एकसप्ततितमः सर्गः ७१
श्रीवसिष्ठ उवाच ।
यावत्तुर्यपरामर्शस्तावत्केवलतापदम् ।
जीवन्मुक्तस्य विषयो वचसां च रघूद्वह ॥ १ ॥
परस्याव्यवहार्यत्वात्तुर्यमत्रोपवर्ण्यते ।
शरीरादिनिरासेन यथा मोहाज्जनिक्रमः ॥ १ ॥
तुर्यातीतपदस्य वागादिव्यवहाराविषयत्वं दर्शयितुं भूमिकां रचयति ##-
चिन्मात्रपरिशेषावस्थितिलक्षणतुर्यस्य यावत्परामर्शः
साक्षादनुभवस्तावन्मात्रं केवलतापदं जीवन्मुक्तस्य श्रुत्यादिवचसां च
विषयः । वाक्यजन्याखण्डाकारवृत्तेस्तावत्येव पर्यवसानादिति भावः ॥ १ ॥
अत ऊर्ध्वमदेहानां मुक्तानां वचसां तथा ।
विषयो न महाबाहो पुरुस्।आणामिवाम्बरम् ॥ २ ॥
तत ऊर्ध्वं अदेहानां मुक्तानां प्राप्यमपि तुर्यातीतपदं तेषां
वेदवचसां च विषयो न तद्विषयतापादनहेतोर्मनसः क्षयात् । यथा
वायुगम्यमम्बरमाकाशं पुरुषाणां मनुष्याणां विषयो न
तद्वदित्यर्थः ॥ २ ॥
सा हि विश्रान्तिपदवी दूरेभ्योऽपि दवीयसी ।
गम्या विदेहमुक्तानां खलेखेव नभस्वताम् ॥ ३ ॥
गम्या प्राप्या । खलेखा व्योमवीथी । नभस्वतां वायुनामिव ॥ ३ ॥
सुषुप्तावस्थया कञ्चित्कालं भुक्त्वा जगत्स्थितिम् ।
तुर्यतामेति तदनु परमानन्दघूर्णितः ॥ ४ ॥
अतः सदेहमुक्तानां पञ्चमभूमिकाक्रमेण सप्तमान्तभूमिकास्वेव
स्थितिरित्याह - सुषुप्तेति ॥ ४ ॥
तुर्यातीतदशां तज्ज्ञा यथा यान्त्यात्मकोविदाः ।
तथाधिगच्छ निर्द्वन्द्वं पदं रघुकुलोद्वह ॥ ५ ॥
ज्ञानदार्ढ्यं तु तुर्यातीतपदविश्रान्तिपर्यन्तं त्वया कार्यं
नान्तरालिकभूमिकामात्रपर्यवसितमित्याह - तुर्यातीतेति ॥ ५ ॥
सुषुप्तावस्थया राम भव संव्यवहारवान् ।
चित्रेन्दोरिव ते न स्तः क्षयोद्वेगावरिन्दम ॥ ६ ॥
तत्र प्रथमं पञ्चमभूमिकैव
शास्त्रीयव्यवहारनिर्वाहार्थमभ्यसनीयेत्याशयेनाह - सुषुप्तावस्थयेति ।
क्षयो मृत्युः कलापचयश्च । उद्वेगो भयं राहूपरोधश्च ॥ ६ ॥
शरीरसन्निवेशस्य क्षये स्थैर्येच संविदः ।
मा गृहाण भ्रमो ह्येष शरीरमिति जृम्भते ॥ ७ ॥
ननु देहनाशे संविन्नाशस्याप्यवर्जनात्कथं संविदात्मनो मे न
क्षयस्तत्राह - शरीरेति । संविदः क्षयं स्थैर्यं चेति शेषः ॥ ७ ॥
देहनाशेन कोऽर्थस्ते कोऽर्थस्ते देहसंस्थया ।
भव त्वं प्रकृतारम्भस्तिष्ठत्वेष यथास्थितम् ॥ ८ ॥
यदि देह इति भ्रमस्तर्हि स एव नश्यतां तत्राह - देहेति । प्रकृते
स्वात्मबोधस्थैर्ये आरम्भः प्रयत्नो यस्य तथाविधो भव । एष देहः ॥ ८ ॥
ज्ञातवानसि तत्सत्यं बुद्धवानसि तत्पदम् ।
प्राप्तवानसि रूपं स्वं विशोको भव भूतये ॥ ९ ॥
स्वात्मबोधे सन्देहं वारयति - ज्ञातवानसीति । सत्यं
जगदधिष्ठानतत्त्वम् । पदं अवस्थात्रयाधिष्ठानम् । स्वं रूपं
अखण्डवाक्यार्थस्वरूपम् ॥ ९ ॥
ईप्सितानीप्सितं त्यक्त्वा शीतलालोकशोभया ।
अन्धकारात्तथाम्भोदान्मुक्तं खमिव शोभते [शोभसे इति
पाठश्चेदनुगुणः स्यात्] ॥ १० ॥
खं अर्थाच्छरद्राकाकाशम् ॥ १० ॥
मनस्तवात्मसम्पन्नं नाधः समनुधावति ।
योगमन्त्रतपःसिद्धः पुरुषः खादिवावनिम् ॥ ११ ॥
अधः अर्वाक्तनविषयसुखे । सिद्धः खेचरसिद्धिं प्राप्तः खात् खं विहाय
यथा अवनिं न समनुधावति तद्वत् ॥ ११ ॥
इह शुद्धा चिदेवास्ति पारावारविवर्जिता ।
अयं सोऽहमिदं तन्म इति ते मास्तु विभ्रमः ॥ १२ ॥
पारावारे परार्वाचीतीरे । परिच्छेद इति यावत् ॥ १२ ॥
आत्मेति व्यवहारार्थमभिधा कल्पिता विभोः ।
नामरूपादिभेदस्तु दूरमस्मादलं गतः ॥ १३ ॥
यदि शुद्धा चिदेकैवास्ति तर्ह्यात्मेति तद्व्यतिरिक्ता अभिधा कथं तत्राह -
आत्मेति ॥ १३ ॥
जलमेव यथाम्भोधिर्न तरङ्गादिकं पृथक् ।
आत्मैवेदं तथा सर्वं न भूतोयादिकं पृथक् ॥ १४ ॥
यथा समस्ताज्जलधौ जलादन्यन्न लभ्यते ।
तथैव जगतः स्फारादात्मनोऽन्यन्न लभ्यते ॥ १५ ॥
समस्तात्पूर्णाज्जलात् । जगतः स्फाराज्जगदात्मना विस्तृतात् ॥ १५ ॥
अयं सोऽहमिति प्राज्ञ क्व करोषि व्यवस्थितिम् ।
किं तत्त्वं किं च वा ते स्यात्किं तत्त्वं किं च वा न ते ॥ १६ ॥
देहादिभावेषु यत्त्वं यच्च ते तत्किम् । यत्र त्वं यच्च वा न ते तत्किम् ।
अध्यासदृशा कस्यापि
त्वदात्मतायास्त्वत्संसृष्टतायाश्चासम्भवादधिष्ठानदृशा सर्वत्रैव
तत्सम्भवाच्चेति भावः ॥ १६ ॥
न द्वित्वमस्ति नो देहाः सम्बन्धो न च तैः स्थितः ।
सम्भाव्यते कलङ्को वा भानोरिव तमःपटैः ॥ १७ ॥
परमार्थतस्तु द्वित्वमेव नास्तीति तदधीना
देहतत्सम्बन्धतदुपादानकलङ्कादिसम्भावना दूरनिरस्तेत्याह - नेति ॥
१७ ॥
द्वित्वमभ्युपगम्यापि कथयामि तवारिहन् ।
देहादिभिः सद्भिरपि न सम्बन्धो विभोर्भवेत् ॥ १८ ॥
अभ्युपगतेऽपि द्वैते देहादिसत्यत्वे च चिदात्मनस्तत्संस्पर्शो न सम्भवत्येवेति
प्रौढिमादर्शयन्नाह - द्वित्वमित्यादिना ॥ १८ ॥
छायातपप्रसरयोः प्रकाशतमसोर्यथा ।
न सम्भवति सम्बन्धस्तथा वै देहदेहिनोः ॥ १९ ॥
आद्य एकप्रदेशप्रसरणलक्षणे संसर्गे द्वितीयस्तादात्म्ये दृष्टान्तः ॥ १९ ॥
यथा शीतोष्णयोर्नित्यं परस्परविरुद्धयोः ।
न सम्भवति सम्बन्धो राम देहात्मनोस्तथा ॥ २० ॥
अविनाभाविनोर्यस्तु सम्बन्धः कथमेतयोः ।
जडचेतनयोर्देहदेहिनोरनुभूयते ॥ २१ ॥
मास्तु संयोगस्तादात्म्यं वा समवायस्तु किं न स्यात्तत्राह -
अविनाभाविनोरिति । अयुतसिद्धयोरित्यर्थः ॥ २१ ॥
चिन्मात्रस्यात्मनो देहसम्बन्ध इति या कथा ।
सैषा दुरवबोधार्था दावाग्नौ जलधिर्यथा ॥ २२ ॥
या कथा उक्तिः । देहस्य चिदाश्रयत्वे विषयत्वायोगादस्फुरणापत्तेर्विषयत्वे
चाश्रयत्वायोगात्समवायद्यसिद्धेर्विषयतासम्बन्धस्य च
मिथ्यार्थसाधारणस्य सत्यत्वायोगाद्दुरवबोधार्थेत्यर्थः । अग्नौ जलधिरिति
कथेति शेषः ॥ २२ ॥
सत्यावलोकनेनैषा मिथ्यादृष्टिर्विनश्यति ।
अवलोकनया साम्यमातपे जलधिर्यथा ॥ २३ ॥
तर्ह्यस्त्वध्यस्त एव सम्बन्धस्तत्राप्याह - सत्येति ।
देहात्मसम्बन्धाध्यासस्य आत्माधिष्ठानकत्वे आत्मदर्शनादेव बाधः
स्यादित्यर्थः । साम्यं अध्यस्तवैषम्यं बाधं यथा यातीति शेषः ॥ २३ ॥
चिदात्मा निर्मलो नित्यः स्वावभासो निरामयः ।
देहस्त्वनित्यो मलवांस्तेन सम्बध्यते कथम् ॥ २४ ॥
शुद्धमपापविद्धम् इत्यादिश्रुतिसिद्धस्वाभाविकशुद्ध्या विरोधादप्यात्मा
नाशुद्धं देहादि स्पृशतीत्याह - चिदात्मेति ॥ २४ ॥
स्पन्दमायाति वातेन भूतैर्वा पीवरीकृतः ।
देहस्तेन न सम्बन्धो मनागेव सहात्मना ॥ २५ ॥
नन्वात्मसम्बन्धाभावे देहस्य स्पन्दादिः कथं मृतदेहे तददर्शनादिति
चेत्तत्राह - स्पन्दमिति । वातेन प्राणवायुना । भूतैरन्नादिभिः
प्राणावष्टम्भहेतुभिः पीवरीकृत उपचितः । आहितबल इति यावत् । तथाच स्पन्दे
प्राणो बलं वा हेतुर्नात्मेत्यर्थः । अप्यर्थे एवकारः । न सम्बन्धो देहस्य ॥
२५ ॥
सिद्धे द्वित्वेऽपि देहस्य न सम्बन्धस्य सम्भवः ।
द्वित्वासिद्धौ तु सुमते कलनैवेदृशी कुतः ॥ २६ ॥
एवं द्वैतसत्यत्वाभ्युपगमे यदा न सम्बन्धस्तदा किं वक्तव्यं
तदनभ्युपगमे इति प्रौढिवादमुपसंहरन्नाह - सिद्धे इति । सिद्धे सत्ये ॥
२६ ॥
इत्येतदेव तत्सत्त्वे तत्रैवान्तःस्थितिं कुरु ।
न बन्धोऽस्ति न मोक्षोऽस्ति कदाचित्कस्यचित्क्वचित् ॥ २७ ॥
ननु द्वित्वासिद्धिरेव कुत इत्याशङ्क्य सम्बन्धदूषणार्थं दर्शिता
युक्तीस्तत्राप्यतिदिशति - इतीति । तस्य द्वित्वस्य सत्त्वे सत्यत्वे
केनचिदाशङ्क्यमाने सति इति प्रागुक्तमेतदेव युक्तिजातमुपन्यसनीयम् ।
द्वितीयसिद्धौ हि द्वित्वं स्यात् । द्वितीयं चिच्चेत्तत्र भेदकाभावः । जडं
चेच्छायातपादिवद्विरोधात्पूर्वसिद्धचिद्विरुद्धं न सिद्ध्यति । चिच्च
स्वासम्बद्धं जडं साधयतीति कथा दुरवबोधार्था । अध्यस्तं
चेत्सत्यचिदवलोकनमात्राद्विनश्येत् । निर्मलासङ्गत्वाद्यात्मस्वभावविरुद्धं
च मलिनं जडं असङ्गेन कथं साध्येतेत्यादियुक्तीनामत्रापि साम्यादिति
भावः । अतो द्वैतभ्रमं विहाय तत्र अद्वितीयचिन्मात्र एव स्थितिं कुरु । तत्र च
बन्धमोक्षादिशङ्कैव नास्तीत्यर्थः ॥ २७ ॥
सर्वमात्ममयं शान्तमित्येवं प्रत्ययं स्फुटम् ।
सबाह्याभ्यन्तरं राम सर्वत्र दृढतां नय ॥ २८ ॥
कीदृशी सा स्थितिर्या मया कार्या तामाह - सर्वमिति ॥ २८ ॥
सुखी दुःखी विमूढोऽस्मीत्येता दुर्दृष्टयः स्मृताः ।
आसु चेद्वस्तुबुद्धिस्ते तच्चिरं दुःखमिच्छसि ॥ २९ ॥
सर्वात्मदृष्टिश्च विरुद्धदुर्दृष्टिनिरासे दृढीभवति
नान्यथेत्याशयेनाह - सुखीति । तत् तर्हि ॥ २९ ॥
यः क्रमः शैलतृणयोः कौशेयोपलयोस्तथा ।
साम्यं प्रति स एवोक्तः परमात्मशरीरयोः ॥ ३० ॥
ननु देहदुःखादयोऽपि प्रत्यक्षादिभिः पुरस्कृताः आत्मापि श्रुतियुक्तिभिः
पुरस्कृतस्तदनयोस्तुल्यत्वे को विशेषो येनात्मदृष्टिमवलम्ब्य
देहादिदृष्टिर्निरसनीयेत्युच्यते तत्राह - य इति । क्रमो विशेषः । यथा
चक्षुषा दूराच्छैलतृणयोर्मध्ये महत्त्वात्स्थिरत्वाच्च शैलदृष्टिः सुकरा
। चलत्वात्पेलवत्वाच्च तृणदृष्टिर्दुष्करा । यथा वा त्वचा
मृदुत्वात्सुखस्पर्शत्वाच्च कौशेयस्पर्श उपादेयः
कठोरत्वाद्दुःखदत्वाच्च उपलस्पर्शो हेयस्तथा अपरिच्छिन्नत्वात्सदा
स्वप्रकाशत्वादानन्दरूपत्वाच परमातन्दृष्टिः सुकरा उपादेया च ।
देहाद्यनात्मदृष्टिस्तु पेलवत्वादस्थिरत्वान्मन-आदिसापेक्षत्वाच्च
दुष्करा हेया चेति महदन्तरमस्तीति न साम्यमित्यर्थः ॥ ३० ॥
यथा तेजस्तिमिरयोर्न सम्बन्धो न तुल्यता ।
अत्यन्तभिन्नयो राम तथैवात्मशरीरयोः ॥ ३१ ॥
विरुद्धत्वादपि सम्बन्धवत्सादृश्यमपि निरसितुं शक्यमित्याशयेनाह ##-
यथा शीतोष्णयोरैक्यं कथास्वपि न दृश्यते ।
जडप्रकाशयोः श्लेषो न तथात्मशरीरयोः ॥ ३२ ॥
विरोधादेव तादात्म्यशङ्कायाः प्रसक्तिरेव नास्तीत्याशयेनाह - यथेति ।
श्लेषः संयोगस्तस्याप्यसम्भवे ऐक्यं दूरनिरस्तमित्याशयः ॥ ३२ ॥
देहश्चलति वातेन तेनैवायाति गच्छति ।
शब्दं करोति वातेन देहनाडीविलासिना ॥ ३३ ॥
पूर्वमात्मसम्बन्धाभावेऽपि देहचेष्टादेर्वातेन गतार्थतोक्ता अत्र तु
आत्मैक्याभावेऽपीति न पौनरुक्त्यम् ॥ ३३ ॥
शब्दः कचटतप्रायः स्फुरत्यन्तः समीरणैः ।
यथा प्रजायते वंशाद्देहरन्ध्रात्तथैव हि ॥ ३४ ॥
देहरन्ध्रं कण्ठस्तदुद्गतैः प्राणसमीरणैः कण्ठताल्वादिस्थानेषु
जिह्वादिनाभिहत्य निःसार्यमाणैः कवर्गचवर्गटवर्गादिः शब्दः स्फुरतीति
प्रत्यक्षसिद्धमित्यर्थः । वंशात्सच्छिद्रकीचकात् ॥ ३४ ॥
कनीनिकापरिस्पन्दश्चक्षुःस्पन्दस्य मारुतात् ।
इन्द्रियस्फुरणात्सैव संवित्केवलमात्मनः ॥ ३५ ॥
एवं चक्षुरादिसर्वेन्द्रियस्पन्दोऽपि वायुत एव । आत्मनस्तु केवलं संविदेव
कृत्यं नान्यदित्याह - कनीनिकेति । विषयप्रदेशे चक्षुःस्पन्दस्य
निमित्तभूतः कनीनिकापरिस्पन्दोऽपि मारुतादेव । एवं
सर्वेन्द्रियस्फुरणाज्जायमाना सा स्फूर्तिलक्षणा संविदेव केवलमात्मनो
नान्यदित्यर्थः ॥ ३५ ॥
आकाशोपलकुड्यादौ सर्वत्रात्मदशा स्थिता ।
प्रतिबिम्बमिवादर्शे चित्त एवात्र दृश्यते ॥ ३६ ॥
यद्यपि सा संवित्सर्वगता सदातनी च तथापि चित्ततद्वृत्तिष्वेवाभिव्यक्ता
नान्यत्रेत्याह - आकाशेति ॥ ३६ ॥
शरीरालयमुत्सृज्य यत्र चित्तविहङ्गमः ।
स्ववासनावशाद्याति तत्रैवात्मानुभूयते ॥ ३७ ॥
अत-एव तद्गमनादेवात्मनः परलोकगमनादिव्यवहारोऽपीत्याह -
शरीरेति ॥ ३७ ॥
यत्र पुष्पं तत्र गन्धसंविदः संस्थिता यथा ।
यत्र चित्तं हि तत्रात्मसंविदः संस्थितास्तथा ॥ ३८ ॥
सर्वत्र स्थितमाकाशमादर्शे प्रतिबिम्बति ।
यथा तथात्मा सर्वत्र स्थितश्चेतसि दृश्यते ॥ ३९ ॥
अपामवनतं स्थानमास्पदं भूतले यथा ।
अन्तःकरणमेवात्मसंविदामास्पदं तथा ॥ ४० ॥
अवनतं निम्नम् । आत्मसंविदां चित्प्रतिबिम्बानाम् ॥ ४० ॥
सत्यासत्यं जगद्रूपमन्तःकरणबिम्बिता ।
आत्मसंवित्तनोतीदमालोकमिव सूर्यभा ॥ ४१ ॥
सत्यं व्यावहारिकम् । असत्यं प्रातिभासिकम् । अनेन जीवेनात्मनानुप्रविश्य
नामरूपे व्याकरवाणि इति श्रुतेरिति भावः ॥ ४१ ॥
अन्तःकरणमेवातः कारणं भूतसंसृतौ ।
आत्मा सर्वातिगत्वात्तु कारणं सदकारणम् ॥ ४२ ॥
अन्तःकरणं तत्समष्ट्यात्मा हिरण्यगर्भः । प्रतिबिम्बद्वारा कारणं सदपि
स्वतः अकारणम् ॥ ४२ ॥
अविचारणमज्ञानं मौर्ख्यमाहुर्महाधियः ।
संसारसंसृतौ सारमन्तःकरणकारणम् ॥ ४३ ॥
अन्तःकरणस्य तर्हि किं कारणं तदाह - अविचारणमिति ।
पर्यायत्रयोपादानं प्रसिद्धिद्योतनार्थम् ॥ ४३ ॥
असम्यक्प्रेक्षणान्मोहाच्चेतःसत्तां गृहीतवत् ।
सम्मोहबीजकणिकां तमोऽर्कादिव दृश्यते ॥ ४४ ॥
असम्यक्प्रेक्षणादन्यथा ग्रहणसंस्कारबलान्मोहात् । सम्मोहानां
भ्रमाणां बीजधानाभूताम् । चेतःसत्तां चित्ताकारपरिणामम् । यतः
सम्मोहादर्कात्तम इवात्यन्तासम्भावितापि जन्मजरामरणाद्यनर्थपरम्परा
दृश्यत इत्यर्थः । अथवा अज्ञानं सर्वैः स्वात्मनि अहमज्ञ इति प्रत्यक्षं
दृश्यते । यथा अर्कात्तद्वासि तमो राहुर्दृश्यते तद्वदित्यर्थः ॥ ४४ ॥
यथा भूतात्मतत्त्वैकपरिज्ञानेन राघव ।
असत्तामेत्यलं चेतो दीपेनेव तमः क्षणात् ॥ ४५ ॥
केन तर्हि चित्तनाशस्तदाह - यथेति ॥ ४५ ॥
संसारकारणमितः स्वयं चेतो विचारयेत् ।
जीवोऽन्तःकरणं चित्तं मनश्चेत्यादिनामकम् ॥ ४६ ॥
केनोपायेनात्मतत्त्वपरिज्ञानं तदाह - संसारेति । इत एतस्माद्धेतोः
संसारकारणमज्ञानं इतः प्राप्तोऽधिकारी स्वयमिति वा यं विचारयेत्तमाह
- जीव इति । जीवादीनि नामानि यस्य तम् ।
आदिपदादुत्पत्तिप्रकरणोक्तनामान्तराणामपि सङ्ग्रहः ॥ ४६ ॥
श्रीराम उवाच ।
एताः सञ्ज्ञाः प्रभो ब्रह्मंश्चेतसो रूद्ःइमागताः ।
कथमित्येव कथय मयि मानद सिद्धये ॥ ४७ ॥
रूढि योगरूढिम् । कथं केन योगेन । सिद्ध्ये तदुक्तविचारसिद्धये ॥ ४७ ॥
श्रीवसिष्ठ उवाच ।
सर्वे भावा इमे नित्यमात्मतत्त्वैकरूपिणः ।
चित्तात्तरङ्गकगणा जलैककलिता यथा ॥ ४८ ॥
तत्रादौ रूढियोगांशाभ्यां जीवनाम निर्वक्तुं वसिष्ठः पीठिकां रचयति
- सर्वे भावा इत्यादिना । भावाः पदार्था आत्मतत्त्वेन सह
ऐक्याध्यासादेकरूपिणः समष्टिचित्तादेवोत्पन्ना इति प्रागुक्तस्मारणम् ॥ ४८ ॥
आत्मा स्पन्दैकरूपात्मा स्थितस्तेषु क्वचित्क्वचित् ।
तरङ्गेषु विलोलेषु पयोधेः सलिलं यथा ॥ ४९ ॥
उत्पन्नानां च स्थावरविभागे निमित्तमाह - आत्मेत्यादिना ॥ ४९ ॥
क्वचिदस्पन्दरूपात्मा स्थितस्तेषु महेश्वरः ।
तरङ्गत्वमयातेषु जलभावो जलेष्विव ॥ ५० ॥
तत्रोपलादयो भावा अलोलाः स्वात्मनि स्थिताः ।
सुराफेनवदुत्स्पन्दा लोलास्तु पुरुषादयः ॥ ५१ ॥
तत्र तेषु शरीरेषु सर्वशक्तिस्तदत्मनः ।
कलिताऽज्ञानकलना तेनाज्ञानमसौ स्थितः ॥ ५२ ॥
कलितस्य कल्पितस्याज्ञानस्य कलना प्रसिद्धा । तेन हेतुना तत्स्वकल्पितमज्ञानं
स्वयमेव भूत्वा प्रलयसुषुप्त्योः स्थितः ॥ ५२ ॥
तदज्ञानमनन्तात्मभूषितं जीव उच्यते ।
स संसारे महामोहमायापञ्जरकुञ्जरः ॥ ५३ ॥
अनन्तेनात्मना प्रतिबिम्बभावापन्नेन भूषितमिव स्फुरत । स एव
रूढ्यंशेन जीव उच्यते ॥ ५३ ॥
जीवनाज्जीव इत्युक्तोऽहम्भावः स्यात्त्वहन्तया ।
बुद्धिर्निश्चायकत्वेन सङ्कल्पकलनान्मनः ॥ ५४ ॥
तत्र योगांशमाह - जीवनादिति । प्राणधारणादित्यर्थः । अहन्नाम
निर्वक्ति - अहम्भावादिति । सोऽहमित्यग्रे व्याहरत्तस्मादहन्नामाभवत् इति
श्रुतेः । नामान्तराण्यपि निराह - बुद्धिरित्यादिना ॥ ५४ ॥
प्रकृतिः प्रकृतित्वेन देहो दिग्धतया स्थितः ।
जडः प्रकृतिभावेन चेतनः स्वात्मसत्तया ॥ ५५ ॥
दिग्धतया उपचिततया । प्रकृतिभावेन अज्ञानांशप्राधान्येन ।
स्वात्मसत्तया चित्प्राधान्येन ॥ ५५ ॥
जडाजडदृशोर्मध्यं यत्तत्त्वं पारमात्मिकम् ।
तदेतदेव नानात्वं नानासञ्ज्ञाभिराततम् ॥ ५६ ॥
जडाजडदृशोरज्ञानतत्साक्षिणोर्मध्यमान्तरालिकं साभासं
मनस्तदेतदेव नानात्वं प्राप्य
जीवबुद्धिमनश्चित्ताहङ्कारादिनानासञ्ज्ञाभिराततमित्यर्थः ॥ ५६ ॥
एवं स्वरूपं जीवस्य बृहदारण्यकादिषु ।
बहुधा बहुषु प्रोक्तं वेदान्तेषु किलानघ ॥ ५७ ॥
परमात्मन एवोपाधिप्रवेशेन औपाधिकनानासञ्ज्ञालाभे श्रुतीः
प्रमाणयति - एवमिति । स एष इह प्रविष्ट आनखाग्रेभ्यः इत्युपक्रम्योक्तम्
प्राणन्नेव प्राणो नाम भवति वदन्वाक् पश्यंश्चक्षुः शृण्वन् श्रोत्रं
मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव इति । तथा स समानः सत्रभौ
लोकावनुसञ्चरति ध्यायतीव लेलायतीव स धीः स्वप्नो भूत्वेमं
लोकमतिक्रामति मृत्यो रूपाणि इति । तथा श्रुत्यन्तरे बुद्धेर्गुणेनात्मगुणेन
चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः । वालाग्रशतभागस्य शतधा कल्पितस्य
च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते इति । तत्सृष्ट्वा
तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत् इति । तैत्तिरीयके स एतं
सीमानं विदार्यैतया द्वारा प्रापद्यत तस्मादिदन्द्रो नाम । यदेतद्धृदयं
मनच्चैतत्सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानम् इत्याद्यैतरेयके ।
त्वमेकोऽसि बहूननुप्रविष्टः । एको देवो बहुधा विचार एकः सन् बहुधा विचार
इत्यादिश्रुतिशतेषु च बहुधा प्रोक्तमित्यर्थः ॥ ५७ ॥
अज्ञैस्त्वेतासु सञ्ज्ञासु कुविकल्पकुतार्किकैः ।
मोहाय केवलं मूढैर्व्यर्थमास्थाः प्रकल्पिताः ॥ ५८ ॥
अत-एवावैदिककुतार्किकाणामन्यथान्यथा जीवस्वरूपकल्पना
नादर्तव्येत्याशयेनाह - अज्ञैरिति । आस्थाः अभिनिवेशाः ॥ ५८ ॥
एवमेष महाबाहो जीवः संसारकारणम् ।
मूकेनातिवराकेण देहकेनेह किं कृतम् ॥ ५९ ॥
एवं च न शुद्धात्मनः संसारिता नापि देहस्य किन्त्वान्तरालिकस्य जीवस्यैवेति
सिद्धमित्याशयेनाह - एवमिति । मूकेन वागादिशून्येन । जडेनेति यावत् ॥ ५९
॥
आधाराधेययोरेकनाशे नान्यस्य नष्टता ।
यथा तथा शरीरादिनाशे नात्मनि नष्टता ॥ ६० ॥
अत-एव देहनाशेऽपि न जीवनाश इत्याह - आधारेति । नाशे न इति च्छेदः ॥
६० ॥
एकपर्णरसे क्षीणे रसो नैति यथा क्षयम् ।
याति पर्णरसश्चार्करश्मिजालान्तरे यथा ॥ ६१ ॥
शरीरसङ्क्षये देही न क्षयं याति कस्यचित् ।
निर्वासनश्चेत्तद्व्योम्नि तिष्ठत्यात्मपदे तथा ॥ ६२ ॥
सवासनश्चेत् शरीरसङ्क्षये वासनायां तिष्ठति । निर्वासनश्चेद्व्योम्नि
ब्रह्माकाशस्वभावे तिष्ठतीत्यर्थः ॥ ६२ ॥
देहनाशे विनष्टोऽस्मीत्येवं यस्याऽमतेर्भ्रमः ।
मातुः स्तनतटात्तस्य मन्ये वेताल उत्थितः ॥ ६३ ॥
अमतेर्मूर्खस्य यस्य । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति
श्रुतेरभयहेतौ देहनाशे भयहेतुत्वलक्षणविपरीतदर्शिनो मूढस्य मातुः
स्तनादपि वेतालोत्थानसम्भावनया स्तन्यपानेन जीवनमपि दुर्लभं
स्यादित्याशयः ॥ ६३ ॥
यस्य ह्यात्यन्तिको नाशः स्यादसावुदितः स्मृतः ।
चित्तनाशो हि नाशः स्यात्स मोक्ष इति कथ्यते ॥ ६४ ॥
देहस्य जीवव्यतिरिक्तत्वान्मातु तन्नाशाद्भयं चित्तस्य
जीवस्वरूपत्वात्तन्नाशात्तु जीवस्य भयं युक्तमेवेति चेत्तत्राह - यस्येति ।
यस्य उपाधेर्वज्रनिगडवद्बन्धनभूतस्यात्यन्तिको नाशः स्याचेदसौ जीवः
स्मृतः प्रत्यभिज्ञातब्रह्मभावः सन्नुदितो
निरतिशयानन्दलक्षणमभ्युदयं प्राप्तो भवति तादृशचित्तनाशो हि जीवस्य
विनाशः स्यात्सम्भाव्यते स च तस्य मोक्षः परमपुरुषार्थ इति शास्त्रे कथ्यते
। अतस्तस्मादपि भयसम्भावना अत्यन्तमनुचित्तैवेत्यर्थः ॥ ६४ ॥
मृतो नष्ट इति प्रोक्तो मन्ये तच्च मृषा ह्यसत् ।
स देशकालान्तरितो भूत्वा भूत्वानुभूयते ॥ ६५ ॥
स जीवः । अनुभूयते पुनर्देहान्तरग्रहणे दृश्यते ॥ ६५ ॥
इहोह्यन्ते जनैरेवं तरङ्गान्तस्तृणैरिव ।
मरणव्यपदेशासु देशकालतिरोहितैः ॥ ६६ ॥
इह संसारे मरणव्यपदेशासु नदीषु तरङ्गान्तस्तृणायमानैर्जनैर्जीवैरिह
संसारे देशकालतिरोहितैः स्वरूपैः एवं वर्णितप्रकारा मृतो नष्टो
जातोऽभिवृद्धः सुखी दुःखीत्यादिभावा ऊह्यन्ते भ्रान्त्या वितर्क्यन्त इत्यर्थः
॥ ६६ ॥
वासनावस्थितो जीवो यात्युत्सृज्य शरीरकम् ।
कपिर्वनतरुं त्यक्त्वा तर्वन्तरमिवास्थितः ॥ ६७ ॥
तथा ऊहनवैचित्र्ये वासनावैचित्र्यं हेतुरित्याशयेनाह - वासनेति ॥ ६७ ॥
पुनस्तदपि सन्त्यज्य गच्छत्यन्यदपि क्षणात् ।
अन्यस्मिन्वितते देशे कालेऽन्यस्मिंश्च राघव ॥ ६८ ॥
इतश्चेतश्च नीयन्ते जीवा वासनया स्वया ।
चिरं तदपिजीविन्या धूर्त्या धात्र्येव बालकाः ॥ ६९ ॥
तान् जीवानपिधाय तिरस्कृत्य जीवितुं शीलं यस्याः सा तदपिजीविनी तथाविधया
वासनया धूर्त्या । पुंयोगान्ङीष् । धूर्तासक्तया धात्र्या उपमात्रा ॥ ६९ ॥
वासनारज्जुवलिता जीर्णाः पर्वतकुक्षिषु ।
जरयन्त्यतिदुःखेन जीवितं जीवजीविकाः ॥ ७० ॥
वासनारज्जुभिर्वलिता वेष्टिताः जीवा एव परस्परोपयोगाज्जिविका जीवनोपायो येषां
तथाविधा जीवाः पूर्वं जीर्णाः साम्प्रतं जरयन्ति ॥ ७० ॥
जरठजरदुपोढदुःखभाराः
परिणतिजर्जरजीविताश्च सत्यः ।
हृदयजनितवासनानुवृत्त्या
नरकभरे जनताश्चिरं पतन्ति ॥ ७१ ॥
जनता जीवा हृदयविहितवासनानुवृत्त्या निमित्तेन जरठेभ्योऽपि जरन्तो जीर्णाः
सन्त उपोढा दारिद्र्यरोगवियोगादिदुःखभारा यैस्तथाविधाः परिणत्या
नानायोनिदुर्दशापरिणामैर्जर्जरं दुःखैः खण्डेन शिथिलीकृतमिव
जीवितं यासां तथाविधाश्च सत्यो नरकभरेषु चिरं पतन्ति वसन्तीत्यहो
वासनादोषप्रयुक्ता अनन्ता दुर्दशेत्यर्थः ॥ ७१ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥ ७२ ॥
इत्यार्षे श्रीवासिष्ठमहारामाय।एन् वाल्मीकीये
मोक्षोपायेषूपशमप्रकरणे संसारोपदेशो नामैकसप्ततितमः सर्गः
॥ ७१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
संसारोपदेशो नामैकसप्ततितमः सर्गः ॥ ७१ ॥
॥ त्रयोदशो दिवसः ॥