सप्तसप्ततितमः सर्गः ७७
श्रीराम उवाच ।
समासेन मुने भूयो दृष्टतत्त्वचमत्कृतेः ।
कथयोदारवृत्तान्ते कस्ते वचसि तृप्यति ॥ १ ॥
धार्या मन्दारमालेव विबुधैः शिरसोरसा ।
जीवन्मुक्तगुणैर्माला वसिष्ठेनात्र गुम्फ्यते ॥ १ ॥
समासेन तत्रतत्रोक्तानामेकत्र सङ्ग्रहेण । उदारं वृत्तान्तं चरित्रम् ।
लक्षणभूतान्गुणानिति यावत् ॥ १ ॥
श्रीवसिष्ठ उवाच ।
जीवन्मुक्तस्य बहुधा कथितं लक्षणं मया ।
भूयोऽपि त्वं महाबाहो कथ्यमानमिदं शृणु ॥ २ ॥
इदं सङ्ग्रहरूपम् ॥ २ ॥
सुषुप्तवदिदं नित्यं पश्यत्यपगतैषणः ।
असद्रूपमिवासक्तं सर्वत्राखिलमात्मवान् ॥ ३ ॥
व्यवहारदृशा सुषुप्तवत्तमोमात्रम् । परमार्थदृशा तु
बाधितानुवृत्तिमात्रत्वादसद्रूपमिव ॥ ३ ॥
कैवल्यमिव सम्प्राप्तः परिसुप्तमना इव ।
घूर्णमान इवानन्दी तिष्ठत्यधिगतात्मदृक् ॥ ४ ॥
नादत्तमप्युपादत्ते गृहीतमपि पाणिना ।
अन्तर्मुखतयोदात्तरूपया समया धिया ॥ ५ ॥
आदत्तं प्रथमं चक्षुरादिना उपात्तं पश्चात्पाणिना गृहीतमपि
धनवस्त्रालङ्कारादि धिया नोपादत्ते । आदिकर्मणि निष्ठा । अत-एव
तादेशानिष्टिः ॥ ५ ॥
यन्त्रपुत्रकसञ्चार इतीमं जनताक्रमम् ।
अन्तःसंलीनया दृष्ट्या पश्यन्हसति शान्तधीः ॥ ६ ॥
जनतायाः क्रमं व्यवहारं
असङ्गोदासीनात्मसन्निधिमात्रप्रवृत्तत्वात्काष्ठादिप्रतिमासञ्चारसदृश
इति पश्यन् ॥ ६ ॥
नापेक्षते भविष्यं च वर्तमाने न तिष्ठति ।
न संस्मरत्यतीतं च सर्वमेव करोति च ॥ ७ ॥
न तिष्ठति न आस्थां करोति ॥ ७ ॥
सुप्तः प्रबुद्धो भवति प्रबुद्धोऽपि च सुप्तवान् ।
सर्वं कर्म करोत्यन्तर्न करोति च किञ्चन ॥ ८ ॥
व्यवहारविषये सुप्तप्रायोऽपि स्वात्मनि प्रबुद्धो भवति । या निशा
सर्वभूतानां तस्यां जागर्ति संयमी इति भगवद्वचनम् । व्यवहारे
प्रबुद्धः कुशलतमोऽपि सुप्तवानेवास्ते न तत्कौशलफलेन रज्यत इत्यर्थः ॥ ८
॥
अन्तःसर्वपरित्यागी नित्यमन्तरनेषणः ।
कुर्वन्नपि बहिः कार्यं सममेवावतिष्ठते ॥ ९ ॥
अत-एव तस्य सदैव समा स्थितिरित्याह - अन्तरिति ॥ ९ ॥
बहिः प्रकृतसर्वेहो यथाप्राप्तक्रियोन्मुखः ।
स्वकर्मक्रमसम्प्राप्तबन्धुकार्यानुवृत्तिमान् ॥ १० ॥
स्वकर्म तत्तद्देहवर्णाश्रमोचितं कर्म पितृपितामहादिक्रमसम्प्राप्तं
राज्यादिबन्धुकार्याणि दानमानादीनि च तन्मात्रानुवृत्तिमान् ॥ १० ॥
समग्रसुखभोगात्मा सर्वाशास्विव संस्थितः ।
करोत्यखिलकर्माणि त्यक्तकर्तृत्वविभ्रमः ॥ ११ ॥
समस्ताः सुखभोगा आत्मैव यस्य समस्तानां सुखभोगानां स्वयमात्मेति
वा । अत-एवाज्ञदृशा भोगकाले सर्वविषयाशासु संस्थित आस्थावानिव
भाति नाज्ञवद्भोक्तृत्वाभिमानेनेत्यर्थः ॥ ११ ॥
उदासीनवदासीनः प्रकृतः क्रमकर्मसु ।
नाभिवाञ्छति न द्वेष्टि न शोचति न हृष्यति ॥ १२ ॥
कर्मसु प्राप्तमिष्टानिफलमिति शेषः ॥ १२ ॥
अनुबन्धपरे जन्तावसंसक्तेन चेतसा ।
भक्ते भक्तसमाचारः शठे शठ इव स्थितः ॥ १३ ॥
अनुबन्ध आनुकूल्यप्रातिकूल्याचरणं तत्परे ॥ १३ ॥
बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् ।
युवा यौवनवृत्तेषु दुःखितेष्वनु दुःखितः ॥ १४ ॥
प्रवृत्तवाक्पुण्यकथो दैन्याद्व्यपगताशयः ।
धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः ॥ १५ ॥
पूर्वोक्तबालादिसमवृत्ते यो विशेषस्तमाह - प्रवृत्तेति । प्रवृत्ता
वाग्यस्य तथाविधः सन् पुण्याः कथाः कथयति न बालादिवद्वृथा
प्रलापीत्यर्थः । एवमन्यदप्यूह्यम् । पुण्यानि कीर्तनानि चरित्रवर्णनानि लोके
यस्य ॥ १५ ॥
प्राज्ञः प्रसन्नमधुरः पूर्णः स्वप्रतिभोदये ।
निरस्तखेददौर्गत्यः सर्वस्मिन्स्निग्धबान्धवः ॥ १६ ॥
सर्वस्मिन् जने ॥ १६ ॥
उदारचरिताकारः समः सौम्यसुखोदधिः ।
सुस्निग्धः शीतलस्पर्शः पूर्णचन्द्र इवोदितः ॥ १७ ॥
शीतलः सर्वतापहारी स्पर्शः सङ्गो यस्य ॥ १७ ॥
न तस्य सुकृतेनार्थो न भोगैर्न च कर्मभिः ।
न दुष्कृतैर्न भोगानां सन्त्यागेन न बन्धुभिः ॥ १८ ॥
न दुष्कृतैरिति निषिद्धाचरणपरिहारार्थम् । अत-एव
भोगानामनिषिद्धानाम् ॥ १८ ॥
न कार्यकारणारम्भैर्न निष्कृततया तथा ।
न बन्धेन न मोक्षेण न पातालेन नो दिवा ॥ १९ ॥
अवश्यकार्याणां ऐहिकामुष्मिकफलकारणानां कर्मणामारम्भैः ।
निष्कृततया भावे क्तः । निष्क्रियतया इति वा पाठः । दिवा स्वर्गेण ॥ १९ ॥
यथावस्तु यथादृष्टं जगदेकमयात्मकम् ।
तदा बन्धविमोक्षाणां न क्वचित्कृपणं मनः ॥ २० ॥
बन्धानां सांसारिकसुखानां विमोक्षाणां
सर्वदुःखतत्कारणनिवृत्तीनां च मध्येन क्वचित् कृपणं
कार्पण्ययुक्तं मनो भवतीत्यर्थः ॥ २० ॥
सम्यग्ज्ञानाग्निना यस्य दग्धाः सन्देहजालिकाः ।
निःशङ्कमलमुड्डीनस्तस्य चित्तविहङ्गमः ॥ २१ ॥
सन्देहलक्षणा जालिकाः पञ्जराणि । तथाच सति मनसि कार्पण्यसम्भावना
स्यात्तदेव तस्य नास्तीत्यर्थः ॥ २१ ॥
यस्य भ्रान्तिविनिर्मुक्तं मनः समरसं स्थितम् ।
नास्तमेति न चोदेति व्योमवत्सर्वदृष्टिषु ॥ २२ ॥
समरसं ब्रह्मीभूतम् ॥ २२ ॥
मञ्जूषायां निषण्णस्य यथा बालस्य चेष्टते ।
अङ्गावल्यनुसन्धानवर्जितं यस्य वै तथा ॥ २३ ॥
मनसोऽभावे कथं कायचेष्टाद्युपपत्तिस्तत्राह - मञ्जूषायामिति ।
दोलासुखशय्यायामित्यर्थः । तस्य हि स्वानन्दाविर्भावोल्लासादेवाङ्गचलनं
तद्यथा महाराजो वा महाब्राह्मणो वा महाकुमारो वा अतिघ्नीमानन्दस्य
गत्वा शयीत इति श्रुत्यादिप्रसिद्धमीश्वरनृत्यवत् ॥ २३ ॥
घूर्णन्क्षीव इवानन्दी मन्दीभूतपुनर्भवः ।
अनुपादेयबुद्ध्या तु न स्मरत्यकृतं कृतम् ॥ २४ ॥
अनुपादेयबुद्ध्या नियमेन कृताकृतस्मारिकायाः
क्रियाफलोपादेयताबुद्धेरभावादित्यर्थः ॥ २४ ॥
सर्व सर्वप्रकारेण गृह्णाति च जहाति च ।
अनुपादेयसर्वार्थो बालवच्च विचेष्टते ॥ २५ ॥
सर्वमित्यादि बालपक्षेऽपि योज्यम् ॥ २५ ॥
स तिष्ठन्नपि कार्येषु देशकालक्रियाक्रमैः ।
न कार्यसुखदुःखाभ्यां मनागपि हि गृह्यते ॥ २६ ॥
कार्यप्रयुक्ताभ्यां सुखदुःखाभ्याम् ॥ २६ ॥
बहिः प्रकृतसर्वार्थोऽप्यन्तः पुनरनीहया ।
न सत्तां योजयत्यर्थे न फलान्यनुधावति ॥ २७ ॥
अर्थे बाह्यार्थे सत्तां सत्यताबुद्ध्या आस्थाम् । अत-एव फलान्यनुधावति ॥
२७ ॥
नोपेक्षते दुःखदशं न सुखाशामपेक्षते ।
कार्योदये नैति मुदं कार्यनाशे न खिद्यते ॥ २८ ॥
उप समीपे सन्निहितामपि दुःखदशां नेक्षते ॥ २८ ॥
अपि शीतरुचावर्के सुतप्तेऽपीन्दुमण्डले ।
अप्यधः प्रसरत्यग्नौ [प्रतपति इति पाठः] विस्मयोऽस्य न जायते
॥ २९ ॥
अर्के शीतरुचौ जातेऽपि । इन्दुमण्डले सुतप्ते सम्पन्नेऽपि । अग्नौ अधः अधोमुखे
प्रसरति ज्वलत्यपि । अस्य विस्मय आश्चर्यबुद्धिर्न जायते ॥ २९ ॥
चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः ।
इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥ ३० ॥
कुतो न जायते तत्राह - चिदात्मन इति । शक्तयो मायाः ॥ ३० ॥
न दयादैन्यमादत्ते न क्रौर्यमनुधावति ।
न लज्जामनुसन्धत्ते नालज्जत्वं च गच्छति ॥ ३१ ॥
लज्जा अपमानभैक्षचर्यादौ । अकार्येष्वलज्जत्वं न गच्छति ॥ ३१ ॥
न कदाचन दीनात्मा नोद्धतात्मा कदाचन ।
न प्रमत्तो न खिन्नात्मा नोद्विग्नो न च हर्षवान् ॥ ३२ ॥
नास्य चेतसि सुस्फारे शरदम्बरनिर्मले ।
कोपादयः प्रजायन्ते नभसीव नवाङ्कुराः ॥ ३३ ॥
अनारतपतज्जातभूतायां जगतः स्थितौ ।
क्व कथं किल कासौ स्यात्सुखिताऽसुखिताथवा ॥ ३४ ॥
अनारतमविरतं पतन्ति म्रियन्ते जातान्युत्पन्नानि च भूतानि प्राणिनो यस्याम् ।
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् इति भगवद्दर्शितन्यायादिति
भावः । किंवृत्तत्रयं देशकालतः प्रकारतः स्वरूपतश्च
असम्भावितत्वलाभाय ॥ ३४ ॥
फेनाजवं जवीभावे जले भूतक्रमे तथा ।
क्व किलेदं कुतः कोऽतः प्रसङ्गः सुखदुःखयोः ॥ ३५ ॥
उक्तं दृष्टान्तेन समर्थयति - फेनेति । फेनानां तरङ्गप्रयुक्ते
आजवं जवीभावे भ्रमणे । इदं स्थैर्यं क्व कुतो वा । अतः सुखदुःखयोः
कः प्रसङ्गः ॥ ३५ ॥
भावाभावैरपर्यन्तैरजस्रं जन्तुसम्भवैः ।
न विशीर्यन्ति नोद्यन्ति दृष्टिसृष्टिक्षमा नराः ॥ ३६ ॥
न विशीर्यन्ति न नश्यन्ति न खिद्यन्ति च । नोद्यन्ति न जायन्ते न हृष्यन्ति च ।
प्रातिभासिकस्य जगतो दृष्टिरेव सृष्टिस्तत्र क्षमाः अहमेवात्मनि
जगन्मायां सृजामीति पश्यन्तो जीवन्मुक्ताः ॥ ३६ ॥
निमेषं प्रति यामिन्यां यथान्याः स्वप्नदृष्टयः ।
क्षणोत्पत्तिविनाशिन्यस्तथैता लोकदृष्टयः ॥ ३७ ॥
किञ्च प्रतिक्षणपरिणामिनो हि सर्वे भावाः इति न्यायात्प्रतिक्षणं
भिद्यमानेषु जगद्धर्मेष्वनुवर्तमानः स्थायी सदात्मा स्वप्न इव
स्वात्मन्येव दृश्यवान् षड्भावविकारान्प्रतिक्षणं कल्पयन्पश्यतीत्येव
तेषां निश्चये कुतो हर्षादिप्रसक्तिरित्याशयेनाह - निमेषमित्यादिना ।
वीप्साद्योती प्रतिशब्दः कर्मप्रवचनीयः ।
द्विर्वचनाव्ययीभावयोरन्यतरस्यावश्यं प्राप्तेस्तदकरणं छान्दसम् ॥ ३७
॥
अनारतसमुत्पत्तावनारतविनाशिनि ।
कः क्रमो दग्धसंसारे कारुण्यानन्दयोरिह ॥ ३८ ॥
क्रमणं क्रमः प्रसङ्गः ॥ ३८ ॥
शुभाशुभावात्सुखाभावे स्थितिं याते विलक्षणाः ।
कीदृश्यः कथमायाताः क्व वा ता दुःखसंविदः ॥ ३९ ॥
किञ्च शुभकर्मफलेषु प्रसिद्धेषु सत्सु तद्विरोधिनः पुत्रवियोगदुःखादयः
पदं लभेरन् जीवन्मुक्तानां शुभस्यैवाभावादुभयाप्रसक्तिरित्याह -
शुभाभावादिति । विलक्षणाः शुभफलेभ्यो विलक्षणाः । किंवृत्तानि
पूर्ववत् ॥ ३९ ॥
सुखसंवेदनान्तोत्था स्वबीजं वितनोति या ।
शान्ता दुःखदशा सेयं कथमन्तर्हिते सुखे ॥ ४० ॥
या दुःखदशा सुखसंवेदनस्य सुखानुभवस्य अने उत्था लब्धसत्ताका सती
स्वबीजं स्वकार्यं शोकमोहादि वितनोति विस्तारयति सेयं दुःखदशा
शुभकर्माभावाच्छान्ते सुखे स्वयमपि शान्तैवेति निर्हेतुका कथं
सम्भवेदिति पूर्वोक्तार्थस्यैव स्फुटीकरणम् ॥ ४० ॥
क्षीणाभ्यां सुखदुःखाभ्यां हेयोपादेययोः क्षये ।
ईप्सितानीप्सिते क्व स्तो गलितेऽथ शुभाशुभे ॥ ४१ ॥
रम्यारम्यदृशोर्नाशाद्याते भोगामिवाञ्छने ।
नैराश्ये सन्ततं प्रौढे हिमवद्विगलेन्मनः ॥ ४२ ॥
किं ततस्तत्राह - रम्येति । याते अपगते सति । नैराश्ये प्रौढे निरूढे सति ॥
४२ ॥
आमूलान्मनसि क्षीणे सङ्कल्पस्य कथा च का ।
तिलेष्विवातिदग्धेषु तैलस्य कलना कुतः ॥ ४३ ॥
अस्तु मनोनाशस्ततोऽपि किं तत्राह - आमूलादिति ॥ ४३ ॥
भावेष्वभावघनभावनया महात्मा
निर्मुक्तसङ्कलनमम्बरवत्स्थितेषु ।
चित्तं प्रति स्वमुदितो विततैकरूपी
ज्ञस्तिष्ठति स्वपिति जीवति नित्यतृप्तः ॥ ४४ ॥
अभावघनभावनय स्वव्यतिरिक्तं नाश्त्येवेति दृढनिश्चयेन सर्वेषु
भावेषु दृश्यपदार्थेषु निर्मुक्तसङ्कलनं निःसङ्कल्पविकल्पं यथा
स्यात्तथा अम्बरवत्सन्मात्रस्वभावेन स्थितेषु सत्सु
परिच्छेदहेत्वभावाद्विततैकरूपि महात्मा ज्ञो नित्यतृप्तः सन् स्वेनैव
निरतिशयानन्दात्मना मुदित आनन्दी सन्
जाग्रत्स्वप्नयोर्यथाप्राप्तार्थालोचनमात्ररूपं चित्तं प्रति तिष्ठति तल्लये
सुषुप्तौ स्वपिति यावत्प्रारब्धक्षयं च जीवतीत्यर्थः ॥ ४४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे जीवन्मुक्तस्वरूपवर्णनं नाम
सप्तसप्ततितमः सर्गः ॥ ७७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
जीवन्मुक्तस्वरूपवर्णनं नाम सप्तसप्ततितमः सर्गः ॥ ७७ ॥