७८

अष्टसप्ततितमः सर्गः ७८

श्रीवसिष्ठ उवाच ।

यथालातपरिस्पन्दादग्निचक्रं प्रदृश्यते ।
असदेव सदाभासं चित्तस्पन्दात्तथा जगत् ॥ १ ॥

चित्तस्पन्दाज्जगद्भ्रान्तिश्चित्तस्पन्दश्च यादृशः ।
योगश्च तन्निरोधार्थः सम्यगत्र निगद्यते ॥ १ ॥

अलातस्य ज्वलदुल्मुकस्य परिस्पन्दाद्भ्रमणाद्रात्रावग्निमयं चक्रं
भ्रान्त्या यथा दृश्यते तथेत्यर्थः ॥ १ ॥

यथा जलपरिस्पन्दाद्व्यतिरिक्त इवाम्भसः ।
दृश्यते वर्तुलावर्तश्चित्तस्पन्दात्तथा जगत् ॥ २ ॥

वर्तुलनाभ्याकार आवर्तः ॥ २ ॥

यथा व्योम्नीक्षणस्पन्दात्पिच्छमौक्तिकमण्डलम् ।
दृश्यते सदिवासत्यं चित्तस्पन्दात्तथा जगत् ॥ ३ ॥

ईक्षणयोर्नेत्रयोरातपसाम्मुख्येन स्पन्दात्पिच्छाकारमन्यतः
स्पन्दान्मौक्तिकमण्डलमिव दृश्यते ॥ ३ ॥

श्रीराम उवाच ।

येन प्रस्पन्दते चित्तं येन न स्पन्दते तथा ।
तद्ब्रह्मन्ब्रुहि मे येन चिकित्सेयं तदेव हि ॥ ४ ॥

येन स्वभावेन प्रस्पन्दते येनोपायेन न स्पन्दते ॥ ४ ॥

श्रीवसिष्ठ उवाच ।

यथा शौक्ल्यहिमे राम तिलतैललवौ यथा ।
यथा कुसुमसौगन्ध्ये तथौष्ण्यदहनौ यथा ॥ ५ ॥

स्पन्दस्वभावश्चित्तात्पृथक्कृत्य वक्तुमशक्य इति दृष्टान्तैरेव तं
दर्शयति - यथेत्यादिना । तिलश्च तैललवश्च तौ । यथाशब्दः समुच्चये ॥ ५

तथा राघव संश्लिष्टौ चित्तस्पन्दौ तथैव हि ।
अभिन्नौ केवलं मिथ्या भेदः कल्पित एतयोः ॥ ६ ॥

अत्राप्याद्यस्तथाशब्दः समुच्चये द्वितीयो दार्ष्टान्तिकोपबन्धार्थः । सर्वत्र
गुणगुण्यादावविचाराद्भेदसहिष्णुरभेद एव संश्लेषः । तत्र विचारे
भेदांशो मिथ्या अभेदांशो वास्तव इति दर्शयति - अभिन्नाविति ॥ ६ ॥

चित्तचित्तपरिस्पन्दपक्षयोरेकसङ्क्षये ।
स्वयं गुणगुणी [गुणो गुणी इति युक्तम्] स्थित्वा नश्यतो द्वौ न
संशयः ॥ ७ ॥

अभेदाम्श एव कल्पितः किं न स्यादित्याशङ्कां परिहरन्येन न स्पन्दते
तथेति प्रश्नांशस्योत्तरमाह - चित्तेति । यः स्वयं कारणात्मा गुणो गुणी
चेति विकल्पितस्तदात्मना स्थित्वैव द्वावपि गुणगुणिविकल्पौ नश्यन्तो न
निरन्वयेनेत्यर्थः । तथाचैककारणात्मना स्थित्वैव
गुणगुणिभेदनाशदर्शनाद्भेदाम्श एव कल्पितो नाभेदाम्श
इत्येतन्मनःस्पन्दयोरेकतरनाशाधीनात्यन्तिकोभयनिवृत्यैव चित्तं न
स्पन्दते नतु जीवति मनसि तत्स्पन्दो वारयितुं शक्य इत्येतच्च सिद्धमिति भावः ॥
७ ॥

द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव ।
योगस्तद्वृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥ ८ ॥

अत-एव स्पन्दनिरोधेनोभयनाशार्थ ज्ञानक्रमश्च शास्त्रे दर्शित इत्याह

  • द्वौ क्रमाविति ॥ ८ ॥

श्रीराम उवाच ।

कदा कीदृक्कया युक्त्या प्राणापाननिबन्धया ।
योगनाम्न्या मनः शान्तिमेत्यनन्तसुखप्रदाम् ॥ ९ ॥

तत्राद्यं क्रमं प्रथमं जिज्ञासमानो रामः पृच्छति - कदेति ।
प्राणापानयोर्निबन्धनं प्राणापाननिबन्धा । भावे गुरोश्च हलः
इत्यप्प्रत्ययः । प्राणापाननिरोधलक्षणयेत्यर्थः ॥ ९ ॥

श्रीवसिष्ठ उवाच ।

देहेऽस्मिन्देहनाडीषु वातः स्फुरति योऽभितः ।
स्पन्देष्विव भुवो वारि स प्राण इति कीर्तितः ॥ १० ॥

आसर्गसमाप्तेरस्यैव प्रश्नस्योत्तरं वर्णयिष्यंश्चित्तस्पन्दस्य
प्राणस्पन्दाधीनतां वक्तुं प्रथमं प्राणस्वरूपमाह -
देहेस्मिन्नित्यादिना । देहनाडीषु द्वासप्ततिर्द्वासप्ततिः प्रतिशाखं
नाडीसहस्राणि भवन्त्यासु व्यानश्चरति इति श्रुतेरित्यर्थः । यथा भुवः
स्पन्देषु स्पन्दनमार्गभूतेषु विवरेषु वारि जलं सर्वतो व्याप्य स्फुरति तद्वत् ॥
१० ॥

तस्य स्पन्दवशादन्तः क्रियावैचित्र्यमीयुषः ।
अपानादीनि नामानि कल्पितानि कृतात्मभिः ॥ ११ ॥

ननु प्राणो बहिरेव याति देहे त्वपानादयोऽन्ये वायवः सञ्चरन्ति तत्राह -
तस्येति । ते प्राणस्यैव वृत्तिभेदा नान्ये इत्यर्थः ॥ ११ ॥

आमोदस्य यथा पुष्पं शौक्ल्यस्य तु हिनं यथा ।
तथैव रस आधारश्चित्तस्याभिन्नतां गतः ॥ १२ ॥

वारिदृष्टान्तोपपत्तये रस इति विशेषणम् । आपोमयः प्राणः इति
एतमेवाङ्गिरसं मन्यन्ते प्राणो वा अङ्गानां रसः च श्रुतेरिति भावः ।
चित्तस्य कोशवत्सर्वतः संश्लेषेणाभिन्नतामिव गत आधारः ।
प्राणबन्धनं हि सोम्य मनः तस्य पुरुषविधतामन्वयं पुरुषविधः
इत्यादिश्रुतेरिति भावः ॥ १२ ॥

अन्तःप्राणपरिस्पन्दात्सङ्कल्पकलनोन्मुखी ।
संवित्सञ्जायते यैषा तच्चित्तं विद्धि राघव ॥ १३ ॥

अत-एव तत्स्पन्दस्य चित्तस्पन्दहेतुतेत्याह - अन्तरिति । सङ्कल्पग्रहणं
वृत्तिमात्रोपलक्षणम् ॥ १३ ॥

प्राणस्पन्दाच्चितः स्पन्दस्तत्स्पन्दादेव संविदः ।
चक्रावर्तविधायिन्यो जलस्पन्दादिवोर्मयः ॥ १४ ॥

चितः स्पन्दश्चिदाभासव्याप्तवृत्तिभेदः । संविदस्तत्तद्विषयाकारप्रथाः ॥
१४ ॥

चित्तं प्राणपरिस्पन्दमाद्दुरागमभूषणाः ।
तस्मिन्संरोधिते नूनमुपशान्तं भवेन्मनः ॥ १५ ॥

प्राणपरिस्पन्दं प्राणाधीनपरिस्पन्दम् । आगमभूसणाः प्राणबन्धनं हि
सोम्य मनः प्राणाद्वा एष उदेति प्राणेऽस्तमेति प्राणं तर्हि वागप्येति प्राणं
चक्षुः प्राणं श्रोत्रम् इत्यादिश्रुतिरहस्यज्ञाः ॥ १५ ॥

मनःस्पन्दोपशान्त्यायं संसारः प्रविलीयते ।
सूर्यालोकपरिस्पन्दशान्तौ व्यवहृतिर्यथा ॥ १६ ॥

अस्त्वेवं ततः किं तत्राह - मन इति ॥ १६ ॥

श्रीराम उवाच ।

अनिशं चरतां देहगेहे गगनगामिनाम् ।
प्राणादीनां परिस्पन्दो वायूनां रोध्यते कथम् ॥ १७ ॥

देहलक्षणे स्वगेहे हृदयादिस्थानेषु द्वासप्ततिसहस्रनाडीभेदेषु च अनिशं
चरतां गगनेषु मुखनासिकादिच्छिद्रेषु बाह्याकाशे च गमनशीलानाम् ॥ १७ ॥

श्रीवसिष्ठ उवाच ।

शास्त्रसज्जनसम्पर्कवैराग्याभ्यासयोगतः ।
अनास्थायां कृतास्थायां पूर्वसंसारवृत्तिषु ॥ १८ ॥

प्राणस्पन्दनिरोधे निरालम्बनसालम्बनादिराजयोगोपायान्वक्तुमुपक्रमते ##-
आत्यन्तिकपरित्यागाद्यमनियमशमदमादिविरोध्यभ्यासाच्चत्यन्तमनास्थाया
ं हृदि कृतप्रतिष्ठायां सत्याम् ॥ १८ ॥

यथाभिवाञ्छितध्यानाच्चिरमेकतयोदितात् ।
एकतत्त्वघनाभ्यासात्प्राणस्पन्दो निरुद्ध्यते ॥ १९ ॥

प्रथमं स्थूले शिखरे चन्द्रबिम्बे मणिदेवतामूर्त्यादौ वा यत्रैव मनोऽस्य
रमते तत्रैव निरोधोऽभ्यसनीय इत्याह - यथाभिवाञ्छितेति । एकतया
एकाग्रतया उदितात् । एकाग्रतालक्षणं परिणामं प्राप्येत्यर्थः । तदनन्तरं
यत्कार्यं तदाह - एकतत्त्वेति ॥ १९ ॥

पूरकादिनिजायामाद्दृढाभ्यासादस्वेदजात् ।
एकान्तध्यानसंयोगात्प्राणस्पन्दो निरुद्ध्यते ॥ २० ॥

पूरककुम्भकरेचकक्रमेण प्राणनिरोधसहिताद्वा
दुर्दान्तचित्तस्पन्दनिरोधः कार्य इत्याह - पूरकेति । पूरकादिना निजस्य
स्वस्य प्राणस्यायामात् ॥ २० ॥

ॐकारोच्चारणप्रान्तशब्दतत्त्वानुभावनात् ।
सुषुप्ते संविदो जाते प्राणस्पन्दो निरुद्ध्यते ॥ २१ ॥

दीर्घोच्चारितप्रणवतुर्यमात्रालम्बनयोगाद्वा संविदो बाह्यार्थसंवेदनस्य
सुषुप्ते आत्यन्तिकोपरमे जाते सति ॥ २१ ॥

रेचके नूनमभ्यस्ते प्राणे स्फारे खमागते ।
न स्पृशत्यङ्गरन्ध्राणि प्राणस्पन्दो निरुद्ध्यते ॥ २२ ॥

इदानीं रेचकपूरकयोरेकैकस्यापि श्वासप्रश्वासशिथिलीकरणे
कालदैर्घ्याभिवर्धनसहितध्यानाभ्यासादपि तन्निरोध इत्याह - रेचके इति
द्वाभ्याम् । स्फारे विपुलीभूते प्राणे छिन्नाभ्रवत् क्रमात् खं शून्यभावं
बाह्याकाशं वा आगते अङ्गरन्ध्राणि नासाविवराणि न स्पृशति सति ॥ २२ ॥

पूरके नूनमभ्यस्ते पूराद्गिरिघनस्थिते ।
प्राणे प्रशान्तसञ्चारे प्राणस्पन्दो निरुद्ध्यते ॥ २३ ॥

अन्तःपूरात्पूरणाद्गिरौ घना मेघा इव यावत्पूर्ति मन्दमुपचीयमाने स्थिते
निश्चले सति ॥ २३ ॥

कुम्भके कुम्भवत्कालमनन्तं परितिष्ठति ।
अभयसात्स्तम्भिते प्राणे प्राणस्पन्दो निरुद्ध्यते ॥ २४ ॥

पूर्त्यनन्तरं कुम्भके पूर्णकुम्भवदनन्तं कालं स्तम्भिते प्राणे
परितिष्ठति सति । उक्तत्रिविधप्राणायामक्रमश्च पातञ्जले शास्त्रे प्रपञ्चितः
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः । तस्मिन्प्रागुक्ते
आसनजये सति बाह्यस्य वायोरायमनं श्वासः कौष्ठ्यस्य वायोर्निस्सारणं
प्रश्वासः तयोर्गतिविच्छेद उभयाभावलक्षणः प्राणायामः कार्य इत्यर्थः
। स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो
दीर्घसूक्ष्मः । यत्र प्रश्वासपूर्वको गतिनिरोधः स बाह्यः । यत्र
श्वासपूर्वको गत्यभावः स आभ्यन्तरः । तृतीयः
स्तम्भवृत्तिर्यत्रोभयाभावः सकृत्प्रयत्नाद्भवति । यथा तप्ते
न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते तथा द्वयोर्युगपद्गत्यभाव इति ।
त्रयोऽप्येते देशपरिदृष्टाः बहिस्तूललवस्पन्दादिना अन्तर्नाभ्यादिस्पन्दादिना
च इयानस्य विषयो देश इति । कालेन परिदृष्टाः क्षणानामियत्तावधारणेन ।
सङ्ख्याभिः परिदृष्टा एतावत्सङ्ख्यश्वासप्रश्वासकालैः प्रथमो
द्वितीयस्तृतीय उद्बोधित इति । एवं मृदुरेवं मध्य एवं तीव्र इति च । स
खल्वेवमभ्यस्तः प्राणायामः
प्रविकस्वरतूलपिण्डवन्मन्दाकृष्टबिसतन्तुवद्वा दैर्घ्यसौक्ष्म्यापन्नैः
प्राणैर्दीर्घः सूक्ष्मश्च भवतीत्यर्थः । अभ्यासात्स्तम्भिते प्राणे इत्यनेन च
तत्परिपाकलभ्यश्चतुर्थोऽपि प्रकारः सूचितः । सोऽपि पतञ्जलिना दर्शितः
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः इति । पूर्वोक्तोभयजयात्तदाक्षेपपूर्वकः
प्राणगत्यभावः स्थिरश्चतुर्र्थः प्राणायाम इत्यर्थः ।
प्राणायामप्रतिष्ठाफलमपि पतञ्जलिनोक्तम् ततः क्षीयते प्रकाशावरणम् ।
धारणासु च योग्यता मनसः इति । तपि न परमं प्राणायामात्ततो
विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्येति भाष्यम् ॥ २४ ॥

तालुमूलगतां यत्नाज्जिह्वयाक्रम्य घण्टिकाम् ।
ऊर्ध्वरन्ध्रगते प्राणे प्राणस्पन्दो निरुद्ध्यते ॥ २५ ॥

घण्टिकां व्यात्तास्यस्य जिह्वामूले स्तनवल्लम्बमानतया
दृश्यमानामिन्द्रयोनिम् । अन्तरेण तालुके य एष स्तन इवावलम्बते सेन्द्रयोनिः
इति श्रुतेः । तां परिवृत्तया
वर्धनाभ्यासादिप्रयत्नादन्तःप्राणसञ्चारमार्गे मूर्धरन्ध्रे
प्रवेश्यमानया जिह्वया आक्रम्य निष्पीड्याधःकृत्य प्राणे ऊर्ध्वरन्ध्रे
ब्रह्मरन्ध्रे गते प्रवेश्य धारिते सतीत्यर्थः । अनेन लम्बिकायोगसमुच्चिता
नभोधारणा दर्शिता । तत्प्रकारश्च भगवता स्कन्देनोक्तः रसनां तालुविवरे
निधायोर्ध्वमुखोऽमृतम् । धयन्निर्जरतां गच्छेदाषण्मासान्न संशयः
॥ ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः । मासार्धेन न सन्देहो
मृत्युं जयति योगवित् ॥ आकाशं च मरीचिवारिसदृशं
यद्ब्रह्मरन्ध्रस्थितं यन्नाथेन सदाशिवेन सहितं शान्तं हकाराक्षरम् ।
प्राणं विलीय पञ्चघटिकं चित्तान्वितं धारयेदेषा
मोक्षकवाटपाटनपटुः प्रोक्ता नभोधारणा ॥ इति ॥ २५ ॥

समस्तकलनोन्मुक्ते न किञ्चिन्नामसूक्ष्मखे ।
ध्यानात्संविदि लीनायां प्राणस्पन्दो निरुद्ध्यते ॥ २६ ॥

समस्ताः कलना विकारास्तदुन्मुक्तेऽत-एव न किञ्चिन्नामनि सूक्ष्मे
हार्दाकाशे संविदि अन्तर्बाह्यसंवेदनवृत्तिमात्रे निर्विकल्पसमाधिना
लीनायां सत्याम् ॥ २६ ॥

द्वादशाङ्गुलपर्यन्ते नासाग्रे विमलाम्बरे ।
संविद्दृशि प्रशाम्यन्त्यां प्राणस्पन्दो निरुद्ध्यते ॥ २७ ॥

नासाग्रोपलक्षितद्वादशाङ्गुलपरिमितबाह्याकाशे चक्षुर्मनसोर्निरोधाद्वा
तन्निरोधा इत्याह - द्वादशेति ॥ २७ ॥

अभ्यासादूर्ध्वरन्ध्रेण तालूर्ध्वं द्वादशान्तगे ।
प्राणे गलितसंवृत्ते प्राणस्पन्दो निरुद्ध्यते ॥ २८ ॥

लम्बिकायोगाऽसमुच्चिताद्वा
उपायान्तराभ्यस्तात्प्रागुक्तनभोधारणात्तन्निरोधसिद्धिरित्याह -
अभ्यासादिति । द्वादशान्तं ब्रह्मरन्ध्रस्थानं तद्गे प्राणे गलितप्राये
संवृत्ते सति ॥ २८ ॥

भ्रूमध्ये तारकालोकशान्तावन्तमुपागते ।
चेतने केतने बुद्धे प्राणस्पन्दो निरुद्ध्यते ॥ २९ ॥

एवं खेचरीमुद्रापि प्राणस्पन्दनिरोधहेतुरित्याह - भ्रूमध्ये इति ।
तारकयोश्चक्षुःकनीनिकयोरालोकस्य तेजसश्चक्षुरिन्द्रियस्येति यावत् ।
चिरनिरोधाच्छान्तौ उपरमे सति तथा जिह्वाग्रे प्राणे च प्रागुक्तरीत्या
कपालकुहरप्रवेशादन्तं द्वादशान्तमुपागते सति केतने भ्रूमध्ये
अविमुक्तस्थाने य एषोऽक्षरोऽनन्तः इति जाबालश्रुत्याअदिप्रसिद्धे चेतने
चिन्मात्रस्वभावे परमेश्वरे आत्मतया बुद्धे सतीत्यर्थः । खेचरीमुद्रापि
स्कन्देनोक्ता - कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता
दृष्टिर्मुद्रा भवति खेचरी ॥ न पीड्यते स रोगेण न च लिप्येत कर्मणा ।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ इति ॥ २९ ॥

झटित्येव यदुद्भूतं ज्ञानं तस्मिन्दृढाश्रिते ।
असंश्लिष्टविकल्पांशे प्राणस्पन्दो निरुद्ध्यते ॥ ३० ॥

गुरोरीश्वरस्य वा अनुग्रहात्काकतालीयन्यायेन झटित्येवोद्भूते ज्ञाने
झटित्येव चित्तविकल्पोपशमाद्वा तन्निरोध इत्याह - झटित्येवेति ॥ ३० ॥

चिरं कालं हृते कान्तव्योमसंवेदनान्मुने ।
अवासनान्मनोध्यानात्प्राणस्पन्दो निरुद्ध्यते ॥ ३१ ॥

अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म
दहरोऽस्मिन्नन्तराकाशः इत्यादिश्रुतिप्रसिद्धे दहराकाशे वा चिरं
चित्तनिवेशात्तत्साक्षात्कारे तत्सिद्धिरित्याह - चिरमिति । तथाचोक्तं पातञ्जले

  • हृदये चित्तसंवित्स्वार्थसंयमात्पुरुषज्ञानम् इति च ॥ ३१ ॥

श्रीराम उवाच ।

ब्रह्मन् जगति भूतानां हृदयं तत्किमुच्यते ।
इदं सर्वं महादर्शे यस्मिंस्तत्प्रतिबिम्बति ॥ ३२ ॥

हृदयशब्दस्य पुण्डरीकाकारमांसविशेषे मनसि परमात्मनि च
प्रयोगदर्शनात्सन्दिहानस्य प्रश्नः । प्रतिबिम्बति आदर्शे प्रतिबिम्ब इव
स्फुरति ॥ ३२ ॥

श्रीवसिष्थ उवाच ।

साधो जगति भूतानां हृदयं द्विविधं स्मृतम् ।
उपादेयं च हेयं च विभागोऽयं तयोः शृणु ॥ ३३ ॥

तत्र मांसमनसोः परिच्छिन्नत्वादैक्यमेव प्रकल्प्य द्वेधा विभागो बोध्यः
॥ ३३ ॥

इयत्तया परिच्छिन्ने देहे यद्वक्षसोऽन्तरम् ।
हेयं तद्धृदयं विद्धि तनावेकतटे स्थितम् ॥ ३४ ॥

संविन्मात्रं तु हृदयमुपादेयं स्थितं स्मृतम् ।
तदन्तरे च बाह्ये च न च बाह्ये न चान्तरे ॥ ३५ ॥

ननु आत्मनि हृदयशब्दो हृदयमात्रस्थितिकत्वाद्गौणः किं न
स्यादित्याशङ्क्याह - तदन्तरे चेति ॥ ३५ ॥

तत्तु प्रधानं हृदयं तत्रेदं समवस्थितम् ।
तदादर्शः पदार्थानां तत्कोशः सर्वसम्पदाम् ॥ ३६ ॥

अस्मिन्द्यावापृथिवी अन्तरेव समाहिते इति श्रुतेरिति भावः ॥ ३६ ॥

सर्वेषामेव जन्तूनां संविद्धृदयमुच्यते ।
न देहावयवैकांशो जडजीर्णोपलोपमः ॥ ३७ ॥

तस्मात्संविन्मये शुद्धे हृदये हृतवासनः ।
बलान्नियोजिते चित्ते प्राणस्पन्दो निरुध्यते ॥ ३८ ॥

एभिः क्रमैस्तथान्यैश्च नानासङ्कल्पकल्पितैः ।
नानादेशिकवक्त्रस्थैः प्राणस्पन्दो निरुध्यते ॥ ३९ ॥

अभ्यासेन निराबाधमेतास्ता योगयुक्तयः ।
उपायतामुपायान्ति भव्यस्य भवभेदने ॥ ४० ॥

सहसा हठयोगे प्रवृत्तिं वारयितुमाह - अभ्यासेनेति । हठान्निरोधे तु
रोगाद्या बाधा स्यादेवेति भावः ॥ ४० ॥

अभ्यासाद्दृढतां यातो वैराग्यपरिलाञ्छितः ।
यथावासनमायामः प्राणानां सफलः स्मृतः ॥ ४१ ॥

यथावासनं यदा या या वासना उद्भवन्ति तदा तत्तन्निरोधायेत्यर्थः । अथवा
मुमुक्षावासनायां मोक्षफलेन सफलो भोगवासनायां तु
तत्तद्भोगसिद्धिवैचित्र्यफलेन सफल इत्यर्थः ॥ ४१ ॥

भ्रूनासातालुसंस्थासु द्वादशाङ्गुलिकोटिषु ।
अभ्यासाच्छाम्यति प्राणो दूरे गिरिनदी यथा ॥ ४२ ॥

अत-एव तत्तत्सिद्धिफलभेदार्थपातञ्जलशास्त्रे
भ्रूमध्यादिस्थानभेदेन धारणाभेदा दर्शिता इत्याशयेनाह -
भ्रूनासेति \। तालुसंस्था तालुसंस्थानं कण्ठाग्रादारभ्य
द्वादशाङ्गुलिमितप्रदेशकोटिः सीमा द्वादशान्तः ।
पुरुषभेदाद्बहुवचनम् । यथाह पतञ्जलिः नाभिचक्रे कायव्यूहज्ञानम्
कण्ठकूपे क्षुत्पिपासानिवृत्तिः कूर्मनाड्यां स्थैर्यम् कण्ठकूपादधः
कूर्मपृष्ठवदुन्नतप्रदेशे कूर्मनाडी प्रसिद्धा मूर्धज्योतिषि
सिद्धदर्शनम् इत्यादि । शिरः कपालच्छिद्रे भास्वरज्योतिर्मूर्धज्योतिः । गिरिनदी
निर्झरः । सा यथा दूरे गत्वा तत्रैव लीयते तद्वत् ॥ ४२ ॥

भूयोभूयश्चिराभ्यासाज्जिह्वाप्रान्तेन तालुनि ।
घण्टिका स्पृश्यते प्राणो येनोच्चैर्निवहत्यलम् ॥ ४३ ॥

जिह्वयाक्रम्य घण्टिकाम् इति यत्प्रागुक्तं तत्रोपायमाह - भूय इति ।
स्पृश्यते आक्रम्यते ॥ ४३ ॥

विकल्पबहुलास्त्वेते स्वाभ्यासेन समाधयः ।
परमोपशमायाशु सम्प्रयान्त्यविकल्पताम् ॥ ४४ ॥

एतेषां समाधिभेदानां तत्तत्सिद्धिफलेषु विकल्पबहुलत्वेऽपि निष्कामस्य
परमोपशमफले अविकल्पतैव सर्वेषामित्याह - विकल्पेति ॥ ४४ ॥

आत्मारामो वीतशोको भवत्यन्तःसुखः पुमान् ।
अभ्यासादेव नान्यस्मात्तस्मादभ्यासवान्भव ॥ ४५ ॥

अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते ।
मनः प्रशममायाति निर्वाणमवशिष्यते ॥ ४६ ॥

वासनावलितं जन्म मोक्षं निर्वासनं मनः ।
प्राणं च राम गृह्णाति यथेच्छसि तथा कुरु ॥ ४७ ॥

वासनावलितं मनो जन्मशरीरं तत्र प्राणं चाभिमानेन गृह्णाति ।
निर्वासनं तु मोक्षम् ॥ ४७ ॥

प्राणस्पन्दो मनोरूपं तस्मात्संसृतिविभ्रमः ।
तस्मिन्नेव शमं याते दीयते संसृतिज्वरः ॥ ४८ ॥

एवं उक्ताभ्यासप्रकारेण दीयते खण्ड्यते । चिकित्स्यत इति यावत् ॥ ४८ ॥

विकल्पांशक्षयाज्जन्तोः पदं तदवशिष्यते ।
यतो वाचो निवर्तन्ते समस्तकलनान्विताः ॥ ४९ ॥

यत्र सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ।
यत्र नेदं यतो नेदं यन्नेदं नेदृशं जगत् ॥ ५० ॥

इदं दृश्यं यत्र नेत्याधेयतया यतो नेत्युपादेयतया यन्नेति तादात्म्येन च
सच्चिदात्मसम्बन्धनिषेधान्न केनाप्यंशेन जगद्ब्रह्मसदृशमित्यर्थः ॥
५० ॥

विनाशित्वाद्विकल्पत्वाद्गुणित्वान्निर्गुणात्मनः ।
यस्य नो सदृशो दृष्टो दृष्टान्तः कश्चिदेव हि ॥ ५१ ॥

अत-एव विनाशित्वादिधर्मके जगति न कश्चिदपि ब्रह्मणो
दृष्टान्तोऽस्तीत्याह - विनाशित्वादिति ॥ ५१ ॥

स्वादनी सर्वशालीनां दीपिका सर्वतेजसाम् ।
कलना सर्वकामानामन्तश्चिच्चन्द्रिकोदिता ॥ ५२ ॥

यदि न कश्चिद्दृष्टान्तस्तर्हि कथं तत्परिचयस्तत्राह - स्वादनीति ।
रसरूपादिगोचरबाह्यवृत्तित्रिपुटीनां कामाद्यान्तरवृत्तित्रिपुटीनां च
भासकतया तत्परिचेयमित्यर्थः ॥ ५२ ॥

यस्मात्कल्पतरोबह्व्यः संसारफलपङ्क्तयः ।
अनारतं बहुरसा जायन्ते च पतन्ति च ॥ ५३ ॥

फलमतः उपपत्तेः इति न्यायाद्विचित्रकर्मफलोदयक्षयनिमित्ततया वा
तत्परिचेयमित्याह - यस्मादिति ॥ ५३ ॥

तत्पदं सर्वसीमान्तमवलम्ब्य महामतिः ।
यः स्थितः स्थिरधीस्तज्ज्ञः स जीवन्मुक्त उच्यते ॥ ५४ ॥

तत्परिचयावलम्बने पुरुषार्थसिद्धिं दर्शयन्नुपसंहरति - तदिति
द्वाभ्याम् ॥ ५४ ॥

विगतसर्वसमीहितकौतुकः
समुपशान्तहिताहितकल्पनः ।
सकलसंव्यवहारसमाशयो
भवति मुक्तमनाः पुरुषोत्तमः ॥ ५५ ॥

विगतानि सर्वाणि समीहितकौतुकानि कामभोगोत्कण्ठा यस्य । अत-एव
तदनुकूलप्रतिकूलेषु समुपशान्ता हिताहितवासना यस्य । अत-एव सकलेषु
संव्यवहारेषु समो हर्षविषादशून्य आशयो यस्य । ईदृशो मुक्तमनाः
पुरुषश्रेष्ठो भवति । भगवान्विष्णुरपि भवतीत्यर्थः ॥ ५५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० देवदूतोक्ते
मोक्षोपायेषूपशमप्रकरणे योगवर्णनं नामाष्टसप्ततितमः सर्गः
॥ ७८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे योगवर्णनं
नामाष्टसप्ततितमः सर्गः ॥ ७८ ॥

एकोनाशीतितमः सर्गह् ७९

श्रीराम उवाच ।

योगयुक्तस्य चित्तस्य शम एव निरूपितः ।
सम्यग्ज्ञानमिदानीं मे कथयानुग्रहात्प्रभो ॥ १ ॥

उद्दिष्टौ चित्तनाशाय योगज्ञानक्रमौ हि यौ ।
तयोराद्ये परिज्ञाते द्वितीयोऽत्र निरूप्यते ॥ १ ॥

द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव इत्युद्दिष्टक्रमयोर्मध्ये
आद्यश्चित्तस्य शमो नाशप्रकारो निरूपितस्त्वयेत्यर्थः ॥ १ ॥

श्रीवसिष्ठ उवाच ।

अनाद्यन्तावभासात्मा परमात्मेह विद्यते ।
इत्येको निश्चयः स्फारः सम्यग्ज्ञानं विदुर्बुधाः ॥ २ ॥

लक्षणस्वरूपसाधनादिभिः सम्यग्ज्ञानं प्रपञ्चयिष्यन्
प्रथममात्मपरिचयेन जगद्बाधात्मतालक्षणं तल्लक्षणमाह -
अनाद्यन्तेति । एकः असाधारणः । स्फारः अपरिच्छिन्नाकारः ॥ २ ॥

इमा घटपटाकाराः पदार्थशतपङ्क्तयः ।
आत्मैव नान्यदस्तीति निश्चयः सम्यगीक्षणम् ॥ ३ ॥

एवं जगद्बाधेनात्मपरिचयात्मता वा तल्लक्षणमित्याह - इमा इति ॥ ३ ॥

असम्यग्वेदनाज्जन्म मोक्षः सम्यगवेक्षणात् ।
असम्यग्वेदनाद्रज्जुः सर्पो नो सम्यगीक्षणात् ॥ ४ ॥

सम्यग्ज्ञानस्य मोक्षसमर्थतां दर्शयति - असम्यगिति । सम्यगीक्षणान्नो
सर्पः । सर्पभावान्मोक्ष इति यावत् ॥ ४ ॥

सङ्कल्पांशविनिर्मुक्ता संवित्संवेद्यवर्जिता ।
संवित्त्याभिसमाख्याता मुक्तावस्तीह नेतरत् ॥ ५ ॥

मुक्तौ तर्हि किं परिशिष्यते तदाह - सङ्कल्पेति । संवित्त्या
स्वप्रकाशस्वभावेनैव अभितः सम्यक् आख्याता प्रथमाना । इह मुक्तौ ॥ ५ ॥

सा शुद्धरूपा विज्ञाता परमात्मेति कथ्यते ।
शुद्धा त्वशुद्धरूपान्तरविद्येत्युच्यते बुधैः ॥ ६ ॥

अप्यर्थे तुशब्दः ॥ ६ ॥

संवित्तिरेव संवेद्यं नानयोर्द्वित्वकल्पना ।
चिनोत्यात्मानमात्मैव रामैवं नान्यदस्ति हि ॥ ७ ॥

तथाचाविज्ञानकृत एव संवित्तिसवेद्ययोर्भेदो न वास्तव इत्याह -
संवित्तिरेवेति । चिनोति अज्ञानात्सञ्चिनोति ज्ञानात्तु परिचिनोतीत्यर्थह् ॥ ७ ॥

यथाभूतात्मदर्शित्वमेतावद्भुवनत्रये ।
यदात्मैव जगत्सर्वमिति निश्चित्य पूर्णता ॥ ८ ॥

निष्कृष्टं सम्यग्ज्ञानस्वरूपमाह - यथाभूतेति ॥ ८ ॥

सर्वमात्मैव कौ दिष्टौ भावाभावौ क्व च स्थितौ ।
क्व बन्धमोक्षकलने किमन्यद्राम शोच्यते ॥ ९ ॥

दिष्टौ निर्दिष्टौ । निष्कृष्य निरूपितावित्यर्थः । किमन्यदस्ति यदर्थं शोच्यते
मूढेरिति शेषः ॥ ९ ॥

न चेत्यमन्यन्नो चित्तं ब्रह्मैवेदं विजृम्भते ।
सर्वमेकं परं व्योम को मोक्षः कस्य बन्धता ॥ १० ॥

ब्रह्मेदं बृंहिताकारं बृहद्वृहदवस्थितम् ।
ज्ञानादस्तमितद्वित्वं भवात्मैव त्वमात्मना ॥ ११ ॥

बृहतोऽपि बृहद्ब्रह्म स्वात्मन्येव मायया नटवद्बृंहिताकारं इदं
दृश्यं व्यवस्थितम् ॥ ११ ॥

सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् ।
मनागपि न भेदोऽस्ति क्वासि सङ्कल्पनोन्मुखः ॥ १२ ॥

सम्यक् अधिष्ठानसन्मात्ररूपेणालोकिते सति क्वासि । नह्येकरूपे हेयोपादेये
सङ्कल्पनं विकल्पनं वा सम्भवतीत्यर्थः ॥ १२ ॥

आदावन्ते च संशान्तं स्वरूपमविनाशि यत् ।
वस्तु नामात्मनश्चैव तन्मयो भव राघव ॥ १३ ॥

अविनाशि यत्स्वरूपं तदेव वस्तु । नामेति प्रसिद्धौ । आत्मनश्च
स्वरूपमेवंविधमतस्तन्मयो भवेत्यर्थः ॥ १३ ॥

परं व्योमेदमखिलं जगत्स्थावरजङ्गमम् ।
सुखदुःखक्रमः कुत्र विज्वरो भव राघव ॥ १४ ॥

परं निरतिशयानन्दरूपं ब्रह्म ॥ १४ ॥

द्वैताद्वेतसमुद्भूतैर्जरामरणविभ्रमैः ।
स्फुरत्यात्मभिरात्मैव चित्रैरम्ब्विव वीचिभिः ॥ १५ ॥

स्फुरति अज्ञस्येति शेषः ॥ १५ ॥

शुद्धमात्मानमालिङ्ग्य नित्यमन्तस्थया धिया ।
यः स्थितस्तं क आत्मेहं भोगा बन्धयितुं क्षमाः ॥ १६ ॥

तं तत्त्वज्ञम् । के भोगाः ॥ १६ ॥

कृतस्फारविचारस्य मनोभोगादयोऽरयः ।
मनागपि न भिन्दन्ति शैलं मन्दानिला इव ॥ १७ ॥

मनोभोगः कामस्तदादयः षडरयः ॥ १७ ॥

अविचारिणमज्ञानं मूढमाशापरायणम् ।
निगिरन्तीह दुःखानि बका मत्स्यमिवाजलम् ॥ १८ ॥

अजलं जलान्निर्गतमल्पजलस्थं वा ॥ १८ ॥

जगदात्मैव सकलमविद्या नास्ति कुत्रचित् ।
इति दृष्टिमवष्टभ्य सम्यग्रूपः स्थिरो भव ॥ १९ ॥

नानात्वमस्ति कलनासु न वस्तुतोऽन्त-
र्नानाविधासु सरसीषु जलादि नान्यत् ।
इत्येकनिश्चयमयः पुरुषो विमुक्त
इत्युच्यते समवलोकितसम्यगर्थः ॥ २० ॥

जलादि आदिपदात्तरङ्गफेनबुद्बुदादि जलान्नान्यत् । यथेति शेषः । इति विविच्य
समवलोकितसम्यगर्थस्तदेकनिश्चयप्रधानः पुरुष
आत्यन्तिकचित्तनाशादिव्मुक्त इत्युच्यत इत्यर्थः ॥ २० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे सम्यग्ज्ञानलक्षणनिरूपणं
नामैकोनाशीतितमः सर्गः ॥ ७९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
सम्यग्ज्ञानलक्षणनिरूपणं नामैकोनाशीतितमः सर्गः ॥ ७९ ॥