चतुःसप्ततितमः सर्गः ७४
श्रीवसिष्ठ उवाच ।
लीलयाऽपश्यति वपुः कालेनात्मनि जायते ।
रम्यस्यापश्यतो वक्रं हृदि दौरूप्यधीरिव ॥ १ ॥
प्रमादासंसृतिभ्रान्तिः प्रबोधात्पूर्णता सदा ।
जीवन्मुक्तिगुणालिश्च विस्तरेणात्र वर्ण्यते ॥ १ ॥
अविचारवशान्मूढो लोकोऽयं परिरोदिति इति यदुक्तं तदादौ प्रपञ्चयति -
लीलयेत्यादिना ।
प्रलयसुषुप्त्योरज्ञानावृतत्वान्निरतिशयानन्दरूपत्वात्परमप्रेमास्पदं
स्वस्वरूपमपश्यति आत्मनि कामकर्मवासनापरिपाकक्रमप्राप्तेन
सर्गजागरादिकालेन लीलया चिद्विलासेनैव वपुः
सूक्ष्मस्थूलसमष्टिव्यष्टिशरीरं जायते । यथा रम्यस्य
कान्तापुत्रादेर्वक्रमपश्यतो विरहिपुरुषस्य हृदि
म्लानिकार्श्यादिदौरूप्यापादिका दौर्मनस्यधीर्निरन्तरं जायते तद्वदित्यर्थः
॥ १ ॥
तद्वशादियमायाता महती मेदुरोदरा ।
माया मदमहाशक्तिः सुरास्वादलवादिव ॥ २ ॥
तस्य देहद्वयस्य वशात्तदहम्भावाध्यासेन तद्वशताप्राप्तेरियं
निरतिशयानर्थरूपा माया मिथ्याभूतैव रागलोभमोहादिर्मदस्य
महाशक्तिरायाता ॥ २ ॥
तयानया विकारिण्या तदतद्भावभूतया ।
इदं सम्पन्नमखिलं तापादिव मरौ पयः ॥ ३ ॥
तयानया रागादिशक्त्या ।
प्रवृत्तिभोगपुण्यपापवासनाद्यनर्थपरम्पराविकारवत्या । तस्य
परमात्मनः अतद्भावोऽन्यथाभावस्तेन भूतया लब्धसत्तया ॥ ३ ॥
मनो बुद्धिरहङ्कारो वासनाश्चेन्द्रियाण्यपि ।
एवङ्कलितनामाङ्कैः स्फुरत्यात्माब्धिरम्बुभिः ॥ ४ ॥
एवं कलितानि नामान्यङ्कानि रूपाणि च यैस्तथाविधैः स्वस्वरूपाम्बुभिः ॥ ४
॥
चित्ताहङ्कारयोर्द्वित्वं वचस्यस्ति न वस्तुतः ।
यच्चित्तं स ह्यहङ्कारो योऽहङ्कारो मनो हि तत् ॥ ५ ॥
अनर्थप्राप्तिप्रकारमुक्त्वा तदुच्छेदोपायं वक्तुं
प्रथममर्थचेतनाच्चित्तं
तन्मननान्मनस्तदध्यवसायाद्बुद्धिस्तदभिमानादहङ्कार इति
एकमेवान्तःकरणमङ्कुरकाण्डमूलप्ररोहशाखादिप्ररोहक्रमेण वृक्स्ऽ
इव सर्वतः प्रसृतमवतिष्ठत इत्याह - चित्तेति द्वाभ्याम् ॥ ५ ॥
व्यतिरिक्तं हिमाच्छौक्त्यमिति सङ्कल्प्यते यथा ।
मुधैव कल्प्यते भेदश्चित्ताहङ्कारयोस्तथा ॥ ६ ॥
मनोहङ्कारयोरन्तर्द्वयोरेकतरक्षये ।
क्षीणे द्वे एव हि यथा पटशौक्लथे पटक्षये ॥ ७ ॥
ऐक्योक्तिफलमाह - मन इति ॥ ७ ॥
तुच्छां मोक्षधियं त्यक्त्वा बन्धबुद्धिं तथैषणाम् ।
स्ववैराग्यविवेकाभ्यां केवलं क्षपयेन्मनः ॥ ८ ॥
इदानीं तदुच्छेदोपायमाह - तुच्छामिति ॥ ८ ॥
मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः ।
मननोत्के मनस्युच्चैर्वपुर्दोषाय केवलम् ॥ ९ ॥
मोक्षेच्छा कुतस्त्याज्या तत्राह - मोक्ष इति । मनसि मननोत्के सति तदेव वपुः
शरीराकारं भवति तच्च पुनर्बहिर्मुखतापादनाद्दोषायेत्यर्थः ॥ ९ ॥
आत्मन्यतीते सर्वस्मात्सर्वभूतेऽथवा तते ।
को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु ॥ १० ॥
परिच्छिन्नवपुर्भाव एवास्य दोषो न शुद्धात्मभावो जगदात्मभावो
वेत्याशयेनाह - आत्मनीति । तस्मात्परिच्छेदमननमेव निर्मूलं
कुर्वित्यर्थः ॥ १० ॥
वायुः स्पन्दनधर्मत्वाद्यदा चलति देहके ।
तदा स्फुरति हस्ताङ्गरसनापल्लवावली ॥ ११ ॥
प्राणादिवाय्वधीनचलनादिधर्मकदेहादिवैलक्षण्यमात्मनो दर्शयति -
वायुरित्यादिना । स्फुरति सञ्चलति ॥ ११ ॥
पादपे पल्लवश्रेणीं चालयत्यनिलो यथा ।
तथैवाङ्गावलीं वायुर्देहे सञ्चालयत्यलम् ॥ १२ ॥
चित्सर्वव्यापिनी सूक्ष्मा न चला नैव चाल्यते ।
न स्वतः स्पन्दमायाति देवाचल इवानिलैः ॥ १३ ॥
देवाचलो मेरुः ॥ १३ ॥
प्रतिबिम्बितसर्वार्था केवलं स्वात्मनि स्थिता ।
प्रकाशयति बोधेन जगन्तीमानि दीपवत् ॥ १४ ॥
नन्वस्तु शुद्धात्मभावे एवं सर्वात्मभावे तु
शाखाचलनाद्वृक्षस्येवात्मनश्चलनं दुर्वारमिति चेत्तत्राह -
प्रतिबिम्बितेति । तथाच चलदनेकप्रतिबिम्बात्मभावापन्नापि स्फटिकशिला यथा
कूटस्था तथा आत्मापीति भावः ॥ १४ ॥
तत्र कोऽयं मुधा मोहो भवतामतिदुःखदः ।
अयं सोऽहं ममाङ्गानि ममेदं चेति दुर्धियाम् ॥ १५ ॥
तत्रैवमत्यन्तवैधर्म्ये सति अयं देहः स प्रसिद्धोऽहम् । इदं बाह्यं
स्त्रीपुत्रादि च मम इति मोहः । भवतामिति रामेतरजनान्प्रत्युक्तिः । दुस्थिता
धीर्येषाम् । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसञ्ज्ञाः इति
ध्यायत्यर्थ प्रति दुरः अगतित्वात् गैकारकेतरपूर्वपदस्य यण् नेष्यते
इत्युक्तेर्न यण् ॥ १५ ॥
इति कल्लोलहतया दृशा नित्यमनित्यया ।
ज्ञत्वकर्तृत्वभोक्तृत्वक्रिया समुपलभ्यते ॥ १६ ॥
एवमत्यन्तवैधर्म्येऽपि देहे ज्ञत्वादय आत्मनि कर्तृत्वादयश्च
विरुद्धधर्मा अविद्याकल्लोलरागाद्युपहतया
देहादितादात्म्यसंसर्गाध्यासप्रयुक्तत्वादनित्यया
भ्रान्तिदृशैवोपलभ्यन्त इत्यर्थः ॥ १६ ॥
तत्रायमहमागन्ता भोक्ता कर्तेति जायते ।
मुधैवाज्ञाततापोत्था मृगतृष्णेव वासना ॥ १७ ॥
उपलब्ध्यनुसारेणैवोत्तरोत्तरभ्रान्तिबीजभूता वासनापि जायत इत्याह -
तत्रेति । अज्ञातः तूलाज्ञानावृतस्तापो मरुदातपस्तदुत्था ॥ १७ ॥
अज्ञतैषा मनोमत्तमृगं विषयतर्षुलम् ।
असत्यैव हि सत्येव मृगतृष्णेव कर्षति ॥ १८ ॥
विज्ञाता सत्यरूपाङ्ग नाशं याति पलायते ।
विप्रमध्यात्परिज्ञाता यथा चाण्डालकन्यका ॥ १९ ॥
अविद्या सम्परिज्ञाता न चैनं [एनं मनोमृगम्] परिकर्षति ।
मृगतृष्णा परिज्ञाता तर्षुलं नावकर्षति ॥ २० ॥
परमार्थावबोधेन समूलं राम वासना ।
दीपेनेवान्धकारश्रीर्गलत्यालोक एति च ॥ २१ ॥
आलोकः अपरिच्छिन्नात्मप्रकाशः । एति आविर्भवति ॥ २१ ॥
नास्त्यविद्येति सञ्जाते निश्चये शास्त्रयुक्तितः ।
गलत्यविद्या तापेन तुषारकणिका यथा ॥ २२ ॥
देहस्यास्य जडस्यार्थे किं भोगैरितिनिश्चयः ।
भिनत्त्याशामलं ज्ञाता पञ्जरं केसरी यथा ॥ २३ ॥
इतिनिश्चय इति बहुव्रीहिः । ज्ञाता तत्त्वज्ञः । आशाप्रयोजकं मलमज्ञानं
भिनत्ति ॥ २३ ॥
आशापरिकरे राम नूनं परिहृते हृदा ।
पुमानागतसौन्दर्यो ह्लादमायाति चन्द्रवत् ॥ २४ ॥
आशायाः परिकरे परिवारभूते देहाभिमानादौ ॥ २४ ॥
परां शीतलतामेति वृष्टिधौत इवाचलः ।
निर्वृतिं परमां धत्ते प्राप्तराज्य इवाधमः ॥ २५ ॥
अधमो दरिद्रः ॥ २५ ॥
शोभते परया लक्ष्म्या शरदीव नभस्तलम् ।
आत्मन्येव न मात्युच्चैः कल्पस्यान्त इवार्णवः ॥ २६ ॥
न माति न सम्मितो भवति । न परिच्छिद्यत इति यावत् ॥ २६ ॥
भवत्यपेतसंरम्भो वृष्टिमूक इवाम्बुदः ।
तिष्ठत्यात्मनि संवेत्ता प्रशान्त इव वारिधिः ॥ २७ ॥
अपेतसंरम्भस्त्यक्तदुरभिनिवेशः । वर्षासु वृष्ट्या शरदि मूको
गर्जनादिशून्यः ॥ २७ ॥
परं धैर्यमुपादत्ते स्थैर्यं मेरुरिवाचलः ।
राजते स्वच्छया लक्ष्म्या शान्तेन्धन इवानलः ॥ २८ ॥
धैर्यं विषयैरप्रधृष्यताम् । स्थैर्यं भयस्थानैरप्रकम्प्यताम् ॥ २८ ॥
भवत्यात्मनि निर्वाणः प्रशान्त इव दीपकः ।
तृप्तिमायाति परमां नरः पीतामृतो यथा ॥ २९ ॥
अन्तर्दीपो घट इव मध्यज्वाल इवानलः ।
स्फुरद्दीप्तिर्मणिरिव प्रयात्यन्तः प्रकाशताम् ॥ ३० ॥
सर्वात्मकं सर्वगतं सर्वेशं सर्वनायकम् ।
सर्वाकारं निराकारं स्वमात्मानं प्रपश्यति ॥ ३१ ॥
व्यवहारे सर्वाकारं परमार्थतो निराकारम् ॥ ३१ ॥
हसत्यलमतीतास्ताः [अतीताः स्वाः इत्यपि क्वचित्] पेलवा दिवसावलीः ।
यासु स्मरशरश्रेणीचपलं चित्तमास्थितम् ॥ ३२ ॥
सङ्गरङ्गविनिष्क्रान्तः शान्तमानमनोज्वरः ।
अध्यात्मरतिरासीनः पूर्णः पावनमानसः ॥ ३३ ॥
विषयिजनसङ्गाद्विषयानुरञ्जनाच्च विनिष्क्रान्तः ॥ ३३ ॥
निर्मृष्टकामपङ्काङ्कश्छिन्नबन्धनिजभ्रमः ।
द्वन्द्वदोषभयोन्मुक्तस्तीर्णसंसारसागरः ॥ ३४ ॥
शीतोष्णसुखदुःखादयो द्वन्द्वदोषाः ॥ ३४ ॥
प्राप्तानुत्तमविश्रान्तिर्लब्धालभ्यपरास्पदः ।
अनिवृत्तिपदं प्राप्तो मनसा कर्मणा गिरा ॥ ३५ ॥
अनिवृत्तिपुनरावृत्तिशून्यं पदं साम्राज्यम् । मनसेत्यादेरुत्तरत्रान्वयः ॥
३५ ॥
सर्वाभिवाञ्छितारम्भो न किञ्चिदपि वाञ्छति ।
सर्वानुमोदितानन्दो न किञ्चिदनुमोदते ॥ ३६ ॥
सर्वैर्जनैरुपादेयतया अभिवाञ्छित आरम्भश्चारित्र्यं यस्य ।
आनन्दश्चारित्र्यफलम् ॥ ३६ ॥
न ददाति न चादत्ते न स्तौति न च निन्दति ।
नास्तमेति न चोदेति न तुष्यति न शोचति ॥ ३७ ॥
अस्तं स्वरूपतिरोधानं नैति नोदेति । उदयं पुनः स्वरूपाविर्भावं च नैति
सकृद्विभातत्वादित्यर्थः ॥ ३७ ॥
सर्वारम्भपरित्यागी सर्वोपाधिविवर्जितः ।
सर्वाशासम्परित्यागी जीवन्मुक्त इति स्मृतः ॥ ३८ ॥
सर्वैषणाः परित्यज्य चेतसा भव मौनवान् ।
धारा निरवशेषेण यथा त्यक्त्वा पयोधरः ॥ ३९ ॥
रामं प्रति तल्लक्षणानि शिक्षयति - सर्वैषणा इत्यादिना । निरवशेषेण
निःशेषतया धाराः जलानि त्यक्त्वा पयोधरो यथा भवति तथेत्यर्थः ॥ ३९ ॥
न तथा सुखयत्यङ्ग संलग्ना वरवर्णिनी ।
यथा सुखयति स्वान्तमिन्दुशीता निराशता ॥ ४० ॥
एषणात्यागमेव प्रशंसति - न तथेत्यादिना ॥ ४० ॥
न तथेन्दुः सुखयति कण्ठलग्नोऽपि राघव ।
नैराश्यं सुखयत्यन्तर्यथा सकलशीतलम् ॥ ४१ ॥
सकलं जगच्छीतलं यस्मात्तत्सकलशीतलम् ॥ ४१ ॥
पुष्पपूर्णनवलतो न तथा राजते मधुः ।
यथोदारमतिर्मौनी नैराश्यसममानसः ॥ ४२ ॥
न हिमाद्रेर्न मुक्ताभ्यो न रम्भाभ्यो न चन्दनात् ।
न च चन्द्रमसः शैत्यं नैराश्याद्यदवाप्यते ॥ ४३ ॥
अपि राज्यादपि स्वर्गादपीन्दोरपि माधवात् ।
अपि कान्तासमासङ्गान्नैराश्यं परमं सुखम् ॥ ४४ ॥
तृणवन्नोपकुर्वन्ति यत्र त्रिभुवनश्रियः ।
सा परा निर्वृतिः साधो नैराश्यादुपलभ्यते ॥ ४५ ॥
आपत्करञ्जपरशुं पराया निर्वृतेः पदम् ।
पुष्पगुच्छं शमतरोरालम्बस्व निराशताम् ॥ ४६ ॥
गोष्पदं पृथिवी मेरुः स्थाणुराशाः समुद्गिकाः ।
तृणं त्रिभुवनं राम नैराश्यालङ्कृताकृतेः ॥ ४७ ॥
स्थाणुश्छिन्नावशिष्टतरुः । आशा दिशः । समुद्रिकाः क्षुद्रसम्पुटिकाः ॥ ४७
॥
दानादानसमाहारविहारविभवादिकाः ।
क्रिया जगति हस्यन्ते निराशैः पुरुषोत्तमैः ॥ ४८ ॥
दानं लौकिकं शास्त्रीयं च । आदानं धनादेः स्वीकारः । समाहारः
सङ्ग्रहेण कोशाद्युपचयः । विहारो धनव्ययेन पुत्रक्रीडनम् । विभवा
वस्त्रालङ्कारान्नपानादिसम्भारसम्पत्तयस्तदादिकाः । हस्यन्ते
वह्वायासतुच्छफलानर्थबीजस्य मूढैरन्यथाभिमतत्वेन हासयोग्यत्वादिति
भावः ॥ ४८ ॥
पदं यस्य न बध्नाति कदाचित्कलना हृदि ।
तृणीकृतत्रिभुवनः केनासाधुपमीयते ॥ ४९ ॥
कलना आशा ॥ ४९ ॥
इदमेवास्त्विदं मास्तु ममेति हृदि रञ्जना ।
न यस्यास्ति तमात्मेशं तोलयन्ति कथं जनाः ॥ ५० ॥
आत्मनो मनस ईशं स्वाधीनचित्तम् । आत्मा स्वयमेवेशः सर्वेश्वरस्तं वा ॥
५० ॥
सर्वसङ्कटपर्यन्तमसङ्कटमलं सुखम् ।
सौभाग्यं परमं बुद्धेर्नैराश्यमवलम्ब्यताम् ॥ ५१ ॥
पर्यन्तं पारम् । बुद्धेः परमं सौभाग्यं सार्थक्यम् ॥ ५१ ॥
नाशास्तेनत्वमाशानां विद्धि मिथ्याभ्रमं जगत् ।
वहद्रथस्थदिक्चक्रपरावर्तवदुत्थितम् ॥ ५२ ॥
हे राम ते तव आशा न सन्ति । त्वं च आशानां सम्बन्धी नासि । अतो
वैराग्यादिसाधनसम्पत्त्या मुख्याधिकारित्वात्तत्त्वज्ञानसम्पत्त्या जगत् वहति
धावति रथे स्थितस्य पुम्स उभयपार्श्वदिशोर्भ्रान्त्या
तरुगुल्मादेश्चक्राकारपरावर्तवन्मिथ्याभ्रममात्रं विद्धित्यर्थः । अथवा
न आशाऽवलम्ब्यताम् । आशानां स्तेनत्वं
विवेकविज्ञानापहारेणात्मसुखविभ्रंशकत्वमेव । जागतं हि सुखं
मूढैराशासहस्रैराशास्यते । जगत्तु मिथयभ्रमं वहति रथे
स्थितयोश्चक्रयोरूर्ध्वाधोदिक्षु परावर्तो यद्वन्नेम्यवलम्बिपिपीलिकादेः
पतनपेषणाद्यनर्थहेतुस्तद्वत्स्वावलम्बिनां
जननमरणाद्यनर्थार्थमेवोत्थितं विद्धित्यर्थः । अथवा ननु
उत्कृष्टसुखाशया
निकृष्टसुखाशाप्रमोषदर्शनात्पूर्वपूर्वाशाप्रमोषार्थमाशान्तरो##-
- नेति । उत्कृष्टाशानां निकृष्टास्तेनत्वं अभिप्रेत्य नैराश्यं
मयोक्तमिति न विद्धि । यतो जगन्मिथ्यावस्तुष्वेव आशापरम्पराजननेन
भ्रमयति तथाविधम् । उत्कर्षनिरूपकापकर्षस्यैवाप्रसिद्धेः । यतो
वहद्रथस्थस्य दिक्चक्रेषु पर्यायेण परावर्तो भ्रमणं वहद्रथवेगेन
दिङ्मोहो वा तद्वदुत्थितं तदित्यर्थः । अथवा न आशास्तेनत्वमाशानाम् । वित् हि
इति च्छेदः । वित् आत्मवेत्ता किञ्चिदपि नाशास्ते न वाञ्छति । हि
यस्माज्जगन्मिथ्याभ्रमम् । नाशास्यं पुरुषार्थरूपं जगत्यस्ति अतस्त्वं
आशानां सम्बन्धी न भवेत्यर्थः । शेषं प्राग्वत् ॥ ५२ ॥
किं मुह्यसि महाबाहो मूर्खवद्वोधितोऽपि सन् ।
ममेदं तदयं सोऽहमित्युद्भ्रान्तेन चेतसा ॥ ५३ ॥
आत्यन्तिकनैराश्योपायमन्विष्य तददर्शनान्मुह्यमानमिव राममुपलक्ष्य
देहादावहम्ममतात्याग एव प्रागुक्तस्तदुपाय इत्याग्रहेण स्मारयन्नाह ##-
पूर्वोत्तरकालप्रसिद्धः अयं वर्तमानकाले प्रत्यक्ष अहमेवेति किं
मुह्यसीत्यर्थः ॥ ५३ ॥
आत्मैवेदं जगत्सर्वं नानातेह न विद्यते ।
एकरूपं जगज्ज्ञात्वा धीरैर्नाम न खिद्यते ॥ ५४ ॥
अस्त्वेवं तथापि कथमाशाखेदनिवृत्तिस्तत्राह - आत्मैवेति ॥ ५४ ॥
यथाभूतपदार्थौघदर्शनादेव राघव ।
परमाश्वासनं बुद्धेर्नैराश्यमधिगच्छति ॥ ५५ ॥
यथाभूतानां यथार्थात्मभूतानां पदार्थौघानां दर्शनात् ॥ ५५ ॥
भावाभावविसंवादमुक्तमाद्यन्तयोः स्थितम् ।
यद्रूपं तत्समालम्ब्य पदार्थानां स्थितिं कुरु ॥ ५६ ॥
कीदृशं तर्हि सर्वपदार्थानां यथार्थरूपं तदाह - भावेति ।
विसंवादो विकल्पः ॥ ५६ ॥
वैराग्यवीरमनसो मायेयमतिमोहिनी ।
पलाय्य याति संसारी मृगी केसरिणो यथा ॥ ५७ ॥
सर्वविकल्पपरित्यागलक्षणमहावैराग्येण वीरं मनो यस्य तस्मात् ॥ ५७ ॥
कान्तामुद्दाममदनां लोलां वनलतामिव ।
जर्जरोपलपाञ्चालीसमां पश्यति धीरधीः ॥ ५८ ॥
एवं कामादिदोषा अपि पलायन्त इत्याशयेनाह - कान्तामिति । जर्जरा या
उपलपाञ्चाली पाषाणप्रतिमा तत्समाम् ॥ ५८ ॥
भोगा नानन्दयन्त्यन्तः खेदयन्ति न चापदः ।
दृश्यश्रियो हरन्त्यङ्ग नतमद्रिमिवानिलाः ॥ ५९ ॥
हरन्ति धैर्यात्प्रच्यावयन्ति । अङ्गेति सम्बोधने ॥ ५९ ॥
रक्तबालाङ्गनस्यापि ज्ञस्योदारधिया मुनेः ।
कणशः पांसुतां यान्ति मनसः स्मरसायकाः ॥ ६० ॥
रक्ता अनुरक्ता बालाङ्गना यस्मिंस्तथाविधस्यापि ॥ ६० ॥
रागद्वेषैः स्वरूपज्ञो नावशः परिकृष्यते ।
स्पन्द एवास्य नैताभ्यां किमुताक्रमणं भवेत् ॥ ६१ ॥
स्वरूपमात्मतत्त्वं तज्ज्ञः ॥ ६१ ॥
समदृष्तलतालोलवनितोऽद्रिशिलाकृतिः ।
रमते नैष भोगेषु पान्थो मरुमहीष्विव ॥ ६२ ॥
समं तुल्यरूपं यथा स्यात्तथा दृष्टे लता च लोलवनिता च येन । अत##-
अयत्नोपनतं सर्वं लीलयाऽसक्तमानसः ।
भुङ्क्ते भोगभरं प्राज्ञस्त्वालोकमिव लोचनम् ॥ ६३ ॥
तर्हि किमाहाराद्यपि त्यजति तत्राह - अयत्नेति । सर्वमनिषिद्धान्नपानादि ।
लीलया देहधारणमात्रनुकूलचेष्टया । असक्तमानसत्वे लोचनदृष्टान्तः ॥ ६३
॥
काकतालीयवत्प्राप्ता भोगाली ललनादिका ।
स्वादिताप्यङ्ग धीरस्य न दुःखाय न तुष्टये ॥ ६४ ॥
गृहस्थस्य तत्त्वविदः स्वललनादिभोगास्वादेऽपि न
कश्चिद्रागिवदतिशयभ्रमोऽस्तीत्याह - काकेति ॥ ६४ ॥
सम्यग्दृष्टपथं तज्ज्ञं सुखदुःखमती मनाक् ।
द्वे वीच्याविव शैलेन्द्रं क्षोभं नेतुं न शक्नुतः ॥ ६५ ॥
सम्यक् दृष्टः परिचितः पन्थाः प्रत्यग्दृष्टिमार्गो येन तम् ।
ऋक्पूरब्धूःपथाम् - इति अप्रत्यये भस्य टेर्लोपः । शैलेन्द्रं मन्दरम् ॥
६५ ॥
हेलयालोकयन्भोगान्मृदुर्दान्तो गतज्वरः ।
स्वमेव पदमालम्ब्य सर्वभूतान्तरस्थितम् ॥ ६६ ॥
हेलया अवहेलनया । असत्यताबुद्ध्येत्यर्थः । आलोकयन् स्वमात्मपदमेवालम्ब्य
तिष्ठतीति शेषः ॥ ६६ ॥
ज्ञस्तिष्ठति गतव्यग्रो व्यग्रेणापि समन्वितः ।
जगन्ति जनयन्नेव ब्रह्मेवात्मपरायणः ॥ ६७ ॥
व्यग्रेण तत्तत्कालोचितक्रियाव्यापृतेनापि देहेन्द्रियादिना समन्वितो ज्ञस्तत्त्ववित्
गतव्यग्रो निर्विक्षेप एव तिष्ठति । ब्रह्मा हिरण्यगर्भ इव ॥ ६७ ॥
आपतत्सु यथाकालं यथादेशं यथाक्रमम् ।
सुखदुःखेषु न क्षोभमेति भूबृदृतुष्विव ॥ ६८ ॥
भूभृत् पर्वतः । ऋतुषु वसन्तादिषु ॥ ६८ ॥
मज्जतोऽपि बहुज्ञस्य राम कर्मेन्द्रियभ्रमैः ।
असक्तमनसो नित्यं न किञ्चिदपि मज्जति ॥ ६९ ॥
कर्मेन्द्रियाणां वागादीनां भ्रमैर्व्यापारैर्विषयेषु मज्जतोऽपि ॥ ६९ ॥
कलङ्क्यन्तः कलङ्केन प्रोच्यते हेम नान्यथा ।
भावासक्त्या समासक्त उक्तो जन्तुर्हि नान्यथा ॥ ७० ॥
अन्तर्दोषसङ्गस्यैव दूषकत्वं न बहिःसङ्गस्येत्यत्र दृष्टान्तमाह -
कलङ्कीति । हेम अन्तःकलङ्केनैव कलङ्कि उच्यते अन्यथा बहिः पङ्कादिलेपेन
तथा नोच्यते तद्वदित्यर्थः ॥ ७० ॥
शरीराद्व्यतिरिक्तं ज्ञं पश्यतः प्रविवेकिनः ।
विकर्तिताङ्गकस्यपि न किञ्चित्प्रविकर्तितम् ॥ ७१ ॥
अन्तःसङ्गत्यागे देहदुःखादेरपि न प्रसक्तिरित्याह - शरीरादिति ॥ ७१ ॥
सकृत्प्रभातं विमलं यज्ज्ञातं ज्ञातमेव तत् ।
नहि बन्धुः परिज्ञातः पुनरज्ञाततां व्रजेत् ॥ ७२ ॥
देहातिरिक्तात्मविस्मरणे तर्हि पुनर्दुःखं स्यात्तत्राह - सकृदिति । न
विस्मरणप्रसक्तिरित्यर्थः ॥ ७२ ॥
सर्पभ्रान्तौ निवृत्तायां न रज्ज्वां सर्पभावना ।
पुनरेति यथा प्रावृण्नदी गिरितटाच्च्युता ॥ ७३ ॥
विस्मरणाप्रसक्तौ सदृष्टान्तोपपत्तिकं कारणमाह - सर्पेत्यादिना ॥ ७३
॥
न हेम तापशुद्धाङ्गं स्वभावमलमागतम् ।
कर्दमे मग्नमपि सत्समादत्ते मलं पुनः ॥ ७४ ॥
अलमत्यन्तं स्वभावं हेममात्रतामागतं प्राप्तम् ॥ ७४ ॥
क्षीणे स्वहृदयग्रन्थौ न बन्धोऽस्ति पुनर्गुणैः ।
यत्नेनापि पुनर्बद्धं केन वृन्ते च्युतं फलम् ॥ ७५ ॥
वृक्षस्थवृन्ताच्च्युतं फलं पुनर्वृन्ते केन समर्थेनापि महतापि
प्रयत्नेन पूर्ववद्वद्धम् । केनचिदित्यर्थः ॥ ७५ ॥
अवच्छेदविचाराभ्यामभितः खण्डशो गतम् ।
पाषाणं च मणिं चैव सन्धातुं कस्य शक्तता ॥ ७६ ॥
यथा पाषाणान्तर्गतं मणिं पाषाणच्छेदनेन मणितत्त्वविचारेण च
अभितः अमण्यंशखण्डनतो गतं प्राप्तं पुनः पूर्ववत्तं पाषाणं
मणिं च सन्धातुं कस्याभाग्यस्य शक्ततास्तीत्यर्थः ॥ ७६ ॥
विज्ञातायामविद्यायां कः पुनः परिमज्जति ।
परिज्ञाय श्वपाकानां यात्रां कः प्रेक्षते द्विजः ॥ ७७ ॥
यात्रां उत्सवसमाजगमनम् ॥ ७७ ॥
शुद्धाम्भसि यथा क्षीरधीर्विचारान्निवर्तते ।
संसारवासना तद्वद्धीविचारान्निवर्तते ॥ ७८ ॥
क्षीरधीर्दुग्धभ्रान्तिः । धीविचाराद्धीस्थात्मदर्शनात् ॥ ७८ ॥
मध्वम्बुशङ्कया तावद्विप्रवर्यैः प्रपीयते ।
यावन्नात्र परिज्ञातं परिज्ञातं प्रहीयते ॥ ७९ ॥
मधु मद्यम् । अम्बुशङ्कया जलभ्रान्त्या ॥ ७८ ॥
रूपलावण्ययुक्तापि चित्रकान्तेव कामिनी ।
द्रव्यमात्रसमारम्भात्तत्त्वविद्भिर्विलोक्यते ॥ ८० ॥
चित्रलिखिता कान्ता स्त्रीप्रतिमेव ॥ ८० ॥
यथा मषीकुसुम्भादि स्त्रियाश्चित्रे तथैव हि ।
जीवत्या अपि केशोष्ठं कस्तां परि किल ग्रहः ॥ ८१ ॥
यथा चित्रे स्त्रिया मषीकुसुम्भादिरङ्गभेदाः पञ्चभूतमात्रं तथा
जीवत्याः केशोष्ठाद्यपीति तत्त्वतः स्त्र्यादिविषयो यथा
अनुभूयमानाद्रूपात्तत्त्वतोऽन्यथैव वर्तते तथा स्वात्मानुभवोऽपि
परमप्रेमास्पदत्वेन प्रसिद्धादानन्दरूपादन्यथैव किं न स्यादिति
चेत्तत्राह - अनुभूत इति । यथा गुडस्य स्वादुर्मधुरसोऽनुभूतस्य गुडस्य
अनुभवकारणस्य जिह्वादेरनुभवितुर्देवदत्तादेर्वा
दाहविकर्तनादियत्नशतैरपि नासौ माधुर्यानुभवः किन्तु तिक्ताद्यनुभव
इत्यन्यथाकर्तुं न शक्यते आत्मनस्तात्त्विकानन्दानुभवोऽपि तथैवेत्यर्थः ॥ ८२
॥
अनुभूतो गुडः स्वादुरपि दाहविकर्तनैः ।
न शक्यतेऽन्यथाकर्तुं तत्त्वालोकस्तथात्मनः ॥ ८२ ॥
यदा सकृदप्यनुभूतो नान्यथाकर्तु शक्यस्तदा तदैकव्यसनितया
सदैवानुभूयमानस्तु सुतरामित्याशयेनाह - परव्यसनिनीत्यादिना ॥ ८३ ॥
परव्यसनिनी नारी व्यग्रापि गृहकर्मणि ।
तदेवास्वदयत्यन्तः परसङ्गरसायनम् ॥ ८३ ॥
एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः ।
न शक्यते चालयितुं देवैरपि सवासवैः ॥ ८४ ॥
परव्यसनिनी नारी केन भर्त्रा बलीयसा ।
विस्मारिता स्वसङ्कल्पकान्तसङ्गमहोत्सवम् ॥ ८५ ॥
जगत्समरसानन्दचिदालोकावलम्बनम् ।
केन विस्मार्यते बुद्धिस्तत्त्वज्ञस्य महात्मनः ॥ ८६ ॥
जगत्पदेन जागताः सर्वे विषयानन्दभेदा लक्ष्यन्ते । ते सर्वे नानापुष्परसा
मधुभाव इव यत्र समरसा भवन्ति तादृशस्वात्मानन्दचिदालोकस्य
अवलम्बनं निरन्तरास्वादधारां प्राप्ता तत्त्वज्ञस्य बुद्धिः केन
विस्मारयितुं शक्यत इत्यर्थः । तथाचोक्तं शिवधर्मोत्तरे -
ज्ञानामृतरसो येन सकृदास्वादितो भवेत् । विहाय सर्वकार्याणि मनस्तत्रैव
धावति ॥ इति ॥ ८६ ॥
समग्रसुखदुःखाढ्यं व्यवहारमखण्डितम् ।
कुर्वन्कुलजनायत्तो भर्तृश्वशुरखेदितः ॥ ८७ ॥
व्यवहारं गृहकर्म अखण्डितं सदा कुर्वन् भर्त्रा श्वशुराभ्यां च
खेदितः पीडितोऽपि परव्यसनवान्वधूलोक इति परेणान्वयः ॥ ८७ ॥
यथा सङ्कल्पकान्तेन भवत्यानन्दमन्थरः ।
वधूलोको व्यसनवान्दुःखवृन्दैर्न बाध्यते ॥ ८८ ॥
तथा विगलिताविद्यो व्यवहारपरोऽप्यलम् ।
सम्यग्दृष्टिः सदाचारो मुदमेत्यन्तरात्मना ॥ ८९ ॥
छिद्यते न निकृत्ताङ्गो गलदश्रुर्न रोदिति ।
दह्यते न प्रदग्धोऽपि नष्टोऽपि न विनश्यति ॥ ९० ॥
तत्रापि सप्तमभूमिकामारूढस्य स्थैर्यातिशयमाह - छिद्यत इति ।
नष्टः विनष्टदेहोऽपि ॥ ९० ॥
व्यपगतसुखदुःखसन्निपातो
विधिविधुरेष्वपि सङ्कटेष्वचित्तः ।
विलसतु सदने पुरोत्तमे वा
विततगिरौ विपिने तपोवने वा ॥ ९१ ॥
अचित्तो मनोनाशपर्यन्तभूमिकाप्रतिष्ठितः पुरुषधौरेयो विधिना
प्राक्तनप्रारब्धफलेन कर्मणा विधुरेषु भोगशून्येषु दारिद्र्यादिषु
माण्डव्यवच्छूलाधिरोहणादिसङ्कटेषु वा पुरोत्तमे सदने वा विततगिरौ
विपिने तपोवने वा निवसतु तथापि सदा व्यपगतसुखदुःखसन्निपात एवास्ते न
मनागपि सांसरिकैर्हर्षशोकैः स्पृश्यत इत्यर्थः ॥ ९१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे वैराग्योपदेशो नाम चतुःसप्ततितमः
सर्गः ॥ ७४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
वैराग्योपदेशो नाम चतुःसप्ततितमः सर्गः ॥ ७४ ॥