७२

द्विसप्ततितमः सर्गः ७२

श्रीवसिष्ठ उवाच ।

देहे जाते न जातोऽसि देहे नष्टे न नश्यसि ।
त्वमात्मन्यकलङ्कात्मा देहस्तव न कश्चन ॥ १ ॥

भौतिकत्वाच्छरीरस्य शोकमोहाद्ययोग्यता ।
दृश्यदर्शनसम्बन्धः साक्षी शुद्धश्च वर्ण्यते ॥ १ ॥

पूर्वार्धार्थे उत्तरार्धार्थो हेतुः ॥ १ ॥

यः कुण्डबदरन्यायो या घटाकाशसंस्थितिः ।
तत्रैकस्मिन्क्षते क्षीणे द्वे इति व्यर्थकल्पना ॥ २ ॥

ननु गौरोऽहं स्थूलोऽहमिति आत्मनि देहतादात्म्यानुभवाद्देहनाशे
कथमात्मस्थितिस्तत्राह - य इति । संस्थितिर्मर्यादा सैवात्र ग्राह्या न
तादात्म्यम् । तत्रैवं सति एकस्मिन्कुण्डे घटे वा क्षते नष्टे सति द्वे अपि क्षीणे इति
मूढानां व्यर्थकल्पनेत्यर्थः ॥ २ ॥

विनाशिनि विनष्टेऽस्मिन्देहे स्वां स्थितिमागते ।
विनश्यामीति यः खेदी तं धिगस्त्वन्धचेतसम् ॥ ३ ॥

विनाशिनि नश्वरस्वभावे ॥ ३ ॥

यादृशो रश्मिरथयोः स्नेहोद्वेगविवर्जितः ।
सम्बन्धस्तादृशो देहचित्तेन्द्रियमुखैश्चितेः ॥ ४ ॥

यद्यात्मनो देहादितादात्म्यं नास्ति तर्हि कथं शाखाकम्पेन वृक्ष इव
तत्प्रवृत्त्यायं संसरति तत्राह - यादृश इति । स्नेहः प्रीतियोग्यता उद्वेगो
द्वेषयोग्यता ताभ्यां विवर्जितः ॥ ४ ॥

गतेतरेतरापेक्षः सरःपङ्कामलाम्भसाम् ।
यथा राघव सम्बन्धस्तथा देहेन्द्रियात्मनाम् ॥ ५ ॥

इतरेतरापेक्षा परस्परानुरागः ॥ ५ ॥

यादृशोऽध्वा गताध्वानां निरास्थापरिदेवनः ।
संयोगो विप्रयोगश्च तादृशो देहदेहिनोः ॥ ६ ॥

गताध्वानामध्वगानां आस्था अहम्ममताभिमानः परिदेवनं तद्वियोगजो
विलापः तदुभयायोग्य इत्यर्थः ॥ ६ ॥

यथा कल्पितवेतालविकारभयभीतयः ।
मिथ्यैव कल्पिता एते तथा स्नेहसुखादयः ॥ ७ ॥

तत्कुतस्तत्राह - यथेति । कल्पितवेतालस्य विकाराः
करालवदनदशनव्यादानादयस्तज्जन्यात्प्रथमभयात्पुनः##-

भूतपञ्चकसम्पिण्डाद्रचिता जनताः पृथक् ।
एकस्मादेव विटपाद्विचित्रा इव पुत्रिकाः ॥ ८ ॥

काष्ठेतरत्काष्ठभारे किञ्चिदन्यन्न दृश्यते ।
भूतपिण्डेतरद्देहे किञ्चिदन्यन्न दृश्यते ॥ ९ ॥

भूतपञ्चकविक्षोभनाशोत्पादेषु हे जनाः ।
हर्षामर्षविषादानां किं भवन्तो वशं गताः ॥ १० ॥

को नामातिशयः पुंसां स्त्रीनाम्न्यपरनाम्नि च ।
पेलवे भूतसङ्घाते प्रोद्भूतजनपातवत् ॥ ११ ॥

स्वदेहे स्नेहाद्ययोग्यत्वमुपपाद्य स्त्र्यादिपिण्डेऽपि तद्दर्शयति - क इति ।
पतङ्गवद्व्यामोहरागाभ्यां प्रोद्भूतानां जनानां विषयाग्नौ
पातवद्दृश्यमाना चेष्टा येनातिशयेनोपपद्येत सोऽतिशयः को नामेत्यर्थः
॥ ११ ॥

सन्निवेशांशवैचित्र्यमज्ञानामेव तुष्टये ।
तज्ज्ञानां तु यथाभूतभूतपञ्चकदर्शनम् ॥ १२ ॥

सुकुमारसुन्दरावयवसन्निवेशविशेष एव सोऽतिशयो दृश्यते तत्राह -
सन्निवेश इति ॥ १२ ॥

मिथः शिलापुत्रकयोर्यथैकोपलपुत्रयोः ।
श्लिष्टयोरपि नो रागस्तथा चित्तशरीरयोः ॥ १३ ॥

भ्रात्रादिषु रागं वारयति - मिथ इति । एकोपलपुत्रयोरेकोपलजन्ययोः ।
श्लिष्टयोराश्लिष्टयोः ॥ १३ ॥

मृत्पुंसां यादृशोऽन्योन्यमाशयः सङ्गमे भवेत् ।
बुद्धिन्द्रियात्ममनसां सङ्गमे तादृशोऽस्तु ते ॥ १४ ॥

मृन्निर्मितानां पुंसां प्रतिमानां सङ्गमे सत्यपि यादृशो
ममतादिशून्य आशयो भावो भवेदित्याशयकल्पनयोक्तिः ॥ १४ ॥

नान्योन्यस्नेहसम्बन्धभाजनं शैलपुत्रकाः ।
देहेन्द्रियात्मप्राणाश्च कस्यात्र परिदेवना ॥ १५ ॥

इतश्चेतश्च जातानि यथा संश्लेषयन्त्यलम् ।
तरङ्गास्तृणजालानि तथा भूतानि देहदृक् ॥ १६ ॥

इतश्च इतश्च भिन्नप्रदेशयोर्जातानि तृणजालानि ॥ १६ ॥

संयुज्यन्ते वियुज्यन्ते तृणान्यब्धिजले यथा ।
मुक्तान्तःकलनं देहे भूतान्यात्मनि वै तथा ॥ १७ ॥

मुक्तान्तःकलनं निर्मुक्तरागाभिमानं यथा स्यात्तथा भूतानि
पुत्रपश्वादिप्राणिनः पृथिव्यादीनि वा स्वारब्धे देहे स्वाधिष्ठाने आत्मनि च
तथा संयुज्यन्ते वियुज्यन्ते चेत्यर्थः ॥ १७ ॥

आत्मा चित्ततया देहभूतान्याश्लेषयन्स्थितः ।
तृणान्यावृत्तवृत्तान्तकलनोत्सिक्तमब्धिवत् ॥ १८ ॥

यथा अब्धिरावृत्तवृत्तन्त आवर्ताकारस्तत्कल्पनेन उत्सिक्तमुपचितं वेषं
प्राप्य तृणकाष्ठादीन्याश्लेषयन् स्थितस्तथा आत्मापि चित्ततया चित्तवेषं
प्राप्येत्यर्थः ॥ १८ ॥

प्रबोधाच्चेत्यतां त्यक्त्वा व्रजत्यात्मात्मतां स्वयम् ।
स्वस्पन्दवशतो वारि त्यक्त्वाच्छत्वमिवाच्छतां ॥ १९ ॥

केनोपायेन तर्हि आत्मा भूताश्लेषनिमित्ताच्चित्तभावान्मुच्यते तमाह -
प्रबोधादित्यादिना । त्यक्त्वा आच्छत्वमनच्छत्वम् । नञ्तत्पुरुषे नकारलोपे
सवर्णदीर्घो नुडभावश्छान्दसः ॥ १९ ॥

ततो विश्लिष्टभूतौघो देहं सम्प्रति पश्यति ।
वायुस्कन्धगतो जन्तुर्वसुधामण्डलं यथा ॥ २० ॥

विश्लिष्टभूतौघो मनःकृतभूताश्लेषनिर्मुक्तः । सम्प्रति प्रबोधकाले ।
वायुस्कन्धे गतः खेचरो देवादिः ॥ २० ॥

पृथग्भूतगणं दृष्ट्वा देहातीतो भवत्यजः ।
परं प्रकाशमायाति सूर्यकान्तिरिवाहनि ॥ २१ ॥

तत्फलमाह - पृथगिति ॥ २१ ॥

जानात्यथात्मनात्मानं मानमेयामयोज्झितम् ।
मुक्तक्षीबतयेवान्तः स्वां संविदमनुस्मरन् ॥ २२ ॥

मुक्तक्षीबतया निर्मुक्तमदिरामदतया ॥ २२ ॥

आत्मैव स्पन्दते विश्वं वस्तुजातैरिवोदितम् ।
तरङ्गकणकल्लोलैरनन्ताम्ब्वम्बुधाविव ॥ २३ ॥

एवम्प्रायमहाबोधा वीतरागा गतैनसः ।
जीवन्मुक्ताश्चरन्तीह महासत्त्वपदं गताः ॥ २४ ॥

यथा चरन्ति विविधैर्मणिरत्नैर्महोर्मयः ।
निरस्तवासनाश्चित्तव्यवहारैस्तथोत्तमाः ॥ २५ ॥

विविधैर्मणिश्रेष्ठैः सम्बध्यमाना अपि तदनासक्त्या तेषु
शिलाशकलादिसाम्येन यथा चरन्ति व्यवहरन्ति ॥ २५ ॥

न कूलकाष्ठैर्जलधिर्न रजोभिर्नभस्तलम् ।
न म्लायति निजैर्लोकव्यवहारैरिहात्मवान् ॥ २६ ॥

यथा तद्वदिति पदे अत्राध्याहार्ये ॥ २६ ॥

गतैरभ्यागतैः स्वच्छैश्चपलैर्मलिनैर्जडैः ।
न रागो नाम्बुधेर्द्वेषो भोगैश्चाधिगतात्मनः ॥ २७ ॥

स्वच्छैर्न रागो मलिनैर्न द्वेषः । विशेषणान्युभयत्र योज्यानि ।
अधिगतात्मनस्तत्त्वविदः ॥ २७ ॥

यन्मनोमननं किञ्चित्समग्रं जगति स्थितम् ।
तच्चेत्योन्मुखचित्तत्त्वविलासोल्लसनं विदुः ॥ २८ ॥

कुतो न रागस्तत्राह - यदिति । मनोमननं सर्वं चिद्बिलास एवेति ते यतो
विदुरित्यर्थः ॥ २८ ॥

यदहं यच्च भूतादि कालत्रितयभावि यत् ।
दृश्यदर्शनसम्बन्धविस्तारैस्तद्विजृम्भते ॥ २९ ॥

यदहमादि सर्वं दृश्यदर्शनसम्बन्धविस्तारैर्भाति तत्केवलं मन एव
विजृम्भते नान्यदित्यर्थः ॥ २९ ॥

यद्दृश्यं तदसत्सद्वा दृष्टिमेकामुपाश्रितम् ।
अन्यत्त्वलेपकं तस्माद्धर्षशोकदृशौ कुतः ॥ ३० ॥

इह दृक् दृश्यं चेति द्वयमध्ये एकां दृष्टिमुपाश्रितं
तदधीनसिद्धिकं यद्दृश्यं तदसत्सद्वेत्यनिर्णीतत्वाद्धर्षशोकायोग्यम् ।
अन्यत्स्वतःसिद्धं दृग्रूपं त्वलेपकमसङ्गमुत्पन्नाभ्यामपि
हर्षशोकाभ्यां न युज्यत इति तयोरुभयथापि सम्भावनैव नास्तीत्यर्थः ॥ ३०

असत्यमेवासत्यं हि सत्यं सत्यं सदेव हि ।
सत्यासत्यमसद्विद्धि तदर्थं किं नु मुह्यसि ॥ ३१ ॥

किञ्चासत्ये विषये हर्षशोकौ सत्ये वा सत्यासत्ये वा न त्रिष्वपि कल्पेषु
तद्योग्यतेत्याह - असत्यमेवेति । असत्यमसत्यमेव । तत्र
हर्षशोकयोर्निर्विषयता स्पष्टैव । सत्यं तु
नित्यसत्त्वाल्लाभप्रयुक्तहर्षस्यापगमप्रयुक्तशोकस्य चायोग्यं स्पष्टमेव ।
यत्तु तृतीयं सत्यासत्यं तच्च विरुद्धैक्यायोगादसदेवेत्याद्यकल्पमेव
प्रविशति । तथाच न किञ्चित्तद्योग्यं जगत्यस्तीति तद्विषये मोहोऽयुक्त एवेत्यर्थः
॥ ३१ ॥

असम्यग्दर्शनं त्यक्त्वा सम्यक्पश्य सुलोचन ।
न क्वचिन्मुह्यति प्रौढः सम्यगदर्शनवानिह ॥ ३२ ॥

दृश्यदर्शनसम्बन्धविस्तारैस्तद्विजृम्भते ।
दृश्यदर्शनसम्बन्धे यत्सुखं पारमात्मिकम् ॥ ३३ ॥

किञ्च भोगसुखार्थं सर्वैर्दृश्यदर्शनयोर्विषयेन्द्रिययोः सम्बन्ध
इष्यते तत्राभिव्यज्यमानं पारमात्मिकमेव स्वप्रकाशत्वादनुभूत्यभिन्नं
वृत्त्युपाधिकृतभेदतारतम्यादिनिरासेनाखण्डैक्ये ब्रह्मैव तदित्याह ##-

अनुभूतिमयं तस्मात्सारं ब्रह्मेति कथ्यते ।
दृश्यदर्शनसम्बन्धे सुखसंविदनुत्तमा ॥ ३४ ॥

ददात्यज्ञाय संसारं ज्ञाय मोक्षं सदोदयम् ।
दृश्यदर्शनसम्बन्धसुखमात्मवपुर्विदुः ॥ ३५ ॥

विषयाकारवृत्त्या आस्वाद्यमानं विषये रागादिदोषजननेन संसारं ददाति
। तद्विवेकेनाखण्डैकात्मभावेन गृह्यमाणं तु मोक्षमित्यर्थः ॥ ३५ ॥

तद्दृश्यवलितं बन्धस्तन्मुक्तं मुक्तिरुच्यते ।
दृश्यदर्शनसम्बन्धसुखसंविदनामया ॥ ३६ ॥

क्षयातिशयमुक्ता चेत्तन्मुक्तिः सोच्यते बुधैः ।
दृश्यदर्शनसम्बन्धे यानुभूतिः स्वगोचरा ॥ ३७ ॥

क्षयातिशयौ पुण्यतारतम्यप्रयुक्तवृत्तिनाशवैशद्योत्कर्षप्रयुक्तौ
तन्मुक्ता चेत् । स्वगोचरा अखण्डपूर्णानन्दस्फुरणात्मिका ॥ ३७ ॥

दृश्यदर्शननिर्मुक्ता तामालम्ब्य भवाभवः ।
सौषुप्ती दृष्टिरेषा हि यात्येवं स।प्रकाशते ॥ ३८ ॥

एवमुक्तस्वरूपालम्बने सौषुप्ती स्वरूपावरणदृष्टिर्याति अपगच्छति । एषा
स्वरूपदृष्टिः सम्प्रकाशते ॥ ३८ ॥

एवं च याति तुर्यत्वमेवं मुक्तिरिति स्मृता ।
दृश्यदर्शनमुक्तायां युक्तायां परया धिया ॥ ३९ ॥

दृश्यदर्शनसम्बन्धसंविदस्यां तु राघव ।
नात्मा स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः ॥ ४० ॥

दृश्यदर्शनसम्बन्धसंवित् । एवं तुर्यत्वमेतीति पूर्वत्रान्वयः ।
तुर्यतालक्षणायां मुक्तौ यादृश आत्मा परिशिष्यते तं दर्शयति -
अस्यां त्वित्यादिना ॥ ४० ॥

न चेतनो न च जडो न चैवासन्न सन्मयः ।
नाहं नान्यो न चैवैको नानेको नाप्यनेकवान् ॥ ४१ ॥

चेतनश्चैतन्यवान् । सन्मयः अस्तित्वाख्यद्वितीयभावविकारप्रचुरः । एकः
एकत्वसङ्ख्यागुणाश्रयः ॥ ४१ ॥

नाभ्याशस्थो न दूरस्थो नैवास्ति न च नास्ति च ।
न प्राप्यो नाति चाप्राप्यो न वा सर्वो न सर्वगः ॥ ४२ ॥

अभ्याशे समीपे तिष्ठतीत्यभ्याशस्थः । अस्ति सत्ताश्रयः ॥ ४२ ॥

न पदार्थो नापदार्थो न पञ्चात्मा न पञ्च च ।
यदिदं दृश्यतां प्राप्तं मनःशष्ठेन्द्रियास्पदम् ॥ ४३ ॥

न पदार्थो वाच्यत्वायोगात् । नापदार्थस्तुर्यादिपदलक्ष्यत्वात् । पञ्चानां
भूतानामात्मा नेति न । पञ्चभूतस्वभावश्च नेत्यर्थः । उक्तार्थे
उपपत्तिमाह - यदिदमिति ॥ ४३ ॥

तदतीतं पदं यत्स्यात्तन्न किञ्चिदिवेह तत् ।
यथाभूतमिदं सम्यग्ज्ञस्य सम्पश्यतो [सम्पश्यते इति
मुद्रितपुस्तके पाठः] जगत् ॥ ४४ ॥

यथाभूतं यथास्थितं सम्यक् तत्त्वतः सम्पश्यतः ॥ ४४ ॥

सर्वमात्ममयं विश्वं नास्त्यनात्ममयं क्वचित् ।
काठिन्यद्रवणस्पन्दस्वावकाशावलोकनैः ॥ ४५ ॥

कथं तर्हि भूम्यादिभूतता दृश्यते तत्राह - काठिन्येति । आत्मैव
स्वस्मिन् काठिन्यद्रवणस्य स्पन्दस्य खाख्यबृहच्छिद्रस्य अवकाशस्य
प्रकाशस्य च अवलोकनैः क्रमाद्भूवार्यादिषु जगद्भावेषु नटवत्स्थित
इत्यर्थः ॥ ४५ ॥

आत्मैव सर्वं सर्वेषु भूवार्यनिलखाग्निषु ।
सत्तैवास्ति न वस्तूनां या या राम चिता विना ।
व्यतिरिक्तं ततोऽस्मीति विद्धि प्रोन्मत्तजल्पितम् ॥ ४६ ॥

कथमात्मैवैवं स्थित इति निश्चितं तत्राह - सत्तैवेति । वस्तूनां या या
सत्ता सा चिता तत्प्रथात्मना विना यतो नास्ति तत इत्यर्थः ॥ ४६ ॥

एको जगन्ति सकलानि समस्तकाल-
कल्पक्रमान्तरगतानि गतागतानि ।
आत्मैव नेतरकलाकलनास्ति काचि-
दित्थम्मतिर्भव तयातिगतो महात्मन् ॥ ४७ ॥

उक्तं सर्वं पिण्डीकृत्योपसंहरति - एक इति । समस्ते काले अनन्तेषु
कल्पक्रमेषु च अन्तरे मध्ये गतानि निविष्टानि जगन्ति तेषु सकलानि गतागतानि
जीवसंसरणानि च एक आत्मैव । इतरकलाकलना काचिन्नास्त्येव । हे महात्मन्
त्वं इत्थम्मतिः संस्तया मत्या संसारमतिगतो भवेत्यर्थः ॥ ४७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते
मोक्षोपायेषूपशमप्रकरणे मोक्षस्वरूपोपदेशो नाम द्विसप्ततितमः
सर्गः ॥ ७२ ॥

इति श्रीवासिष्ठम्हारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
मोक्षस्वरूपोपदेशो नाम द्विसप्ततितमः सर्गः ॥ ७२ ॥