७५

पञ्चसप्ततितमः सर्गः ७५

श्रीवसिष्ठ उवाच ।

जनकः संस्थितो राज्ये व्यवहारपरोऽपि सन् ।
विगतज्वर एवान्तरनाकुलमतिः सदा ॥ १ ॥

महत्स्वप्यधिकारेषु हर्षशोकाद्यसङ्गिनः ।
इहोक्ता बहवो मुक्ता देवासुरनरादयः ॥ १ ॥

जनको वैदेहः ॥ १ ॥

पितामहो दिलीपस्ते सर्वारम्भपरोऽप्यलम् ।
वीतरागतयैवान्तर्बुभुजे भेदिनीं चिरम् ॥ २ ॥

निरञ्जनतया बुद्धो जनतां पालयंश्चिरम् ।
जीवन्मुक्ताकृतिर्नित्यं मनू राज्यमपालयत् ॥ ३ ॥

निरञ्जनतया रागादिकालुष्यरहिततया । बुद्धः प्रबुद्धो मनुः ॥ ३ ॥

विचित्रबलयुद्धेषु व्यवहारेषु भूरिषु ।
मान्धाता सुचिरं तिष्ठन्प्राप्तवान्वै परं पदम् ॥ ४ ॥

विचित्राणि बलानि सैन्यानि बाहुबलानि च येषु तथाविधेषु युद्धेषु ॥ ४ ॥

बलिः पातालपीठस्थः कुर्वन्सदिव संस्थितिम् ।
सदा त्यागी सदाऽसक्तो जीवन्मुक्त इति स्थितः ॥ ५ ॥

सत् यथार्थमिव संस्थितिं व्यवहारम् । दिवसस्थितिम् इति पाठे सः दिवसानां
पातालनिवासाय हरिणा नियमितानां स्थितिं पालनम् ॥ ५ ॥

नमुचिर्दानवाधीशोओ देवद्वन्द्वपरः सदा ।
नानाचारविचारेषु क्वचिन्नान्तरतप्यत [मान्तरलिप्यत इति पाठः]
॥ ६ ॥

देवैः सह द्वन्द्वे युद्धे मर्यादाव्युत्क्रमे वा परस्तत्परः । नानाविधानां
देवासुराचाराणां विचारेषु विमर्शेषु ॥ ६ ॥

वासवाजौ तनुत्यागी वृत्रो विततमानसः ।
अन्तःशान्तमना मानी चकार सुरसङ्गरम् ॥ ७ ॥

सङ्गरं युद्धम् ॥ ७ ॥

कुर्वन्दानवकार्याणि पातालतलपालकः ।
अनपायं निराक्रोशं प्रह्रादो ह्लादमागतः ॥ ८ ॥

निराक्रोशं वाचामगोचरं ह्लादं सुखम् ॥ ८ ॥

शम्बरैकपरोऽप्यन्तःशम्बरैकतयोदितः ।
संसारशम्बरं राम शम्बरस्त्यक्तवानिदम् ॥ ९ ॥

शाम्बरं माया तदेकपरोऽप्यन्तःशम्बरं हार्दचिदाकाशस्तदेकतया उदित
आविर्भूतः ॥ ९ ॥

असक्तबुद्धिर्हरिणा कुर्वन्दानवसङ्गरम् ।
परां संविदमासाद्य कुशलस्त्यक्तवानिदम् ॥ १० ॥

कुशलः स एव अन्यो वा कुशलनामा दानवः ॥ १० ॥

सर्वामरमुखो वह्निः क्रियाजालपरो ह्यपि ।
यज्ञलक्ष्मीश्चिरं भुङ्क्ते मुक्त एवेह तिष्ठति ॥ ११ ॥

पीयमानः सुरैः सर्वैः सोमः समरसाशयः ।
क्वचिदेति न संसङ्गमाक्रान्तावम्बरं यथा ॥ १२ ॥

समं ब्रह्मैव रसो रसायनं पुनरुज्जिवनामृतमन्तर्यस्य । संसङ्गं
सुखदुःखादिसंसर्गम् । आक्रान्तौ पद्भ्यामाक्रमणे । अम्बरमाकाशम् ॥ १२ ॥

बृहस्पतिर्देवगुरुर्दारार्थं चन्द्रयोध्यपि ।
आचरन्दिवि चित्रेहां मुक्त एव ह्यवस्थितः ॥ १३ ॥

दारार्थं चित्रां ईहां देवपौरोहित्याधिकारचेष्टाम् ॥ १३ ॥

शुक्रोऽम्बरतलद्योती बुधः सर्वार्थपालकः ।
निर्विकारमतिः कालं नयत्यसुरदेशिकः ॥ १४ ॥

बुधो विद्वान् । नीतिशास्त्रप्रणयनेन सर्वेषामर्थानामभिमतानां पालकः ॥
१४ ॥

जगद्भूतगणाङ्गानि चिरं सञ्चारयन्नपि ।
सर्वदा सर्वसञ्चारी मुक्त एव समीरणः ॥ १५ ॥

जगन्ति ऊर्ध्वभुवनानि भूतगणानां प्राणिनिकायानामङ्गानि च ॥ १५ ॥

लोकाजवं जवीभावप्रोद्वेगज्ञोऽप्यखिन्नधीः ।
ब्रह्मा सममना राम क्षिपयत्यायुराततम् ॥ १६ ॥

लोकानां प्राणिनां आजवं जवीभावा ऊर्ध्वाधोमध्यगतिभिः
परिवर्तास्तत्प्रयुक्ताः प्रोद्वेगाश्च तज्ज्ञोऽपि । आततं द्विपरार्धकालविस्तीर्णम् ॥
१६ ॥

रजामरणयुद्धादिद्वन्द्वसङ्गरलीलया ।
चरती [चरतीहाचिरं इति पाठः] ह चिरं कालं मुक्तोऽपि
भगवान्हरिः ॥ १७ ॥

मुक्तो नित्यमुक्तोऽपि ॥ १७ ॥

मुक्तेनापि त्रिनेत्रेण सौन्दर्यतरुमञ्जरी ।
देहार्धे धार्यते गौरी कामुकेनेव कामिनी ॥ १८ ॥

इवकारेण न स कामुको नापि सा कामिनी किन्तु ब्रह्मब्रह्मविद्ये एव ते इति
ध्वनितम् ॥ १८ ॥

मुक्तयापि गले बद्धो गौर्या गौरस्त्रिलोचनः ।
संशुद्ध इव मुक्तानां हारः शशिकलामलः ॥ १९ ॥

गुहो गहनधीर्वीरस्तारकादिरणक्रियाम् ।
मुक्तोऽपि कृतवान्सर्वं ज्ञानरत्नैकसागरः ॥ २० ॥

गहनधीर्विचित्रदुरवगाहबुद्धिः ॥ २० ॥

भृङ्गीशो रक्तमांसं स्वं स्वमात्रे प्रवितीर्णवान् ।
मुक्तयैव धिया राम धीरया ध्यानधौतया ॥ २१ ॥

भृङ्गीशोऽत्र भृङ्गीरिटिः शिवगणविशेषः । स हि देवीमनादृत्य
शिवस्यैवाराधनपरः कुपितया देव्या
मातृपितृभागात्ममांसास्थिमयदेहस्य स्वीयं मातृभागं
परावृत्य याचितः स्वमात्रे देव्यै स्वं रक्तमांसमुत्कृत्त्य ददाविति
पुराणेषु प्रसिद्धम् ॥ २१ ॥

मुनिर्मुक्तस्वभावोऽपि जगज्जङ्गलखण्डकम् ।
नारदो विजहारेमं शीतया [अत्र लीलयेति पाठोऽपेक्षितः]
कार्यशीलया ॥ २२ ॥

कार्य कलहकौतुकप्रवर्तनं तच्छीलया ॥ २२ ॥

जीवन्मुक्तमना मान्यो विश्वामित्रोऽप्ययं प्रभुः ।
वेदोक्तां मखनिर्माणक्रियां समधितिष्ठति ॥ २३ ॥

धारयत्यवनीं शेषः करोत्यर्को दिनावलीम् ।
यमो यमत्वं कुरुते जीवन्मुक्ततयैव हि ॥ २४ ॥

यमत्वं दण्डनम् ॥ २४ ॥

अन्येऽप्यस्मिंस्त्रिभुवने यक्षासुरनराः सुराः ।
शतशो मुक्ततां याताः सन्तस्तिष्ठन्ति संसृतौ ॥ २५ ॥

संस्थिता व्यवहारेषु विचित्राचारधारिषु ।
अन्तराशीतलाः केचित्केचिन्मूढाः शिलासमाः ॥ २६ ॥

विचित्रशोकमोहाद्यनर्थप्रसञ्जकेषु
पुत्रदारधनभूत्यादिसङ्ग्रहपूर्वकयुद्धवधबन्धाद्याचारधारिष्वपि
राज्यादिव्यवहारेषु संस्थिता अन्तः आशीतलाः केचिन्मुक्ताः ॥ २६ ॥

परमं बोधमासाद्य केचित्काननमागताः ।
यथा भृगुभरद्वाजविश्वामित्रशुकादयः ॥ २७ ॥

केचित्तु चित्तविक्षेपनिवृत्त्यर्थं काननमाश्रिताः । तानुदाहरति -
यथेत्यादिना ॥ २७ ॥

केचिद्राज्येषु तिष्ठन्ति च्छत्रचामरपालिताः ।
यथा जनकशर्यातिमान्धातृसगरादयः ॥ २८ ॥

केचिद्व्योमनि तिष्ठन्ति धिष्ण्यचक्रान्तरस्थिताः ।
यथा बृहस्पत्युशनश्चन्द्रसूर्यमुनीश्वराः ॥ २९ ॥

ग्रहनक्षत्रादीनां धिष्ण्यमाधारभूतं ज्योतिश्चक्रं तदन्तरे स्थिताः ।
मुनीश्वराः सप्तर्षयः ॥ २९ ॥

केचित्सुरपदे याता विमानावलिमास्थिताः ।
यथाग्निवायुवरुणयमतुम्बुरुनारदाः ॥ ३० ॥

केचित्पातालकुहरे जीवन्मुक्ता व्यवस्थिताः ।
यथा बलिसुहोत्रान्धप्रह्रादाह्लादपूर्वकाः ॥ ३१ ॥

तिर्यग्योनिष्वपि सदा विद्यन्ते कृतबुद्धयः ।
देवयोनिष्वपि प्राज्ञा विद्यन्ते मूर्खबुद्धयः ॥ ३२ ॥

तिर्यग्योनिषु गरुडहनुमज्जाम्बवदादयः ॥ ३२ ॥

सर्वं सर्वेण सर्वत्र सर्वथा सर्वदैव हि ।
सम्भवत्येव सर्वात्मन्यात्मन्याततरूपिणि ॥ ३३ ॥

ननु सात्त्विकतमत्वात्स्वभावतोऽभिव्यक्तज्ञानैश्वर्येषु देवयोनिषु कथं
मूर्खाः सम्भवन्तीति चेत्सर्वशक्तेरीश्वरता [ईश्वरस्य इति पाठः]
सर्वभावेन सर्वत्र सर्वप्रकारेण सर्वदा स्थितत्वात्सर्वात्मन्यात्मनि
स्वप्नादावसम्भावितसहस्रस्यापि दर्शनान्नासम्भावना क्वापि कस्यचिदपि
कार्येत्याह - सर्वमिति ॥ ३३ ॥

विधेर्विचित्रा नियतिरनन्तारम्भमन्थरा ।
सन्निवेशांशवैचित्र्यात्सर्वं सर्वत्र दृश्यते ॥ ३४ ॥

उक्तार्थं स्फुटमाह - विधेरिति ॥ ३४ ॥

विधिर्दैवं विधिर्धाता सर्वेशः शिव ईश्वरः ।
इति नामभिरात्मा नः प्रत्यक्चेतन उच्यते ॥ ३५ ॥

कोऽसौ विधिस्तमाह - विधिरिति । आद्यं विधिपदं विरिञ्चिद्वारा द्वितीयं
विष्णुद्वारा परमात्मनो नामेति न पौनरुक्त्यम् । नः अस्माकं सर्वेषामात्मा ।
अन्तः इति पाठे तु कोशपञ्चकान्तस्थः । चिच्छक्तिशबलत्वाच्चेतनः ॥ ३५ ॥

अस्त्यवस्तुनि वस्त्वन्तः काञ्चनं सिकतास्विव ।
अस्ति वस्तुन्यवस्त्वन्तर्मलं हेमकणेष्विव ॥ ३६ ॥

यत्रात्यन्तमसम्भाविते अपि वस्त्वस्तुनी परस्परान्तः सम्भाविते तत्र
किमन्यदसम्भावितं स्यादित्याशयेनाह - अस्तीत्यादिना ॥ ३६ ॥

अयुक्ते युक्तता युक्त्या प्रेक्ष्यमाणा प्रदृश्यते ।
पापस्य हि भयाल्लोको राम धर्मे प्रवर्तते ॥ ३७ ॥

अत्यन्तायुक्ते पापेऽपि फलतो भीषणतया धर्मे पुरुषप्रवर्तकतालक्षणो
महान्गुणो युक्त्या विमर्शे दृश्यत इत्यर्थः ॥ ३७ ॥

असत्ये सत्यता साधो शाश्वती परिलक्ष्यते ।
शून्येन ध्यानयोगेन शाश्वतं पदमाप्यते ॥ ३८ ॥

फलतः सत्यता । सर्वशून्यताध्याने ध्यानसाक्षिणः स्वप्रकाशात्मनो
दुरपह्नवत्वादर्थादेव यथार्थतन्मात्रपरिशेषसिद्धेरिति भावः ॥ ३८ ॥

यन्नास्ति तदुदेत्याशु देशकालविलासतः ।
शशकाः शृङ्गवन्तो हि दृश्यन्ते शम्बरस्थितौ ॥ ३९ ॥

शम्बरस्थितौ ऐन्द्रजालिकसर्गे ॥ ३९ ॥

ये वज्रसाराः सुदृढा दृश्यन्ते ते क्षयं गताः ।
कल्पस्यान्ते यथेन्द्वर्कधराब्धिविबुधादयः ॥ ४० ॥

वज्रसारा येषां कदाप्यसम्भावितः क्षयस्तेऽपीत्यर्थः ॥ ४० ॥

इति पश्यन्महाबाहो भावाभावभवक्रमम् ।
हर्षामर्षविषादेहाः सन्त्यज्य समतां व्रज ॥ ४१ ॥

प्रासङ्गिकस्य असम्भावितसम्भवोपपादनस्यापि प्रकृतमेव फलं
दर्शयन्नुपसंहरति - इतीति ॥ ४१ ॥

असत्सदेव भातीह सदसच्चापि दृश्यते ।
आस्थानास्थे परित्यज्य तेनाशु समतां व्रज ॥ ४२ ॥

मुक्तौ राघव लोकेऽस्मिन्न प्राप्तिः सम्भवत्यलम् ।
अप्रवृत्तौ विवेकस्य मग्ना हि जनकोटयः ॥ ४३ ॥

नन्वेवं सति विदेहमुक्तावपि पुनः संसारप्राप्तिः सम्भाविता स्यात्तत्राह ##-
तत्त्वज्ञानस्याप्रवृत्तौ
अज्ञानदशायामेवात्यन्तासम्भावितानर्थकोटिसम्भावनलक्षणे भ्रमे
मग्नाः न मुक्तौ । तन्मज्जननिमित्ताज्ञानस्य नष्टत्वादिति भावः ॥ ४३ ॥

मुक्तौ राघव लोकेऽस्मिन्प्राप्तिरस्ति सदैव हि ।
प्रवृत्त्या हि विवेकस्य विमुक्ता भूतकोटयः ॥ ४४ ॥

नित्यप्राप्तात्मरूपत्वादपि मुक्तेर्नापायशङ्कास्ति
विस्मृतकण्ठचामीकरवद्विवेकमात्रेण तल्लाभादित्याह - मुक्ताविति ॥ ४४ ॥

प्रविवेकाविवेकाभ्यां सुलभालभ्यतां गता ।
मुक्तिर्मनःक्षयप्राप्त्या विवेकं तेन दीपय ॥ ४५ ॥

प्रविवेकात्सुलभापि अविवेकादलभ्यतां गता मुक्तिः ॥ ४५ ॥

आत्मावलोकने यत्नः कर्तव्यो भूतिमिच्छता ।
सर्वदुःखशिरश्छेद आत्मालोकेन जायते ॥ ४६ ॥

भूतिं मुक्तिमिच्छता ॥ ४६ ॥

नीरागा निरुपासङ्गा जीवन्मुक्ता महाधियः ।
सम्भवन्तीह बहुशः सुहोत्रजनका इव ॥ ४७ ॥

पूर्वकालिकानां जीवन्मुक्तिसम्भवेऽपि नेदानीन्तनानां सा
सम्भावितेत्याशङ्कां वारयति - नीरागा इति । निरुपासङ्गा निरभिनिवेशाः
। इहास्मिन्नपि काले ॥ ४७ ॥

तस्मात्त्वमपि वैराग्यविवेकोदितधीरधीः ।
जीवन्मुक्तो विहर भो समलोष्टाश्मकाञ्चनः ॥ ४८ ॥

द्विविधा मुक्तता लोके विद्यते देहधारिणाम् ।
सदेहैका विदेहान्या विभागोऽयं तयोः शृणु ॥ ४९ ॥

इदानीं जीवन्मुक्तिविदेहमुक्त्योर्भेदनिमित्तं वक्तुमुपक्रमते -
द्विविधेत्यादिना ॥ ४९ ॥

असंसङ्गात्पदार्थानां मनःशान्तिर्विमुक्तता ।
सत्यसत्यपि देहे सा सम्भवत्यनघाकृते ॥ ५० ॥

तत्रादौ उभयसाधारणमुक्तिशब्दार्थं दर्शयति - असंसङ्गादिति ॥ ५० ॥

स्नेहसङ्क्षयमेवाङ्ग विदुः कैवल्यमुत्तमम् ।
तत्सम्भवति देहस्य भावे चाभाव एव च ॥ ५१ ॥

तत्रोपपत्तिमाह - स्नेहेति । स्नेह आत्मताभ्रमात्प्रीतिस्तत्सङ्क्षयम् ॥ ५१ ॥

यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ।
सस्नेहजीवितो बद्धो मुक्त एव तृतीयकः ॥ ५२ ॥

यत्नो यत्नेन कर्तव्यो मिक्षार्थं युक्तिपूर्वकम् ।
यत्नयुक्तिविहीनस्य गोष्पदं दुस्तरं भवेत् ॥ ५३ ॥

साधनचतुष्टयमध्ये यत्नेन पूर्वपूर्वसिद्धौ उत्तरोत्तरजयेऽपि यत्नः
कर्तव्यः । युक्तयः
प्रमाणतात्पर्यप्रमेयतत्त्वावधारणानुकूलास्तर्कास्तत्पूर्वकम् ॥ ५३ ॥

न त्वनध्यवसायस्य दुःखाय विपुलात्मने ।
आत्मा परवशः कार्यो मोहमाश्रित्य केवलम् ॥ ५४ ॥

युक्त्यनिव्तो यत्न आत्मतत्त्वाध्यवसायपर्यन्तं कार्यो न सहसा अनध्यवसाये
निर्वेदादन्तराले यत्नोपरमेण पुनरात्मा अनर्थवशे कार्यं इत्याह - न
त्विति । अनध्यवसायस्य अनध्यवसाये सति यत्नानादरादित्यर्थः । षष्ठी
चानादरे इति भावलक्षणे षष्ठी ॥ ५४ ॥

सुमहद्धैर्यमालम्ब्य मनसा व्यवसायिना ।
विचारयात्मनात्मानमात्मनश्चिरसिद्धये ।
वितताध्यवसायस्य जगद्भवति गोष्पदम् ॥ ५५ ॥

उक्तमेवार्थ स्फुटमाह - सुमहदिति । व्यवसायिना फलपर्यन्तं
प्रयत्नानुपरमदृढनिश्चयवता । चिरसिद्धय इति । सति प्रतिबन्धे
बहुभिर्जन्मभिर्वा सिद्धिमुद्दिश्येत्यर्थः ॥ ५५ ॥

यदुपगतः सुगतः पदं प्रधानं
यदपगतोऽध्रुवतां नृपश्च कश्चित् ।
यदुपगताः पदमुत्तमं महान्तः
प्रयतनकल्पतरोर्महाफलं तत् ॥ ५६ ॥

यत्स्वयञ्ज्योतिरात्ममात्रपरिशेषाख्यं पदम् । सुगतो बुद्धः शोभनं
विवेकं गतः कपिलश्च बहु
विचार्याप्यध्यवसातुमसामर्थ्याद्यस्मादपगतः सन्नात्मनोऽध्रुवतां
क्षणिकविज्ञानसन्तानात्मतां गुणत्रयसाम्यावस्थालक्षणं प्रधानं
पदं वस्तु उपगतः । एवं कश्चिद्वेदनिन्दकत्वादग्राह्यनामा अर्हदाख्यो
नृपः क्षत्रियोऽपि यदपगतः सन्नात्मानं चित्स्वभावमभ्युपगम्यापि
देहपरिमाणत्वाभ्युपगमाद्धस्तिमशकशरीरानुप्रवेशे
अवयवोपचयापत्त्या अध्रुवतामुपगत इत्यनुत्तमे एव मिथ्यापदे ते निमग्नाः ।
महान्तो वेदरहस्यनिष्णातास्तु उत्तमं सत्यादिलक्षणं यत्पदमुपगता
यथार्थतः प्राप्तवन्तस्तन्महद्भिर्यत्प्राप्तं पदं वेदोक्तमार्गेण
प्रयतनलक्षणस्य कल्पतरोर्महाफलमिति तथैवान्योऽपि प्रयतेतेत्यर्थः ॥ ५६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे मुक्तामुक्तविचारो नाम पञ्चसप्ततितमः
सर्गः ॥ ७५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
मुक्तामुक्तविचारो नाम पञ्चसप्ततितमः सर्गः ॥ ७५ ॥