७३

त्रिसप्ततितमः सर्गः ७३

श्रीवसिष्ठ उवाच ।

एवंविचारया दृष्ट्या द्वैतत्यागेन राघव ।
स्वभावः प्राप्यते तज्ज्ञैस्तज्ज्ञैश्चिन्तामणिर्यथा ॥ १ ॥

द्वे अहम्भावने ग्राहेय् त्याज्याहम्भावना परा ।
अहम्भावत्रयापाये मुक्त्यनिच्छा न कीर्त्यते ॥ १ ॥

स्वभावः स्वस्वरूपावस्थितिलक्षणा मुक्तिः । तज्ज्ञैरात्मज्ञैः ।
तज्ज्ञैश्चिन्तामणितत्त्वज्ञैर्देवैः ॥ १ ॥

अथेमामपरां दृष्टिं शृणु रामानया यथा ।
दृश्यस्यात्मानमचलं भविष्यसि च दिव्यदृक् ॥ २ ॥

सर्वाहम्भावदृष्टिं दर्शयितुं प्रक्रमते - अथेति ॥ २ ॥

अहं खमहमादित्यो दिशोऽहमहमप्यधः ।
अहं दैत्या अहं देवा लोकाश्चाहमहं महः ॥ ३ ॥

महश्चन्द्रादिप्रभा ॥ ३ ॥

अहं तमोऽहमभ्राणि भूः समुद्रादिकं त्वहम् ।
रजो वायुरथाग्निश्च जगत्सर्वमिदं त्वहम् ॥ ४ ॥

रजो रेणुः ॥ ४ ॥

जगत्त्रयेऽहं सर्वत्र य आत्मैव किलास्थितः ।
कोऽहं किमन्यद्देहादि द्वित्वमेकस्य कीदृशम् ॥ ५ ॥

सर्वातिरिक्तः परिच्छिन्नः कोऽहम् । मदन्यद्देहादि किम् । सर्वभूतस्यैकस्य मम
द्वित्वं स्वगतभेदरूपं कीदृशम् ॥ ५ ॥

इति निश्चयवानन्तर्भूतमात्मतया जगत् ।
पश्य हर्षविषादाभ्यां नावशः परिभूयसे ॥ ६ ॥

इति विचार्य निश्चयवान्संस्तदनन्तरं स्वान्तर्भूत जगदात्मतया पश्य ॥ ६ ॥

तन्मयेऽस्मिन्किल जगत्यखिले संस्थितेऽनघ ।
किमात्मीयं परं किं स्यात्कमलेक्षण कथ्यताम् ॥ ७ ॥

तन्मये आत्मसमये । स्वार्थे मयट् ॥ ७ ॥

किं तज्ज्ञव्यतिरेकेण विद्यते यदुपागतम् ।
हर्षमेतु विषादं वा विषादे ज्ञो जगन्मयः ॥ ८ ॥

यदुपागतं चेदिति शेषः । विषादे तु दृश्यमाने अज्ञ एवासौ । यतो जगन्मयो
न चिन्मय इत्यर्थः ॥ ८ ॥

अहङ्कारदृशावेते सात्त्विके द्वेऽतिनिर्मले ।
तत्त्वज्ञानात्प्रवर्तेते मोक्षदे पारमार्थिके ॥ ९ ॥

एते वक्ष्यमाणे । सन्धिरार्षः ॥ ९ ॥

परोऽणुः सकलातीतरूपोऽहं चेत्यहङ्कृतिः ।
प्रथमा सर्वमेवाहमित्यन्योक्ता रघूद्वह ॥ १० ॥

अणुः आकाशवदस्थूलस्वभावः । सकलादवस्थात्रयदृश्यादतीतः ॥ १० ॥

अहङ्कारदृगन्या तु तृतीया विद्यतेऽनघ ।
देहोऽहमिति तां विद्धि दुःखायैव न शान्तये ॥ ११ ॥

विद्यते स्वभावतो न शास्त्रतः ॥ ११ ॥

अथ चैतत्त्रयमपि त्यक्त्वा सकलसिद्धये ।
यच्छेषं तदुपालम्ब्य तिष्ठावष्टब्धतत्परः ॥ १२ ॥

यत् शेषं शिष्यमाणं निरहम्भावं पूर्णचिन्मात्रम् ॥ १२ ॥

सर्वातीतस्वरूपोऽपि सर्वसत्तातिगोऽपि च ।
असत्तापूरितजगदस्त्येवात्मा प्रकाशकः ॥ १३ ॥

शोधनेन सर्वातीतस्वरूपो बाधनेन तु सर्वासत्तां गतः । सर्वबाधे
आत्मापरिशेषशङ्कां वारयति - असत्तेति । असत्तया जगद्बाधोपायेनैव
स्वेन आपूरितं जगद्येन ॥ १३ ॥

स्वानुभूत्यैव पश्याशु स एवासि सदोदितः ।
साशयं हृदयग्रन्थिं त्यज तत्त्वविदांवर ॥ १४ ॥

युक्तयः शास्त्राणि गुरुवचनानि च दिक्प्रदर्शनमात्रं तत्परिचयस्तु
स्वानुभवेनैवेत्याशयेनाह - स्वानुभूत्येति । आशया
देहादिवासनास्तत्सहितं हृदयग्रन्थिमहङ्कारतादात्म्याध्यासम् ॥ १४ ॥

नात्मास्त्यनुमया राम न चाप्तवचनादिना ।
सर्वदा सर्वथा सर्वं स प्रत्यक्षोऽनुभूतितः ॥ १५ ॥

ननु तं त्वौपनिषदं पुरुस्ऽं पृच्छामि इति
श्रुतेर्धर्माधर्मादिवच्च्रुतितद्दर्शितयुक्तिमात्रविश्वासादलौकिक आत्मास्तीति
ज्ञायते स कथं स्वानुभववेद्यः स्यात्तत्राह - नेति । न
धर्मादिवदत्यन्तपरोक्षात्मसद्भावं प्रतिपादयितुं श्रुत्यादयः
प्रवृत्ताः किन्तु सर्वानुभवसिद्धसत्ताकमात्मानं विवेचयितुमिति भावः ॥
१५ ॥

यदिदं स्पर्शनं स्पन्दं किञ्चिद्यत्संविदाद्यपि ।
तत्सर्वमात्मा भगवान्दृश्यदर्शनवर्जितः ॥ १६ ॥

सर्वेषां स प्रत्यक्ष इति यदुक्तं तदुपपादयति - यदिदमिति ।
बाह्याभ्यन्तरविषयेषु अन्तःकरणवृत्तिस्पन्दनात्स्पन्दि यद्दर्शनं
साक्षादर्थप्रथारूपमपरोक्षं प्रसिद्धं यच्च
किञ्चिदनुमित्युपमितिशाब्दसंविदाद्यपि प्रसिद्धं तत्सर्वं दृश्यस्य
विषयस्य दर्शनस्यान्तःकरणवृत्त्युपाधेश्च वर्जने भगवान्स्वप्रकाश
आत्मैव नित्यापरोक्षः सर्वानुभवसिद्धः परिशिष्यत इत्यर्थः । तथाच श्रुतिः
प्रतिबोधविदितं मतममृतत्वं हि विन्दते इति ॥ १६ ॥

न सन्नासन्नसौ देवो नाणुर्नापि महानसौ ।
नाप्येतयोर्दृशोर्मध्यं स एवेदं च सर्वतः ॥ १७ ॥

तस्य प्रत्यक्षपरोक्षवेद्यव्यक्ताव्यक्तोभयवैलक्षण्योक्त्या
दृश्यदर्शननिर्मुक्ततामुपपादयति - न सन्नासन्निति । तस्मिन्
जगद्बाधप्रदर्शनेनापि तदुपपादयति - स एवेति ॥ १७ ॥

स एव चैवं वदति स च वक्तुं न युज्यते ।
न तदन्यदिदं तात पश्यात्मानमनामयम् ॥ १८ ॥

एवं वागादिकर्मेन्द्रियप्रवृत्तिनिमित्ततया च तदव्यवहार्यं तं परिचीय
वागादेस्तद्विषयस्य च तत्र बाधेन स एव परिशेष्य इत्याशयेनाह - स एवेति
। इदं वागादि तद्व्यवहार्यं च ॥ १८ ॥

नात्मायमयमप्यात्मा सञ्ज्ञाभेद इति स्वयम् ।
तेनैव सर्वगतया शक्त्या स्वात्मनि कल्पितः ॥ १९ ॥

आत्मानात्मनामरूपविभागस्तेनैव स्वाज्ञानशक्त्या कल्पित इति
बाध्यत्वोपपत्तिरित्याशयेनाह - नेति ॥ १९ ॥

संस्थितः स हि सर्वत्र त्रिषु कालेषु भास्करः [भास्वरः इति
पाठः] ।
सूक्ष्मत्वात्सुमहत्त्वाच्च केवलं न विभाव्यते ॥ २० ॥

नित्यापरोक्षस्वप्रकाशपूर्णस्वभावोऽपि सूक्ष्मत्वात्स्थूलासक्तबुद्धिभिः स न
विभावयितुं शक्य इत्यर्थः ॥ २० ॥

सत्स्वनन्तपदार्थेषु जीवत्वेनाभिबिम्बति ।
आत्मा पुर्यष्टकादर्शे स्वभाववशतः स्वतः ॥ २१ ॥

स्थूलासक्तौ तु तस्य मोहात्पुर्यष्टकोपाधौ प्रतिबिम्बनेन
जीवभावापतीर्निमित्तमित्याशयेनाह - सत्स्विति । सत्सु सर्गक्रमेणोत्पन्नेषु
भोग्यभोगायतनाद्यनेकपदार्थेषु ॥ २१ ॥

पुर्यष्टकोदयादेव स्वयमात्मानुभूयते ।
सर्वदा सर्वसंस्थः खे घनास्पन्दादिवानिलः ॥ २२ ॥

अनुभूयते अहमित्यभिव्यक्तस्वरूपः क्रियते । घनेन मूर्तेन व्यजनादिना ।
आस्पन्दान्नोदनात् ॥ २२ ॥

चिदात्मा सर्वगो व्यापी न क्वचिन्नाम संस्थितः ।
यद्वत्सर्वपदार्थानां सत्ता तद्वन्महेश्वरः ॥ २३ ॥

नामेत्यवधारणे । क्वचिद्देहे एव संस्थित इति नेत्यर्थः ॥ २३ ॥

सति पुर्यष्टके तस्मिञ्जीवः स्फुरति नोपले ।
सति वायाविव रजः सति दीप इवेक्षणम् ॥ २४ ॥

परिच्छिन्नाहन्तया स्फुरणे तु पुर्यष्टकं हेतुरित्याह - सतीति ॥ २४ ॥

इयं पुर्यष्टके स्वेच्छा स्वात्मन्येवात्मनि स्थिते ।
सति स्फुरत्यभ्युदिते भानाविव जनैषणा ॥ २५ ॥

पुर्यष्टके इयं प्रसिद्धा स्वेच्छाप्रीतिर्विचित्रभोगेच्छा च परमप्रेमास्पदे
निरतिशयानन्दे स्वात्मनि स्थिते स्फुरति । यथा भानौ सूर्ये नभसि स्थिते सति
सर्वजनानां तत्तत्क्रियाफलैषणा स्फुरति तद्वत् । आत्मनस्तु कामाय सर्वं
प्रियं भवति इति श्रुतेरात्मैव सर्वव्यवहारदूरोऽपि
प्रियाप्रियादिसर्वव्यवहारनिर्वाहक इत्यर्थः ॥ २५ ॥

यदि सूर्ये स्थिते व्योम्नि तादृशोचितसंस्थितिः ।
नश्यति व्यवहारोऽयं भास्करे तत्किमागतम् ॥ २६ ॥

अस्त्वेवं किं ततस्तत्राह - यदीति । तादृशे तत्तदेषणाफले उचिता अनुरूपा
स्थितिर्यस्य ॥ २६ ॥

यद्यात्मनि स्थिते देवे तत्सत्ता लब्धसंस्थितिः ।
देहो नाशमुपायाति तत्किं नष्टमिहात्मनि [नष्टमिहात्मन इति
पाठः] ॥ २७ ॥

न जायते न म्रियते नादत्ते नाभिवाञ्छति ।
न मुक्तो न च बद्धोऽयमात्मा सर्वस्य सर्वदा ॥ २८ ॥

आत्मा तर्हि स्वतः कीदृशस्तमाह - नेति ॥ २८ ॥

आत्माप्रबोधाभ्युदिता निरात्मन्यात्मतां गता ।
सर्परज्जुभ्रमाकारा भ्रान्तिर्दुःखाय केवलम् ॥ २९ ॥

अत-एव तस्याज्ञानादेवानर्थभ्रान्तिरित्याह - आत्मेति ॥ २९ ॥

अनादित्वान्न जातोऽयमजाततान्न नश्यति ।
आत्मात्मव्यतिरिक्तं तु नाभिवाञ्छत्यसम्भवात् ॥ ३० ॥

प्रबोधे तर्हि कीदृशस्तमाह - अजातत्वादिति ॥ ३० ॥

दिक्कालाद्यनवच्छेदान्न बद्धोऽयं कदाचन ।
बन्धाभावे क्व मुक्तिः स्यादमोक्षस्तेन संस्थितः ॥ ३१ ॥

एवङ्गुणविशिष्टोऽयमात्मा सर्वस्य राघव ।
अविचारवशान्मूढो लोकोऽयं परिरोदिति ॥ ३२ ॥

एवङ्गुणविशिष्ट इत्थंस्वभाव इति यावत् ॥ ३२ ॥

सम्यगालोकिताशेषपूर्वापरजगत्क्रमः ।
मा शोकं गच्छ सुमते मौर्ख्योपगतलोकवत् ॥ ३३ ॥

मौर्ख्येणोपगता ये लोका जनास्तद्वत् ॥ ३३ ॥

द्वे एव कलने त्यक्त्वा मोक्षबन्धात्मिके यथा ।
विदुषा व्यवहर्तव्यं यन्त्रणेवात्ममौनिना ॥ ३४ ॥

यथा पर्वतदेशे जलयन्त्रेण पेषणे प्रवृत्ते तत्सन्निधिमात्रेण
तत्कुर्वाणेनेव स्थितेन आत्मना स्वतस्तु मौनिना कामादिव्यापारशून्येन
पुरुषेण स्थीयते तथा विदुषा देहादिना व्यवहर्तव्यमित्यर्थः ॥ ३४ ॥

न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।
मोक्षो हि चेतो विमलं सम्यग्ज्ञानविबोधितम् ॥ ३५ ॥

सम्यग्ज्ञानेन विबोधितं बोधात्ममात्रतां नीतम् ॥ ३५ ॥

सकलाशास्वसंसक्त्या यत्स्वयं चेतसः क्षयः ।
स मोक्षनाम्ना कथितस्तत्त्वज्ञैरात्मदर्शिभिः ॥ ३६ ॥

आशास्वाशास्यमानेषु विषयेष्वसंसक्त्या । स्वयं स्वपरिणामबोधवृत्त्या
क्षयः ॥ ३६ ॥

यावत्प्रबोधो विमलो नोदितस्तावदेव सः ।
मौर्ख्याद्दीनतया राम भक्त्या मोक्षोभिवाञ्छ्यते ॥ ३७ ॥

दीनतया कार्पण्येन । भक्त्या नित्यप्राप्तेऽप्यप्राप्तिकल्पनया ॥ ३७ ॥

परं प्रबोधमासाद्य चित्ते चित्तत्त्वतां गते ।
दश मोक्षा न वाञ्छ्यन्ते किमुतैको हि मोक्षकः ॥ ३८ ॥

चित्तत्त्वतां पारमार्थिकचिन्मात्रताम् । स्वात्मव्यतिरिक्ता दशमोक्षाश्चेत्स्युस्तेऽपि
न वाञ्छ्यन्ते किमुत एकोऽल्पो मोक्षो मोक्षको वाञ्छ्यते इत्यर्थः ॥ ३८ ॥

अयं मोक्षस्त्वयं बन्धः पेलवां कलनामिति ।
परित्यज्य महात्यागी स त्वमेव भवाभव ॥ ३९ ॥

हे अभव सः मोक्षस्त्वमेव भव ॥ ३९ ॥

परिगलितविकल्पनां प्रयातः
सगरसुतौघनिखातमेखलाङ्कम् ।
अवनिवलयमन्तरस्तसङ्ग-
श्चिरमनुपालय सर्वदोदितश्रीः ॥ ४० ॥

परिगलिता विकल्पना यत्र तथाविधां दशां प्रयातस्त्वं सगरसुतैर्निखाता
मेखला समुद्रस्तदङ्कं तच्चिह्नितमवनिवलयं चिरमनुपालय ।
यतस्त्वमन्तः अस्तसङ्गस्ततस्ते राज्यादिपालनं न दोषायेत्यर्थः ॥ ४० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे स्वात्मविचारो नाम त्रिसप्ततितमः सर्गः ॥
७३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे स्वामविचारो
नाम त्रिसप्ततितमः सर्गः ॥ ७३ ॥