७६

षट्सप्ततितमः सर्गः ७६

श्रीवसिष्ठ उवाच ।

ब्रह्मणः समुपायान्ति जगन्तीमानि राघव ।
स्थैर्यं यान्त्यविवेकेन शाम्यन्त्येव विवेकतः ॥ १ ॥

इह संसारजलधिः स्त्रीवीचिरुपवर्ण्यते ।
ततस्तत्तरणोपायस्तीर्णे क्रीडा यथासुखम् ॥ १ ॥

अविज्ञाताद्ब्रह्मणः समुपायान्त्याविर्भवन्ति अविवेकेन स्थैर्ययान्ति ।
अनेनानर्थजन्मस्थित्योर्निमित्तं दर्शितम् । तन्निवृत्त्युपायमाह -
शाम्यन्तीति ॥ १ ॥

जगज्जालजलावर्तवृत्तयो ब्रह्मवारिधौ ।
सङ्ख्यातुं केन शक्यन्ते भासां च त्रसरेणवः ॥ २ ॥

भासां जालसूर्यमरीचीनां सम्बन्धिनस्रसरेणवश्च सङ्ख्यातुं न
शक्यन्ते ॥ २ ॥

असम्यक्प्रेक्षणं विद्धि कारणं जगतः स्थितौ ।
संसारशान्तये कान्त कारणं सम्यगीक्षणम् ॥ ३ ॥

हे कान्तेति रामसम्बोधनम् ॥ ३ ॥

अयं हि परदुष्पारो घोरः संसारसागरः ।
विना युक्तिप्रयत्नाभ्यामस्माद्राम न तीर्यते ॥ ४ ॥

परं अत्यन्तं दुर्गमं पारं यस्य ॥ ४ ॥

यस्यायं सागरः पूर्णो मोहाम्बुभरपूरितः ।
अगाधमरणावर्तकल्लोलाकुलकोटरः ॥ ५ ॥

तमेव संसारसागरं वर्णयति - यस्येत्यादिना । अयं
वक्ष्यमाणविविधविशेषणविशिष्टः संसारलक्षणः सागरो यस्य
मोहाम्बुभरेण पूरितः सन् पूर्णस्तेनैव तन्निमग्ने न उत्तीर्यते चेदिति
सप्तमेनान्वयः । अगाधैर्मरणलक्षणैरावर्तैः कल्लोलैर्बृहत्तरङ्गैश्च
आकुलकोटरः ॥ ५ ॥

प्रभ्रमत्पुण्यडिण्डीरो ज्वलन्नरकवाडवः ।
तृष्णाविलोललहरिर्मनोजलमतङ्गजः ॥ ६ ॥

पुण्यान्येव डिण्डीराः फेना यस्य । वाडवो वडवानलः । जलोद्भवो
मतङ्गजसदृशो यादोभेदः ॥ ६ ॥

आलीनजीवितसरिद्भोगरत्नसमुद्गकः ।
क्षुब्धरोगोरगाकीर्ण इन्द्रियग्राहघर्घरः ॥ ७ ॥

आ समन्ताल्लीना उपक्षीणा जीवितसरितो यत्र । इन्द्रियग्राहैर्घर्घरः
कृतविक्षोभध्वनिः ॥ ७ ॥

पश्यास्मिन्प्रसृता राम वीचयश्चारुचञ्चलाः ।
इमा मुग्धाङ्गनानाम्न्यः शिखराकर्षणक्षमाः ॥ ८ ॥

तत्र स्त्रियो वीचित्वेन वर्णयति - पश्येत्यादिना ।
शिखरवद्धीराणामप्याकर्षणे क्षमाः ॥ ८ ॥

छदश्रीपद्मरागाढ्या नेत्रनीलोत्पलाकुलाः ।
दन्तपुष्पफलाकीर्णाः स्मितफेनोपशोभिताः ॥ ९ ॥

छदा रदनच्छदास्तच्छ्रीभिः पद्मरागाढ्याः ।
पुष्पफलैर्मुकुलैराकीर्णाः ॥ ९ ॥

केशेन्द्रनीलवलया भ्रूविलासतरङ्गिताः ।
नितम्बपुलिनस्फीताः कण्ठकम्बुविभूषिताः ॥ १० ॥

कण्ठलक्षणैः कम्बुभिः शङ्खैर्विभूषिताः ॥ १० ॥

ललाटमणिपट्टाढ्या विलासग्राहसङ्कुलाः ।
कटाक्षलोलगहना वर्णकाञ्चनवालुकाः ॥ ११ ॥

ललाटलक्षणैर्मणिपट्टैः रत्नफलकैराढ्याः । कटाक्षैर्लोलत्वाद्गहना
दुरवगाहाः । वर्णा देहकान्तय एव काञ्चनवालुका यासाम् ॥ ११ ॥

एवं विलोललहरीभीमात्संसारसागरात् ।
उत्तिर्यते चेन्मग्नेन तत्परं पौरुषं भवेत् ॥ १२ ॥

सत्यां प्रज्ञामहानावि विवेके सति नाविके ।
संसारसागरादस्माद्यो न तीर्णो धिगस्तु तम् ॥ १३ ॥

अपारावारमाक्रम्य प्रमेयीकृत्य सर्वतः ।
संसाराब्धिं गाहते यः स एव पुरुषः स्मृतः ॥ १४ ॥

आक्रम्य तत्त्वदर्शनेन बाधित्वा । अत-एव तं प्रमेयब्रह्ममात्रं
कृत्वा गाहते प्रविशति प्रत्यञ्चमपि तद्भावं नयतीति यावत् ॥ १४ ॥

विचार्यार्यैः सहालोक्य धिया संसारसागरम् ।
एतस्मिंस्तदनु क्रीडा शोभते राम नान्यथा ॥ १५ ॥

तदनु तत्त्वबोधानन्तरम् । एतस्मिन् ब्रह्मत्वमापन्ने जगति ॥ १५ ॥

इह भव्यो भवान्साधो विचारपरया धिया ।
त्वयाधुनैव तेनायं संसारः प्रविचार्यते ॥ १६ ॥

भवान् भव्यो धन्यः । यतस्त्वया तेन भव्यत्वेन अधुना अस्मिन्वयस्येव ॥ १६ ॥

भवानिव विचार्यादौ संसारमतिकान्तया ।
मत्या यो गाहते लोको नेहासौ परिमज्जति ॥ १७ ॥

गाहते प्रविशति ब्रह्मेति शेषः । लोकोऽधिकारिजनः ॥ १७ ॥

पूर्वं धिया विचार्यैते भोगा भोगिभयप्रदाः ।
भोक्तव्याश्चरमं राम गरुडेनेव पन्नगाः ॥ १८ ॥

पूर्वं भोगा उपेक्ष्या इति शेषः । यथा गरुडेनामृताहरणात्पूर्वं
पन्नगा उपेक्षिताः पश्चान्मातृशापमोचनानन्तरं निःशङ्कं भुज्यन्ते
तद्वत् ॥ १८ ॥

विचार्य तत्त्वमालोक्य सेव्यन्ते या विभूतयः ।
ता उदर्कोदया जन्तोः शेषा दुःखाय केवलम् ॥ १९ ॥

लोकेऽप्ययं राजकीयविभूत्युपभोगे न्यायः प्रसिद्ध इत्याह - विचार्येति ।
तत्त्वं राजप्रसादानुग्रहादिरहस्यम् ॥ १९ ॥

बलं बुद्धिश्च तेजश्च दृष्टतत्त्वस्य वर्धते ।
सवसन्तस्य वृक्षस्य सौन्दर्याद्या गुणा इव ॥ २० ॥

तत्त्वबोधोत्तरमेव भोगजरणोपपादकविशेषणसम्पत्तिर्न पूर्वमिति दर्शयति

  • बलमिति ॥ २० ॥

घनरसायनपूर्णसुशीतया
विमलया समया सततं श्रिया ।
शिशिररश्मिरिवातिविराजसे
विदितवेद्य सुखं रघुनन्दन ॥ २१ ॥

रामस्य भोगजरणासमार्थ्यशङ्कावारणाय तत्त्वबोधसम्पत्तिं दर्शयति

  • घनेति । हे रघुनन्दन त्वं विदितवेद्यतया हेतुना इदानीं घनेन
    रसायनेन आनन्दामृतेन पूर्णया सुशीतया निरस्तन्त्रिविधतापया श्रिया
    शिशिररश्मिः पूर्णचन्द्र इव अतिविराजसे । चन्द्रपक्षे समया अभितः
    पूर्णमण्डलत्वादवक्रया ॥ २१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे
संसारसागरसाम्यप्रतिपादनं नाम षट्सप्ततितमः सर्गः ॥ ७६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
संसारसागरसाम्यप्रतिपादनं नाम षट्सप्ततितमः सर्गः ॥ ७६ ॥