८०

अशीतितमः सर्गः ८०

श्रीवसिष्ठ उवाच ।

इदमनः कलयतो भोगान्प्रति विवेकिनः ।
पुरःस्थितानपि सदा स्पृहैवाङ्ग न जायते ॥ १ ॥

यस्मिन्विमर्शे सुदृढे दिव्यभोगेष्वपि स्पृहा ।
नोदेत्यपि पुरःस्थेषु स विमर्शोऽत्र वर्ण्यते ॥ १ ॥

इदं वक्ष्यमाणं विमर्शोपदर्शनम् । पुरःस्थितानपि भोगान्प्रति स्पृहा न
जायत एवेत्यन्वयः ॥ १ ॥

चक्षुरालोकनायैव जीवस्तु सुखदुःखयोः ।
भारायैव बलीवर्दो भोक्ता द्रव्यस्य नायकः ॥ २ ॥

तत्रादौ चक्षुषा इष्टानिष्टरूपे आलोचिते चक्षुरहन्ताभिनिवेशाज्जीवस्य
सुखदुःखे दृश्येते तत्र चक्षुः प्रति स्वामितैवास्य नत्वहन्तेति विमर्शेन
दुःखादिप्रसक्तिरिति दर्शयति - चक्षुरिति । बलीवर्द एव भारवहनदुःखाय
न तस्य भारद्रव्यस्य च नायकः । नह्यसौ बलीवर्द इत्यर्थः ॥ २ ॥

नयने रूपनिर्मग्ने क्षोभः क इव देहिनः ।
गर्दभे पल्वले मग्ने कैव सेनापतेः क्षतिः ॥ ३ ॥

स्वामित्वमपि तस्य न चक्षुर्मात्रे किन्तु
कार्यकरणसङ्घातकामकर्मवासनातत्फलभेदेष्वनन्तेषु । तत्र
अहङ्कारबुद्धिमनःप्राणपरम्परया कथञ्चित्स्वत्वकोटिनिविष्टस्यैकस्य
चक्षुषः कदाचिदनिष्टरूपसम्प्रयोगे का वा गणना कुतो वास्य
दुःखप्रसक्तिरित्याशयेनाह - नयने इति । गर्दभे सेनान्तर्गतरजकगर्दभे
॥ ३ ॥

रूपकर्दममेतन्मानयनास्वादयाधम ।
नश्यत्येतन्निमेषेण भवन्तमपि हिंसति ॥ ४ ॥

स्वामित्वादेव तन्निवारयितुमपि शक्यमित्याशयेनाह - रूपेति । एतत्
स्त्रीपुत्रादिसौन्दर्यलक्षणं रूपम् । हिंसति नाशयति । छान्दसो
विकरणव्यत्ययः । हे अधम मूढतम ॥ ४ ॥

येनैव सङ्ख्या क्रियते येनैवाऽस्वाऽनुगम्यते ।
तदीयैः कर्मभिः क्षिप्रं प्राज्ञः क्रूरो निबध्यते ॥ ५ ॥

प्राज्ञस्तर्हि कीदृशः क्वचिन्निबध्यते तत्राह - येनेति । क्रूरो निशितमतिः
प्राज्ञस्तु येनान्तर्गतेन चिदात्मनैव सम्यक् ख्यानं सङ्ख्या प्रकाशो
बाह्याभ्यन्तरार्थप्राप्त्या क्रियते येनैव अस्वा अनात्मभूता कोशपरम्परा
आत्म तादात्म्यारोपेणानुगम्यते तदीयैः औदासीन्येन
यथाप्राप्तार्थप्रकाशनलक्षणैः कर्मभिश्चरित्रैर्निबध्यते अभ्यासेन
सम्बध्यते न मूढवद्रूपकर्दमास्वादनकर्मभिः । तथाच
त्वमप्युदासीनं सद्रूपं प्रकाशय नतु तदास्वादयेत्यर्थः ॥ ५ ॥

उत्पन्नध्वंसि चापातमात्रहृद्यमसन्मयम् ।
रूपमाश्रय मा नेत्र विनाशायाविनाशिने ॥ ६ ॥

उत्पन्नध्वंसि आपातमात्रहृद्यं चेति विशेषणे असन्मयमित्यस्योपपत्तये ।
अविनाशिने अनिवार्याय विनाशाय मृत्युमुखप्रवेशाय ॥ ६ ॥

साक्षिवत्त्वंस्थितं नेत्र रूपमात्मनि तिष्ठति ।
आलोकं कालवशतस्त्वमेकं किं प्रतप्यसे ॥ ७ ॥

किञ्च रूपविषये सदा सर्वार्थप्रकाशने निरपेक्षसमर्थेऽपि परमात्मनि
उदासीने स्थिते सति हे नेत्र कालवशतः कदाचिदेव दीपाद्यालोकं प्राप्य
प्रकाशयत् त्वमेवैकं किं किमर्थं प्रतप्यसे अतस्त्वमपि साक्षिवत्स्थितं
सद्रूपं पश्येत्यर्थः ॥ ७ ॥

सलिलस्पन्दवद्दृष्टिः पिच्छिकेवाम्बरोत्थिता ।
सुजातिबन्धा स्फुरति तव चित्त किमागतम् ॥ ८ ॥

इदानीं चक्षुषा भ्रान्त्या रूपे आलोकितेऽपि चित्तस्य तदभिनिवेशे हेतुर्नास्तीत्याह

  • सलिलेति । हे चित्त इयं विचित्ररूपदृष्टिर्नद्यादिसलिले नानाविधा
    नियतस्पन्दवैचित्र्यवदनियता । अम्बरे सूर्यालोकाभिमुखसाश्रुनेत्रनिरीक्षिता
    मयूरपिच्छिकेव मिथ्याभूता च गौरयमश्वोऽयं स्त्रीपिण्डोऽयमित्येव
    नानाविधसुजातिदुर्जातिविकल्पानुबन्धा चक्षुषः स्फुरति तत्र तव किमागतं
    येन त्वं रज्यसे तप्यसे चेत्यर्थः ॥ ८ ॥

कल्पाम्भसीव शफरी चित्ते स्फुरणधर्मिणि ।
स्वयं स्फुरत्यहङ्कारस्त्वमयं प्रोत्थितः कुतः ॥ ९ ॥

अस्तु वा चित्ते चक्षुर्दृष्टार्थाकारा वृत्तिस्तथाप्यभिनिवेशहेतोरहङ्कारस्य
निमित्तं नास्तीत्याह - कल्पेति । चित्ते स्वयं रूपाद्याकारः स्फुरति चेत्स्फुरतु
नाम अयमहङ्कारस्त्वं कुतः प्रोत्थितः ॥ ९ ॥

आलोकरूपयोर्नित्यं जडयोः स्फुरतोर्मिथः ।
आधाराधेययोश्चितं व्यर्थमाकुलता तव ॥ १० ॥

किञ्च स्त्रीपिण्डादिलक्षणं रूपं सूर्याद्यालोकमाश्रित्य स्फुरति सूर्यालोकश्च
पिण्डाश्रित इत्यन्योन्यसंयोगे सौन्दर्यभ्रान्त्या कामादिना चित्तस्य व्याकुलता
प्रसिद्धा सा च तयोश्चित्तेनासम्बन्धाद्व्यर्थेत्यर्थः ॥ १० ॥

रूपालोकमनस्काराः परस्परमसङ्गिनः ।
सम्पन्ना इव लक्ष्यन्ते वदनादर्शबिम्बवत् ॥ ११ ॥

असम्बन्धमेव दृष्टान्तेन स्फुटयति - रूपेति । चक्षुषा बहिः
रूपालोकनं मनसा चान्तःसङ्कल्पादयो मनस्कारा इति भिन्नदेशत्वादेवेति
भावः । सम्पन्नाः संलग्ना इव ॥ ११ ॥

अज्ञानजन्तुना ह्येते श्लिष्टा जाता निरन्तराः ।
अज्ञाने ज्ञान्गिलिते पृथक्तिष्ठन्त्यसन्मयाः ॥ १२ ॥

तत्संलग्नताभ्रान्तौ चाज्ञानमेव निमित्तमित्याह - अज्ञानेति ।
पृथग्विश्लिष्टास्तु असन्मया बाधिताः सन्तः अधिष्ठानमात्रपरिशेषेण
तिष्ठन्ति ॥ १२ ॥

मनःकल्पनया ह्येते सुसम्बद्धाः परस्परम् ।
रूपालोकमनस्कारा दारुणी जतुना यथा ॥ १३ ॥

दारुणी काष्ठे । जतुना लाक्षया ॥ १३ ॥

स्वमनोमननं तन्तुर्मनोभ्यासेन यत्नतः ।
विचाराच्छेदमायाति च्छिन्नैवाज्ञानभावना ॥ १४ ॥

स्वमनोमननमेव तन्तुः कोशकारतन्तुवत्स्वबन्धनं स च
मन्दमध्यमाधिकारिणोर्वैराग्यशमदमनिरोधादिमनोभ्यासेन यत्नतो
विचाराच्छेदमायाति । मुख्याधिकारिणस्तु सहसोत्पन्नज्ञानेन तस्मिंश्छिन्ने
सति स्वभावत एवाज्ञानभावना छिन्नैव नैव प्रवर्तत इत्यर्थः ॥ १४ ॥

अज्ञानसङ्क्षयात्क्षीणे मनसीमे पुनर्मिथः ।
रूपालोकमनस्काराः सङ्घट्टन्ते न केचन ॥ १५ ॥

तत्र द्वितीयस्यानायास इत्याह - अज्ञानेति ॥ १५ ॥

सर्वेषां चित्तमेवान्तरिन्द्रियाणां प्रबोधकम् ।
तदेव तस्मादुच्छेद्यं पिशाच इव मन्दिरात् ॥ १६ ॥

प्रथमेन तु यत्नेन चित्तमुच्छेद्यमित्याह - सर्वेषामिति ॥ १६ ॥

चित्त वल्गसि मिथ्यैव दृष्टोऽन्तो भवतो मया ।
आद्यन्तयोः सुतुच्छं त्वं वर्तमाने विनश्यसि ॥ १७ ॥

इदानीं चित्तमेव सम्बोध्य बोधयति - चित्तेत्यादिना । अन्तो बाधोपायः । यत
आद्यन्तयोः सुतुच्छं अतो वर्तमानकालेऽपि विनश्यसि असदसि । नहि
पूर्वोत्तरकालयोस्तुच्छो वन्ध्यापुत्रो वर्तमानकाले सम्भवतीत्यर्थः ॥ १७ ॥

मुधा पञ्चभिराकारैः किमन्तः परिवल्गसि ।
यस्त्वां स्वमिति जानाति तस्यैव परिवल्गसि ॥ १८ ॥

पञ्चभिरिन्द्रियोपनीतैः शब्दाद्याकारैः । यस्त्वदभिमानी प्रमाता त्वां स्वं
मदीयमिति जानाति तस्यैव त्वमुपकरणतया परिवल्गसि न
त्वसङ्गोदासीनचिदेकरसस्य ममेत्यर्थः ॥ १८ ॥

त्वद्वल्गनं मे कुमनो न मनागपि तुष्टये ।
मायामनःस्पन्द इव व्यर्थं वृत्तिषु दह्यसे ॥ १९ ॥

तुष्टिग्रहणं विषादस्याप्युपलक्षणम् । ऐन्द्रजालिकमायाप्रयुक्ते मनसो
नानाविषयदर्शनाकारस्पन्दे इव ॥ १९ ॥

तिष्ठ वा गच्छ वा चित्त नासि मे न च जीवसि ।
प्रकृत्यासि मृतं नित्यं विचारात्सुमृतं स्मृतम् ॥ २० ॥

प्रकृत्या स्वीयमिथ्यास्वभावेनैव मृतं निरात्मकमसि विचारात्तु तथा
स्मृतं सत् सुमृतं अत्यन्तासदसीत्यर्थः ॥ २० ॥

निस्तत्त्वं त्वं जडं भ्रान्तं शठं नित्यमृताकृते ।
मूढ एव त्वयाज्ञेन बाध्यो न प्रविचारवान् ॥ २१ ॥

वयमज्ञातवन्तस्त्वां मौर्ख्येणाशु मृतं भवत् ।
मृतमस्काकमद्यासि दीपानां तिमिरं यथा ॥ २२ ॥

एतावत्कालं वयं त्वां मृतं भवत् नैरात्म्येन वर्तमानं अज्ञातवन्तो
न ज्ञातवन्तः । अद्य आत्मतत्त्वदर्शनकाले ॥ २२ ॥

शठेन भवता दीर्घकालं देहगृहं मम ।
उपरुद्धमभूत्सर्वं साधुसंसर्गवर्जितम् ॥ २३ ॥

साधवः शमदमविचारबोधादयस्तत्संसर्गवर्जितम् ॥ २३ ॥

जडे प्रेतसमाकारे गते त्वयि मनःशठे ।
सर्वसज्जनसंसेव्यमिदं देहगृहं मम ॥ २४ ॥

शमादय एव सज्जनाः ॥ २४ ॥

पूर्वमेवासि नासीस्त्वं सम्प्रत्येव शठं जगत् ।
न भविष्यसि चेदानीं वेताल किं न लज्जसे ॥ २५ ॥

हे जगद्रूप चित्तवेताल शठं त्वं पूर्वमेव नासीः सम्प्रति च नास्येव अग्रे
च न भविष्यसि । एवं मया कालत्रये निषेध्यमानोऽपि इदानीमत्र स्थातुं किं न
लज्जसे । अहो तव निर्लज्जतेत्यर्थः ॥ २५ ॥

सह तृष्णापिशाचीभिः सह कोपादिगुह्यकैः ।
निर्गच्छ चित्तवेताल शरीरसदनान्मम ॥ २६ ॥

यदि सलज्जोऽसि तर्हि निर्गच्छेत्याह - सहेति ॥ २६ ॥

दिष्ट्या विवेकमात्रेण निर्गतो देहमन्दिरात् ।
प्रमत्तश्चित्तवेतालः कुवृकः कन्दरादिव ॥ २७ ॥

अहो नु चित्रं सुमहज्जडेन क्षणभङ्गिना ।
मनःशठेन सर्वोऽयं नीतो विवशतां जनः ॥ २८ ॥

चित्तवञ्चितजनाननुशोचति - अहो इति ॥ २८ ॥

कस्ते पराक्रमः किं ते बलं कस्ते समाश्रयः ।
यदि वल्गसि मामेकं जनानां बाधसे मृतम् ॥ २९ ॥

जनानां मध्ये मृतं मरणधर्मकदेहात्मदर्शनात्स्वतो मृतं
बाधसे अयं कस्ते पराक्रमः । एकमद्वितीयात्मभूतं मां प्रति यदि वल्गसि
आगन्तुं शक्नोषि तदा ते पराक्रम इति शेषः ॥ २९ ॥

सर्वथैवासि न मया दीनचित्तक मार्यसे ।
मृतमित्यवबुद्धं त्वमद्य केवलमज्ञ हे ॥ ३० ॥

हे अज्ञ दीनचित्तक मया अद्य न मार्यसे यतः पूर्वमेव सर्वथैव त्वं
मृतमिति अवबुद्धम् । अयमेव वध इत्यर्थः ॥ ३० ॥

एतावन्तमहं कालं त्वां ज्ञात्वा जीवदास्थिति ।
श्लिष्टः प्रभूतसङ्गासु चिरं संसृतिरात्रिषु ॥ ३१ ॥

जीवदास्थिति जीवत इव आस्थितिः स्वरूपसत्ता यस्य तथाविधं ज्ञात्वा
श्लिष्टस्त्वया सह तादात्म्येन सङ्गतः ॥ ३१ ॥

चित्तं मृतं हि नास्तीदमित्यद्याधिगतं मया ।
तेन त्वदाशां सन्त्यज्य तिष्ठाम्यात्मनि केवलम् ॥ ३२ ॥

दिष्ट्या चित्तं मृतमिति ज्ञातमद्य मया स्वयम् ।
न शठेन समं नेयं समग्रं जीवितं निजम् ॥ ३३ ॥

बोधोत्तरं जीवन्मुक्तानां निश्चित्तमेवायुःशेषनयनमुचितमित्याह - न
शठेनेति ॥ ३३ ॥

उत्सार्य देहसदनान्मनःशठमहं क्षणात् ।
अहं स्वस्थः स्थितोऽस्म्यन्तर्वेतालपरिवर्जितः ॥ ३४ ॥

शठानां कामक्रोधलोभादीनां महं उत्सवभूतं मनो
देहसदनादुत्सार्य ॥ ३४ ॥

चित्तवेताललब्धेन चिरं कालं मयात्मना ।
कृता विकारा विविधाः स्वयं स्मृत्वा हसाम्यहम् ॥ ३५ ॥

चित्तवेतालेन लब्धेन विप्रलब्धेन आत्मना तदात्मभूतेन मया । इदानीं स्वयं
परमार्थात्मभूतोऽह तान्विकारान्स्मृत्वा हसामीत्यर्थः ॥ ३५ ॥

चिरान्निपातितो दिष्ट्या विचारासिपरार्दितः ।
हृद्गेहाच्चित्तवेतालस्तालोतालसमुन्नतिः ॥ ३६ ॥

निपातितो निपात्येव मारितः ॥ ३६ ॥

प्रशान्ते चित्तवेताले पवित्रां पदवीं गते ।
दिष्ट्या शरीरनगरे सुखं तिष्ठामि केवलम् ॥ ३७ ॥

कामादिमलाभावात्पवित्रां पदवीमिन्द्रियद्वारमार्ग गते प्राप्ते ॥ ३७ ॥

मृतं मनो मृता चिन्ता मृतोऽहङ्कारराक्षसः ।
विचारमन्त्रेण समः स्वस्थस्तिष्ठामि केवलम् ॥ ३८ ॥

समो निरस्तवैषम्यः सन् ॥ ३८ ॥

किं मनो मे ममाशा का को मेऽहङ्कारको भवेत् ।
दिष्ट्या व्यर्थं कलतं मे नष्टमेतदशेषतः ॥ ३९ ॥

कलत्रं पोष्यवर्गः ॥ ३९ ॥

एकस्मै कृतकृत्याय नित्याय विमलात्मने ।
निर्विकल्पचिदाख्याय मह्यमेव नमो नमः ॥ ४० ॥

इदानीं परिशिष्टं निरतिशयानन्दैकरसमात्मानमतिशयेन नमस्यति -
एकस्मै इत्यादिना ॥ ४० ॥

न शोकोऽस्ति न मोहोऽस्ति न चैवाहमहं स्वयम् ।
नच नाहं नचान्योऽहं मह्यमेव नमो नमः ॥ ४१ ॥

अहमहं अहमभिमानप्रधानजडांशो नैव । नच नाहं
अहङ्कारप्रत्यक्चिदात्मा नेति च न ॥ ४१ ॥

न ममाशा न कर्माणि न संसारो न कर्तृता ।
न भोक्तृता न देहो मे मह्यमेव नमो नमः ॥ ४२ ॥

नाहमात्मा न वा कोऽन्यो नाहमस्मि न चेतरः ।
सर्वमेवाहमेतस्मै मह्यमेव नमो नमः ॥ ४३ ॥

आत्मा आत्मशब्दप्रत्ययविषयो न । तथाच बृहदारण्यकभाष्ये तद्वार्तिके च
आत्मेत्येवोपासीतेत्यत्र इतिशब्द आत्मशब्दप्रत्ययविषयत्वनिवारणार्थ इत्युक्तम् ।
न वा अन्यः अनात्माहम् । कोऽन्यस्तत्त्वदृशा सम्भाव्यते यदहं स्याम् ।
एवमहंशब्दप्रत्ययविषयस्तदितरश्च नाहम् । एवञ्च स्वेतराप्रसिद्धेः
स्वयमेव सर्वमिति सर्वमेवाहमित्यर्थः ॥ ४३ ॥

अहमादिरहं धाता चिदहं भुवनान्यहम् ।
मम नास्ति व्यवच्छेदो मह्यमेव नमो नमः ॥ ४४ ॥

आदिर्भुवनानां कारणम् । धाता धारयिता । व्यवच्छेदस्त्रिविधपरिच्छेदः ॥
४४ ॥

निर्विकाराय नित्याय निरंशाय महात्मने ।
सर्वस्मै सर्वकालाय मह्यमेव नमो नमः ॥ ४५ ॥

सर्वकालाय सनातनाय ॥ ४५ ॥

नीरूपाय निराख्याय प्रकाशाय महात्मने ।
स्वयमात्मैकसंस्थाय मह्यमेव नमो नमः ॥ ४६ ॥

समां सर्वगतां सूक्ष्मां जगदेकप्रकाशिनीम् ।
सत्तामुपगतोऽस्म्यन्तर्मह्यमेव नमो नमः ॥ ४७ ॥

साद्र्यब्ध्युर्वी नदी सेयं नाहमेवाहमेव वा ।
जगत्सर्वं पदार्थाढ्यं मह्यमेव नमो नमः ॥ ४८ ॥

अद्रयश्च अब्धयश्च उर्वी च नद्यश्च एतैः सहिता सा प्रसिद्धा इयं वर्तमाना
दृश्यश्रीर्नाहम् । एवमतीतानागतपदार्थाढ्यं जगत्सर्वमपि
नाहमहमेव वेति योज्यम् ॥ ४८ ॥

व्यपगतमननं समाभिरामं
प्रकटितविश्वमविश्वमप्यनन्तम् [अरूपं इति पाठः] ।
स्वयमजमजरं गुणादतीतं
वपुरहमच्युतमीश्वरं नमामि ॥ ४९ ॥

व्यपगतानि मननानि मनोविकल्पा यस्मादत एव समाभिरामं
प्रकटितविश्वमनन्तं अच्युतम् । कुतः । उत्थितस्वरूपादप्रच्युतं ईष्टे
अविद्यातत्कार्यनिरासे समर्थीभवतीतीश्वरं वपुः स्वरूपं नमामि ।
सर्वोत्कर्षेण प्रपन्नोऽस्मीत्यर्थः ॥ ४९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव०
मोक्षोपायेषूपशमप्रकरणे दृश्यदर्शनसम्बन्धो
नामाशीतितमः सर्गः ॥ ८० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
दृश्यदर्शनसम्बन्धो नामाशीतितमः सर्गः ॥ ८० ॥