित्ताभावे परिक्षीणा बाल्यतृष्णादयो गुणाः ।
आलोकोपरमे चित्रा वर्णाख्या इव संविदः ॥ ८ ॥
बाल्यं बालस्य कर्म चापलम् । वर्णान् रूपभेदानाख्यान्ति प्रथयन्ति
तथाविधाश्चाक्षुषसंविद इव ॥ ८ ॥
मृतं चित्तं गता तृष्णा प्रक्षीणो मोहपञ्जरः ।
निरहङ्कारता जाता जाग्रत्यस्मिन्प्रबुद्धवान् ॥ ९ ॥
अस्मिन्नहमात्मनि जाग्रति अपगताज्ञाननिद्रे सति अहं प्रबुद्धवान्
स्वाभाविकं स्वरूपमित्यर्थः ॥ ९ ॥
एकमेव जगच्छान्तं नानात्वं न सदित्यपि ।
किमन्यद्विमृशाम्यन्तः कथयैवालमेतया ॥ १० ॥
जगत् शान्तं सदेकं ब्रह्मैव । एतया असद्विषयिण्या कथयैवालम् । प्रयोजनं
नास्तीत्यर्थः ॥ १० ॥
निराभासमनाद्यन्तं पदं पावनमागतः ।
सौम्यः सर्वगतः सूक्ष्मः स्थित आत्मास्मि शाश्वतः ॥ ११ ॥
निर्गत आभासश्चिदाभासलक्षणा जीवता यत्र ॥ ११ ॥
यदस्ति यच्च नास्तीह चित्ताद्यात्माद्यवस्तु च ।
तत्खादच्छतरं शान्तमनन्ताग्राह्यमाततम् ॥ १२ ॥
यल्लोके व्यवहारदृशा चित्तादिश्रुतिदृशा च आत्मब्रह्मचैतन्यादि च अस्तीति च
प्रसिद्धम् । यच्च रज्जुसर्पादि वन्ध्यापुत्रादि च नास्तीति प्रसिद्धं वस्त्ववस्तु च
तत्सर्वं खादाकाशादप्यच्छतरं निर्मलतरं अग्राह्यं स्वप्रकाशं
ब्रह्मैवाततं तस्मिन्नेव सदसद्रूपविकल्पारोपादित्यर्थः ॥ १२ ॥
चित्तं भवतु मा वान्तर्म्रियतां स्थितिमेतु वा ।
को विचारणयार्थो मे चिरं साम्योदितात्मनः ॥ १३ ॥
विचाराकारको मौर्ख्यादहमासं मितस्थितिः ।
विचारेणामिताकारः क्व नामाहं विचारकः ॥ १४ ॥
अहमेतावत्कालं मौर्ख्याद्विचारस्य अकारकः अकर्ता सन् मितस्थितिः
परिच्छिन्नदेहादिस्वभाव आसम् । सम्प्रति विचारेण अमिताकारः सन् विचारकः
अहं क्व नाम गत इति न निरूपयितुं शक्य इत्यर्थः ॥ १४ ॥
मृतेऽपि मनसीयं मे विकल्पश्रीर्निरर्थिका ।
मनोवेतालवृत्त्यर्थं किमर्थमुपजायते ॥ १५ ॥
मनसि मृते सति विचारकोऽस्ति न वेति विकल्पश्रीरपि निरर्थिका मनोवेतालस्य
वृत्त्यर्थं पुनर्जीवनार्थं किमर्थमुपजायते । अतस्तामिमां प्रजहामीति
परेण सम्बन्धः ॥ १५ ॥
तामिमां प्रजहाम्यन्तः सङ्कल्पकलनामिति ।
निर्णीयोमिति शान्तात्मा तिष्ठाम्यात्मनि मौनवत् ॥ १६ ॥
ओमिति ॐकारलक्ष्ये तुरीये आत्मनि मौनवदिति स्थितिक्रियादृष्टान्तः ॥ १६ ॥
अश्नन्गच्छन्स्वपंस्तिष्ठन्निति राघव चेतसा ।
सर्वत्र प्रज्ञया तज्ज्ञः प्रत्यहं प्रविचारयेत् ॥ १७ ॥
कृतं विचारमुपसंहांस्तस्य सदैव कर्तव्यतामाह - अश्नन्निति ।
यथाहुः गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो
यस्यासौ मृत उच्यते ॥ इति ॥ १७ ॥
प्रविचार्य स्वसंस्थेन स्वस्थेन स्वेन चेतसा ।
तिष्ठन्ति विगतोद्वेगं सन्तः प्रकृतकर्मसु ॥ १८ ॥
प्रकृतकर्मसु स्वस्ववर्णाश्रमोचिताचारेषु ॥ १८ ॥
विगतमानमदा मुदिताशयाः
शरदुपोढशशाङ्कसमत्विषः ।
प्रकृतसंव्यवहारविहारिण-
स्त्विह सुखं विहरन्ति महाधियः ॥ १९ ॥
शरदा उपोढेन शशाङ्केन समा त्विट् प्रसन्नमुखकान्तिर्येषाम् ॥ १९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे चित्तासत्ताप्रतिपादनं नामैकाशीतितमः
सर्गः ॥ ८१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
चित्तासत्ताप्रतिपादनं नामैकाशीतितमः सर्गः ॥ ८१ ॥